पद्मपुराणम्/खण्डः २ (भूमिखण्डः)/अध्यायः ००२
← अध्यायः १ | पद्मपुराणम् अध्यायः २ वेदव्यासः |
अध्यायः ३ → |
सूत उवाच-
तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः ।
पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः १।
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा ।
समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः २।
धर्मशर्माणमायातं इदं वचनमब्रवीत् ।
कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः ३।
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः ।
धर्मशर्मोवाच-
यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः ४।
तेन सत्येन मे धर्म वेदशर्मा स जीवतु ।
धर्म उवाच-
दमशौचेन सत्येन तपसा तव सुव्रत ५।
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः ।
पुनरेव महात्मासौ जीवनं च लभिष्यति ६।
तपसानेन तुष्टोस्मि पितृभक्त्या महामते ।
वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ७।
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा ।
वैवस्वतं महात्मानं समुवाच महायशाः ८।
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः ।
धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ९।
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति ।
एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः १०।
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत् ।
क्व सा देवी गता भ्रातः क्व स तातो भवेदिति ११।
समासेन समाख्यातं यथा पित्रा नियोजितः ।
समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् १२।
ममाद्यैव महाभाग शिरसा जीवितेन च ।
संमुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि १३।
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति ।
गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा १४।
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ ।
द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् १५।
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम् ।
ममाद्यैव महाभाग तपसा जीवितेन च १६।
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः ।
शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च १७।
न किंचिदब्रवीत्तं तु पुनश्चिंतामुपेयिवान् ।
पुरतो विनयेनापि वर्तमानं महामतिम् १८।
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु ।
इंद्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् १९।
अनया कान्तया सार्द्धं स्थातुमिच्छामि सांप्रतम् ।
सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम् २०।
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम् ।
तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति २१।
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी ।
अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये २२।
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम् ।
तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि २३।
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः ।
विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् २४।
सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम् ।
एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः २५।
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम् ।
बलेन महता सोपि तपसा नियमेन च २६।
अंतरिक्षगतश्चासीद्गच्छमानस्य धीमतः ।
स महावायुवेगेन ऐंद्रं संप्रतिगच्छति २७।
इति श्रीपद्मपुराणे भूमिखंडे शिवशर्मचरिते द्वितीयोऽध्यायः २।