पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ७० पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ७१
वेदव्यासः
अध्यायः ७२ →

व्यास उवाच-
अथान्यो नमुचिः क्रुद्धः स्यंदनस्थो दिवौकसः
विशिखैरर्दयामस घोरैराशीविषोपमैः१
ततस्तु संयुगे देवाः सिद्धकिन्नरपन्नगाः
न शक्नुवंति बाणानां वेगं सोढुं समंततः२
रथमुच्चैश्श्रवोश्वेन युक्तं मातलिनेरितम्
पुरुहूतः समास्थाय प्रागमत्तं महाबलम्३
दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुंगवः
अब्रवीद्वासवं संख्ये वचनं सानुगं तदा४
प्राकृतं निर्जरं हत्वा न यशोस्ति न च प्रियम्
न लाभकृतकं वापि न जयस्तु पुरष्टुत५
तस्मात्वयि हतेत्रैव सर्वं भवति शाश्वतम्
देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये६
तमब्रवीन्महातेजाः शक्रः परपुरंजयः
शूरता वाक्यमात्रेण सर्वत्र सुलभा भवेत्७
महापराक्रमं यद्वा अस्ति ते दानवाधम
दर्शयस्वाहवे वीर्यं पुरं नेष्यामि भास्करेः८
एतच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुंगवः
पंचभिर्निशितैर्बाणैर्जघान सुरसत्तमम्९
तांस्तु चिच्छेद मघवा क्षुरप्रैः पंचभिर्द्रुतम्
जग्मतुस्तौ महावीर्यौ समरे विषयैषिणौ१०
अन्योन्यं सहसा वेगाच्छरैश्चिच्छिदतुः शरान्
बिभिदातेथ गात्राणि विशिखैर्भिदुरोपमैः११
अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशम्
लाघवं शरसंधान ग्रहमोक्षं सुदुर्लभम्१२
दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा
एतस्मिन्नंतरे दैत्यो मायास्संप्रमुमोच ह१३
विशिखाः शतशस्तत्र विनिश्चेरुस्समंततः
शक्रः कोपात्पुनः शीघ्रं धनुरुद्यम्य वीर्यवान्१४
जघान विशिखैरुग्रैः सर्वगात्रेषु संज्वलन्
ततो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा१५
बिभिदाते ततोन्योन्यं चिच्छिदाते परस्परम्
शरैर्निरंतराकाशं ददृशुस्तत्र संयुगे१६
निपतंति धरापृष्ठे खड्गपातैः सहस्रशः
एवं सुदीर्घकाले तु गते तस्मिन्महाहवे१७
मायास्त्रं दर्शयामास क्रूरकृन्नमुचिस्तदा
तामसं त्रिषुलोकेषु कृतं स्यात्तु निरंतरम्१८
परस्परं न पश्यंति देवासुरगणा भृशम्
सूर्यचंद्रग्रहाणां च वह्नीनां च दिवौकसाम्१९
तस्मिंस्तमसि दुष्पारे गभस्तिर्नैव दृश्यते
दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः२०
विभग्नाः सर्वदेवाश्च शक्रश्चरणसंमुखे
शरैर्विभिन्नदेहास्तु निपेतुर्धरणीतले२१
प्रभग्नाश्चापरे शूरास्संयांति च दिशो दश
कूटं तस्य परिज्ञाय सर्वदेवार्चितो हरिः२२
सौम्यमस्त्रं मुमोचाथ दिवि सूर्यशतप्रभम्
विलंबितं समालोक्य शक्त्या च बहुघंटया२३
जघानोरसि दैत्यस्य स पपात व्यथान्वितः
चिरात्संलभ्य संज्ञां च दैतेयः क्रोधमूर्च्छितः२४
गत्वा वेगात्सुरश्रेष्ठमैरावतं दधार ह
त्रासयामास सुतरामिंद्रस्य द्विरदं रुषा२५
धृत्वा स तु गजं सेंद्रं मुमोच धरणीतले
ततो भूमिगतः शक्रः कश्मलं च क्षणं गतः२६
अवप्लुत्य स दैत्येंद्रो गजदंतांतरस्थितः
शक्रं ग्रहीतुकामस्य वधार्थं यूथपस्य सः२७
असिनाऽसुरमुख्यस्य शिरश्छित्वा न्यपातयत्
सर्वे प्रजहृषुर्देवा गंधर्वा ललितं जगुः
मुदितास्ते च मुनयः स्तुवंति सुरसत्तमम्२८
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे द्वितीय नमुचिवधोनामैकसप्ततितमोऽध्यायः७१