पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ६८

विकिस्रोतः तः
← अध्यायः ६७ पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)
अध्यायः ६८
वेदव्यासः
अध्यायः ६९ →

व्यास उवाच-
बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्।
मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया१।
परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्।
तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः२।
भ्रातुस्ते धर्मपंथानमिदानीं लप्स्यसे ध्रुवम्।
वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा३।
सहसा प्रविशंत्यग्निं तथा मां योद्धुमिच्छसि।
एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः४।
स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरंजयः।
ततो जघान दशभिरिंद्रमैरावणं त्रिभिः५।
सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह।
शक्रं प्रति पुनर्दैत्यो भ्रामयामास संभ्रमात्६।
आयसीं तां गदां कोपान्महाबलपराक्रमः।
ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि७।
भिदुरस्यावपातेन गतासुर्निपपात ह।
दनुजस्य प्रपातेन संचचाल वसुंधरा८।
देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः९।
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मुचिवधोनामाष्टषष्टितमोऽध्यायः६८।