पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५९

विकिस्रोतः तः
Jump to navigation Jump to search

एकोनषष्ठित्तमोऽध्यायः

व्यास उवाच-
अतः परं प्रवक्ष्यामि कीर्त्तिधर्मं परं शुभम्
सेतुबंधफलं पुण्यं ब्रह्मणा भाषितं यथा१
कांतारे दुस्तरे पंके पुरुशंकुसमाकुलं
आलिं कृत्वा भवेत्पूतो देवत्वं याति मानवः२
वितस्तौ तु लभेत्स्वर्गं दिव्यं वर्षशतं समम्
एवं संख्याविधानेन नरः स्वर्गान्न हीयते३
कदाचित्पंकयोगाच्च स्वर्गाद्भुवि विजायते
तदा भट्टारकः श्रीमान्रोगशोकविवर्जितः४
पंकादौ संक्रमांश्चैव कृत्वा स्वर्गान्न हीयते
सर्वपापं क्षयं तस्य संप्रयाति दिनेदिने५
तथालिसंक्रमाणां च फलं तुल्यं प्रकीर्तितम्
धनप्राणाव्ययेनैव धीमता क्रियते सदा६
श्रूयतां यत्पुरावृत्तमाख्यानं वृद्धसंमतं
कश्चिच्चोरो महाभीष्मे स्तेयकर्मणि चोद्यतः७
कांतारे गोशिरः स्थाप्य क्रांत्वा स्तेयं गतो ह्यसौ
धनापहरणं कृत्वा गृहस्थस्य च तेन हि८
गतः स्वमंदिरं तत्र जना गच्छंति वर्त्मनि
सर्वेषामेकपादस्य सुखं भवति निश्चितं९
एकपादे ह्रदे दुर्गे तारकं गोशिरः परम्
चांद्रायणं च तत्तस्य कांतारे संस्थितं शिरः१०
ततश्चोरस्य निधने चित्रगुप्तप्रणीतके
धर्मस्य फलमात्रं तु एतस्य च न विद्यते११
न दैवं पैतृकं कार्यं तीर्थं स्नानं द्विजार्चनं
दानं गुरुजने मानं ज्ञानं परहितं शुभम्१२
मनसा न कृतं तेन क्रियया च कथं पुनः
कृतं साहसिकं स्तेयं परदाराभिमर्शनम्१३
भूतमिथ्यापवादं च साधुनिंदा परं तथा
एवं शतसहस्रं तु तथा गोहरणं कृतम्१४
तत्राह धर्मराजस्तु कालानलसमप्रभः
नयतैनं फलं शूरा दुर्गतिं चापुनर्भवम्१५
एतस्मिन्नंतरेऽवोचच्चित्रगुप्तोनुकंपकः
अस्त्यस्य गोशिरः पुण्यं किचिन्नाथ क्षमाधुना१६
नृपो द्वादशवार्षिक्यं लभेत्पुण्योदयं क्षितौ
तथाह धर्मराजस्तं गच्छ मर्त्यं दुरात्मक१७
अकंटकं च राज्यं च भुंक्ष्व द्वादशवत्सरम्
यद्धृतं गोशिरो मार्गे मुक्तस्तस्यैव कारणात्१८
पुनरत्र समागम्य संगंता चापुनर्भवम्
ततः कृतांजलिर्देवमुवाच दुःखपीडितः१९
धर्मराजानुकंपा च मय्येवं पापकारिणि
कुरु नाथ त्वनाथे च जानामि प्रीतिपूर्वकम्२०
धर्मराजस्तु तं चाह बाढमेवमितो व्रज
स्मरिष्यसि स्ववृत्तांतं मत्प्रसादात्सुदुःखितः२१
एतस्मिन्नंतरे चैव मोचितः किंकरेण हि
तस्य जन्माभवत्कौ च दुर्विधे चातिवाणिके२२
आजन्मविविधं दुःखं भुक्तं पूर्वविकर्मतः
भुक्त्वा क्लेशं महांतं च एकविंशतिहायनम्२३
तस्मिन्राष्ट्रे मृतो भूपः स्वकर्मपरिपीडितः
एतस्मिन्नंतरेऽमात्यैः समालोक्य सुमंत्रिभिः२४
अनेक परिमर्शैस्तु पृथिव्यां भ्रमणं कृतम्
तमावृण्वंश्च ते सद्यः सर्वेषां पुरतो दृढम्२५
ततो राज्याभिषेकश्च कृतस्तैस्तु विमत्सरैः
स च राज्यं च संश्रित्य धर्मराजवरेण च२६
अकरोदालिकं कर्म शिलाबद्धं च मृण्मयम्
संक्रमं जलदुर्गे च तरणिं च तथापरे२७
वापीकूपतटाकानि प्रपाराम महीरुहं
कृतवान्विविधं यज्ञं दानपुण्यमतः परम्२८
स्मरंश्च पूर्वकर्म्माणि सर्वपापक्षयाय वै
कृतं बहुविधं धर्मं व्रतानि विविधानि च२९
सुराणां ब्राह्मणानां च गुरूणां चैव तर्पणात्
पापात्पूतो ययौ गेहं धर्मराजस्य धीमतः३०
सयानस्थं ततो दृष्ट्वा क्रोधरक्तेक्षणोऽभवत्
स च तं प्रांजलिं प्राह भो धर्म कुरु तारणम्३१
चित्रगुप्तोऽब्रवीद्वाक्यं धर्मराजसमीपतः
कर्मणा मनसा पूतो विष्णुलोकं स गच्छतु३२
स तच्छ्रुत्वा पुनश्चाह तस्य विज्ञाय कारणम्
स्मितः प्रीत्या प्रसन्नात्मा गच्छ गच्छाच्युतालयम्३३
विमानं सुरलोकाच्च स्वागतं वर्णकर्बुरम्
समारुह्य गतः स्वर्गं पुनरावृत्तिदुर्लभम्३४
तस्मात्किष्कुप्रमाणं हि दत्तं येनालिकं पुरा
स तु राज्यान्वयं स्वर्गं महांतं चानुगच्छति३५
तथैव गोप्रचारं तु दत्वा स्वर्गान्न हीयते
या गतिर्गोप्रदस्यैव ध्रुवं तस्य भविष्यति३६
व्यामैकं गोप्रचारं तु मुक्तं येन सुधीमता
तस्य स्वर्गं भवेदिष्टं किमन्यैः पुरुभाषितैः३७
गोप्रचारं यथाशक्ति यो वै त्यजति हेतुना
दिनेदिने ब्रह्मभोज्यं पुण्यं तस्य शताधिकम्३८
तस्माद्गवां प्रचारं तु मुक्त्वा स्वर्गान्न हीयते
यश्छिनत्ति द्रुमं पुण्यं गोप्रचारं छिनत्यपि३९
तस्यैकविंशपुरुषाः पच्यंते रौरवेषु च
गोचारघ्नं ग्रामगोपः शक्तो ज्ञात्वा तु दण्डयेत्४०
छेत्तारं धर्मवृक्षाणां विशेषाद्गोप्रचारघम्
तस्य दंडे सुखं तस्य तस्मात्तं दंडयेत्तु सः४१
प्रासादं कुरुते यस्तु विष्णुलिंगस्य मानवः
त्रिकांडं पंचकाडं च सुशोभं सुघटान्वितम्४२
इतोऽधिकं तु यो दद्यान्मृन्मयं वा दृषन्मयम्
वसुवृत्तिसुपूर्णं च सुरम्यं दिव्यभूतलम्४३
प्रतिष्ठाकर्मसंपन्नं किङ्करादिभिरावृतम्
सुलिंगमिष्टदेवस्य विष्णोरेव विशेषतः४४
कृत्वा च विष्णुसायुज्यं समाप्नोति नरोत्तमः
तथैव प्रतिमां कृत्वा हरेरन्यतरस्य च४५
कृत्वा देवकुलं रम्यं यत्फलं लभते नरः
न तन्मखसहस्रैस्तु दानैर्भुवि व्रतादिभिः४६
कल्पकोटिसहस्राणि कल्पकोटिशतानि च
प्रासादे रत्नसंयुक्ते संपूर्णद्रव्यसंकुले४७
स वसेत्कामगे याने सर्वलोकमनोहरे
स्वर्गाच्च्युतो भवेद्राजा सार्वभौमो गुणैर्वशी४८
शिवलिंगे तु प्रासादं कारयित्वा स्वशक्तितः
यदुक्तं विष्णुलिंगे तु तज्ज्ञेयं शिववेश्मनि४९
भुंक्ते भोगं महाभागो मनःशर्मकरं परम्
रामाभिरामसंपूर्णं सर्वतः सुखदं दिवि५० 1.59.50
उर्व्यामक्षयभोग्यानि नृपो वाथ महाधनी
हरस्य प्रतिमां यश्च कृत्वा देवगृहे नरः५१
सुलिंगां वा सुरूपां वा कल्पकोटिं वसेद्दिवि
स्वर्गाद्भ्रष्टो भवेद्राजा धनी पूज्यतमोपि वा५२
देवीलिंगेषु सर्वेषु कृत्वा देवगृहं नरः
सुरत्वं प्राप्नुयाल्लोके देव्यास्सर्वसुखोद्भवे५३
भृशमच्युततामेति सुखमेति निरामयम्
रत्नसंसृष्टप्रासादे मणिकर्बुरभूतले५४
रामायुतप्रसंभोग्ये देवीसंसृष्टनिर्भये
नृत्यगीतपरे रम्ये सर्वेंद्रियमनोरमे५५
रत्नमर्द्दलतालाढ्ये सर्वदा स्त्रीजनेरिते
निर्मले सुखदे रम्ये रत्नानां सुशुभे गृहे५६
तथैव प्रतिमायाश्च देव्याः प्रासादमुत्तमम्
नियुतं कल्पकोटीनां स्वर्लोकमेति मानवः५७
स्वर्गाद्भ्रष्टो भवेद्भूपो देवीभक्तिपरायणः
एवं च जन्मसाहस्रं स्मर एव भवेद्भुवि५८
प्रासादं गाणपत्यं च देव्या वा प्रीतिमान्नरः
कृत्वा सुरगणानां च पूजितो दिवि जायते५९
तथैव राजतामेति भोग्यान्देवीपुरे तथा
अविघ्नं सर्वकार्येषु सदैव गणपो यथा६०
आज्ञानस्खलिता तस्य सुरासुरनरेषु च
तथैव सौरप्रासादे फलमेति नरोत्तमः६१
अरोगी सुप्रसन्नात्मा कामदेवसमप्रभः
वरदः सर्वलोकेषु यथा ब्रध्नस्तथा हि सः६२
सुरस्य प्रतिमायां च गृहं कृत्वा शिलामयम्
कल्पकोटिशतं भुक्त्वा स्वर्गमुर्वीश्वरो भवेत्६३
विष्ण्वादि सर्वदेवानामर्चनं यत्पृथक्पृथक्
प्रत्येकं संप्रवक्ष्यामि नराणां हित हेतवे६४
घृतप्रदीपं यो दद्यात्मासमेकमहर्निशम्
दिव्यं वर्षायुतं स्वर्गे पूजितो देवसत्तमैः६५
घृतस्नानं तथा लिंगे यः कुर्याद्भुवि मानवः
कल्पकोटिसहस्राणि मासैके लभते नरः६६
तिलतैलप्रदीपस्य तथान्यस्यार्द्धकं फलम्
मासैकं जलदानस्य फलेनेश्वरतां व्रजेत्६७
धूपदानेन गंधर्वं चंदने द्विगुणं भवेत्
मृगमदागरुसत्वस्य दाने बहुफलं भवेत्६८
मालापुष्पप्रदानेन नरः स्यात्त्रिदशेश्वरः
शीते तूलपटीं दत्वा सर्वदुःखात्प्रमुच्यते६९
जन्मजन्मसु लभ्येत उष्णे च शीतलां पटीम्
दत्वा च नैवसीदेत शक्त्या वस्त्रं ददाति यः७०
चतुर्हस्तप्रमाणं च वर्ष्मवेष्टं सुशोभनम्
पिधानं चरणानां च दत्वा स्वर्गान्न हीयते७१
शक्त्या स्वर्णप्रदानेन स्वर्गे पूज्यो भवेन्नरः
दशयोजनविस्तीर्णे मंडपे रूपभाग्भवेत्७२
सुवर्णं रत्नसंयुक्तं दत्त्वा दशगुणं लभेत्
वज्रवैडूर्यगारुत्म माणिक्यादीननर्घतः७३
दत्वा लिंगे विधानाच्च ब्राह्मणे वा यशस्विनि
शतयोजनविस्तीर्णमंडलेधिपतिर्भवेत्७४
तथैव भुवि जातोपि सर्वलोकप्ररंजनः
सुरभिद्रव्यदानेन वावदूकश्च सुंदरः७५
रक्तामृतसुकंठश्च पूगदानान्नरो भवेत्
वरदासीप्रदानेन नरः कल्पं वसेद्दिवि७६
वरदासी प्रदानेन उर्व्यां जातो धनेश्वरः
तथैव भृत्यदानेन बहुभृत्यो भवेद्दिवि७७
धरायामक्षयाऋद्धिर्जन्मजन्मसु जायते
सर्वतूर्यप्रदानेन गुणवान्लोकसंमतः७८
नृत्यगीतादिशास्त्रेण गंधर्वाणां पतिर्भवेत्
दासीदासयुतः स्वर्गे धनैः स्त्रीभिर्वरैर्युतः७९
तथैव गोप्रदानेन तावत्कालं वसेद्दिवि
लिंगे दुग्धप्रदानाच्च नरः कल्पं वसेद्दिवि८०
दध्ना स्नानेन द्विगुणं घृतेन तु शताधिकम्
अन्नं षड्रससंयुक्तं दत्वा क्षितिपतिर्भवेत्८१
तथैव पायसं दत्वा मुनीनां प्रवरो भुवि
हविष्यान्नं मुदा दत्वा वेदशास्त्रार्थपारगः८२
निरामिषप्रदानाच्च ब्रह्मचारी व्रती भवेत्
मधुदानाच्च सौभाग्यं गुडेन लवणेन च८३
शर्करादिभिर्लावण्यं सर्वलोकेषु गीयते
देवानां शंभुलिंगानामर्चां कृत्वा विधानतः८४
अनुक्रमेण स्वर्गादौ लोकानां स पतिर्भवेत्
लोकानां च हितार्थाय देवास्तिष्ठंति संमुखाः८५
सकृत्प्रदक्षिणां कृत्वा शंभुलिंगेषु पंडितः
दिव्यं वर्षशतं पूर्णं स्वर्गमेति नरोत्तमः८६
एवमेव क्रमेणैव नमस्कारैः स्वयंभुवः
लोकवंद्यो व्रजेत्स्वर्गं तस्मान्नित्यं समाचरेत्८७
लिंगरूपस्य देवस्य यो धनं हरते नरः
स च रौरवमासाद्य हरणात्कीटतां व्रजेत्८८
दातुः पूजां च लिंगार्थे हरेश्चाप्याददाति यः
कुलकोटिसहस्रेण नरकान्न निवर्तते८९
जलपुष्पादिदीपार्थे वसु चान्यद्गृहीतवान्
पश्चान्न दीयते लोभादक्षयं नरकं व्रजेत्९०
दासीं हृत्वा तु लिंगस्य नरकान्न निवर्तते
कामार्तो मातरं गच्छेन्न गच्छेच्छिवचेटिकाम्९१
शिवदासीं ततो गत्वा शिवस्व हरणे तथा
भक्षणादन्नपानानान्नरो दुर्गतिमाप्नुयात्९२
अतो देवलविप्रो यो नरकान्न निवर्तते
तस्माद्वेश्याजनानां च दौष्ट्यमेव हितं भवेत्९३
अतस्तु गणिकां स्पृष्ट्वा नरः स्नानाद्विशुध्यति
मलिनां दुर्गतिं याति बहुपूरुषसंश्रयात्९४
वेश्या तपस्विनी या च देवार्चनरता सदा
पतिव्रतपरा शुद्धा स्वर्गं चाक्षयमश्नुते९५
गणिकां मातृवद्यस्तु सदासन्नां प्रपश्यति
देववत्सुरलोकेषु निखिलं भोगमश्नुते९६
सुरासुरनराणां च वंदनीयो यथा हरिः
तथार्होयं सर्वलोके सर्वभूतैकपावनः९७
देवदासः सदा यस्तु देवकृत्येषु लोलुपः
स च गच्छति लोकेशो देवलोके महीयते९८
एतेषामेव लिंगानि कारयित्वा च मंडपम्
शक्त्या यं लभते नाकं कालस्य निश्चयं शृणु९९
हायनैकं तृणेनैव शरकांडेन तच्छतम्
अयुतं त्वन्यकाष्ठेन लक्षं खादिरदारुणा१०० 1.59.100
कोटिकोटि च पाषाणैः सुदृढैर्यत्नसंयुतैः
तस्मात्सर्वप्रयत्नेन मंडपं कारयेद्बुधः१०१
यावत्कालं वसेत्स्वर्गे नरो मंडपकारकः
तावत्कालं च हरणे नरो दुर्गतिमाप्नुयात्१०२
जनानां निचये रम्ये वस्तूनां क्रयविक्रये
आश्रये चाध्वगानां च नदीनद समागमे१०३
देवानां मंडपं कृत्वा यत्फलं लभते नरः
तत्फलं समवाप्नोति द्विगुणं विप्रमंदिरे१०४
अनाथस्य च दीनस्य श्रोत्रियस्य विशेषतः
कारयित्वा गृहं रम्यं नरः स्वर्गान्न हीयते१०५
य इदं शृणुयान्नित्यं पुण्याख्यानमनुत्तमम्
अक्षयं लभते स्वर्गं प्रासादादेः फलं लभेत्१०६
धनिनां चेश्वराणां च तथा पुण्यवतां पुनः
पाठयित्वा पठित्वा तु नरः स्वर्गान्न हीयते१०७
देवानां दासदासीनां सदा देवालयेषु च
पठेद्यस्तु सदा विप्रो मोक्षमार्गं स गच्छति१०८
नृपाणामीश्वराणां च धनिनां गुणिनां पुरः
पठित्वा मोक्षमाप्नोति श्रवणात्तत्फलं लभेत्१०९
द्विजा ऊचुः-
सामान्येकः परः पुण्यो मर्त्यलोके द्विजोत्तम
सुलभो मर्त्यपूज्यस्तु मुनीनां च तपस्विनाम्११०
चातुर्वर्ण्याश्रमाणां च पापपुण्यवतां नृणाम्
गुणागुणवतां चैव वर्णावर्णवतां तथा१११
व्यास उवाच-
सर्वेषामेव भूतानां रुद्राक्षेण युतो वरः
दर्शनाद्यस्य लोकानां पापराशिः प्रलीयते११२
स्पर्शनाद्दिवमश्नाति धाराणाद्रौद्रतां व्रजेत्
शिरस्युरसि बाहौ च रुद्राक्षं धारयेत्तु यः११३
स चेशानसमो लोके मखे सर्वत्र गोचरः
यत्र तिष्ठत्यसौ विप्रस्स देशः पुण्यवान्भवेत्११४
तं दृष्ट्वाप्यथवा स्पृष्ट्वा नरः पूयेत कल्मषात्
यज्जप्यं तर्पणं दानं स्नानमर्चा प्रदक्षिणम्११५
यत्किंचित्कुरुते पुण्यं निखिलं तदनंतकम्
तीर्थानां च महत्तीर्थं रुद्राक्षस्य फलं द्विजाः११६
अस्यैव धारणाद्देही पापात्पूतोऽति पुण्यभाक्
गृहीत्वा चाक्षमालां च ब्रह्मग्रंथियुतां शिवाम्११७
यज्जप्तं च कृतं दानं स्तोत्रं मंत्रं सुरार्चनम्
सर्वं चाक्षयतामेति पापं च क्षयमाव्रजेत्११८
मालाया लक्षणं ब्रूमः श्रूयतां द्विजसत्तमाः
तस्यास्तु लक्षणं ज्ञात्वा शैवमार्गं प्रलप्स्यथ११९ तु. वराहपुराणम् १२८.५४(गणान्तिका)
निर्योनिकीटविद्धं च भग्नलिगं यथाक्रमम्
अन्योन्यं बीजलग्नं च मालायां परिवर्जयेत्१२०
स्वयं च ग्रथिता या च श्लथान्योन्य प्रसज्जिता
शूद्रादिग्रथिताऽशुद्धा दूरात्तां परिवर्जयेत्१२१
मध्यमालग्नकं बीजं जप्तव्यं च यथाक्रमम्
हस्तसंभ्रमणेनैव मेर्वामर्शं पुनः पुनः१२२
संख्यातं यज्जपेन्मंत्रमसंख्यातं च निष्फलम्
सर्वेषामेव देवानां जपेन्मंत्रं स्वमालया१२३
प्रयतः सकले तीर्थे कोटिकोटिगुणं भवेत्
शुद्धायामेव भूम्यां तु मेध्यके वृक्षमूलके१२४
गोष्ठे चतुष्पथागारे विष्णोर्मंत्रं शिवस्य च
गणपतेश्च सूरस्य लिंगेनंतफलं लभेत्१२५
शून्यागारे शवस्याग्रे श्मशाने च चतुष्पथे
देवीमंत्रं जपेद्यस्तु सद्यस्सिध्यति साधकः१२६
यावच्चावैदिकं मंत्रं पौराणं चागमोद्भवम्
सर्वं रुद्राक्षमालायामीप्सितेष्टार्थदायकम्१२७
रुद्राक्षस्रवजं शुद्धं जलं शिरसि धारयेत्
सर्वस्मात्कल्मषात्पूतः पुण्यं भवति चाक्षयम्१२८
रुद्राक्षस्य च प्रत्येकं बीजं प्रत्येक निर्जरं
धारयेद्यस्तनौ मर्त्यः सुराणां सत्तमो भवेत्१२९
द्विजा ऊचुः-
रुद्राक्षस्तु कुतो जातः कुतो वा मेध्यतां गतः
किमर्थं स्थावरो भूमौ केनैव च प्रचारितः१३०
व्यास उवाच-
पुरा कृतयुगे विप्रास्त्रिपुरो नाम दानवः
सुराणां च वधं कृत्वा अंतरिक्षपुरे हि सः१३१
प्रणाशे सर्वलोकानां स्थिरो ब्रह्मवरेण च
शुश्राव शंकरो भीमं देवैरीशो निवेदितम्१३२
ततोऽजगवमासज्य बाणमंतकसन्निभम्
धृत्वा तं च जघानाथ दृष्टं दिव्येन चक्षुषा१३३
स पपात महीपृष्ठे महोल्केव च्युतो दिवः
घटनव्याकुलाद्रुद्रात्पतिताः स्वेदबिंदवः१३४
तत्राश्रुबिंदुतो जातो महारुद्राक्षकः क्षितौ
अस्यैव च फलं जीवा न जानंत्यतिगुह्यतः१३५
ततः कैलासशिखरे देवदेवं महेश्वरम्
प्रणम्य शिरसा भूमौ स्कंदो वचनमब्रवीत्१३६
रुद्राक्षस्य फलं नाथ ज्ञातुमिच्छामि तत्त्वतः
जप्येथ धारणे चैव दर्शने स्पर्शनेपि वा१३७
ईश्वर उवाच-
लक्षं तु दर्शनात्पुण्यं कोटिर्वै स्पर्शनेन च
दशकोटिफलं पुण्यं धारणाल्लभते नरः१३८
लक्षकोटिसहस्राणि लक्षकोटिशतानि च
जप्त्वास्य लभते पुण्यं नात्र कार्या विचारणा१३९
उच्छिष्टो वा विकर्मस्थो युक्तो वा सर्वपातकैः
मुच्यते सर्वपापेभ्यो रुद्राक्षधारणेन वै१४०
कंठे रुद्राक्षमादाय श्वापदो म्रियते यदि
सोपि रुद्रत्वमाप्नोति किं पुनर्मानुषादयः१४१
ध्यानधारणहीनोपि रुद्राक्षं यदि धारयेत्
सर्वपापविनिर्मुक्तः स याति परमां गतिम्१४२
कार्तिकेय उवाच-
एकवक्त्रं द्वित्रिचतुःपंचषड्वक्त्रमेव च
सप्ताष्टनववक्त्रं च दशैकादशवक्त्रकम्१४३
रुद्राक्षं द्वादशास्यं च त्रयोदशमुखं तथा
चतुर्दशास्यसंयुक्तं स्वयमुक्तं च शंकरम्१४४
तेषां च तन्मुखानां च देवताः काश्च तद्वद
गुणो वा कीदृशस्तेषां दोषो वा जगदीश्वर१४५
यदि मेनुग्रहोवास्ति कथयस्व यथार्थतः
ईश्वर उवाच-
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति१४६
तस्मात्तु धारयेद्देहे सर्वपापक्षयाय च
शिवलोकं स गच्छेच्च शिवेन सह मोदते१४७
महतापुण्ययोगेन हरानुग्रहकारणात्
एकवक्त्रं लभेन्मर्त्यो कैलासं च षडानन१४८
देवदेवो द्विवक्त्रं च यस्तु धारयते नरः
सर्वपापक्षयं याति यद्गुह्यंगोवधादिकम्१४९
स्वर्गं चाक्षयमाप्नोति द्विवक्त्रधारणात्ततः
त्रिवक्त्रमनलस्साक्षाद्यस्यदेहे प्रतिष्ठति१५० 1.59.150
तस्य जन्मार्जितं पापं दहत्यग्निरिवेंधनम्
स्त्रीहत्या ब्रह्महत्याभ्यां बहूनां चैव हत्यया१५१
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्
यत्फलं वह्निपूजायामग्निकार्ये घृताहुतौ१५२
तत्फलं लभते धीरः स्वर्गं चानंतमश्नुते
त्रिवक्त्रं धारयेद्यस्तु स च ब्रह्मसमो भुवि१५३
निचितं दुष्कृतं सर्वं दहेज्जन्मनि जन्मनि
न चोदरे भवेद्रोगो न चैवापटुतां व्रजेत्१५४
पराजयं न लभते नाग्निना दह्यते गृहम्
एतान्यन्यानि सर्वाणि वज्रादेश्च निवारणम्१५५
नाशुभं विद्यते किंचित्त्रिवक्त्रस्य तु धारणात्
चतुर्वक्त्रः स्वयं ब्रह्मा यस्य देहे प्रतिष्ठति१५६
स भवेत्सर्वशास्त्रज्ञो द्विजो वेदविदां वरः
सर्वधर्मार्थतत्त्वज्ञः स्मार्तः पौराणिको भवेत्१५७
यत्पापं नरहत्यायां बहुसत्त्वेषु वेश्मसु
तत्सर्वं दहते शीघ्रं चतुर्वक्त्रस्य धारणात्१५८
महेशस्तुष्यते नित्यं भूतानामधिपो भवेत्
सद्योजातस्तथेशानस्तत्पुरुषोऽघोर एव च१५९
वामदेव इमे देवा वक्त्रैः पंचभिराश्रिताः
अतः सर्वत्र भूयिष्ठाः पंचवक्त्रो धरातले१६०
रुद्रस्यात्मजरूपोयं तस्मात्तं धारयेद्बुधः
कल्पकोटिसहस्राणि कल्पकोटिशतानि च१६१
तावत्कालं शिवस्याग्रे पूजनीयः सुरासुरैः
सार्वभौमो भवेद्भूमौ शर्वतेजाः शिवालये१६२
तस्मात्सर्वप्रयत्नेन पंचवक्त्रं तु धारयेत्
षड्वक्त्रं कार्तिकेयं तु धारयन्दक्षिणे भुजे१६३
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः
स्कंदस्य सदृशः शूरः कल्पांते समुपस्थिते१६४
नात्र पराजयं चैति गुणानामाकरो भुवि
कुमारत्वमवाप्नोति यथा गौरीशनंदनः१६५
ब्राह्मणो भूपपूज्यश्च क्षत्रियो लभते जयम्
वैश्याः शूद्रादयो वर्णाः सदैश्वर्यप्रपूरिताः
तस्यैव वरदा गौरी मातेव सुलभा भवेत्१६६
ततो भुजबलादेव विश्वतेजा भवेन्नरः
वाग्मी धीरस्सभायां च नृपवेश्मनि संसदि१६७
न च कातरतामेति नैव भंगो भवेद्ध्रुवम्१६८
एतान्यन्यानि सर्वाणि षड्वक्त्रस्यैव धारणात्
सप्तवक्त्रो महासेनस्त्वनंतो नाम नागराट्१६९
अस्य प्रत्येक वक्त्रे तु प्रतिनागा व्यवस्थिताः
अनंतः कर्कटश्चैव पुंडरीकोथ तक्षकः१७०
विषोल्बणश्च कारीषः शंखचूडश्च सप्तमः
एते नागा महावीर्याः सप्तवक्त्रे व्यवस्थिताः१७१
अस्य धारणमात्रे तु विषं न क्रमते तनौ
हरश्च परमप्रीतो भवेन्नागेश्वरे यथा१७२
प्रीत्यास्या सर्वपापानि क्षयं यांति दिनेदिने
ब्रह्महत्या सुरापानं स्तेयादि गुरुतल्पजम्१७३
यत्पापं लभते मर्त्यः सर्वं नश्यति तत्क्षणात्
देवस्य सदृशं भोज्यं त्रैलोक्ये निश्चितं लभेत्१७४
अष्टवक्त्रो महासेनः साक्षाद्देवो विनायकः
अस्यैव धारणादेव यत्पुण्यं तच्छृणुष्व मे१७५
जन्मजन्म न मूर्खः स्यान्नातुरो न च नष्टधीः
अविघ्नं सर्वकार्येषु तस्यैव सततं भवेत्१७६
नैपुण्यं लिपिकार्येषु महाकार्येषु कौशलम्
सर्वारंभादिकार्येषु क्षमंतस्य दिने दिने१७७
अर्धकूटं तुलाकूटं सर्वकूटं तथैव च
शिश्नोदरकरेणैव संस्पृशेद्वा गुरुस्त्रियम्१७८
एवमादीनि सर्वाणि हंति पापानि सर्वथा
अक्षयं त्रिदिवं भुक्त्वा मुक्तो याति परां गतिम्१७९
गुणान्येतानि सर्वाणि अष्टवक्त्रस्य धारणात्
नवास्यं भैरवं प्रोक्तं धारयेद्यस्तु बाहुतः१८०
कपिलं मुक्तिदं धृत्वा ममतुल्य बलो भवेत्
लक्षकोटिसहस्राणि ब्रह्महत्याः करोति यः१८१
ताः सर्वा दहते शीघ्रं नववक्त्रस्य धारणात्
सुरलोके सदा देवैः पूजितो मघवान्यथा१८२
हरवद्वरवेश्मस्थो गणेशो नात्र संशयः
पन्नगाश्च विनश्यंति दशवक्त्रस्य धारणात्१८३
वक्त्रे चैकादशे वत्स रुद्राश्चैकादश स्मृताः
शिखायां धारयेन्नित्यं तस्य पुण्यफलं शृणु१८४
अश्वमेधसहस्राणि यज्ञकोटिशतानि च
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्१८५
तत्फलं शीघ्रमाप्नोति वक्त्रैकादश धारणात्
हरस्य सदृशो लोके पुनर्जन्म न विद्यते१८६
रुद्राक्षं द्वादशास्यं यः कंठदेशे तु धारयेत्
आदित्यस्तुष्यते नित्यं द्वादशास्ये व्यवस्थितः१८७
गोमेधं नरमेधं च कृत्वा यत्फलमश्नुते
तत्फलं शीघ्रमाप्नोति वज्रादेश्च निवारणम्१८८
नैव वह्नेर्भयं चैव न च व्याधिः प्रवर्तते
अर्थलाभं सुखं भुंक्त ईश्वरो न दरिद्रता१८९
हस्त्यश्वनरमार्जार मूषकाञ्छशकांस्तथा
व्यालदंष्ट्रि सृगालादीन्हत्वा व्याघातयत्यपि१९०
मुच्यते नात्र संदेहो वक्त्रद्वादश धारणात्
वक्त्र त्रयोदशो रुद्रो रुद्राक्षः प्राप्यते यदि१९१
शंतमः स तु विज्ञेयः सर्वकामफलप्रदः
सुधारसायनं चैव धातुवादश्च पादुका१९२
सिध्यंति तस्य वै सर्वे भाग्ययुक्तस्य षण्मुख
मातृपितृ स्वसृ भ्रातृ गुरून्वाथ निहत्य च१९३
मुच्यते सर्वपापेभ्यो त्रयोदशास्य धारणात्
अक्षयं लभते स्वर्गं यथा देवो महेश्वरः१९४
चतुर्दशमुखं वत्स रुद्राक्षं यदि धारयेत्
सततं मूर्ध्नि बाहौ वा शक्तिपिंडं शिवस्य च१९५
किं पुनर्बहुनोक्तेन वर्णितेन पुनः पुनः
पूज्यते सततं देवैः प्राप्यते पुण्यगौरवात्१९६
कार्तिकेय उवाच-
भगवन्श्रोतुमिच्छामि वक्त्रे वक्त्रे यथाविधि
न्यसनं केन मंत्रेण धारणं वा कथं वद१९७
ईश्वर उवाच-
शृणु षण्मुख तत्त्वेन वक्त्रे वक्त्रे यथाविधि
अमंत्रोच्चारणादेव गुणा ह्येते प्रकीर्तिताः१९८
यः पुनर्मंत्रसंयुक्तं धारयेद्भुवि मानवः
गुणास्तस्य महत्त्वं च कथितुं नैव शक्यते१९९
इदानीं मंत्रा दिश्यंते ॐ रुद्र एकवक्त्रस्य
ॐ खं द्विवक्त्रस्य ॐ वुं त्रिवक्त्रस्य
ॐ ह्रीं चतुर्वक्त्रस्य ॐ ह्रां पंचवक्त्रस्य
ॐ ह्रूँ षड्वक्त्रस्य ॐ ह्रः सप्तवक्त्रस्य
ॐ कं अष्टवक्त्रस्य ॐ जूं नववक्त्रस्य
ॐ क्षं दशवक्त्रस्य ॐ श्रीं एकादशवक्त्रस्य
ॐ ह्रीं द्वादशवक्त्रस्य ॐ क्षौं त्रयोदशवक्त्रस्य
ॐ न्रां चतुर्दशवक्त्रस्य
एवं मंत्रा यथाक्रमं न्यस्तव्याः
शिरस्युरसि मालां च गृहीत्वा यो व्रजेन्नरः
पदेपदेश्वमेधस्य फलमाप्नोति नान्यथा२०० 1.59.200
सर्वेषामपि वक्त्राणां धारणे मत्समो भवेत्
तस्मात्सर्वप्रयत्नेन रुद्राक्षं पुत्र धारय२०१
धारयित्वा तु रुद्राक्षं म्रियते यः क्षितौ नरः
स याति मत्पुरं रम्यं सर्वदेवैः प्रपूजितः२०२
मरुदेशे पुरा वत्स वाणिज्याय किल स्थले
गच्छन्वणिक्सुतस्तात तरौ प्रेता प्रपीडितः२०३
नरीनर्तिततः प्रेता द्विजेन परमैक्षि च
का त्वं नृत्यसि दीनासि संवृता जीर्णवाससा२०४
अथ सा च द्विजं प्राह देवदूतान्मया श्रुतम्
अस्य चारु नरस्यैव वज्रपातेन सांप्रतम्२०५
निश्चितं निधनं विप्र मद्भर्त्ता तु भविष्यति
एतस्मिन्नंतरे नाकाद्वज्रं तस्यशिरोपरि२०६
अपतत्स पपातोर्व्यां रुद्राक्षस्यार्धखंडके
ततो मम पुरात्पुत्र विमानं चापतद्द्रुतम्२०७
समारुह्य ततः श्रीमांस्तत्र तिष्ठति संचिरम्
ममांशकं समासाद्य ईश्वरः कौ धनी भवेत्२०८
एवं रुद्राक्षखंडे च मृतस्य सुगतिः सुत
ज्ञानेन धारिणः पुंसः फलं वक्तुं न शक्नुमः२०९
स शैवो वा भवेच्छाक्तो गाणपत्योथ सौरकः
यो दधाति मृतो मालामेकं रुद्राक्षकं तु वा२१०
यः पठेत्पाठयेद्वापि श्रावयेच्छृणुतेपि वा
सर्वपापात्प्रमुक्तात्मा सुखं स्वर्गं लभेत्क्रमात्२११

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रुद्राक्षमाहात्म्यंनामैकोनषष्टितमोऽध्यायः५९