पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ५०

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच-
यत्पुण्यमधिकं लोके सर्वदा सर्वसंमतम्
तद्वदस्वेच्छया विप्र यत्कृतं पूर्वपूर्वकैः१
पुलस्त्य उवाच-
एकदा तु द्विजाः सर्वे व्यासशिष्यास्सहादरात्
व्यासं प्रणम्य पप्रच्छु धर्मं मां च यथा भवान्२
द्विजा ऊचुः-
पुण्यात्पुण्यतमं लोके सर्वधर्मेषु चोत्तमम्
किं कृत्वा मानवा स्वर्गं भुंजते चाक्षयं वद३
लभ्यं चाकष्टकं शुद्धं वर्णानां मर्त्यवासिनाम्
गुरूणां च लघूनां च साध्यमेकं क्रतुं वद४
यद्यत्कृत्वा च देवानां पूज्यो नाके भवेन्नरः
तत्तद्वद च नो ब्रह्मन्प्रसादी भव धर्मतः५
व्यास उवाच-
पंचाख्यानं वदिष्यामि शृणुध्वं तत्र पूर्वतः
पंचानामेककं कृत्वा विंदेन्मोक्षं दिवं यशः६
पित्रोरर्चाऽथ पत्युश्च साम्यं सर्वजनेषु च
मित्राद्रोहो विष्णुभक्तिरेते पंच महामखाः७
प्राक्पित्रोरर्चया विप्रा यद्धर्मं साधयेन्नरः
न तत्क्रतुशतैरेव तीर्थयात्रादिभिर्भुवि८
पिता धर्मः पिता स्वर्गः पिता हि परमं तपः
पितरि प्रीतिमापन्ने प्रीयंते सर्वदेवताः९
पितरो यस्य तृप्यंति सेवया च गुणेन च
तस्य भागीरथी स्नानमहन्यहनि वर्तते१०
सर्वतीर्थमयी माता सर्वदेवमयः पिता
मातरं पितरं चैव यस्तु कुर्यात्प्रदक्षिणम्११
प्रदक्षिणीकृता तेन सप्तद्वीपा वसुंधरा
जानुनी च करौ यस्य पित्रोः प्रणमतः शिरः१२
निपतंति पृथिव्यां च सोक्षयं लभते दिवं
तयोश्चरणयोर्यावद्रजश्चिह्नानि मस्तके१३
प्रतीके च विलग्नानि तावत्पूतः सुतस्तयोः
पादारविंदसलिलं यः पित्रोः पिबते सुतः१४
तस्य पापक्षयं याति जन्मकोटिशतार्जितं
धन्योसौ मानवो लोके पूतोसौ सर्वकल्मषात्१५
विनायकत्वमाप्नोति जन्मनैकेन मानवः
पितरौ लंघयेद्यस्तु वचोभिः पुरुषाधमः१६
निरये च वसेत्तावद्यावदाभूतसंप्लवं
पित्रोरनर्चनं कृत्वा भुंक्ते यस्तु सुताधमः१७
क्रिमिकूपेथ नरके कल्पांतमुपतिष्ठति
रोगिणं चापि वृद्धं च पितरं वृत्तिकर्शितम्१८
विकलं नेत्रकर्णाभ्यां त्यक्त्वा गच्छेच्च रौरवम्
अंत्यजातिषु म्लेच्छेषु चांडालेष्वपि जायते१९
पित्रोरपोषणं कृत्वा सर्वपुण्यक्षयो भवेत्
नाराध्य पितरौ पुत्रस्तीर्थदेवान्भजन्नपि२०
तयोर्न फलमाप्नोति कीटवद्रमते महीम्
कथयामि पुरावृत्तं विप्राः शृणुत यत्नतः२१
यं श्रुत्वा न पुनर्मोहं प्रयास्यथ पुनर्भुवि
पुरासीच्च द्विजः कश्चिन्नरोत्तम इति स्मृतः२२
स्वपितरावनादृत्य गतोसौ तीर्थसेवया
ततः सर्वाणि तीर्थानि गच्छतो ब्राह्मणस्य च२३
आकाशे स्नानचेलानि प्रशुष्यंति दिने दिने
अहंकारोऽविशत्तस्य मानसे ब्राह्मणस्य च२४
मत्समो नास्ति वै कश्चित्पुण्यकर्मा महायशाः
इत्युक्ते चानने तस्य अहदच्च बकस्तदा२५
क्रोधाच्चैवेरितस्तस्य स शशाप द्विजो बकम्
पपात च बकः पृथ्व्यां स भस्मीभूतविग्रहः२६
भीर्द्विजेंद्रं महामोहः प्राविशच्चांतकर्मणि
ततः पापाच्च विप्रस्य चेलं खं च न गच्छति२७
विषादमगमत्सद्यस्ततः खं तमुवाच ह
गच्छ बाडव चांडालं मूकं परमधार्मिकम्२८
तत्र धर्मं च जानीषे क्षेमं ते तद्वचो भवेत्
खाच्च तद्वचनं श्रुत्वा गतोसौ मूकमंदिरम्२९
शुश्रूषंतं च पितरौ सर्वारंभान्ददर्श सः
ददतं शीतकाले च सम्यगुष्णं जलं तयोः३०
तैलतापनतांबूलं तथा तूलवतीं पटीम्
नित्याशनं च मिष्टान्नं दुग्धखंडं तथैव च३१
दापयंतं वसंते च मधुमालां सुगंधिकां
अन्यानि यानि भोग्यानि कृत्यानि विविधानि च३२
उष्णे चावीजयत्सोपि नित्यं च पितरावपि
ततस्तयोः प्रचर्यां च कृत्वा भुंक्तेथ सर्वदा३३
श्रमस्य वारणं कुर्यात्संतापस्य तथैव च
एभिः पुण्यैः स्थितो विष्णुस्तस्य गेहोदरे चिरम्३४
अंतरिक्षे च क्रीडंतमाधारस्तंभवर्जिते
तस्यापि भवने नित्यं स्थितं त्रिभुवनेश्वरं३५
विप्ररूपधरं कांतं नान्यैर्भूतं च सत्परम्
तेजोमयं महासत्वं शोभयंतं च मंदिरं३६
दृष्ट्वा विस्मयमापन्नो विप्रः प्रोवाच मूककम्
विप्र उवाच-
आसन्नं च ममागच्छ त्वयैवेच्छामि शाश्वतं३७
हितं मे सर्वलोकानां तत्वतो वक्तुमर्हसि
मूक उवाच-
पित्रोरर्चां करोम्यद्य कथमायामि तेंतिकं३८
अर्चयित्वा तु पितरौ कृत्यं ते करवाणि वै
तिष्ठ मे द्वारदेशे च आतिथ्यं ते करोम्यहम्३९
इत्युक्ते चैव चांडाले चुकोप ब्राह्मणस्तदा
ब्राह्मणं मां परित्यज्य किं कार्यमधिकं तव४०
मूक उवाच-
किं कुप्यसि वृथा विप्र न बकोहं तवाधुना
कोपस्सिद्ध्यति ते तावद्बकेनान्यत्र किंचन४१
गगने स्नानशाटी ते न शुष्यति न तिष्ठति
वचनं खात्ततः श्रुत्वा मद्गृहं चागतो भवान्४२
तिष्ठ तिष्ठ वदिष्यामि नोचेद्गच्छ पतिव्रतां
तां च दृष्ट्वा द्विजश्रेष्ठ दयितं ते फलिष्यति४३
ततस्तस्यगृहाद्विष्णुर्द्विजरूपधरो विभुः
विनिस्सृत्य द्विजं प्राह गेहं तस्याः प्रयाम्यहं४४
स विमृश्य द्विजश्रेष्ठस्तेन सार्धं चचाल ह
गच्छंतं तमुवाचेदं हरिं विप्रेति विस्मितः४५
किर्थं च त्वया विप्र चांडालस्य गृहोदरे
सदा संस्थीयते तात योषाजनवृते मुदा४६
हरिरुवाच-
इदानीं मानसं शुद्धं न भूतं भवतो ध्रुवम्
पतिव्रतादिकं दृष्ट्वा पश्चाज्ज्ञास्यसि मां किल४७
विप्र उवाच-
पतिव्रता च का तात किं वा तस्याश्श्रुतं महत्
येनाहं तत्र गच्छामि कारणं वद मे द्विज४८
हरिरुवाच-
नदीनां जाह्नवी श्रेष्ठा प्रमदानां पतिव्रता
मनुष्याणां प्रजापालो देवानां च जनार्दनः४९
पतिव्रता च या नारि पत्युर्नित्यं हिते रता
कुलद्वयस्य पुरुषानुद्धरेत्सा शतं शतं५० 1.50.50
स्वर्गं भुनक्ति तावच्च यावदाभूतसंप्लवं
स्वर्गाद्भ्रष्टो भवेद्वास्याः सार्वभौमो नृपः पतिः ५१
अस्यैव महिषी भूत्वा सुखं विंदेदनंतरं
पुनः पुनः स्वर्गराज्यं तस्य तस्या न संशयः ५२
एवं जन्मशतं प्राप्य अंते मोक्षो भवेद्ध्रुवम्
विप्र उवाच-
पतिव्रता भवेत्कावा तस्याः किं वा च लक्षणं ५३
ब्रूहि मे द्विजशार्दूल यथा जानामि तत्त्वतः
हरिरुवाच-
पुत्राच्छतगुणं स्नेहाद्राजानं च भयादथ ५४
आराधयेत्पतिं शौरिं या पश्येत्सा पतिव्रता
कार्ये दासी रतौ वेश्या भोजने जननीसमा ५५
विपत्सु मंत्रिणी भर्तुः सा च भार्या पतिव्रता
भर्तुराज्ञां न लंघेद्या मनो वाक्कायकर्मभिः ५६
भुक्ते पत्यौ सदा चात्ति सा च भार्या पतिव्रता
यस्यां यस्यांतु शय्यायां पतिः स्वपिति यत्नतः ५७
तत्र तत्र च साभर्तुरर्चां करोति नित्यशः
नैव मत्सरमायाति न कार्पण्यं न मानिनी ५८
मानेऽमाने समानं च या पश्येत्सा पतिव्रता
सुवेषं या नरं दृष्ट्वा भ्रातरं पितरं सुतं ५९
मन्यते च परं साध्वी सा च भार्या पतिव्रता
तां गच्छ द्विजशार्दूल वदकामं यथा तव ६०
तस्य पत्न्योऽष्ट तिष्ठंति तन्मध्ये वरवर्णिनी
रूपयौवनसंपन्ना दयायुक्ता यशस्विनी ६१
शुभा नामेति विख्याता गत्वा तां पृच्छ ते हितं
एवमुक्त्वा तु भगवांस्तत्रैवांतरधीयत ६२
तस्यैवादृश्यतां दृष्ट्वा विस्मितोभूद्द्विजस्तदा
स च साध्वीगृहं गत्वा पप्रच्छाथ पतिव्रतां ६३
अतिथेर्वचनंश्रुत्वागृहान्निःसृत्यसंभ्रमात्
दृष्ट्वा द्विजं सती तत्र द्वारदेशे स्थिताभवत् ६४
तां च दृष्ट्वा द्विजश्रेष्ठ उवाच वचनं मुदा
प्रियं ममहितं ब्रूहि यथादृष्टं त्वमेव हि ६५
पतिव्रतोवाच-
सांप्रतं पत्युरर्चास्ति न चास्माकं स्वतंत्रता
पश्चात्कार्यं करिष्यामि गृहाणातिथ्यमद्य वै ६६
विप्र उवाच-
मम देहे क्षुधा नास्ति पिपासाद्य न च श्रमः
अभीष्टं वद कल्याणि नोचेच्छापं ददामि ते ६७
तमुवाच तदा सापि न बकोहं द्विजोत्तम
गच्छ धर्मतुलाधारं पृच्छ तं ते हितं द्विज ६८
इत्युक्त्वा सा महाभागा प्रययौ च गृहोदरम्
तत्रापश्यद्द्विजो विप्रं यथा चांडालवेश्मनि ६९
विमृश्य विस्मयापन्नस्तेन सार्धं ययौ द्विजः
तिष्ठंतं च द्विजं तं च सोपश्यद्धृष्टमानसम् ७०
स चोवाच मुदा विप्रं दृष्ट्वा तं तां सतीं च सः
देशांतरे च यद्वृत्तं तया च कथितं किल ७१
कथं जानाति मद्वृत्तं चांडालोपि पतिव्रता
अतो मे विस्मयस्तात किमाश्चर्यं परं महत् ७२
हरिउवाच-
ज्ञायते कारणं तात सर्वेषां भूतभावनैः
अतिपुण्यात्सदाचाराद्यतस्त्वं विस्मयं गतः ७३
किमुक्तश्च तया त्वं च वद तत्सांप्रतं मुने
विप्र उवाच-
प्रष्टुं धर्मतुलाधारं सा च मां समुपादिशत् ७४
हरिरुवाच-
आगच्छ मुनिशार्दूल अहं गच्छामि तं प्रति
गच्छंतं च हरिं प्राह तुलाधारः क्व तिष्ठति ७५
हरिरुवाच-
जनानां निकरो यत्र बहुद्रव्यसुविक्रये
विक्रीणाति च क्रीणाति तुलाधारस्ततस्ततः ७६
जनो यवान्रसं स्नेहं कूटमन्नस्य संचयं
सर्वं तस्य मुखादेव गृह्णाति च ददात्यपि ७७
सत्यं त्यक्त्वानृतं किंचित्प्राणांते समुपस्थिते
नोक्तं नरवरश्रेष्ठस्तेनधर्मतुलाधरः ७८
इत्युक्ते तु तमद्राक्षीद्विक्रीणंतं रसान्बहून्
मलपंकधरं मर्त्यं दंतकुड्मलपंकिलम् ७९
तत्र वस्तुधनोत्थां च भाषंतं विविधां गिरम्
वृतं बहुविधैर्मर्त्यैः स्त्रीभिः पुंभिश्च सर्वतः ८०
कथं कथमिति प्राह स तं मधुरया गिरा
धर्मस्य मे समुद्देशं वद प्राप्तोंऽतिकं हि ते ८१
तुलाधार उवाच-
यावज्जनाः प्रतिष्ठंति ममैव सन्निधौ द्विज
तावन्मे स्वस्थता नास्ति यावच्च रात्रियामकः ८२
तच्चोपदेशमादाय गच्छ धर्माकरं प्रति
बकस्य मरणे दोषं खे च वस्त्राविशोषणम् ८३
सर्वं तत्र च जानीषे सज्जनाद्रोहकं व्रज
तत्र तस्योपदेशेन तव कामः फलिष्यति ८४
इत्युक्त्वा तुलाधारः करोति क्रयविक्रयौ
तथा तात गमिष्यामि सज्जनाद्रोहकं प्रति ८५
तुलाधारसमुद्देशान्न जानामि तदालयम्
हरिरुवाच-
एह्यागच्छ गमिष्यामि त्वया सार्द्धं च तद्गृहम् ८६
अथ वर्त्मनि गच्छंतमुवाच ब्राह्मणो हरिं
विप्र उवाच-
तुलाधारे च न स्नानं न देवपितृतर्पणम् ८७
मलदिग्धं च गात्रं तु सर्वं चेलमलक्षणम्
कथं जानाति मद्वृत्तं देशांतरसमुद्भवम् ८८
अतो मे विस्मयस्तात सर्वं त्वं वद कारणम्
हरिरुवाच-
सत्येन समभावेन जितं तेन जगत्त्रयम् ८९
तेनातृप्यंत पितरो देवा मुनिगणैः सह
भूतभव्य प्रवृत्तं च तेन जानाति धार्मिकः ९०
नास्ति सत्यात्परो धर्मो नानृतात्पातकं परम्
विशेषे समभावस्य पुरुषस्यानघस्य च ९१
अरौ मित्रेप्युदासीने मनो यस्य समं व्रजेत्
सर्वपापक्षयस्तस्य विष्णुसायुज्यतां व्रजेत् ९२
एवं यो वर्तते नित्यं कुलकोटिं समुद्धरेत्
सत्यं दमः शमश्चैव धैर्यं स्थैर्यमलोभता ९३
अनाश्चर्यमनालस्यं तस्मिन्सर्वं प्रतिष्ठितम्
तेन वै देवलोकस्य नरलोकस्य सर्वशः ९४
वृत्तं जानाति धर्मज्ञस्तस्यदेहे स्थितो हरिः
लोके तस्य समो नास्ति समः सत्यार्जवेषु च ९५
स च धर्ममयः साक्षात्तेनैव धारितं जगत्
द्विज उवाच-
ज्ञातं मे त्वत्प्रसादाच्च तुलाधारस्य कारणम् ९६
अद्रोहकस्य यद्वृत्तं तद्ब्रूहि त्वं यदीच्छसि
हरिरुवाच-
पुरैव राजपुत्रस्य कुलस्त्रीनवयौवना ९७
पत्नीव कामदेवस्य शचीव वासवस्य च
तस्य प्राणसमा भार्या सुन्दरी नाम सुन्दरी ९८
अकस्मात्पार्थिवस्यैव कार्ये गन्तुं समुद्यतः
मनसालोचितं तेन प्राणेभ्योपि गरीयसीम् ९९
कस्मिन्स्थाने स्थापयामि यतो रक्षा भवेद्ध्रुवम्
इत्यालोच्यैव सहसा त्वागतोस्य गृहं प्रति १०० 1.50.100
उक्तं च तादृशं वाक्यं श्रुत्वा स विस्मयंगतः
न तातस्ते न च भ्राता न चाहं तव बान्धवः १०१
पितृमातृकुलस्यैव तस्या न हि सुहृज्जनः
कथं च मद्गृहे तात स्थित्या स्वस्थो भविष्यसि १०२
एतस्मिन्नन्तरे तेन चोक्तं वाक्यं यथोचितम्
लोके त्वत्सदृशो नास्ति धर्मज्ञो विजितेन्द्रियः १०३
स चाह तं च सर्वज्ञं वक्तुं नार्हसि दूषणम्
त्रैलोक्यमोहिनीं भार्यां कः पुमान्रक्षितुं क्षमः १०४
राजपुत्र उवाच-
धरण्यां परिविज्ञाय त्वागतोहं तवान्तिकम्
एषा तिष्ठतु तेऽगारे व्रजामि निजमन्दिरम्१०५
इत्युक्ते स पुनः प्राह नगरेऽस्मिन्प्रशोभने
बहुकामुक संपूर्णे कथं रक्षा भवेत्स्त्रियाः१०६
स चोवाच पुनस्तं च कुरु रक्षां व्रजाम्यहम्
गृहस्थस्सङ्कटादाह धर्मस्य राजपुत्रकम्१०७
करोम्यनुचितं कार्यं स्वदास्यमुचितं हितम्
सदा चैवेदृशी भार्या स्थातव्या मद्गृहे पितः१०८
अरक्षारक्षणे देव वदाभीष्टं कुरु प्रियम्
मम तल्पे मया सार्धं शयानं भार्यया सह१०९
मन्यसे दैवतं स्वं चेत्तिष्ठेन्नोचेत्तु गच्छतु
क्षणं विमृश्य तं प्राह राजपुत्रः पुनस्तदा११०
बाढमेतद्वचस्तात यथाभीष्टं तथा कुरु
ततो भार्यां जगादाथ अस्य वाक्याच्छिवाशिवम्१११
कर्तव्यं च न ते दोष आज्ञया मम सुंदरि
एतदुक्त्वा गतः सोपि भूपतेः शासनात्पितुः११२
अनंतरं क्षपायां च यदुक्तं च तथाकृतम्
योषितोर्मध्यगः सोपि नित्यं स्वपिति धार्मिकः११३
धर्मान्न चलते सोपि स्वभार्यापरभार्ययोः
संस्पर्शात्स्वस्त्रियश्चास्य कामाभिलषितं मनः११४
तस्याः संसर्गतश्चैव दुहितैव प्रमन्यते
स्तनौ तस्यास्तु पृष्ठे च लगन्तौ च पुनःपुनः११५
बालकस्येव पुत्रस्य स्तनौ मातुः समन्यते
तस्या अंगानि चांगेषु लगंति च पुनःपुनः११६
ततो मातुस्सुतस्येव सोमन्यत दिने दिने
तस्य योषासुसंसर्गो निवृत्तस्त्वभवत्ततः११७
एवं संवत्सरस्यार्द्धे तत्पतिश्चागतः पुरं
अपृच्छत्तं च लोकेषु तस्या वृत्तमथोदितम्११८
केचिद्भद्रं बोधयन्तो युवानोपि सुविस्मिताः
केचिदाहुस्त्वया दत्ता तया सार्द्धं स्वपित्यसौ११९
स्त्रीपुंसोरेकसंसर्गात्शांतता तु कथं भवेत्
तस्यां यस्याभिलाषोस्ति न पृष्टस्स वदेद्युवा१२०
लोकानां कुश्रुतिर्वार्ता तेन पुण्यबलाच्छ्रुता
जनापवादमोक्षार्थं बुद्धिस्तस्याभवच्छुभा१२१
दारूणि स्वयमाहृत्याजिज्वलत्स महानलम्
एतस्मिन्नंतरे तात राजपुत्रः प्रतापवान्१२२
आगमत्तद्गृहं सद्यः सोपश्यत्तं च योषितम्
प्रोत्फुल्लवदनां नारीं प्रविषादगतं नरं१२३
अनयोर्मानसं ज्ञात्वा राजपुत्रोवदद्वचः
किं न संभाषसे मां च मित्रकं चिरमागतम्१२४
अब्रवीत्सोपि धर्मात्मा राजपुत्रमनष्टधीः
यत्कृतं दुष्करं कर्म मया त्वद्धितकारणात्१२५
सर्वं व्यर्थमहं मन्ये जनानां च प्रवादतः
अद्य वह्निमहं यास्ये प्रपश्यंतु नरास्सुराः१२६
इत्युक्त्वा स महाभागः प्रविवेश हुताशनम्
विशतस्तस्य वह्नौ न कुसुमं चिकुरालये१२७
नांगमस्यानलोधाक्षीन्न च वस्त्रं न कुंतलम्
खे च देवा मुदा सर्वेसाधुसाध्विति चाब्रुवन्१२८
अपतन्पुष्पवर्षाणि तस्य मूर्ध्नि समंततः
यैर्यैश्च दुष्कृतं वाक्यं गदितं तावुभौ प्रति१२९
तेषां मुखे प्रजायंते कुष्ठानि विविधानि च
तत्रागत्य च देवाश्च वह्नेराकृष्यतं मुदा१३०
अपूजयन्सुपुष्पैश्च मुनयो विस्मयं गताः
सर्वैर्मुनिवरैरेवं मनुष्यैर्विविधैस्तदा१३१
अर्च्यते तु महातेजाः स च सर्वानपूजयत्
सज्जनाद्रोहकं नाम कृतं देवासुरैर्नृभिः१३२
तस्य पादरजः पूता सस्यपूर्णा धराभवत्
सुराश्चाहुश्च तं तत्र भार्या ते संप्रगृह्यताम्१३३
एतस्य सदृशो लोके न भूतो न भविष्यति
नास्तीति सांप्रतं पृथ्व्यां कामलोभाजितः पुमान्१३४
देवासुरमनुष्याणां रक्षसां मृगपक्षिणाम्
कीटादीनां च सर्वेषां काम एष सुदुर्जयः१३५
कामाल्लोभात्तथाक्रोधान्नित्यं सत्त्वेषु जायते
संसारबंधकः कामो ह्यकामो न क्वचिद्भवेत्१३६
अनेनैव जितं सर्वं भुवनानि चतुर्दश
अमुष्य हृदये नित्यं वासुदेवो मुदास्थितः१३७
एवं स्पृष्ट्वाथ दृष्ट्वा तं मनुष्याः सर्वकल्मषात्
पूयंते ह्यनघाश्चैव लभंते चाक्षयां दिवम्१३८
एवमुक्त्वा गता देवा विमानैश्च दिवं मुदा
मनुष्याः प्रययुस्तुष्टा दंपती स्वगृहं तथा१३९
दिव्यं चक्षुस्तदा तस्य चासीद्देवान्स पश्यति
त्रैलोक्यस्य च वार्त्तां च जानाति लीलया भृशम्१४०
ततस्तस्य च वीथ्यां च दृष्टस्तेन सहैव सः
स पप्रच्छ मुदा तं च धर्मोद्देशं हितं वद१४१
सज्जनाद्रोह उवाच-
गच्छ बाडव धर्मज्ञ वैष्णवं पुरुषोत्तमम्
तं च दृष्ट्वा त्वभीष्टं ते सांप्रतं च फलिष्यति१४२
बकस्य निधनं यद्वा वस्त्रस्याशोषणं तथा
जानीषे चापरो यश्च कामस्तेऽस्ति हृदिस्थितः१४३
एतच्छ्रुत्वा तु वचनमागतो वैष्णवं प्रति
विष्णुरूपद्विजेनैव सार्द्धं तेन मुदा ययौ१४४
अपश्यत्पुरुषं शुद्धं ज्वलंतं च पुरःस्थितम्
सर्वलक्षणसंपूर्णं दीप्यमानं स्वतेजसा१४५
अब्रवीत्स च धर्मात्मा ध्यानस्थं च हरेः प्रियम्
वदनो यद्यद्वृत्तं वै दूरात्त्वां चागतो ह्यहम्१४६
वैष्णव उवाच-
प्रसन्नस्ते सुरश्रेष्ठो दानवारीश्वरः सदा
दृष्ट्वा त्वां च मनोऽस्माकं हृष्यतीवाधुना द्विज१४७
कल्याणं चातुलं तेद्य फलिष्यति मनोरथः
सुरवर्त्मनि ते नित्यं चेलं शुष्यति नान्यथा१४८
दृष्ट्वा देवं सुरश्रेष्ठं मम गेहे हरिं स्थितम्
इत्युक्ते वैष्णवेनाथ स तु तं पुनब्रवीत्१४९
क्वासौ विष्णुः स्थितो नित्यं दर्शयाद्य प्रसादतः
वैष्णव उवाच-
अस्मिन्देवगृहे रम्ये प्रविश्य परमेश्वरम्१५० 1.50.150
तं दृष्ट्वा किल्बिषाद्धोरान्मुच्यसे जन्मबंधानत्
तस्य तद्वचनं श्रुत्वा प्रविश्य सदनं प्रति१५१
अपश्यत्तं द्विजं विष्णुं तिष्ठंतं पद्मतल्पके
शिरसैव प्रवंद्याथ जग्राह चरणौ मुदा१५२
प्रसादी भव देवेश न ज्ञातस्त्वं पुरा मया
इहामुत्र च देवेश तवाहं किंकरः प्रभो१५३
अनुग्रहश्च मे दृष्टो भवतो मधुसूदन
रूपं ते द्रष्टुमिच्छामि यदि चास्ति कृपा मयि१५४
विष्णुरुवाच-
अस्ति मे त्वयि भूदेव प्रियत्वं च सदैव हि
स्नेहात्पुण्यवतामेव दर्शनं कारितं मया१५५
दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाद्भाषणात्तथा
सकृत्पुण्यवतामेव स्वर्गं चाक्षयमश्नुते१५६
नित्यमेव तु संसर्गात्सर्वपापक्षयो भवेत्
भुक्त्वा सुखमनंत च मद्देहे प्रविलीयते१५७
स्नात्वा च पुण्यतीर्थेषु दृष्ट्वा मां चैव सर्वतः
दृष्ट्वा पुण्यवतां देशान्मम देहे विलीयते१५८
कथयित्वा कथां पुण्यां लोकानामग्रतः सदा
स चैव नरशार्दूल मद्देहे प्रविलीयते१५९
उपोष्य वासरेस्माकं श्रुत्वा मच्चरितं ध्रुवम्
रात्रौ जागरणं कृत्वा मद्देहे प्रविलीयते१६०
अत्यंतघोषणो नृत्यगीतवाद्यादिकैस्सदा
नामस्मरन्द्विजश्रेष्ठ मद्देहे प्रविलीयते१६१
मद्भक्तस्तीर्थभूतश्च त्वमेव बकमारणात्
यत्पापं तस्य मोक्षाय सखे स्थित्वा उवाच ह१६२
गच्छ मूकं महात्मानं तीर्थं पुण्यवतां वरम्
मूकस्य दर्शनात्तात सर्वे दृष्टा महाजनाः१६३
तेषां च दर्शनादेव तथा संभाषणान्मम
ममसंपर्कभावाच्च मद्गृहं चागतो भवान्१६४
जन्मकोटिसहस्रेभ्यो यस्य पापक्षयो भवेत्
स मां पश्यति धर्मज्ञो यथा तेन प्रसन्नता१६५
ममैवानुग्रहाद्वत्सअहंदृष्टस्त्वयानघ
तस्माद्वरं गृहाण त्वं यत्ते मनसि वर्तते१६६
विप्र उवाच-
अस्माकं सर्वथा नाथ मानसं त्वयि तिष्ठतु
त्वदृते सर्वलोकेश कदाचिन्न तु रोचताम्१६७
माधव उवाच-
यस्मादेतादृशी बुद्धिः स्फुरते ते सदानघ
तस्मान्मत्सदृशान्भोगान्मद्गेहे संप्रलप्स्यसे१६८
किंतु ते पितरौ पूजामाप्नुतो न त्वयानघ
पूजयित्वा तु पितरौ पश्चाद्यास्यसि मत्तनुम्१६९
तयोर्निश्श्वासवातेन मन्युना च भृशं पुनः
तपः क्षरति ते नित्यं तस्मात्पूजय तौ द्विज१७०
मन्युर्निपतते यस्मिन्पुत्रे पित्रोश्च नित्यशः
तन्निरयं नाबाधेहं न धाता न च शंकरः१७१
तस्मात्त्वं पितरौ गच्छ कुरु पूजां प्रयत्नतः
ततस्त्वं हितयोरेव प्रसादान्मत्पदं व्रज१७२
इत्युक्ते तु द्विजश्रेष्ठः पुनराह जगद्गुरुम्
प्रसन्नो यदि मे नाथ रूपं स्वं दर्शयाच्युत१७३
ततो द्विजप्रणयतः प्रसन्नहृदयो वशी
रूपं स्वं दर्शयामास ब्रह्मण्यो ब्रह्मकर्मणे१७४
शंखचक्रगदापद्मधारणं पुरुषोत्तमम्
कारणं सर्वलोकस्य तेजसा पूरयज्जगत्१७५
प्रणम्य दंडवद्विप्र उवाच पुनरच्युतम्
अद्य मे सफलं जन्म अद्य मे चक्षुषी शिवे१७६
अद्य मे च करौ श्लाघ्यौ धन्योहं जगदीश्वर
अद्य मे पुरुषा यांति ब्रह्मलोकं सनातनम्१७७
नंदंति बांधवा मेद्य त्वत्प्रसादाज्जनार्दन
इदानीं च प्रसिद्धा मे सर्वे चैव मनोरथाः१७८
किंतु मे विस्मयो नाथ मूकादि ज्ञानिनो भृशम्
कथं जानंति मद्वृत्तं देशांतरमुपस्थितम्१७९
तस्य गेहोदराकाशे स्थितो विप्रोतिशोभनः
तथा पतिव्रता गेहे तुलाधारशिरस्यपि१८०
तथा मित्राद्रोहकस्य त्वं च वैष्णवमंदिरे
अनुग्रहाच्च मे विप्र तत्त्वतो वक्तुमर्हसि१८१
श्रीभगवानुवाच-
पित्रोर्भक्तः सदा मूकः पतिव्रता शुभा च सा
सत्यवादी तुलाधारः समः सर्वजनेषु च१८२
लोभकामजिदद्रोहो मद्भक्तो वैष्णवः स्मृतः
संप्रीतोहं गुणैरेषां तिष्ठाम्यावसथे मुदा१८३
भारतीकमलाभ्यां च सहितो द्विजसत्तम
विप्र उवाच-
महापातकिसंसर्गान्नराश्चैवातिपातकाः१८४
इति जल्पंति धर्मज्ञाः स्मृतिशास्त्रेषु सर्वदा
पुराणागमवेदेषु कथं त्वं तिष्ठसे गृहे१८५
श्रीभगवानुवाच-
कल्याणानां च सर्वेषां कर्त्ता मूको जगत्त्रये
वृत्तस्थो योपि चाण्डालस्तं देवा ब्राह्मणं विदुः१८६
मूकस्य सदृशो नास्ति लोकेषु पुण्यकर्मतः
पित्रोर्भक्तिपरे नित्यं जितं तेन जगत्त्रयम्१८७
तयोर्भक्त्या त्वहं तुष्टः सर्वदेवगणैः सह
तिष्ठामि द्विजरूपेण तस्य गेहोदरे च खे१८८
तथा पतिव्रता गेहे तुलाधारस्य मंदिरे
अद्रोहकस्य भवने वैष्णवस्य च वेश्मनि१८९
सदा तिष्ठामि धर्मज्ञ मुहूर्तं न त्यजाम्यहम्
तेन पश्यंति मां नित्यं ये त्वन्ये पापकृज्जनाः१९०
पुण्यत्वाच्च त्वया दृष्टो ममानुग्रहकारणात्
पित्रोर्भक्तिपरः शुद्धश्चांडालो देवतां गतः१९१
तस्मात्तेन सह प्रीत्या तिष्ठामि तस्य मंदिरे
पुनः पुनः कथालापं करोमि द्विजनंदन९१२
तस्य वै मानसे नित्यं वर्तेऽहतभावनः
स तज्जानाति त्वद्वृत्तं तथा पतिव्रतादयः१९३
तेषां वृत्तं वदिष्यामि शृणु त्वं चानुपूर्वशः
यच्छ्रुत्वा सर्वथा मर्त्यो मुच्यते जन्मबंधनात्१९४
पितुर्मातुः परं तीर्थं देवदेवेषु नैव हि
पित्रोरर्चा कृता येन स एव पुरुषोत्तमः१९५
पित्रोराज्ञा च देवस्य गुरोराज्ञा समं फलं
आराधनाद्दिवो राज्यं बाधया रौरवं व्रजेत्१९६
स चास्माकं हृदिस्थोऽपि तस्याहं हृदये स्थितः
आवयोरंतरं नास्ति परत्रेह च मत्समः१९७
मदग्रे मत्पुरे रम्ये सर्वैश्च बांधवैः सह
सभुंजीताक्षयं भोगमंते मयि च लीयते१९८
अतएव हि मूकोसौ वार्त्तां त्रैलोक्यसंभवाम्
जानाति नरशार्दूल एष ते विस्मयः कुतः१९९
द्विज उवाच-
मोहादज्ञानतो वापि न कृत्वा पितुरर्चनं
ज्ञात्वा वा किं च कर्तव्यं सदसज्जगदीश्वर२०० 1.50.200
श्रीभगवानुवाच-
दिनैकं मासपक्षौ वा पक्षार्धं वाथ वत्सरं
पित्रोर्भक्तिः कृता येन स च गच्छेन्ममालयं २०१
कारयित्वा मनः कष्टमवश्यं नरकं व्रजेत्
न कृता वाकृता वा स्यात्पित्रोरर्चा परं पुरा २०२
वृषोत्सर्गं नरः कृत्वा पितृभक्ति फलं लभेत्
अन्नं वस्त्रं तथा गव्यं सामिषं च निरामिषम् २०३
सर्वं लक्षगुणं प्रोक्तं ज्ञातिभ्यो यत्प्रदीयते
सर्वस्वेन कृतं श्राद्धं येन पुत्रेण धीमता २०४
जातिस्मरत्वं प्राप्नोति पितृभक्तिफलं लभेत्
श्राद्धात्परो महायज्ञस्त्रैलोक्ये तु न विद्यते २०५
अत्र यद्दीयते किंचित्सर्वं चाक्षयमश्नुते
अन्यस्मिंश्चायुतं विद्धि ज्ञातिभ्यो लक्षमुच्यते २०६
पिण्डे कोटिगुणं प्रोक्तं द्विजायानन्तमुच्यते
गंगाजले गयायां च प्रयागे पुष्करे तथा २०७
वाराणस्यां सिद्धकुंडे गंगासागर संगमे
अन्नपिंडं प्रदद्याद्यस्तस्य मुक्तिर्भवेद्ध्रुवम् २०८
पितरश्चाक्षयं स्वर्गं लभंते जन्मनः फलम्
भागीरथ्यां विशेषेण यस्तु दद्यात्तिलोदकम् २०९
मुक्तिमार्गं स चाप्नोति पिंडदाने तु किं पुनः
नदीतीरेषु साहस्रं नदे त्वयुतमिष्यते २१०
सामान्यफलसंसर्गाच्छ्राद्धं शतगुणं भवेत्
अमायां च युगाद्यायां ग्रहणे सूर्यचंद्रयोः २११
पार्वणं कुरुते यस्तु सोक्षयं लोकमश्नुते
पितरस्तस्य तुष्यंति सर्वे समायुतं प्रति २१२
आशिषं दयितं दत्वा भोग्यं चानंतमात्मजे
ततः पर्वणि पुत्रैश्च कर्त्तव्यं पार्वणं मुदा २१३
पित्रोर्यज्ञमिमं कृत्वा मुच्यते जन्मबंधनात्
अहन्यहनि यच्छ्राद्धं नित्यश्राद्धमिति स्मृतम् २१४
श्रद्धया कारयेद्यस्तु सोऽक्षयं लोकमश्नुते
तथैवापरपक्षे च काम्यश्राद्धं विधानतः २१५
कृत्वा कामं स चाप्नोति यद्वा मनसि वर्तते
आषाढीमवधिं कृत्वा यस्तु पक्षस्तु पंचमः २१६
तत्र श्राद्धं प्रकुर्वीत कन्यां गच्छतु वा न वा
कन्यां गते सवितरि यान्यहानि तु षोडश २१७
क्रतुभिस्तानि तुल्यानि समाप्त वरदक्षिणैः
काम्यश्राद्धं महापुण्यमिदं तस्यागतं शिवम् २१८
अभावात्कृष्णपक्षादौ तुलायां कर्तुमर्हति
अमावृश्चिकमायाति नैराश्यं पितरो गताः २१९
पुनःस्वभवनं यांति शापं दत्वा सुदारुणम्
पितृशापेन पुत्रस्य नष्टं सर्वमिति स्मृतम् २२०
धनं पुत्रा यशः काम्यमभीष्टमायुरेव च
सर्वाण्येतानि लभ्यंते जन्मजन्मसु मानवैः २२१
पितॄणां च वरेणैव तस्मान्मैनं परित्यजेत्
विवाहव्रतयज्ञादौ कृत्वा नांदीमुखं द्विजः २२२
अक्षयं लभते पुण्यं गोत्रं तस्य प्रवर्द्धते
एतद्विपर्ययो यस्य स याति नरकं नरः २२३
कुलक्षयो भवेत्तस्य स जीवो दुःखितो भवेत्
ततस्तु पूजयेदग्रे गणेशं शंभुनंदनम् २२४
परं षोडशमातॄश्च तत्पश्चात्पितृसंचयम्
नांदीमुखेषु सर्वेषु प्रपितामहपूर्वकम् २२५
नांदीमुखे द्विजान्सर्वान्स्थापयेत्प्राङ्मुखान्सुधीः
उच्चारयेन्नमोवाक्यं स्वधा चान्यत्र योजयेत् २२६
ग्रहणे चंद्रसूर्यस्य दत्वा पिंडोदकं नरः
अक्षयं लभते स्वर्गं पितॄणां पुष्टिवर्द्धनम् २२७
तत्र स्नानं न कुर्याद्यः शक्त्या पिंडोदकं नरः
न ददाति पितॄणां तु चांडालत्वं स गच्छति २२८
सर्वं भूमिसमं दानं सर्वे व्याससमा द्विजाः
सर्वं गंगासमं तोयं राहुग्रस्ते निशाकरे २२९
इंदोर्लक्षगुणं प्रोक्तं दशलक्षं तु भास्करे
गंगातोये तु संप्राप्त इंदोः कोटी रवेर्दश २३०
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं जाह्नवीस्नाने राहुग्रस्ते निशाकरे २३१
चंद्रसूर्यग्रहे चैव अवगाहति जाह्नवीं
स स्नातस्सर्वतीर्थेषु किमर्थमटते महीम् २३२
सूर्यग्रहः सूर्यवारे सोमे सोमग्रहस्तथा
चूडामणिरिति ख्यातस्तत्रानंतफलं स्मृतम् २३३
समुपोष्य तयोः पूर्वे पुण्यतीर्थे तु यः पुमान्
दत्वा पिंडोदकं दानं सत्यलोके प्रतिष्ठितः २३४
द्विज उवाच-
पितुरेव महायज्ञः श्राद्धं च भवतेरितं
ताता पश्चिमकालादौ किं कर्त्तव्यं सुतेन हि २३५
किं कृत्वा च परं श्रेयो जन्मजन्मसु लभ्यते
पुत्रेण धीमता देव यत्नतो वक्तुमर्हसि २३६
श्रीभगवानुवाच-
पूर्वे वयसि संप्राप्ते पिता पुत्र इति स्मृतः
उत्तरे च सुतस्तातः पालनान्न तु पूजनात् २३७
देववत्पूजयेत्तातं स्नेहं कुर्याच्च पुत्रवत्
न लंघयेद्वचस्तस्य मनसापि कदाचन २३८
आतुरस्य पितुः पुत्रो यस्तु कुर्यात्प्रतिक्रियां
सोक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते २३९
मुमूर्षोरपिता तस्य पश्यतो मृत्युलक्षणम्
कृत्वा च यजनं पुत्रो देवानां तुल्यतां व्रजेत् २४०
विधिनानशने नैव पितुः स्वर्गं ददाति यः
पुत्रस्य तस्य धीरस्य शृणु वक्ष्यामि यद्गुणम् २४१
अश्वमेधसहस्राणि राजसूयशतानि च
भवेदनशने पुण्यं तीर्थकोटिगुणं तयोः २४२
भागीरथ्या जले चैव यो मृतः पुरुषोत्तमः
पयोधररसं मातुर्न पिबेन्मुक्ततां व्रजेत् २४३
वाराणस्यां त्यजेद्यस्तु प्राणांश्चैव यदृच्छया
अभीष्टं च फलं भुक्त्वा मद्देहे प्रविलीयते २४४
या गतिर्योगयुक्तानां मुनीनामूर्द्ध्वरेतसां
सा गतिस्त्यजतः प्राणान्ब्रह्मपुत्रेषु सप्तसु २४५
लोहितस्य विशेषेण तीरोत्तरसमाश्रितः
विधिना यस्त्यजेत्प्राणान्स च मत्समतां व्रजेत् २४६
तस्यैव चोर्वशीकेशे पुण्यतीर्थे द्विजोत्तम
मृतोत्पन्नः समाप्नोति सर्वं दोषैर्न लिप्यते २४७
गृहस्याभ्यंतरे यस्य प्राणत्यागो भवेद्ध्रुवम्
यावद्ग्रंथिर्गृहे तिष्ठेत्तावद्बंधो भवे तनौ २४८
हायनेहायने चापि एकैकं परिहीयते
पश्यतां पुत्रबंधूनां वंधने नास्ति निष्कृतिः २४९
पर्वते कानने दुर्गे स्थाने वा जलवर्जिते
मृतो दुर्गतिमाप्नोति कीटादौ जायते पुनः २५० 1.50.250
संस्कारश्च भवेद्यस्य मृतस्य परवासरे
षष्टिर्वर्षसहस्राणि कुंभीपाके प्रतिष्ठति २५१
अस्पृश्यस्पर्शनादेव उच्छिष्टः पतितो मृतः
सुचिरं नरके स्थित्वा म्लेच्छजातिषु जायते २५२
तथैव बहुकीटेषु जायते सत्त्वजातिषु
तस्मान्न चिरकालेषु जानीयात्पुण्यपातकम् २५३
पुण्यात्पुण्यप्रयोगैश्च सर्वेषां मर्त्यवासिनाम्
मरणे या गतिः पुंसां गतिर्भवति तादृशी २५४
पुण्यतीर्थे मृतो यस्तु विष्णोर्नामानि चिंतयन्
पापात्पूतो व्रजेत्स्वर्गं सर्वदोषैर्न लिप्यते २५५
पितुर्मृतस्य देहं तु वहेद्यस्तु सुतो बली
पदेपदेश्वमेधस्य फलं प्राप्नोत्यसंशयम् २५६
प्राक्चितौ च पितुर्देहे मुखाग्निं कारयेत्सुतः
विधिना मंत्रपूतेन पश्चाद्देहं दहेत्पुनः २५७
लोभमोहसमायुक्तं पापपुण्यसमावृतम्
दहेयं सर्वगात्राणि दिव्यान्लोकान्स गच्छतु २५८
दग्ध्वा च लंघयेत्पुत्रोप्यस्थिसंचयनं प्रति
दशाहे समनुप्राप्ते चार्द्रवस्त्रं परित्यजेत् २५९
छित्वा च लोहितं चेलं वह्नौ चाथ जले क्षिपेत्
ततश्चैकादशाहे च श्राद्धं कुर्याद्विचक्षणः २६०
प्रेतस्य देहपुष्ट्यर्थं ब्राह्मणैकं तु भोजयेत्
दानं दद्याच्च विधिवद्वस्त्रं पीठं च पादुकाम् २६१
सर्वोपकरणैस्तुल्यं धरादिगजवाजिकम्
कृष्णां गां च प्रदद्यात्तु सर्वपापविमुक्तये २६२
चतुर्थाहे त्रिपक्षे च षण्मासे चाब्दिके तथा
द्वादश प्रतिमास्यानि श्राद्धान्ये तानि षोडश २६३
यस्यैतानि न संतीह यथाशक्ति च श्रद्धया
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि २६४
अब्दमंबुघटं दद्यादन्नं चामिषसंयुतं
नित्यानित्यमभावाच्च क्षपन्मासं क्षमापयेत् २६५
सपिंडीकरणश्राद्धं गते संवत्सरे बुधः
पार्वणस्य विधानेन कारयेद्द्विजसत्तमः २६६
पितुरब्दमशौचं स्यान्मातुः षण्मासमेव च
त्रिमासं तु स्त्रियश्चैव तदर्द्धं भ्रातृपुत्रयोः २६७
सपिंडानामशौचं स्याद्यावद्गेहे स तिष्ठति
पुत्रस्य यन्निषिद्धं तु शृणु तात वदाम्यहम् २६८
ब्रह्मचारी सदाचारी न गच्छेच्च स्त्रियं क्वचित्
सप्तघट्याः परं चैव नवघट्याश्च पूर्वतः २६९
स कालः कुतपो ज्ञेयः पितॄणां दत्तमक्षयम्
श्राद्धे त्रीणि पवित्राणि दौहित्रं कुतपस्तिलाः २७०
त्रीणि चात्र प्रशंसंति सत्यमक्रोधमत्वराम्
सायं संध्यां परान्नं च पुनर्भोजनमैथुनम् २७१
दानं प्रतिग्रहं चैव श्राद्धं कृत्वा विवर्जयेत्
अकर्तव्यशतं कृत्वा श्राद्धं कुर्याद्विचक्षणः २७२
तच्च कर्तव्यतामेति स्वयमुक्तं विरिंचिना
शृणु पुत्र पुरावृत्तं बहूनां च वदाम्यहम् २७३
गुरोर्गोहननं कृत्वा ददुः श्राद्धं ययुर्दिवम्
तेषां च कीर्त्तनादेव श्राद्धं भवति चाक्षयम् २७४
वसिष्ठस्य मुनेः शिष्या ब्राह्मणास्सप्त सुव्रताः
पितृश्राद्धे समायाते होमधेनुं गुरोः प्रियाम् २७५
प्रार्थयित्वा गृहं नीत्वा सप्तभिर्भ्रातृभिर्मुदा
गव्यार्थं पितृयज्ञे तां धेनुं हत्वा विमृश्य च २७६
ददुर्मांसं च विप्रे च शेषं विप्रांस्त्वभोजयन्
समाप्य पितृकर्माणि वत्सं संगृह्यते द्विजाः २७७
गुरौ समर्पयामासुर्धेनुर्व्याघ्रेण भक्षिता
ततस्तपोर्बलादेव ज्ञात्वा तेषां च कारणम् २७८
स शशाप ततः शिष्यांश्चाडालाश्च भविष्यथ
वेपमानास्ततो विप्राः कृतांजलिपुटाः स्थिताः २७९
धेनोर्मांसंप्रदातारः पितृकृत्ये सदानघ
अकर्तव्यसहस्राणि महांति पातकानि च २८०
कुर्वंतः पितृकार्येषु पापात्पूता दिवं गताः
श्रुतं बहुविधं नाथ मुखात्ते च पुरातनम् २८१
क्षंतुमर्हसि धर्मज्ञ शापस्यांतो विधीयताम्
वसिष्ठ उवाच-
शापो वोथ यथा पाप्मा न तु धर्मविचारणात् २८२
चांडालादौ समुत्पन्नाः पुरावृत्तं स्मरिष्यथ
न च वो ज्ञानलोपश्च स्मृतिशास्त्रमनष्टकम् २८३
पापयोनिं समुत्तीर्य पश्चान्मोक्षं गमिष्यथ
ततः प्राणान्परित्यज्य गुरुशापात्तु ते द्विजाः २८४
जाताश्चांडालयोनौ तु सर्वे ज्ञानसमन्विताः
स्तन्यं तैस्तु न पीतं वै स्मरद्भिः पूर्वजन्म तत् २८५
मृता जाता मृगाः सर्वे चक्रवाकाः पुनर्वने
हंसास्तु मानसे तीर्थे शुक्ला जाताः पुनर्द्विजाः २८६
मुमूर्षवो महाभागा मृतास्ते खेदकारणात्
तस्मिन्काले महाराजो धर्मकेतुरिति स्मृतः २८७
ययौ स्नातुं ततस्तीर्थं सदारः सपरिच्छदः
ततो हंसास्त्रयो मोहाद्राज्यं भोग्यं तु योषितः २८८
भक्ष्याणि चिंतयंतश्च लोकांतरमयुस्तदा
ज्ञात्वा वेदं च वेदांगं मोक्षं यास्यामहे वयम् २८९
चिंतयंतो गता अन्ये ततो लोकांतरं प्रति
अथ त्रयो नृपा जाताश्चत्वारो विप्रसत्तमाः २९०
कुरुक्षेत्रे ततो वेदान्वेदांगानि समंततः
तपोबलाद्विदंति स्म वार्तां चामुत्र चेह च २९१
त्रयो राजकुले जाता राजानो मदमोहिताः
ज्ञानलोपात्परं लोकं न जानंति हिताहितम् २९२
ते च विप्राश्च संदेहादाहूय चेटकं स्वकम्
राज्ञो गच्छ स्वकार्पण्यात्पत्रं देहि च संभ्रमात् २९३
सप्त व्याधा दशार्णेषु मृगाः कालंजरे गिरौ
चक्रवाकाः शरद्वीपे हंसाः सरसि मानसे २९४
तेपि जाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः
प्रस्थिता दूतमध्वानं यूयं किमवसीदथ २९५
गृहीत्वा चेटको लेखं राज्ञस्तु समदर्शयत्
दृष्ट्वा लेखं तु राजानो राज्यं त्यक्त्वा ययुर्द्विजान् २९६
श्रुत्वा वाक्यं ततस्तेषां गतास्ते च तपोधनाः
अचिरेणैव कालेन मोक्षं याताश्च तैस्सह २९७
य इदं शृणुयाच्छ्राद्धे सप्तव्याधादिकं द्विज
अक्षयं चान्नपानं च पितॄणामुपतिष्ठति २९८
द्विज उवाच-
वित्तहीनस्य विप्रस्य पितृकार्यं कथं भवेत्
तपस्विनो वनस्थस्य गृहस्थस्य च केशव २९९
भगवानुवाच-
तृणकाष्ठार्जनं कृत्वा प्रार्थयित्वा वराटकम्
करोति पितृकार्याणि ततो लक्षगुणं भवेत् ३०० 1.50.300
अकर्तव्यं शतं कृत्वा पितृश्राद्धं करोति यः
सर्वपापक्षयस्तस्य स्वर्गं याति च मानवः ३०१
सर्वाभावे पितृतिथौ गोभ्यो घासं ददाति यः
फलं च पिंडदानस्य संप्राप्नोत्यधिकं नरः ३०२
पुरा वैराटविषये रुरोदातीव दीनकः
पितृतिथौ स्वयं प्राप्ते सर्वाभावाच्च रोदिति ३०३
रुदित्वा सुचिरं सोपि पप्रच्छ कोविदं द्विजं
ब्रह्मन्पितृतिथावद्य किंस्वित्कृत्वा हितं भवेत् ३०४
वराटकश्च मे नास्ति धनं ब्रह्मविदांवर
उपदेशं च मे देहि येन धर्मे स्थितो ह्यहम् ३०५
द्विज उवाच-
गच्छ शीघ्रं वने तात मुहूर्ते कुतपेऽधुना
घासं पितरमुद्दिश्य गवे देहीति सत्वरम् ३०६
ततस्तस्योपदेशेन गृहीत्वा घासपूलकम्
गवे दत्वा यथाहृष्टः पुष्ट्यर्थं पितुरेव च ३०७
एतत्पुण्यप्रसादेन गतोसौ सुरमंदिरम्
स्वर्गं च सुचिरं भुक्त्वा उत्पन्नो धनिनां कुले ३०८
धनवान्स पुरा पुण्यात्पितृयज्ञस्य कारणात्
स ददाति पितुः पिंडं सर्वस्वेन धनेन च ३०९
तत्रैकजन्मनोभ्यासाद्गतोसौ विष्णुमंदिरम्
भुक्त्वानन्तसुखं तत्र सार्वभौमोभवन्नृपः ३१०
पितृयज्ञात्परो यस्माद्धर्मो नास्ति कथंचन
तस्मात्सर्वप्रयत्नेन शक्त्या कुर्यादमत्सरः ३११
यः पठेद्धर्मसंतानं जनानामग्रतो नरः
विष्णुपद्या जले स्नानं प्रति लोके च लभ्यते ३१२
जन्मजन्मकृतो येन महापातकसंचयः
तत्सर्वं प्रलयं याति सकृदुच्चरिते श्रुते ३१३

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पंचाख्यानोनाम पंचाशत्तमोऽध्यायः ५०