पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४७

विकिस्रोतः तः
Jump to navigation Jump to search

नारद उवाच-
तव प्रसादतो ज्ञातो विप्रः पुण्यतमश्च यः
यथा जानामि देवेश क्रियया ब्राह्मणाधमम्१
ब्रूहि शीघ्रं सुरश्रेष्ठ यदि प्रीतिं मयीच्छसि
ब्रह्मोवाच-
स्नानैर्दशविधैर्मुक्तस्तथैव तर्पणादिभिः२
संध्यासंयमहीनश्च स एव ब्राह्मणाधमः
देवपूजाव्रतैर्मुक्तो वेदविद्यादिभिस्तथा३
सत्यशौचादिभिश्चैव योगज्ञानाग्नितर्पणैः
पंचस्नानानानि विप्राणां कीर्तितानि महर्षिभिः४
आग्नेयं वारुणं ब्राह्मं वायव्यं दिव्यमेव च
आग्नेयं भस्मना स्नानमद्भिर्वारुणमुच्यते५
आपोहिष्ठेति वै ब्राह्मं वायव्यं गोरजः स्मृतम्
अद्भिरातपवर्षाभिर्दिव्यं स्नानमुदाहृतम्६
एतैस्तु मंत्रतः स्नानात्तीर्थानां फलमाप्नुयात्
तुलसीपत्रसंलग्नं सालग्रामशिलांबु च ७
गवां शृंगोदकं चैव विप्रपादोदकं च यत्
गुरूणामेव मुख्यानां पूतात्पूतमिति स्मृतिः८
त्याग तीर्थादिभिर्यज्ञैर्व्रतहोमादिभिस्तथा
यत्फलं लभते धीरः स्नानैरेतैस्तु तत्फलम्९
तर्पणैश्च विनिर्मुक्तः पितॄणामेव नित्यशः
पितृहा नरकं याति संध्याहीनस्तु विप्रहा१०
मंत्रव्रतविहीनश्च वेदविद्यागुणैरपि
यज्ञदानादिभिर्मुक्तो ब्राह्मणश्चाधमाधमः११
यज्ञार्थका देवलका नाक्षत्रा ग्रामयाजकाः
परदाररता नित्यं पंचैते ब्राह्मणाधमाः१२
मंत्रसंस्कारहीनाश्च शुचिसंयमवर्जिताः
मोघाशिनो दुरात्मानो ब्राह्मणाश्चाधमाधमाः१३
अपि स्तेयरता मूढाः सर्वधर्मविवर्जिताः
उन्मार्गगामिनो नित्यं ब्राह्मणाश्चाधमाधमाः१४
श्राद्धादिकर्मरहिता गुरुसेवाविवर्जिताः
अमंत्रा भिन्नमर्यादा एते सर्वाधमाधमाः१५
असंभाष्या इमे दुष्टास्सर्वे निरयगामिनः
अमेध्यास्ते दुराचारा अपूज्याश्च समंततः१६
खड्गोपजीविकाः प्रेष्या गोवाहनरता द्विजाः
कारुवृत्युपजीवाश्च गणवार्द्धषिकाश्च ये१७
बालापण्याभिचाराश्च अंत्यजाश्रयमाश्रिताः
कृतघ्नाश्च गुरुघ्नाश्च एते सर्वाधमाः स्मृताः१८
ये चैवान्ये हताचाराः पाषंडा धर्मनिंदकाः
दूषकादेव भेदानामेते ब्रह्मद्विषो द्विजाः१९
तथापि ब्राह्मणश्चैव न हंतव्यः कदाचन
एनं हत्वा द्विजश्रेष्ठ ब्रह्महा पुरुषो भवेत्२०
अंत्यजातिषु म्लेच्छेषु तथा चांडालजातिषु
पतितो वान्नयोनिभ्यां न हंतव्यः कथंचन२१
सर्वजातिस्त्रियं गत्वा सर्वाभक्ष्यस्य भक्षणात्
द्विजत्वं न विनश्येत पुण्याद्विप्रो भवेत्पुनः२२
नारद उवाच-
ईदृशं दुष्कृतं कृत्वा पश्चात्पुण्यं समाचरेत्
कां गतिं यात्यसौ विप्रः सर्वलोकपितामह२३
ब्रह्मोवाच-
कृत्वा सर्वाणि पापानि पश्चाद्यस्तु जितेंद्रियः
मुच्यते सर्वपापेभ्यः पुनर्ब्रह्मत्वमर्हति२४
शृणु पुत्र कथां रम्यां विचित्रां च पुरातनीम्
कस्यचिद्ब्राह्मणस्यापि यौवनाढ्यः सुतोऽभवत्२५
ततो यौवनसंपत्तेर्मोहाच्च पूर्वकर्मणः
चांडालीमगमत्सद्यस्तस्याः प्रियतरोऽभवत्२६
तस्यामुत्पादितास्तेन पुत्रा दुहितरस्तथा
स्वकुटुंबं परित्यज्य गृहे तस्याश्चिरं स्थितः२७
अन्या भक्ष्यं न चाश्नाति घृणया च सुरां त्यजेत्
तमुवाच सदा सा च भक्षयान्यतरां सुराम्२८
तामुवाच तदा शौचं गदितुं नार्हसि प्रिये
उत्कारो जायते तस्याः श्रवणात्सततं मम२९
एकदा स मृगान्वेषात्श्रांतः सुप्तो गृहे दिवा
गृहीत्वा सा सुरां तस्य हसित्वा च मुखे ददौ३०
ततो विप्रमुखादग्निः प्रजज्वाल समंततः
ज्वाला तु सकुटुबांतामदहच्च गृहं वसु३१
हाहा कृत्वा समुत्थाय विललाप तदा द्विजः
विलापांते च जिज्ञासा समारब्धा च तेन हि३२
कुतश्चाग्निः समुद्भूतो गृहे दाहः कथं मम
ततः खे तमुवाचेदं तेजस्ते ब्राह्मणस्य च३३
कथिते तद्यथावृत्ते ब्राह्मणो विस्मयं गतः
विमृश्यार्थमुवाचेदं पुनः खेऽस्य हितं वचः३४
विप्रणष्टं सुतेजस्ते तस्माद्धर्मचरो भव
ततो मुनिवरान्गत्वा पप्रच्छात्महितं द्विजः३५
तमूचुर्मुनयः सर्वे दानधर्मं समाचर
ऋषय ऊचुः-
पूयंते सर्वपापेभ्यो ब्राह्मणानि यमैर्व्रतैः३६
नियमान्शास्त्रदृष्टांश्च पूतत्वार्थमुपाचर
चांद्रायणांश्च कृच्छ्रांश्च तप्तकृच्छ्रान्पुनः पुनः३७
प्राजापत्यांश्च दिव्यांश्च दोषशोषाय सत्वरम्
गच्छ तीर्थानि पूतानि गोविंदाराधनं कुरु३८
क्षयमेष्यंति पापानि न चिरेण समंततः
पुण्यतीर्थप्रभावाच्च गोविंदस्य प्रभावतः३९
क्षयमेष्यंति पापानि ब्रह्मत्वं प्राप्स्यते भवान्
शृणु तात यथावृत्तं कथयामः पुरातनम्४०
आहारार्थी पुरा वत्स गरुडो विनतासुतः
पतंगोपि बहिः साक्षादंडान्निस्सृत्य शावकः४१
क्षुधार्थी मातरं प्राह भक्ष्यं मे दीयतामिति
ततः पर्वतसंकाशं गरुडं च महाबलम्४२
दृष्ट्वा माता महाभागा तनयं हृष्टमानसा
क्षुधां ते बाधितुं पुत्र न शक्नोमि समंततः४३
तव तातस्तपस्तेपे लौहित्यस्योत्तरे तटे
कश्यपो नाम धर्मात्मा साक्षाल्लोकपितामहः४४
तत्र गच्छस्व पितरं पृच्छ कामं यथा तव
अस्योपदेशतस्तात क्षुधा ते शममेष्यति४५
ततो मातुर्वचः श्रुत्वा वैनतेयो महाबलः
अगमत्पितुरभ्याशं समुहूर्तान्मनोजवः४६
दृष्ट्वा तातं मुनिश्रेष्ठं ज्वलंतमिव पावकम्
प्रणम्य शिरसा वाक्यमुवाच पितरं खगः४७
भक्षार्थी समनुप्राप्तः सुतोहं ते महात्मनः
क्षुधया पीडितो नाथ भक्ष्यं मे दीयतां प्रभो४८
ततो ध्यानं समालभ्य ज्ञात्वा तं विनतासुतं
पुत्रस्नेहाद्वचश्चेदं प्रोवाच मुनिसत्तमः४९
अनेकशतसाहस्रा निषादाः सरितांपतेः
तीरे तिष्ठंति पापिष्ठास्तान्संभक्ष्य सुखी भव1.47.५०
तीर्थमुत्सादयंति स्म तीर्थकाका दुरासदाः
विना विप्रं निषादेषु भक्षय त्वमलक्षितं५१
इत्युक्तः प्रययौ पक्षी भक्षयामास तांस्ततः
अलक्ष्यभावो विप्रोपि गिलितस्तेन पक्षिणा५२
स तस्य गलके गाढं लालगीति द्विजस्तदा
वमितुं गिलितुं चापि न शशाक द्विजोत्तमः५३
गत्वाथ पितरं प्राह किमेतदिति मे पितः
लग्नं मे गलके सत्वं प्रतिकर्तुं न शक्नुयां५४
तस्य तद्वचनं श्रुत्वा कश्यपस्तमुवाच ह
मयोक्तं ते पुरा वत्स ब्राह्मणोयं न बुध्यसे५५
इत्युक्त्वा च मुनिर्धीमान्द्विजं प्राह स धार्मिकः
आगच्छ त्वं ममासन्नं हितं ते प्रवदाम्यहं५६
तमुवाच तदा विप्रः कश्यपं मुनिपुंगवम्
ममैते सुहृदो नित्यं सर्वे संबंधिनः प्रियाः५७
श्वशुराः स्यालकाश्चाप्तास्सबालाश्च तथापरे
एतैः सह प्रयास्यामि निरयं चापि वा शिवम्५८
तस्य तद्वचनं श्रुत्वा विस्मितः कश्यपोऽब्रवीत्
द्विजानां च कुले जातश्चांडालैः पतितो भवान्५९
पुरुषास्ते प्रतिष्ठंते घोरे च निरये ध्रुवम्
चिराय निष्कृतिस्तेषां नैवास्तीह कथंचन६०
सर्वांश्चैव दुराचारांश्चांडालान्पापकारिणः
दोषांस्त्यक्त्वा नरः पश्चात्सुखी भवति नान्यथा६१
अज्ञानाद्यदि वा मोहात्कृत्वा पापं सुदारुणं
ततो धर्मं चरेद्यस्तु स गच्छेत्परमां गतिं६२
पापकृन्न चरेद्धर्मं पापे कुर्यान्मतिं पुनः
शिलानावं यथारूढः सागरे संनिमज्जति६३
कृत्वा सर्वाणि पापानि तथा दुर्गतिसंचयं
उपशांतो भवेत्पश्चात्तं दोषं शमयिष्यति६४
तमुवाच महाप्राज्ञं द्विजं मुनिवरोत्तमम्
यदिमां न जहातीह खगः सर्वांश्च बांधवान्६५
ततः प्राणं च त्यक्ष्यामि खगे मर्मावघातिनि
नोचेत्त्यजतु मे बंधून्प्रतिज्ञा मे दृढात्मनः६६
ततस्तार्क्ष्यमुवाचेदं मुनि र्ब्रह्मवधे भयात्
उद्वमैतान्सविप्रांश्च म्लेछानेतान्समंततः६७
वनेषु पर्वतान्तेषु दिक्षु तान्पतगेश्वर
उद्ववाम ततः शीघ्रं दोषज्ञः पितुराज्ञया६८
ततः सर्वेऽभवन्व्यक्ता अकेशाः श्मश्रुवर्जिताः
यवना भोजनप्रीताः किंचिच्छ्मश्रुयुताश्च ये६९
अग्नौ च नग्नकाः पापा दक्षिणस्यामवाचकाः
घोराः प्राणिवधे प्रीता दुरात्मानो गवाशिनः७०
नैर्ऋते कुवदाः पापा गोब्राह्मणवधोद्यताः
खर्पराः पश्चिमे पूर्वे निवसंति च दारुणाः७१
वायव्यां च तुरुष्काश्च श्मश्रुपूर्णा गवाशिनः
अश्वपृष्ठसमारूढाः प्रयुद्धेष्वनिवर्तिनः७२
उत्तरस्यां च गिरयो म्लेच्छाः पर्वतवासिनः
सर्वभक्षा दुराचाराः वधबंधरताः किल७३
ऐशान्यां निरयास्संति कर्तॄणां वृक्षवासिनः
एते म्लेच्छा स्थिता दिक्षु घोरास्ते शस्त्रपाणयः७४
येषां च स्पर्शमात्रेण सचेलो जलमाविशेत्
एतेषां च कलौ देशेप्यकाले धर्मवर्जिते७५
संस्पर्शं च प्रकुर्वंति वित्तलोभात्समंततः
म्लेच्छांस्तान्मोचयित्वा तु क्षुधया परिपीडितः७६
पुनराह द्विजस्तात क्षुधा मे बाधतेतराम्
अवदद्गरुडं तत्र कश्यपः कृपया द्रुतम्७७
तिष्ठंतौ विपुलौ तत्र जिघांसू गजकच्छपौ
अप्रमेयौ महासत्वौ सागरस्यैकदेशतः७८
तावप्सु च द्रुतं वत्स क्षुधां ते वारयिष्यतः
स पितुर्वचनं श्रुत्वा तत्र गत्वाभिपद्य तौ७९
नखैर्भित्वा कूर्मगजौ महासत्वौ महाजवः
खमुत्पपात तौ धृत्वा विद्युद्वेगो महाबलः८०
आधारतां न गच्छंति नगाश्च मंदरादयः
ततो योजनलक्षे द्वे गत्वा मारुतरंहसा८१
महत्यां जंबुशाखायां निपपात महाबलः
भग्ना सा सहसा शाखा तां पतंतीं खगेश्वरः८२
गोब्राह्मणवधाद्भीतो दधार तरसा बली
धृत्वा तां रुचिरं वेगाद्द्रवंतं खे महाबलम्८३
गत्वा विष्णुरुवाचेदं नररूपधरो हरिः
कस्त्वं भ्रमसि चाकाशे किमर्थं पतगेश्वर८४
विधृत्य महतीं शाखां महांतौ गजकच्छपौ
तमुवाच द्विजस्तस्मिन्नररूपधरं हरिम्८५
गरुडोहं महाबाहो खगरूपः स्वकर्मणा
कश्यपस्य मुनेस्सूनुर्विनतागर्भसंभवः८६
पश्यैतौ च महासत्वौ भक्षणार्थं मया धृतौ
न धरा च ममाधारो न वृक्षा न च पर्वताः८७
अनेकयोजनान्यूर्ध्वं दृष्ट्वा जंबूमहीरुहम्
अपतंतस्य शाखायां सहेमौ परिभक्षितुं८८
भग्ना सा सहसा शाखा तां च धृत्वा भ्रमाम्यहम्
कोटिकोटिसहस्राणां ब्राह्मणानां गवां वधात्८९
भयं तत्र विषादो मे सहसा प्राविशद्बुध
किं करोमि कथं यामि को मे वेगं सहिष्यति९०
इत्युक्ते पतगश्रेष्ठं प्रोवाचेदं हरिस्तदा
अस्मद्बाहुं समारुह्य भक्षेमौ गजकच्छपौ९१
गरुड उवाच-
ममाधारं न गच्छंति सागराश्च नगोत्तमाः
अथ चैवं महासत्वं कथं त्वं धारयिष्यसि९२
ऋते नारायणादन्यः को मां धारयितुं क्षमः
त्रैलोक्ये कः पुमांस्तिष्ठेद्यो वेगं मे सहिष्यति९३
हरिरुवाच-
स्वकार्यमुद्धरेत्प्राज्ञः स्वकार्यं कुरु सांप्रतम्
कृत्वा कार्यं खगश्रेष्ठ विजानीषे च मां ध्रुवम्९४
महासत्वं च तं दृष्ट्वा विमृश्य मनसा खगः
एवमस्त्विति चोक्त्वा स पपात ह महाभुजे९५
न चचाल भुजस्तस्य सन्निपाते खगेशितुः
तत्र स्थित्वा स तां शाखां मुमोच पर्वतालये९६
शाखापतनमात्रेण सचराचरकानना
चचाल वसुधा चैव सागराः प्रचकंपिरे९७
ततश्च खादितौ सत्त्वौ सहसा गजकच्छपौ
तृप्तिं न प्राप्तवान्सोपि क्षुधा तस्य न शाम्यति९८
एतज्ज्ञात्वा तु गोविंदस्तमुवाच खगेश्वरम्
भुजस्य मम मांसं तु भक्षयित्वा सुखी भव९९
इत्युक्ते प्रचुरं मांसं भुजस्य तस्य तेन हि
खादितं क्षुधया पुत्र व्रणं तस्य न विद्यते1.47.१००
तमुवाच महाप्राज्ञश्चराचरगुरुं हरिम्
कस्त्वं किं वा प्रियं तेद्य करिष्यामि च सांप्रतम्१०१
नारायण उवाच-
विद्धि नारायणं मां हि त्वत्प्रियार्थं समागतम्
रूपं स्वं दर्शयामास प्रत्ययार्थं च तस्य वै१०२
पीतवस्त्रं घनश्यामं चतुर्भुजमनोहरम्
शंखचक्रगदापद्मधरं सर्वसुरेश्वरम्१०३
तं च दृष्ट्वा गरुत्मांश्च प्रणम्य शिरसा हरिम्
प्रियं किं ते करिष्यामि वद नः पुरुषोत्तम१०४
तमब्रवीन्महातेजा देवदेवेश्वरो हरिः
भव मे वाहनं शूर सखे त्वं सार्वकालिकम्१०५
तमुवाच खगश्रेष्ठो धन्योहं विबुधेश्वर
सफलं जन्म मे नाथ त्वां च दृष्ट्वाद्य मे प्रभो१०६
प्रार्थयित्वा च पितरावागमिष्यामि तेऽन्तिकम्
प्रीतो विष्णुरुवाचेदं भव त्वमजरामरः१०७
अवध्यः सर्वभूतेभ्यः कर्म तेजश्च मत्समम्
सर्वत्र ते गतिश्चास्तु निखिलं तु सुखं ध्रुवम्१०८
संमिलतु द्रुतं सर्वं यत्ते मनसि वर्तते
यथेष्टं प्रीतिमाहारमकष्टेन प्रलप्स्यसे१०९
व्यसनान्मातरं सद्यो मोचयिष्यसि नान्यथा
एवमुक्त्वा हरिः सद्यस्तत्रैवांतरधीयत११०
तार्क्ष्योपि पितरं गत्वा कथयच्चाखिलं ततः
स तच्छ्रुत्वा प्रहृष्टात्मा तनयं पुनरब्रवीत्१११
धन्योहं च खगश्रेष्ठ धन्या ते जननी शिवा
धन्यं क्षेत्रं कुलं चैव यस्य पुत्रस्त्वमीदृशः११२
यस्य पुत्रः कुले जातो वैष्णवः पुरुषोत्तमः
कुलकोटिं समुद्धृत्य विष्णुसायुज्यतां व्रजेत्११३
विष्णुं यः पूजयेन्नित्यं विष्णुं ध्यायेत गायति
जपेन्मंत्रं सदा विष्णोः स्तोत्रं तस्य पठिष्यति११४
प्रसादं च भजेन्नित्यमुपवासं हरेर्दिने
क्षयाच्च सर्वपापानां मुच्यते नात्र संशयः११५
यस्य तिष्ठति गोविंदो मानसे च सदैव हि
स एव च लभेद्दास्यं सपुण्यैः पुरुषोत्तमः११६
जन्मकोटिसहस्रेभ्यः कृत्वा सत्कर्मसंचयम्
क्षयाच्च सर्वपापानां विष्णोः किंकरतां व्रजेत्११७
धन्योसौ मानवो लोके विष्णोस्सादृश्यमाव्रजेत्
नित्यः सुरवरैः पूज्यो लोकनाथोऽच्युतोऽव्ययः११८
सुप्रसन्नो भवेद्यस्य स एव पुरुषोत्तमः
तपोभिर्बहुभिर्धर्मैर्मखैर्नानाविधैरपि११९
विष्णुर्न लभ्यते देवैस्त्वयासौ विप्र लभ्यते
सपत्नीव्यसनाद्धोरान्मातरं ते प्रमोचय१२०
ततो यास्यसि देवेशं कृत्वा मातुः प्रतिक्रियाम्
गृहीत्वा जनकस्याज्ञां लब्ध्वा विष्णोर्वरं महत्१२१
अंबापार्श्वं गतो हृष्टस्तां प्रणम्याग्रतः स्थितः
विनतोवाच-
अभवद्भोजनं तेऽद्य पुत्र दृष्टः पितापि च१२२
किमर्थं वा विलंबस्ते चिंतया व्यथिता ह्यहम्
स मातुर्वचनं श्रुत्वा गरुडः प्रहसन्निव१२३
कथयामास वृत्तांतं सा श्रुत्वा विस्मिताऽभवत्
कथं च दुःष्करं कर्म शिशुभावात्त्वया कृतम्१२४
धन्याहं मे कुलं धन्यं यस्त्वं विष्णुसखोऽभवः
लब्ध्वा वरं महात्मानं दृष्ट्वा मे हृष्यते मनः१२५
पौरुषेण त्वया वत्स उद्धृतं मे कुलद्वयम्
सुपर्ण उवाच-
मातः किं ते करिष्यामि प्रियमेव तदुच्यताम्१२६
कार्यं कृत्वाथ यास्यामि पार्श्वं नारायणस्य च
एतच्छ्रुत्वा तु सा प्राह गरुडं विनता सती१२७
महद्दुःखं च मे चास्ति कुरु तात प्रतिक्रियाम्
भगिनी मे सपत्नी सा पणितहं तया पुरा१२८
तस्या दास्यमहं प्राप्ता कस्तारयति मामितः
कृष्णं कृत्वा विषैरश्वं तस्याः पुत्रैर्महोरगैः१२९
उषःकालेऽवदत्सा च अश्वोयं कृष्णतां व्रजेत्
ततोहमवदं तत्र सदा चायं रुचासितः१३०
मिथ्या ते वचनं मातः प्रतिज्ञां साऽकरोत्तदा
ततोहमब्रुवं कद्रूं शपथं नागमातरम्१३१
यदीमं कृष्णताभ्येति हरेरश्वमहं तदा
कृता भवामि ते दासीत्यहमेतत्तदाऽवदम्१३२
ततस्तस्मिन्हरेरश्वे कृते कृष्णे च कृत्रिमैः
तस्याः पुत्रैश्च धूर्तैश्च दासीत्वमगमं तदा१३३
यस्मिन्काले ह्यभीष्टञ्च तस्या द्रव्यं ददाम्यहम्
तस्मिन्काले ह्यदासीत्वं यास्यामि कुलनंदन१३४
गरुड उवाच
पृच्छ शीघ्रं च मातस्तां करिष्यामि प्रतिक्रियाम्
भक्षयिष्यामि तान्नागान्प्रतिज्ञामे यथार्थतः१३५
ततः कद्रूमुवाचेदं विनता दुःखिता सती
अभीष्टं वद कल्याणि येन मुच्येय कृच्छ्रतः१३६
अब्रवीत्सा दुराचारा पीयूषं दीयतामिति
एतच्छ्रुत्वा तु वचनमभवत्सा च निष्प्रभा१३७
ततः शनैरुपागम्य तनयं प्राह दुःखिता
अमृतं प्रार्थयत्पापा तात किं वा करिष्यसि१३८
श्रुत्वा वाक्यं गरुत्मांश्च महाक्रोधसमन्वितः
अमृतं चानयिष्यामि मातर्मा विमुखी भव१३९
एवमुक्त्वा तु तरसा स गतः पितुरंतिकम्
अमृतं चानयिष्यामि मातुरर्थेऽधुनाऽनघ१४०
स तस्य वचनं श्रुत्वा मुनिः प्राह खगेश्वरम्
सत्यलोकस्य वै चोर्ध्वे विश्वकर्मविनिर्मिता१४१
पुरी चास्ति सभा रम्या देवानां हित हेतवे
वह्निप्राकारदुर्लभ्या दुर्धर्षा चासुरैः सुरैः१४२
रक्षार्थं निर्मितो देवः सुरैस्तत्र महाबलः
यं यं पश्यति वीरः स स एव भस्मतां व्रजेत्१४३
सुपर्ण उवाच
नारायणाद्वरो लब्धो मया च मुनिसत्तम
भयं नास्तीह मे तात सुरासुरगणादपि४४
एममुक्त्वा गरुत्मान्स उद्धृत्य सागराज्जलम्
जगामाकाशमाविश्य खगश्चोर्ध्वं मनोजवः१४५
पक्षवातेन तस्यैव रजः समुद्गतं बहु
तस्यांतिकं न च त्यक्तमगमत्तस्य तच्च यः१४६
गत्वा चंचूजलेनापि वह्निं निर्वापयद्बली
रजोभिः परिपूर्णाक्षो न सुरस्तं च पश्यति१४७
जघान रक्षिवर्गांस्तानमृतं चाहरद्बली
आनयंतं च पीयूषं खगं गत्वा शतक्रतुः१४८
ऐरावतं समारूढो वाक्यमेतदुवाच ह
खगरूपधरः कस्त्वं पीयूषं हरसे बलात्१४९
अप्रियं सर्वदेवानां कृत्वा जीवे रतिः कथम्
विशिखैरग्निसंकाशैर्नयामि यममंदिरम्1.47.१५०
श्रुत्वा वाक्यं हरेः कोपादुवाच स महाबलः
नयामि तव पीयूषं दर्शयस्व पराक्रमम्१५१
एतच्छ्रुत्वा महाबाहुर्जघान विशिखैः शितैः
यथामेरुगिरेः शृंगं तोयवर्षेण तोयदः१५२
नखैरशनिसंकाशैर्बिभेद गरुडो गजम्
मातलि च रथं चक्रं तथा देवान्पुरस्सरान्१५३
व्यथितोसौ महाबाहुर्मातलिर्गजपुंगवः
विमुखाः पक्षवातेन सर्वे देवगणास्तदा१५४
ततस्तु कोपितो जिष्णुर्जघानकुलिशेन तम्
कुलिशस्यावपातेन न च क्षुब्धो महाखगः१५५
स्वं मोघं भिदुरं दृष्ट्वा हरिर्भीतोऽभवत्तदा
संनिवृत्य ततो युद्धात्तत्रैवांतरधीयत१५६
सुतरामपिगच्छंतं वेगाद्भूतलमागतः
अब्रवीत्स सुरश्रेष्ठः सर्वदेवगणाग्रतः१५७
शक्र उवाच-
यदि दास्यसि पीयूषमिदानीं नागमातरि
भुजगाश्चामराः सर्वे क्रियंते हि ध्रुवं तया१५८
प्रतिज्ञा ते भवेन्नष्टा न फलं जीवितस्य ते
तस्मादिदं हरिष्यामि संमतेन तवानघ१५९
गरुत्मानुवाच-
यस्मिन्काले ह्यदासी सा माता मे दुःखिता सती
विदिता सर्वलोकेषु हरेऽमृतं हरिष्यसि१६०
एवमुक्त्वा महावीर्यो गत्वोवाच प्रसूं तदा
आनीतममृतं मातस्तस्या एव प्रदीयताम्१६१
प्रोत्फुल्लहृदया सा च दृष्ट्वा पुत्रं सहामृतम्
तामाहूयामृतं दत्वा चादासीतां तदा गता१६२
तृणकाष्ठानि भूतानि पशवश्च सरीसृपाः
दृष्ट्वा सविस्मयास्सर्वे देवा महर्षयस्तदा१६३
मोचयित्वा तु तामंबां गरुडः सुष्ठुतां गतः
एतस्मिन्नंतरे शक्रो जहार सहसा सुधाम्१६४
निधाय गरलं तत्र तया चानुपलक्षितः
प्रहृष्टहृदया कद्रूः पुत्रानाहूय संभ्रमात्१६५
तेषां मुखे ददौ हृष्टा क्ष्वेडं चामृतलक्षणम्
तानुवाच प्रसूः पुत्रान्युष्माकं च कुले सदा१६६
मुखे तिष्ठन्त्वमी दैवा बिंदवश्चस्तनिर्वृताः
महर्षयस्ततो देवाः सिद्धगंधर्वमानुषाः१६७
ऊचुःस्सन्तु कुले मातरस्माकं च प्रसादतः
नागैर्विसर्जिता देवाः ससिद्धा मुनयस्तथा१६८
जग्मुः स्वमालयं हृष्टा नागाः प्रमुदिताः स्थिताः
एतस्मिन्नंतरे नागांश्चखाद गरुडो बलात्१६९
दिक्षु पलायिताः शेषाः पर्वतेषु वनेषु च
सागरेषु च पाताले बिलेषु तरुकोटरे१७०
निभृतेषु निकुञ्जेषु स्थिताः सर्पाश्च निर्वृताः
भुजगास्तस्य भक्ष्याश्च सदैव विधिनिर्मिताः१७१
स खादयित्वा नागांश्च संभाष्य पितरावथ
विबुधान्पूजयित्वा तु जगाम हरिमव्ययम्१७२
यः पठेच्छृणुयाद्वापि सुपर्णचरितं शुभम्
सर्वपापविनिर्मुक्तः सुरलोके महीयते१७३

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे गरुडोत्पत्तिर्नाम सप्तचत्वारिंशत्तमोऽध्यायः४७