पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४१

विकिस्रोतः तः
Jump to navigation Jump to search

पुलस्त्य उवाच
आदित्या वसवो रुद्रा अश्विनौ च महाबलौ
सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम्१
पुरुहूतश्च पुरतो लोकपालः सहस्रदृक्
ग्रामणीः सर्वदेवानामारुरोह वरद्विपम्२
सव्ये चास्य रथः पार्श्वे पक्षिप्रवरकेतनः
सुरारुचक्रचरणो हैमच्छत्रपरिष्कृतः३
देवगंधर्वयक्षौघैरनुयातः सहस्रशः
दीप्तिमद्भिश्च स्वर्गस्थैर्ब्रह्मर्षिभिरभिष्टुतः४
वज्रविस्फारितोद्भूतैर्विद्युदिंद्रायुधप्रभैः
युक्तं बलाहकगणैः पर्वतैरिव कामगैः५
यमारूढः स भगवान्पर्येति सकलं जगत्
हविर्दानेषु गायंति विप्रा मखमुखेस्थिताः६
स्वर्गसंग्रामयातेषु देवतूर्यनिनादिषु
सेंद्रं तमुपनृत्यंति शतशो ह्यप्सरोगणाः७
केतुना नागराजेन राजमानो यथा रविः
युक्तो हयसहस्रेण मनोमारुतरंहसा८
सम्यग्रथवरो भाति युक्तो मातलिना तदा
कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा९
यमस्तु दंडमुद्यम्य कालयुक्तं च मुद्गरं
तस्थौ सुरगणानीके दैत्यानां चैव दर्शयन्१०
चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः
शंखमुक्तांगदधरो बिभ्रत्तोयमयं वपुः११
कालपाशान्समाविध्य हयैः शशिकरोपमैः
वाय्वीरितजलाकारैः कुर्वन्लीलाः सहस्रशः१२
पांडुरोद्धूतवसनः प्रवालरुचिरांगदः
मणिश्यामोत्तमवपुर्हारकेणार्चितोदरः१३
वरुणः पाशधृङ्मध्ये देवानीकस्य तस्थिवान्
युद्धवेलामभिलषन्भिन्नवेल इवार्णवः१४
यक्षराक्षससैन्येन गुह्यकानां गणैरपि
युक्तश्च शंखपद्माभ्यां निधीनामधिपः प्रभुः१५
राजराजेश्वरःश्रीमान्गदापाणिरदृश्यत
विमानयोधी धनदो विमाने पुष्पके स्थितः१६
स राजराजः शुशुभे यक्षेशो नरवाहनः
पूर्वपक्षे सहस्राक्षः पितृराजश्च दक्षिणे१७
वरुणः पश्चिमे पक्ष उत्तरे नरवाहनः
चतुःपक्षाश्च चत्त्वारो लोकपाला महाबलाः१८
आत्मदिक्षुचरंतश्चतस्यदेवबलस्यते
सूर्यः सप्ताश्वयुक्तेन रथेनानिलगामिना१९
श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः
उदयास्तमयौ चक्रे मेरुपर्यन्तगामिना२०
त्रिदिव द्वारचक्रेण तपसा लोकमव्ययम्
सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा२१
चचार मध्ये देवानां द्वादशात्मा दिवाकरः
सोमः श्वेतहयो भाति स्यंदने शीतरश्मिमान्२२
हिमतोयप्रपूर्णाभिर्भाभिराह्लादयञ्जगत्
तमृक्षयोगानुगतं शिशिरांशुं द्विजेश्वरम्२३
शशच्छायांकिततनुं नैशस्य तमसः क्षयम्
ज्योतिषामीश्वरं व्योम्नि रसदं प्रभुमव्ययम्२४
ओषधीनां पवित्राणां निधानममृतस्य च
जगतः परमं भागं सौम्यं सर्वमयं रसम्२५
ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम्
यः प्राणः सर्वभूतानां पंचधा भिद्यते नृषु२६
सप्तस्कंधगतो लोकांस्त्रीन्दधार चकार च
यमाहुरग्निकर्त्तारं सर्वप्रभवमीश्वरम्२७
सप्तस्वरगता यस्य योनिर्गीर्भिरुदीर्यते
यं वदंति चलं भूतं यं वदंत्यशरीरिणम्२८
यमाहुराकाशगमं शीघ्रगं शब्दयोनिजम्
स वायुः सर्वभूतायुरुद्धतः स्वेन तेजसा२९
ववौ प्रव्यथयन्दैत्यान्प्रतिलोमं सतोयदः
मारुतो देवगंधर्वैर्विद्याधरगणैः सह३०
चिक्रीड रश्मिभिश्शुभ्रैर्निर्मुक्तैरिव पन्नगैः
सृजंतः सर्पपतयस्तीव्रं रोषमयं विषम्३१
शरभूता विलग्नाश्च चेरुर्व्यात्तानना दिवि
पर्वताश्च शिलाशृंगैः शतशाखैश्च पादपैः३२
उपतस्थुः सुरगणान्प्रहर्तुं दानवं बलम्
यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः३३
युगांते कृष्णवर्त्मा च विश्वस्य जगतः प्रभुः
सर्वयोनिः समधुहा हव्यभुक्क्रतुसंस्थितः३४
भूम्यम्बुव्योमभूतात्मा श्यामः शांतिकरोरिहा
अविघ्नममरादीनां चक्रे चक्रगदाधरः३५
सव्येनालभ्य महतीं सर्वायुधविनाशिनीं
करेण कालीं वपुषा शत्रुकालप्रदां गदां३६
शेषैर्भुजैः प्रदीप्ताभैर्भुजगारिध्वजः प्रभुः
दधारायुधजालानि शार्ङ्गादीनि महाबलः३७
स कश्यपस्यात्मभवं द्विजं भुजगभोजनम्
भुजगेंद्रेण वदने निविष्टेन विराजितम्३८
अमृतारंभसंयुक्तं मंदराद्रिमिवोच्छितम्
देवासुरविमर्देषु बहुशो दृष्टविक्रमम्३९
महेंद्रेणामृतस्यार्थे वज्रेण कृतलक्षणम्
विचित्रपत्रवसनं धातुमंतमिवाचलम्४०
स्फीतक्रोधावलंबेन शीतांशुसमतेजसा
भोगिभोगावसक्तेन मणिरत्नेन भास्वता४१
पक्षाभ्यां चारुपत्राभ्यामावृतं दिवि लीलया
युगांते सेंद्रचापाभ्यां तोयदाभ्यामिवांबरम्४२
नीललोहितपीताभिः पताकाभिरलंकृतम्
अरुणावरजं श्रीमानारुह्य समरे प्रभुः४३
सुवर्णवर्णवपुषं सुपर्णं खेचरोत्तमम्
तमन्वयुः सुरगणा मुनयश्च समाहिताः४४
गीर्भिः परममंत्राभिस्तुष्टुवुश्च गदाधरम्
तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम्४५
वारिराजपरिक्षिप्तं देवराजविराजितम्
पवनाबद्धनिर्घोषं संप्रदीप्त हुताशनम्४६
विष्णोर्जिष्णोः सहिष्णोश्च भ्राजिष्णोस्तेजसावृतम्
बलं बलवदुद्रिक्ते युद्धाय समवर्तत४७
स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत
स्वस्त्यस्तु दैत्येभ्य इति उशना वाक्यमाददे४८
ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तथा
सुराणामसुराणां च परस्परजयैषिणाम्४९
दानवा दैवतैः सार्द्धं नानाप्रहरणोद्यमाः
समीयुर्युध्यमाना वै पर्वता इव पर्वतैः1.41.५०
तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ
धर्माधर्मसमायुक्तं दर्पेण विनयेन च५१
ततो हयैः प्रजवितैर्वारणैश्च प्रचोदितैः
उत्पतद्भिश्च गगने सासिहस्तैः समंततः५२
क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः
चापैर्विस्फार्यमाणैश्च पात्यमानैः सुदारुणैः५३
तद्युद्धमभवद्घोरं देवदानवसंकुलम्
जगतस्त्रासजननं युगसंवर्तकोपमम्५४
स्वहस्तमुक्तैः परिघैर्मुद्गरैश्चैव पर्वतैः
दानवास्समरे जघ्नुर्देवानिंद्रपुरोगमान्५५
ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः
विषण्णवदना देवा जग्मुरार्तिं परां मृधे५६
ते चास्त्रशूलमथिताः परिघैर्भिन्नमस्तकाः
भिन्नोरस्का दितिसुतैः स्रवद्रक्ता रणे बहु५७
सूदिताः शरजालैश्च निर्यत्नाश्च शरैः कृताः
प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितम्५८
उत्तंभितमिवाभाति निष्प्राण सदृशाकृति
बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम्५९
दैत्यचापच्युतान्घोरांश्छित्वा वज्रेण तान्शरान्
शक्रो दैत्यबलं घोरं विवेश बहुलोचनः६०
स दैत्यप्रमुखान्सर्वान्हत्वा दैत्यबलं महत्
तामसेनास्त्रजालेन तमोभूतमथाकरोत्६१
तेऽन्योन्यं नान्वबुध्यंत दैत्यानां वाहनानि च
घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा६२
मायापाशैर्विमुक्तास्तु यत्नवंतः सुरोत्तमाः
शिरांसि दैत्यसंघानां तमोभूतान्यपातयन्६३
अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा
पेतुस्ते दानवास्सद्यश्छिन्नपक्षा इवाद्रयः६४
तत्राभिभूतदैत्यैंद्रमंधकारमिवांतरं
दानवं देहसदनं तमोभूतमिवाभवत्६५
तथाऽसृजन्महामायां मयस्तां तामसीं दहन्
युगांतोद्योतजननीं सृष्टा मौर्वेण वह्निना६६
स ददाह च तां शाक्रीं माया मयविकल्पिता
दैत्याश्चादित्यवपुषा सद्य उत्तस्थुराहवे६७
मायां मौर्वीं समासाद्य दह्यमाना दिवौकसः
भेजिरे चंद्रविषयं शीतांशुसलिलह्रदम्६८
ते दह्यमाना और्वेण वह्निना नष्टचेतसः
शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः६९
संतप्ते मायया सैन्ये हन्यमाने च दानवैः
चोदितो देवराजेन वरुणो वाक्यमब्रवीत्७०
पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम्
उर्वः स पूर्वं तेजस्वी सदृशो ब्रह्मणो गुणैः७१
तं तपंतमिवादित्यं तपसा जगदव्ययं
उपतस्थुर्मुनिगणा देवा देवर्षिभिः सह७२
हिरण्यकशिपुश्चैव दानवो दानवेश्वरः
ॠषिं विज्ञापयामास पुरा परमतेजसम्७३
ऊचुर्ब्रह्मर्षयस्ते तु वचनं धर्मसंहितम्
ॠषिवंशेषु भगवंश्छिन्नमूलमिदं कुलं७४
एकस्त्वमनपत्यश्च गोत्रा याऽन्यो न विद्यते
कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे७५
बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम्
एकदेहानि तिष्ठंति विविक्तानि विना प्रजाः७६
एवंभूतेषु सर्वेषु पुत्रैर्मे नास्ति कारणम्
भवांश्च तापसश्रेष्ठः प्रजापति समद्युतिः७७
तत्प्रवर्तस्व वंशाय वर्धयात्मानमात्मना
समाधत्स्वोर्जितं तेजो द्वितीयां कुरु वै तनुं७८
स एवमुक्तो मुनिभिर्मुनिर्मनसि ताडितः
जगर्ह तानृषिगणान्वचनं चेदमब्रवीत्७९
यथा हि विहितो धर्मो मुनीनां शाश्वतः पुरा
आर्षं हि केवलं कर्म वन्यमूलफलाशिनः८०
ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मवर्तिनः
ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत्८१
जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः
अस्माकं च वने वृत्तिर्वनाश्रमनिवासिनां८२
अब्भक्षा वायुभक्षाश्च दंतोलूखलिनस्तथा
अश्मकुट्टादयो यत्र पंचाग्नितपसश्च ये८३
एते तपसि तिष्ठंतो व्रतैरपि सुदुश्चरैः
ब्रह्मचर्यं पुरस्कृत्य प्रार्थयंति परां गतिम्८४
ब्रह्मचर्याद्ब्रह्मणस्य ब्राह्मणत्वं विधीयते
एवमाहुः परे लोके ब्राह्मचर्यविदो जनाः८५
ब्रह्मचर्ये स्थितो धर्मो ब्रह्मचर्ये स्थितं तपः
ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि ते स्थिताः८६
नास्ति योगं विना सिद्धिर्नास्ति योगं विना यशः
नास्ति लोके यशोमूलं ब्रह्मचर्यात्परंतपः८७
यो निगृह्येंद्रियग्रामं भूतग्रामं च पंचकम्
ब्रह्मचर्यं समाधत्ते किमतः परमं तपः८८
अयोगकेशधरणमसंकल्प व्रत क्रिया
अब्रह्मचर्या चर्या च त्रयं स्याद्दंभसंज्ञितं८९
क्व दाराः क्व च संयोगः क्व च भावविपर्ययः
नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा९०
यद्यस्ति तपसो वीर्यं युष्माकं विजितात्मनाम्
सृजध्वं मानसान्पुत्रान्प्राजापत्येन कर्मणा९१
मनसा निर्मिता योनिराधातव्या तपस्विभिः
नो दारयोगं बीजं च व्रतमुक्तं तपस्विनां९२
यदिदं लुप्तधर्माख्यं युष्माभिरिह निर्भयैः
व्याहृतं सद्भिरत्यर्थमसद्भिरिव संमतं९३
वपुर्दीप्तांतरात्मानमेष कृत्वा मनोमयं
दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहं९४
एवमात्मानमात्मा मे द्वितीयं जनयिष्यति
प्राजापत्येन विधिना दिधक्षंतमिव प्रजाः९५
वरुण उवाच
उर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने
ममंथैकेन दर्भेण पुत्रस्य प्रसवारणिं९६
तस्योरुं सहसा भित्वा वरोऽसौ ह्यग्निरुत्थितः
जगतो दहनाकांक्षी पुत्रोग्निस्समपद्यत९७
उर्वस्योरुं विनिर्भिद्य और्वो नामांतकोऽनलः
दिधक्षुरिव लोकांस्त्रीन्जज्ञे परमकोपनः९८
उत्पद्यमानश्चोवाच पितरं दीनया गिरा
क्षुधा मे बाधते तात जगद्भक्षेत्यजस्व मां९९
त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश
निर्दहन्सर्वभूतानि ववृधे सोंतकोपमः1.41.१००
एतस्मिन्नंतरे ब्रह्मा मुनिमुर्वं समागतः
उवाच वार्यतां पुत्रो जगतस्त्वं दयां कुरु१०१
अस्यापत्पस्यते विप्र करिष्ये साह्यमुत्तमं
तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर१०२
और्व उवाच
धन्योस्म्यनुगृहीतोस्मि यन्मे त्वं भगवन्शिशोः
मतिमेतां ददासीह परमात्मन्हिताय वै१०३
प्रभातकाले संप्राप्ते कांक्षितव्ये समागमे
भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम्१०४
कुत्र चास्य निवासः स्याद्भोजनं तु किमात्मकम्
विधास्यतीह भगवान्वीर्यतुल्यं महौजसः१०५
ब्रह्मोवाच
बडवामुखे च वसतिः समुद्रे वै भविष्यति
ममयोनिर्जलं विप्र तच्चामेयं व्रजत्वयं१०६
तत्राऽयमास्ते नियतं पिबन्वारिमयं हविः
तद्वारिविस्तरं विप्र विसृजाम्यालयं च तम्१०७
ततो युगांते भूतानामेष चाहं च पुत्रक
सहितो विचरिष्यावो निष्पुराणकराविह१०८
एषोग्निरंतकाले तु सलिलाशी मया कृतः
दहनः सर्वभूतानां सदेवासुररक्षसाम्१०९
एवमस्त्विति तं सोग्निः संवृतज्वालमंडलः
प्रविवेशार्णवमुखं नत्वोर्वं पितरं प्रभुम्११०
प्रतियातस्ततो ब्रह्मा ते च सर्वे महर्षयः
और्वस्याग्नेः प्रभावज्ञाः स्वांस्वां गतिमुपागताः१११
हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम्
उर्वं प्रणतसर्वांगो वाक्यमेतदुवाच ह११२
भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम्
तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः११३
अहं तु तव पुत्रस्य तव चैव महाव्रत
भृत्य इत्यवगंतव्यः श्लाघ्यस्त्वमिह कर्मणा११४
तन्मां पश्य समापन्नं तवैवाराधने रतम्
यदि सीदेन्मुनिश्रेष्ठ तवै वस्यात्पराजयः११५
उर्व उवाच
धन्योस्म्यनुगृहीतोस्मि यस्य तेऽहं गुरुर्मतः
नास्ति ते तपसानेन भयं चैवेह सुव्रत११६
तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम्
निरिंधिनामग्निमयीं दुःस्पर्शां पावकैरपि११७
एषा ते स्वस्य वंशस्य वशगारि विनिग्रहे
रक्षिष्यत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति११८
वरुण उवाच
एषा दुर्विषहा माया देवैरपि दुरासदा
और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना११९
तस्मिंस्तु व्यथिते दैत्ये निर्वीर्यैषा न संशयः
शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा१२०
यद्येषा प्रतिहंतव्या कर्तव्यो भगवान्सुखी
दीयतां मे सखो शक्र तोययोनिर्निशाकरः१२१
तेनाहं सहसं गम्य यादोभिश्च समावृतः
मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः१२२
एवमस्त्वितिसंहृष्टः शक्रस्त्रिदशवर्धनः
संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम्१२३
गच्छ सोम सहायन्त्वं कुरु पाशधरस्य वै
असुराणां विनाशाय जयार्थं त्रिदिवौकसाम्१२४
त्वं मतः प्रतिवीर्यश्च ज्योतिषामपि चेश्वरः
त्वन्मयान्सर्वलोकेषु रसान्वेदविदो विदुः१२५
त्वया समो न लोकेस्मिन्विद्यते शिशिरायुधः
क्षयवृद्धीतवाव्यक्तेसागरेचैवचांबरे१२६
प्रवर्तयस्यहोरात्रात्कालं संमोहयन्जगत्
लोकच्छायामयं लक्ष्म तवांकः शशविग्रहः१२७
न विदुः सोम ते मायां ये च नक्षत्रयोनयः
त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरिस्थितः१२८
तमः प्रोत्सार्य सहसा भासयस्यखिलं जगत्
शीतभानुर्हिमतनुर्ज्योतिषामधिपः शशी१२९
अपि तत्कालयोगात्मा इज्यो यज्ञरथोऽव्ययः
ओषधीशः क्रियायोनिरपां योनिरनुष्णगुः१३०
शीतांशुरमृताधारश्चपलः श्वेतवाहनः
त्वं कांतिः कांतवपुषां त्वं सोमः सोमपायिनाम्१३१
सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट्
तद्गच्छ त्वं महासेन वरुणेन वरूथिना१३२
शमयस्वासुरीं मायां यया दह्यामहे रणे
सोम उवाच
यन्मां वदसि युद्धार्थं देवराजवरप्रद१३३
एष वर्षामि शिशिरं दैत्यमायापकर्षणं
एतान्मे शीतनिर्दग्धान्पश्यस्व हिमवेष्टितान्१३४
तथा हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः
वेष्टयंति च तान्दैत्यान्वायुर्मेघगणानिव१३५
तौ पाशशीतांशुधरौ वरुणेंदू महाबलौ
जघ्नतुर्हिमपातैश्च पाशपातैश्च दानवान्१३६
द्वावंबुनाथौ समरे तौ पाशहिमयोधिनौ
मृधे चेरतुरंभोभिः क्षुब्धाविव महार्णवौ१३७
ताभ्यामापूरितं सर्वं तद्दानवबलं महत्
जगत्संवर्त्तकांभोदैः प्रवर्षैरिव संवृतं१३८
तावुद्यतावंबुनाथौ शशांकवरुणावुभौ
शमयामासतुस्तां तु मायां दैत्येन्द्रनिर्मितां१३९
शीतांशुजालनिर्दग्धाः पाशैश्चास्कंदिता रणे
न शेकुश्चलितुं दैत्या विशिरस्का इवाद्रयः१४०
शीतांशु निहतास्ते तु दैत्यास्सर्वे निपातिताः
हिमप्लावित सर्वांगानिरूष्माण इवाग्नयः१४१
तेषां तु दिवि दैत्यानां निपतंति शुभानि वै
विमानानि विचित्राणि निपतंत्युत्पतंति च१४२
तान्पाशहस्तग्रथितान्छादितान्शीतरश्मिभिः
मयो ददर्श मायावी दानवान्दिवि दानवः१४३
सशैलजालां विततां खड्गपट्टसहासिनीम्
पादपोत्करकूटस्थां कंदराकीर्णकाननां१४४
सिंहव्याघ्रगणाकीर्णां नदद्भिर्देवयूथपैः
ईहामृगगणाकीर्णां पवनाघूर्णितद्द्रुमाम्१४५
निर्मितां स्वेन पुत्रेण कूजंतीं दिविकामगां
प्रथितां पार्वतीं मायां ससृजे स समंततः१४६
सासिशब्दैश्शिलावर्षैः संपतद्भिश्च पादपैः
जघान देवसंघांस्ते दानवानभ्यजीवयत्१४७
नैशाकरी वारुणी च माये अंतर्हिते तदा
अभवद्घोरसंचारा पृथिवी पर्वतैरिव१४८
न चारुद्धो द्रुमगणैर्देवो दृश्यत कश्चन
तदपध्वस्तधनुषं भग्नप्रहरणाविलम्१४९
निष्प्रयत्नं सुरानीकं वर्जयित्वा गदाधरं
स हि युद्धगतः श्रीमानीशो न स्म व्यकंपत1.41.१५०
सहिष्णुत्वाज्जगत्स्वामी न चुक्रोध गदाधरः
कालज्ञः कालमेघाभः समीक्षन्कालमाहवे१५१
देवासुरविमर्दं च द्रष्टुकामस्तदा हरिः
ततो भगवतादिष्टौ रणे पावकमारुतौ१५२
चोदितौ विष्णुवाक्येन ततो मायां व्यकर्षतां
ताभ्यामुद्भ्रांतवेगाभ्यां प्रबुद्धाभ्यां महाहवे१५३
दग्धा सा पार्वती माया भस्मीभूता ननाश ह
सोनिलोनलसंयुक्तस्सोनलश्चानिलाकुलः१५४
दैत्यसेनां ददहतुर्युगांतेष्विव मूर्च्छितौ
वायुः प्रजवितस्तत्र पश्चादग्निश्च मारुतात्१५५
चेरतुर्दानवानीके क्रीडंतावनलानिलौ
भस्मीभूतेषु भूतेषु प्रपतत्सूत्पतत्सु च१५६
दानवानां विमानेषु निपतत्सु समंततः
वातस्कंधापविद्धेषु कृतकर्मणि पावके१५७
मायावधे प्रवृत्ते तु स्तूयमाने गदाधरे
निष्प्रयत्नेषु दैत्येषु त्रैलोक्ये मुक्तबंधने१५८
प्रहृष्टेषु च देवेषु साधुसाध्विति जल्पिषु
जये दशशताक्षस्य दैत्यानां च पराजये१५९
दिक्षु सर्वासु शुद्धासु प्रवृत्ते धर्मविस्तरे
अपावृते चंद्रपथे स्वस्थानस्थे दिवाकरे१६०
प्रवृत्तिस्थेषु भूतेषु नृषु चारित्रवत्सु च
अभिन्नबंधने मृत्यौ हूयमाने हुताशने१६१
यज्ञशोभिषु देवेषु स्वर्गमार्गं दिशत्सु च
लोकपालेषु सर्वेषु दिक्षु संधानवर्तिषु१६२
भावे तपसि सिद्धानामभावे पापकर्मणाम्
देवपक्षे प्रमुदिते दैत्यपक्षे विषीदति१६३
त्रिपादविग्रहे धर्मेऽधर्मे पादपरिग्रहे
अपावृत्ते महाद्वारे वर्तमाने च सत्पथे१६४
लोकेषु धर्मवृत्तेषु प्रवृत्तेष्वाश्रमेषु च
प्रजारक्षणयुक्तेषु राजमानेषु राजसु१६५
प्रशांतेषु च लोकेषु शांते तमसि दानवे
अग्निमारुतयोस्तस्मिन्वृत्ते संग्रामकर्मणि१६६
तन्मया विमला लोकास्ताभ्यां जयकृतक्रियाः
तीव्रं दैत्यभयं श्रुत्वा मारुताग्निकृतं महत्१६७
कालनेमीति विख्यातो दानवः प्रत्यदृश्यत
भास्कराकारमुकुटः शिंजिताभरणांगदः१६८
मंदराद्रिप्रतीकाशो महारजतसंवृतः
शतप्रहरणोदग्रः शतबाहुः शताननः१६९
शतशीर्षः स्थितः श्रीमान्शतशृंग इवाचलः
कक्षे महति संवृद्धो निदाघ इव पावकः१७०
धूम्रकेशो हरिश्मश्रुर्दंतुरो विकटाननः
त्रैलोक्यांतरविस्तारं धारयन्विपुलं वपुः१७१
बाहुभिस्तुलयन्व्योम क्षिपन्पद्भ्यां महीधरान्
ईरयन्मुखनिःश्वासैर्वृष्टिकारान्बलाहकान्१७२
तिर्यगायतरक्ताक्षं मंदरोदग्रवर्चसाम्
दिधक्षंतमिवायांतं सर्वान्देवगणान्मृधे१७३
तर्जयंतं सुरगणांश्छादयंतं दिशो दश
संवर्तकाले हृषितं दृष्टं मृत्युमिवोत्थितम्१७४
सुतलेनोच्छ्रयवता विपुलांगुलिपर्वणा
लंबाभरणपूर्णेन किंचिच्चलितकर्मणा१७५
उच्छ्रितेनाग्रहस्तेन दक्षिणेन वपुष्मता
दानवान्देवनिहतान्ब्रुवन्तं तिष्ठतेति च१७६
तं कालनेमिं समरे द्विषतां कालनेमिनम्
वीक्षंते स्म सुराः सर्वे भयविह्वललोचनाः१७७
तं वीक्षंते स्म भूतानि ग्रसंतं कालनेमिनम्
त्रिविक्रमं विक्रमं तं नारायणमिवापरम्१७८
सोभ्युच्छ्रयं पुनः प्राप्तो मारुताघूर्णितांबरः
प्रक्रामदसुरो योद्धुं त्रासयन्सर्वदेवताः१७९
समेयिवान्सुरेंद्रेण परिष्वक्तो भ्रमन्रणे
कालनेमिर्बभौ दैत्यः सविष्णुरिव मंदरः१८०
अथ विव्यथिरे देवाः सर्वे शक्रपुरोगमाः
कालनेमिनमायांतं दृष्ट्वा कालमिवापरम्१८१
दानवाननुपिप्रीषुः कालनेमिर्महासुरः
व्यवर्धत महातेजास्तपांते जलदो यथा१८२
तं त्रैलोक्यांतरगतं दृष्ट्वा ते दानवेश्वराः
उत्तस्थुरपरिश्रांताः पीत्वेवामृतमुत्तमम्१८३
ते वीतभयसंत्रासा मयतारपुरोगमाः
तारकामयसंग्रामे सततं जितकाशिनः१८४
रेजुरायोधनगता दानवा युद्धकांक्षिणः
मंत्रमभ्यसतां तेषां व्यूहं च परिधावताम्१८५
प्रेक्षतां चाभवत्प्रीतिर्दानवं कालनेमिनम्
ये तु तत्र मयस्यासन्मुख्या युद्धपुरस्सराः१८६
ते तु सर्वे भयं त्यक्त्वा हृष्टा योद्धुमुपस्थिताः
मयस्तारो वराहश्च हयग्रीवश्च दानवः१८७
विप्रचित्तिसुतः श्वेतः खरलंबावुभावपि
अरिष्टो बलिपुत्रश्च किशोराख्यस्तथैव च१८८
सुर्भानुश्चामरप्रख्यश्चक्रयोधी महासुरः
एतेऽस्त्रवेदिनः सर्वे सर्वे तपसि सुस्थिताः१८९
दानवाः कृतिनो जग्मुः कालनेमिनमुद्धतम्
ते गदाभिस्सुगुर्वीभिश्चक्रैरथपरश्वधैः१९०
कालकल्पैश्च मुसलैः क्षेपणीयैश्च मुद्गरैः
अश्मभिश्चास्त्रसदृशैस्तथा शैलैश्च दारुणैः१९१
पट्टिशैर्भिंडिपालैश्च परिघैश्चोत्तमायसैः
घातिनीभिश्च गुर्वीभिः शतघ्नीभिस्तथैव च१९२
युगैर्यंत्रैश्च निर्मुक्तैर्लांगलैरुग्रताडितैः
दोर्भिरायतमानैश्च पाशैश्च परिघादिभिः१९३
भुजंगवक्त्रैर्लेलिहानैर्विसर्पद्भिश्च सायकैः
वज्रैः प्रहरणीयैश्च दीप्यमानैश्च तोमरैः१९४
विकोशैरसिभिस्तीक्ष्णैः शूलैश्च शितनिर्मलैः
दैत्यैः संदीप्यमानैश्च प्रगृहीतशरासनैः१९५
ततः पुरस्कृत्य तदा कालनेमिनमाहवे
सा दीप्तशस्त्रप्रवरा दैत्यानां रुरुचे चमूः१९६
यैर्निमीलितसर्वांगा वनालीवांबुदागमे
देवतानामपि चमूर्मुमुदे शक्रपालिता१९७
उपेता शिशिरोष्णाभ्यां तेजोभ्यां चंद्रसूर्ययोः
वायुवेगवती सौम्या तारागणपताकिनी१९८
तोयदा बद्धवसना ग्रहनक्षत्रहासिनी
यमेंद्रधनदैर्गुप्ता वरुणेन च धीमता१९९
सा प्रदीप्ताग्निपवना नारायणपरायणा
सासमुद्रौघसदृशी दीप्यमाना महाचमूः1.41.२००
रराजास्त्रवती भीमा यक्षगंधर्वशालिनी
तयोश्चम्वोस्तदानीं तु बभूव स समागमः२०१
द्यावापृथिव्योस्संयोगो यथा स्याद्युगपर्यये
तद्युद्धमभवद्घोरं देवदानवसंकुलं२०२
क्षमापराक्रमपरं सदर्पविनयस्यदं
निश्चक्रमुर्बलाभ्यां तु भीमाभ्यां च सुराऽसुराः२०३
पूर्वापराभ्यां संरब्धाः सागराभ्यामिवांबुदाः
ताभ्यां बलाभ्यां संहृष्टाश्चेरुस्ते देवदानवाः२०४
वनाभ्यां पार्वतीयाभ्यां पुष्पिताभ्यां यथा नगाः
समाजघ्नुस्तथा भेरीः शंखान्दध्मुरनेकशः२०५
ब्रह्मांडं च भुवं चैव दिशश्च समपूरयन्
ज्याघाततलनिर्घोष धनुषां कूजितानि च२०६
दुंदुभीनां च निर्ह्रादो दैत्यमंतर्दधुः स्वनम्
तेऽन्योन्यमभिसंपेतुर्यातयंतः परस्परम्२०७
बभंजुर्बाहुभिर्बाहु युद्धमन्ये युयुत्सवः
देवानामशनीर्घोराः परिघांश्चोत्तमायुधान्२०८
निस्त्रिंशान्ससृजुः संख्ये गदागुर्वीश्च दानवाः
गदानिपातैर्भग्नांगा बाणैश्च शकलीकृताः२०९
परिपेतुर्भृशं केचित्पुनः केचित्तु जघ्निरे
ततो रथैश्च तुरगैर्विमानैश्च पदातिभिः२१०
समीयुस्तेतिसंरब्धा रोषादन्योन्यमाहवे
संवर्त्तमानास्समरे संदष्टौष्टपुटाननाः२११
रथा रथैर्नियुध्यंते पादाताश्च पदातिभिः
तेषां रथानां तुमुलः सशब्दः शब्दवाहिनाम्२१२
नभो निदद्ध्वानयथा नभस्ये जलदस्वनैः
बभंजिरे रथान्केचित्केचित्संमृदिता रथैः२१३
संबाधमन्ये संप्राप्ता न शेकुश्चलितुं रथाः
अन्योन्य मध्ये समरे दोर्भ्यामुत्क्षिप्य दंशिताः२१४
संह्रादमाणास्सबला जघ्नुस्तत्रासि चर्मिणः
अस्त्रैरन्ये विनिर्भिन्ना रक्तं वेमुर्हतायुधि२१५
क्षरज्जलानां सदृशा जलदानां समागताः
अन्योन्यबाणवर्षेण युद्धदुर्दिनमाबभौ२१६
एतस्मिन्नंतरे क्रुद्धः कालनेमिस्स दानवः
अवर्धत समुद्रौघैः पूर्यमाण इवांबुदः२१७
तस्य विद्युल्लतापीडाः प्रदीप्ताशनिवर्षिणः
गात्रैर्नगगिरिप्रख्यैर्विनिपेतुर्बलाहकाः२१८
क्रोधान्निश्वसतस्तस्य भ्रूभेदस्वेदवर्षिणः
साग्निस्फुलिंगाः प्रतता मुखान्निश्चेरुरर्चिषः२१९
तिर्यगूर्ध्वं च गगने ववृधुस्तस्य बाहवः
पर्वतादिव निष्क्रांताः पंचास्या इव पन्नगाः२२०
सोऽस्त्रजालैर्बहुविधैर्धनुर्भिः परिघैरपि
दिव्यमाकाशमावव्रे पर्वतैरुच्छ्रितैरिव२२१
सोनिलोद्भूतवसनस्तस्थौ संग्रामलालसः
संध्यातपग्रस्तशिलः साक्षान्मेरुरिवाचलः२२२
ऊरुवेगप्रमथितैः शृंगशैलाग्रपादपैः
अपातयद्देवगणान्वज्रेणेव महागिरीन्२२३
बाहुभिश्च सनिस्त्रिंशैश्छिन्नभिन्नशिरोरुहाः
न शेकुश्चलितुं देवाः कालनेमिहता युधि२२४
मुष्टिभिर्निहताः केचित्केचिच्च द्विदलीकृताः
यक्षगंधर्वपतगाः समहोरगकिन्नराः२२५
तेन वित्रासिताः पेतुः समरे कालनेमिना
न शेकुर्यत्नवंतोपि यत्नं कर्तुं विचेतसः२२६
तेन शक्रः सहस्राक्षोऽस्पंदितः शरबंधनैः
निष्प्रयत्नः कृतः संख्ये चलितुं न शशाक ह२२७
निर्जलांभोदसदृशो निर्जलार्णवसप्रभः
निर्व्यापारः कृतस्तेन विपाशो वरुणो मृधे२२८
रणे वैश्रवणस्तेन परीतः कालरूपिणा
विलपन्लोकपालेशस्त्याजितो धनदः क्रियां२२९
यमः सर्वहरस्तेन मृत्युप्रहरणो रणे
याम्यामवस्थां संत्यज्य भीतः स्वां दिशमाविशत्२३०
सलोकपालानुत्सार्य हृत्वा तेषां च कर्म तत्
दिक्षु सर्वासु देहं स्वं चतुर्धा विदधे तदा२३१
स नक्षत्रपथं गत्वा दिव्यं स्वर्भानुदर्शितं
जहार लक्ष्मीं सोमस्य यच्चास्य विषयं महत्२३२
चालयामास दीप्तांशुं धर्मद्वारा सभास्करं
शासनं चास्य विषयं जहार दिनकर्म च२३३
सोग्निं देवमुखं जित्वा चकारात्ममुखाश्रयं
वायुं च तरसा जित्वा चकारात्मवशानुगं२३४
स समुद्रात्समानीय समस्ताः सरितो बलात्
चकाराभिसुखावीर्या देहभूताश्च सिंधवः२३५
अपः स्ववशगाः कृत्वा दिविजायाश्च भूमिजाः
छादयामास जगतीं सुगुप्तां धरणीधरैः२३६
स स्वयंभूरिवाभाति महाभूतपतिर्महान्
सर्वलोकमयो दैत्यः सर्वलोकभयावहः२३७
स लोकपालैकवपुश्चंद्रसूर्यग्रहात्मवान्
पावकानिलसंभूतो रराज युधि दानवः२३८
पारमेष्ठ्ये स्थितः स्थाने लोकानां प्रभवोपमे
तं तुष्टुवुर्दैत्यगणा देवा इव पितामहं२३९
पंच तं नाभ्यवर्तंत विपरीतेन कर्मणा
वेदो धर्मः क्षमा सत्यं श्रीश्च नारायणाश्रया२४०
स तेषामनुपस्थानात्सक्रोधो दानवेश्वरः
वैष्णवं पदमन्विच्छन्स गतो देवतायतः२४१
स ददर्श सुपर्णस्थं शंखचक्रगदाधरं
दानवानां विनाशाय भ्रामयंतं गदां शुभां२४२
सजलांभोदसदृशं विद्युत्सदृशवाससं
आरूढं स्वर्णपत्राढ्यं खेचरं काश्यपं खगं२४३
दुष्टदैत्यविनाशाय दृष्ट्वा खस्थमिवस्थितं
दानवो विष्णुमक्षोभ्यं बभाषे क्षुब्धमानसः२४४
अयं स रिपुरस्माकं पूर्वेषां प्राणनाशनः
अर्णवावासिनश्चैव मधोश्च कैटभस्य च२४५
अयं स रिपुरस्माकमसमः किल कथ्यते
अनेकसंयुगेनेन दानवा बहवो हताः२४६
अयं स निर्घृणो लोके स्त्रीबालनिरपत्त्रपः
येन दानवनारीणां सीमंतोद्वरणं कृतम्२४७
अयं स विष्णुर्देवानां वैकुंठश्च दिवौकसाम्
अनंतो भोगिनां मध्ये स्वयंभूश्च स्वयंभुवः२४८
अयं स नाथो देवानामस्माभिर्विप्रकृष्यते
अस्य क्रोधं समासाद्य हिरण्यकशिपुर्हतः२४९
अस्यच्छायामुपाश्रित्य देवा मखमुखे स्थिताः
आज्यं महर्षिभिर्दत्तमश्नुवंति त्रिधा हुतम्1.41.२५०
अयं स निधने हेतुः सर्वेषाममरद्विषाम्
अस्य चक्रप्रविष्टानि कुलान्यस्माकमाहवे२५१
अयं स किल युद्धेषु सुरार्थे त्यक्तजीवितः
स विभुस्तेजसा युक्तं चक्रं क्षिपति शत्रुषु२५२
अयं स कालो दैत्यानां कालभूते मयि स्थिते
अतिक्रांतस्य कालस्य फलं प्राप्स्यति केशवः२५३
दिष्ट्येदानीं समक्षं मे विष्णुरेष समागतः
निष्पिष्टो बहुना संख्ये मय्येव प्रणशिष्यति२५४
यास्याम्यपचितिं दिष्ट्या पूर्वेषामद्य संयुगे
इमन्नारायणं हत्वा दानवानां भयावहम्२५५
क्षिप्रमेव हनिष्यामि रणेऽमरगणानहम्
जात्यंतरगतोप्येष बाधते दानवान्मृधे२५६
एषोऽनंतः पुरा भूत्वा पद्मनाभ इति श्रुतः
जघानैकार्णवे घोरे तावुभौ मधुकैटभौ२५७
द्विधाभूतं वपुः कृत्वा सिंहस्यार्द्धं नरस्य च
पितरं मे जघानैको हिरण्यकशिपुं पुरा२५८
शुभं गर्भमधत्तैनमदितिर्देवतारणिः
त्रीन्लोकानाजहारैकः क्रममाणस्त्रिभिः क्रमैः२५९
भूयस्त्विदानीं संप्राप्ते संग्रामे तारकामये
मया सह समागम्य स देवो विनशिष्यति२६०
एवमुक्त्वा बहुविधं क्षिप्रं नारायणं रणे
वाग्भिरप्रतिरूपाभिर्युद्धमेवाभ्यरोचयत्२६१
क्षिप्यमाणोऽसुरेंद्रेण न चुकोप गदाधरः
क्षमाबलेन महता सस्मितं चेदमब्रवीत्२६२
अल्पं दर्पबलं दैत्य स्थिरमक्रोधजं बलम्
हतस्त्वं दर्पजैर्दोषैर्हित्वा यो भाषसे क्षमाम्२६३
अधमस्त्वं मम मतो धिगेतत्तव वाग्बलम्
के तत्र पुरुषाः संति यत्र गर्जंति योषितः२६४
अहं त्वां दैत्य पश्यामि पूर्वेषां मार्गगामिनम्
प्रजापतिं कृतं सेतुं त्यक्त्वा कः स्वस्तिमान्भवेत्२६५
अद्य त्वां नाशयिष्यामि देवव्यापारघातकम्
स्वेषु स्वेषु च स्थानेषु स्थापयिष्यामि देवताः२६६
एवं ब्रुवति वाक्यं तु मृधे श्रीवत्सधारिणि
जहास दानवः क्रोधाद्धस्तांश्चक्रेण सायुधान्२६७
स बाहुशतमुद्यम्य सर्वायुधगणान्रणे
क्रोधाद्विगुणरक्ताक्षो विष्णोर्वक्षस्य पातयत्२६८
दानवाश्चापि समरे मयतारपुरोगमाः
उद्यतायुधनिस्त्रिंशा विष्णुमभ्यद्रवन्रणे२६९
स ताड्यमानोऽतिबलैर्दैत्यैः सर्वायुधोद्यतैः
न चचाल ततो युद्धे कंप्यमान इवाचलः२७०
संयुक्तश्च सुपर्णेन कालनेमिर्महासुरः
सर्वप्राणेन महतीं गदामुद्यम्य बाहुभिः२७१
घोरां ज्वलंतीं मुमुचे संरब्धो गरुडोपरि
कर्मणा तेन दैत्यस्य विष्णुर्विस्मयमागमत्२७२
तदा तेन सुपर्णस्य पातिता मूर्ध्नि सा गदा
सुपर्णं व्यथितं दृष्ट्वा क्षतं च वपुरात्मनः२७३
क्रोधसंरक्तनयनो वैकुंठश्चक्रमाददे
व्यवर्द्धत च वेगेन सुपर्णेन समं विभुः२७४
भुजाश्चास्य व्यवर्धंत व्याप्तवंतो दिशो दश
विदिशश्चैव खं चापि गां चैव प्रतिपूरयन्२७५
ववृधे स पुनर्लोकान्क्रांतुकाम इवौजसा
तं जयाय सुरेंद्राणां वर्द्धमानं नभस्तले२७६
ॠषयः सह गंधर्वास्तुष्टुवुर्मधुसूदनम्
सद्यां किरीटेन लिखन्शिरसा भास्वरेण च२७७
पद्भ्यामाक्रम्यवसुधां दिशः प्रच्छाद्य बाहुभिः
सहस्रकरतुल्याभं सहस्रारमरिक्षयम्२७८
दीप्ताग्निसदृशं घोरंदर्शनेन सुदर्शनम्
सुवर्णरेणुपर्यंतं वज्रनाभं भयावहं२७९
मेदोस्थिमज्जरुधिरैः सिक्तं दानवसंभवैः
अद्वितीयं प्रहरणं क्षुरपर्यंतमंडलम्२८०
स्रग्दाममालानिचितं कामगं कामरूपिणं
स्वयं स्वयंभुवा सृष्टं भयदं सर्वविद्विषाम्२८१
दधार रोषेणाविष्टं नित्यमाहवदर्पितं
क्षेपणाद्यस्य मुह्यंति लोकाः सस्थाणुजंगमाः२८२
क्रव्यादानि च भूतानि तृप्तिं यांति महामृधे
तमप्रतिमकर्माणं समानं सूर्यवर्चसा२८३
चक्रमुद्यम्य समरे कोपदीप्तो गदाधरः
प्रणष्टं दानवं तेजः कुर्वाणं स्वेन तेजसा२८४
चिच्छेद बाहूंस्तेनैव समरे कालनेमिनः
तच्च वक्त्रशतं घोरं साग्निचूर्णाट्टहासि वै२८५
तस्य दैत्यस्य चक्रेण प्रममाथ बलाद्धरिः
सच्छिन्नबाहुर्विशिरानप्राकंपत दानवः२८६
कबंधावस्थितः संख्ये विशाखइव पादपः
तंवितत्य महापक्षौ वायोः कृत्वा समं जवम्२८७
उरसा ताडयामास गरुडः कालनेमिनं
स तस्य देहोभिमुखो विबाहुः खात्परिभ्रमन्२८८
निपपात दिवं त्यक्त्वा क्षोभयन्धरणीतलम्
तस्मिन्निपतिते दैत्ये देवाः सर्षिगणास्तथा२८९
साधुसाध्विति वैकुंठं समेताः प्रत्यपूजयन्
अपरे ये तु दैत्या वै युद्धे दृष्टपराक्रमाः२९०
ते सर्वे बाहुभिर्व्याप्ता न शेकुश्चलितुं रणे
कांश्चित्केशेषु जग्राह कांश्चित्कंठेष्वपीडयत्२९१
चकर्त कस्यचिद्वक्त्रं मध्ये गृह्णात्तथापरम्
ते गदाचक्रनिर्दग्धा गतसत्वा गतासवः२९२
गगनाद्भ्रष्टसर्वांगा निपेतुर्धरणीतले
तेषु सर्वेषु दैत्येषु हतेषु पुरुषोत्तमः२९३
शक्रप्रियं ततः कृत्वा कृतकर्मगदाधरः
तस्मिन्विमर्दे संवृत्ते संग्रामे तारकामये२९४
तं च देशं जगामाशु ब्रह्मा लोकपितामहः
सर्वैर्ब्रह्मर्षिभिः सार्द्धं गंधर्वाप्सरसांगणैः२९५
देवदेवं हरिं देवः पूजयन्वाक्यमब्रवीत्
कृतं देव महत्कर्म सुराणां शल्यमुद्धृतम्२९६
निधनेन च दैत्यानां वयं च परितोषिताः
योऽयं त्वया हतो विष्णो कालनेमिर्महासुरः२९७
त्वामेतस्य ॠते ह्यस्मिन्शास्ता कश्चिन्न विद्यते
एष देवान्परिभवन्लोकांश्च सचराचरान्२९८
ॠषीणां कदनं कृत्वा मामपि प्रतिगर्जति
तदनेन त्वदीयेन परितुष्टोस्मि कर्मणा२९९
यदयं कालकल्पस्ते कालनेमिर्निपातितः
तदागच्छस्व भद्रं ते गच्छाम दिवमुत्तमाम्1.41.३००
ब्रह्मर्षयस्त्वां तत्रस्थाः प्रतीक्षंते सदो गताः
कं चाहं तव दास्यामि वरं वरभृतां वर३०१
स्वस्थानस्थेषु देवेषु तेषां च वरदो भवान्
निर्यातमेतत्त्रैलोक्यं स्फीतं निहतकंटकम्३०२
अस्मिन्नेव मृधे विष्णो शक्राय सुमहात्मने
एवमुक्तो भगवता ब्रह्मणा हरिरव्ययः३०३
देवान्शक्रमुखान्सर्वानुवाच शुभया गिरा
विष्णुरुवाच
श्रूयतां त्रिदशास्सर्वे यावंतोऽत्र समागताः३०४
सुपर्णसहितैस्तत्र पुरस्कृत्य पुरंदरं
अस्माभिः समरे सर्वैः कालनेमिमुखा हताः३०५
दानवा विक्रमोपेताः शक्रादपि महत्तराः
अस्मिन्महति संग्रामे द्वावेव तु विनिस्सृतौ३०६
विरोचनस्तु दैतेयः स्वर्भानुश्च महाबलः
स्वां दिशं भजतां शक्रो दिशं वरुण एव च३०७
याम्यां यमः पालयतामुत्तरां च धनाधिपः
ॠक्षैः सह सदा योगं गच्छतां चंद्रमास्तथा३०८
अयमृतुमुखं सूर्यो भजतामयनैः सह
आज्यभागाः प्रवर्तंतां सदस्यैरभिपूजिताः३०९
हूयंतामग्नयो विप्रैर्वेददृष्टेन कर्मणा
देवाश्च बलिहोमेन स्वाध्यायेन महर्षयः३१०
श्राद्धेन पितरश्चैव तुष्टिं यांतु यथासुखम्
वायुश्चरतु मार्गस्थस्त्रिधा दीप्यतु पावकः३११
त्रयोवर्णाश्च लोकांस्त्रीस्तपर्पयंत्वात्मजैर्गुणैः
क्रतवः संप्रवर्तंतां दीक्षणीयैर्द्विजातिभिः३१२
दक्षिणाश्चोपपद्यंतां याज्ञिकैश्च पृथक्पृथक्
गाश्च सूर्यो रसान्सोमो वायुः प्राणांश्च प्राणिषु३१३
तर्पयन्तः प्रवर्तंतामेते सोम्यैः स्वकर्मभिः
यथावदनुपूर्वेण महेंद्रमलयोद्भवाः३१४
त्रैलोक्यमातरः सर्वाः समुद्रं यांतु सिंधवः
दैत्येभ्यस्त्यज्यतां भीश्च शांतिं व्रजत देवताः३१५
स्वस्ति वोऽस्तु गमिष्यामि ब्रह्मलोकं सनातनं
स्वगृहे स्वर्गलोके वा संग्रामे वा विशेषतः३१६
विश्वस्तैश्च न गंतव्यं नित्यं क्षुद्रा हि दानवाः
छिद्रेषु प्रहरंत्येते न तेषां संस्थितिर्ध्रुवा३१७
सौम्यानां निजभावानां भवतामार्जवे मनः
एवमुक्त्वा सुरगणान्विष्णुस्सत्यपराक्रमः३१८
जगाम ब्रह्मणा सार्द्धं ब्रह्मलोकं महायशाः
देवानां महतीं प्रीतिमुत्पाद्य भगवान्प्रभुः३१९
एतदाश्चर्यमभवत्संग्रामे तारकामये
दानवानां च विष्णोश्च यन्मां त्वं परिपृच्छसि३२०

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे पद्मोद्भवदेवासुरयुद्धे नामैकचत्वारिंशत्तमोऽध्यायः४१