पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ४०

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

पुलस्त्य उवाच
अथ योगवतां श्रेष्ठमसृजद्भूरिवर्चसम्
स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम्१.४०.१
तस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृते
सर्वतेजोगुणमये पार्थिवैर्लक्षणैर्वृते१.४०.२
तच्च पद्मं पुराभूतं पृथिवीरूपमुत्तमम्
नारायणसमुद्भूतं प्रवदंति महर्षयः१.४०.३
यत्पद्मं सा रसादेवी पृथिवी परिकथ्यते
ये पद्मकेसरा मुख्यास्तान्दिव्यान्पर्वतान्विदुः॥१.४०.४
हिमवंतं च नीलं च मेरुं निषधमेव च
कैलासं शृंगवंतं च तथाद्रिं गंधमादनम्॥१.४०.५
पुण्यं त्रिशिखरं चैव कांतं मंदरमेव च
उदारं पिंजरं चैव विंध्यमस्तं च पर्वतम्॥१.४०.६
एत एव गणानां च सिद्धानां च महात्मनाम्
आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः॥१.४०.७
एतेषामंतरे द्वीपो जंबूद्वीप इति स्मृतः
जंबुद्वीपस्य संस्थानं याज्ञीया यत्र च क्रियाः॥१.४०.८
तेभ्यो यद्द्रवते तोयं दिव्यामृतरसोपमम्
दिव्यतीर्थशताधाराः सरस्यः सर्वतः स्मृताः॥१.४०.९
यान्येतानीहपद्मस्य केसराणि समंततः
असंख्येयाः पृथिव्यां ते विविधाश्चैव पर्वताः॥१.४०.१०
यानि पर्णानि पद्मस्य भूरिपूर्वाणि पार्थिव
ते दुर्गमाः शैलचिता म्लेच्छदेशाः प्रकीर्तिताः॥१.४०.११
यान्यधोभागपत्राणि ता निवासास्तु भागशः
दैत्यानामसुराणां च पन्नगानां च पार्थिव॥१.४०.१२
तेषां मध्येंतरं यत्तु तद्रसातलसंज्ञितम्
महापातककर्माणो मज्जंते यत्र मानवाः॥१.४०.१३
चतुर्दिशासु संख्याताश्चत्वारः सलिलाकराः
एवं नारायणस्यार्थे मही पुष्कर संभवा॥१.४०.१४
प्रादुर्भावोप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः
एतस्मात्कारणाद्यज्ञे पुराणैः परमर्षिभिः॥१.४०.१५
यज्ञियैर्वेददृष्टांतैर्यज्ञैर्यूपचितिः कृता
एवं भगवता तेन विश्वव्याप्यधराचिता॥१.४०.१६
पर्वतानां नदीनां च रचना चैव निर्मिता
विश्वस्य यश्चाप्रतिमप्रभावः प्रभाकरा भो वरुणोमितद्युतिः॥१.४०.१७
शनैः स्वयंभूर्व्यसृजत्सुषुप्तं जगन्मयः पद्मनिधिं महार्णवे
विघ्नस्तपसि संभूतो मधुर्नाम महासुरः॥१.४०.१८
तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः
तौ रजस्तमसोर्भूतौ संभूतौ तामसौ गणौ ॥१.४०.१९
एकार्णवं जगत्सर्वं क्षोभयेतां महाबलौ
दिव्यरक्तांबरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ॥१.४०.२०
किरीटमकुटोदग्रौ केयूरवलयोज्ज्वलौ
महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ॥१.४०.२१
महागिरेः संहननौ जंगमाविव पर्वतौ
नवमेघप्रतीकाशावादित्यप्रतिमाननौ॥१.४०.२२
विपुलाभोगकेयूर कराभ्यामतिभीषणौ
पादसंचारविन्यासैर्विक्षिपंताविवार्णवम्॥१.४०.२३
कंपयंतौ हरिमिव शयानं मधुसूदनम्
तौ तत्र विचरंतौ तु पुष्करे विश्वतोमुखौ॥१.४०.२४
योगिनां श्रेष्ठमत्यंतं दीप्तं ददृशतुस्तदा
नारायणसमाज्ञातं सृजंतमखिलाः प्रजाः॥१.४०.२५
दैवतानि च विश्वानि मानसांश्च सुतानृषीन्
ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ॥१.४०.२६
दुष्टौ युयुत्सू संक्रुद्धौ क्रोधव्याकुलितेक्षणौ
कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः॥१.४०.२७
आवामगणयन्मोहादास्से त्वं विगतस्पृहः
एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव॥१.४०.२८
आवाभ्यां परमेशाभ्यामशक्तः स्थातुमर्णवे
तत्र कश्च भवेत्तुभ्यं येन चात्र नियोजितः॥१.४०.२९
कः स्रष्टा कश्च ते गोप्ता केन नाम्नाभिधीयते
ब्रह्मोवाच
ईश्वरः प्रोच्यते लोके विष्णुश्चानंतशक्तिधृत्॥१.४०.३०
तत्सकाशात्तु जातं मां स्रष्टारमवगच्छतम्
मधुकैटभा ऊचतुः
नावयोः परमं लोके किंचिदस्ति महामुने॥१.४०.३१
आवाभ्यां च्छाद्यते विश्वं तमसा रजसा च वै
रजस्तमोमयावावामृषीणामतिलंघिनौ॥१.४०.३२
धर्म शीलं च्छादयन्तौ नाशकौ सर्वदेहिनाम्
आवाभ्यां युज्यते लोको दुस्तराभ्यां युगे युगे॥१.४०.३३
आवामर्थश्च कामश्च यज्ञस्सर्वपरिग्रहः
सुखं यत्र मदो यत्र यत्र श्रीः कीर्तिरेव च॥१.४०.३४
येषां यत्कांक्षितं किंचित्तत्तदावां विचिंतय
ब्रह्मोवाच
आवाभ्यां संहतौ दृष्ट्वा युवां पूर्वं पराजितौ॥१.४०.३५
तं समाधाय गुणिनं सत्वं चास्मि समाश्रितः
यः परो योगयुक्तात्मा योक्षरः सत्वमेव च॥१.४०.३६
रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः
ततो भूतानि जायंते सात्विकानीतराणि च॥१.४०.३७
स एव युवयोर्नाशं वासुदेवः करिष्यति
स्वपन्नेव ततो देवो बहुयोजनविस्तृतौ॥१.४०.३८
बाहू नारायणो ब्रह्म कृतवानात्ममायया
कृष्यमाणौ ततस्तस्य बाहुभ्यां बाहुशालिनौ॥१.४०.३९
चेरतुस्तौ विगलितौ शकुनाविव पीवरौ
ततस्तावाहतुर्गत्वा वासुदेवं सनातनम्॥१.४०.४०
पद्मनाभं हृषीकेशं प्रणिपत्य नतावुभौ
जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम्॥१.४०.४१
आवयोश्चैव हेतुं त्वां जानन्तौ बुद्धिकारणम्
अमोघदर्शनं सत्यं यतस्त्वां विद्व(?)शाश्वतम्॥१.४०.४२
ततस्त्वामभितो देव कांक्षावः प्रसमीक्षितुम्
अमोघदर्शनोसि त्वं नमस्ते समितिंजय॥१.४०.४३
श्रीभगवानुवाच
किमर्थं मामनुब्रूथ युवामसुरसत्तमौ
गतायुष्कौ युवां भूयस्त्वहो जीवितुमिच्छथः॥१.४०.४४
मधुकैटभा ऊचतुः
यस्मिन्न कश्चिन्मृतवान्देव तस्मिन्वधं प्रभो
इच्छावः पुत्रतां चैव भवतः सुमहातपः॥१.४०.४५
श्रीभगवानुवाच
युवयोर्बाढमेतत्स्याद्भविष्ये कलिसंभवे
भविष्यथो न संदेहः सत्यमेतद्ब्रवीमि वाम्॥१.४०.४६
वरं प्रदायाथ महासुराभ्यां सनातनो विश्वधरः सुरोत्तमः
रजस्तमोजौ तु तदांजनोपमौ ममर्द तावूरुतलेऽमरप्रभुः॥१.४०.४७
स्थित्वा तस्मिंस्तु कमले ब्रह्मा ब्रह्मविदांवरः
ऊर्ध्वबाहुर्महातेजास्तपोघोरं समाश्रितः॥१.४०.४८
प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः
बभाषे स तु धर्मात्मा सहस्रांशुरिवांशुभिः॥१.४०.४९
अथान्यद्रूपमास्थाय प्रभुर्नरायणोव्ययः
आजगाम महातेजा योगाचार्यो महायशाः॥१.४०.५०
सांख्याचार्यश्च मतिमान्कपिलो ब्रह्मणां वरः
उभावपि महात्मानौ पूजितौ तत्र तत्परौ॥१.४०.५१
तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम्
परावरविशेषज्ञौ पूजितौ च महर्षिभिः॥१.४०.५२
ब्रह्म संपरिवेद्यं ते विशाल जगदास्थितौ
ग्रामणीस्सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः॥१.४०.५३
तयोस्तद्वचनं श्रुत्वा विबोध्यगतयोः परम्
त्रीनिमान्कृतवान्लोकान्यथेयं ब्रह्मणः श्रुतिः॥१.४०.५४
पुत्रं स्वसंभवं चैकं समुत्पादितवान्भुवम्
तदाग्रे चागतस्तस्य ब्रह्ममानससंभवः॥१.४०.५५
उत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः
किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानिति॥१.४०.५६
ब्रह्मोवाच
यदेष कपिलो नाम ब्रह्मनारायणस्तथा
वदतो भवतस्त्वं तु तत्कुरुष्व महामते॥१.४०.५७
ब्रह्मणा स तथोक्तस्तौ प्राह भूप समुत्थितः
शुश्रूषुरस्मि युवयोः किं करोमि कृतांजलि॥१.४०.५८
श्रीभवगवानुवाच
यत्सत्यमक्षरं ब्रह्म अष्टादशविधं च तत्
यत्सत्यममृतं तत्तु परं पदमनुस्मर॥१.४०.५९
एतद्वचो निशम्यैवं स ययौ दिशमुत्तरां
गत्वा च तत्र स ब्रह्म अगमज्ज्ञानचक्षुषा॥१.४०.६०
ततो ब्रह्मा भुवर्नाम द्वितीयमसृजत्प्रभुः
संकल्पयित्वा मनसा तमेव च महामनाः॥१.४०.६१
ततः सोप्यब्रवीद्वाक्यं किं करोमि पितामह
पितामहसमा ज्ञातो ब्रह्माणं समुपस्थितः॥१.४०.६२
ब्राह्मणस्यामृतरसोनुभूतस्तेन वै ततः
प्राप्तः सपरमंस्थानं स तयोः पार्श्वमागतः॥१.४०.६३
तस्मिन्नपि गते सोथ तृतीयमसृजत्प्रभुः
मोक्षप्रवृत्तिकुशलं सुवर्नामयुतः प्रभुः॥१.४०.६४
सोपि तंधर्ममास्थाय तयोरेवागमद्गतिं
एवं पुत्रास्त्रयोप्येते गताः शंभोर्महात्मनः॥१.४०.६५
तान्गृहीत्वा सुतांस्तस्य तौ गतावूर्जितां गतिं
नारायणश्च भगवान्कपिलश्च यतीश्वरः॥१.४०.६६
यं कालं ते गता ब्रह्म ब्रह्मा तं कालमेव च
तपोघोरतरं भूयः संश्रितः परमं पदं॥१.४०.६७
न च शक्तस्ततो ब्रह्मा प्रभुरेकस्तपश्चरन्
शरीरार्धात्ततो भार्यामुत्पादयति तच्छुभाम्॥१.४०.६८
आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः
विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः॥१.४०.६९
विश्वेशं प्रथमं तावन्महात्मा तपसात्मजम्
सर्वत्रसंहतं पुण्यं नाम्ना धर्मं स सृष्टवान्॥१.४०.७०
दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं कतुम्
वसिष्ठं गौतमं चैव भृगुमंगिरसं मुनिं॥१.४०.७१
अत्यद्भुतास्स्वकृत्येन ज्ञेयास्ते तु महर्षयः
त्रयोदशगुणारंभा ये वंशास्तु महर्षिणां॥१.४०.७२
अदितिर्दितिर्दनुः काला अनायुः सिंहिका खसा
प्राची क्रोधा च सुरसा विनता कद्रुरेव च॥१.४०.७३
दक्षस्यापत्यमेतद्वै कन्या द्वादश पार्थिव
नक्षत्राणि च चंद्रस्य विंशतिस्सप्त चोर्जिताः॥१.४०.७४
मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल
तस्मै द्वादशकन्याश्च दक्षस्ताश्चान्वमन्यत॥१.४०.७५
नक्षत्राणि च सोमाय तथैवं दत्तवानृषिः
रोहिण्यादीनि सर्वाणि पुण्यानि कुरुनंदन॥१.४०.७६
लक्ष्मीस्सरस्वती संध्या विश्वेशा च महायशाः
देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा॥१.४०.७७
एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव
दत्ता धर्माय भद्रं ते ब्रह्मणा दृष्टकर्मणा॥१.४०.७८
या रूपार्धवती पत्नी ब्रह्मणः कामरूपिणी
सुरभिः सहसा भूत्वा ब्रह्माणं समुपस्थिता॥१.४०.७९
ततस्तामगमद्ब्रह्मा मैथुने लोकपूजितः
लोकसर्जनहेतुज्ञो गवामर्थाय सत्तम॥१.४०.८०
जज्ञे चैकादशसुतान्विपुलान्धर्मसंज्ञितान्
रक्तसंध्याभ्रसंकाशान्महतस्तिग्मतेजसः॥१.४०.८१
ते रुदंतो द्रवंतश्च गतवंतः पितामहम्
रोदनाद्द्रवणाच्चैव रुद्रा एवेति ते स्मृताः॥१.४०.८२
निर्हृतिश्चैव संध्यश्च तृतीयश्चाप्ययोनिजः
मृगव्याधः कपर्दी च महाविश्वेश्वरश्च यः॥१.४०.८३
अहिर्बुध्न्यश्च भगवान्कपाली चैव पिंगलः
सेनानीश्च महातेजा रुद्राश्चैकादश स्मृताः॥१.४०.८४
तस्यामेव सुरभ्यां च गावो जाताः सुराश्च ये
अजश्चैव तु हंसश्च तथैव नृपसत्तम॥१.४०.८५
ओषध्यः प्रवरायाश्च सुरभ्यास्तास्समुत्थिताः
धर्माल्लक्ष्मीस्तथाकामं साध्यान्साध्या व्यजायत॥१.४०.८६
भवं च प्रभवं चैव कृशाश्वं सुवहं तथा
अरुणं वरुणं चैव विश्वामित्र चल ध्रुवौ॥१.४०.८७
हविष्मंतं तनूजं च विधानाभिमतावपि
वत्सरं चैव भूतिं च सर्वासुरनिषूदनम्॥१.४०.८८
सुपर्वाणं बृहत्कांतिं साध्या लोकनमस्कृतम्
वासवानुगता देवी जनयामास वै सुरान्॥१.४०.८९
धरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम्
विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरं॥१.४०.९०
ततोनुरूपमायं च यमं तस्मादनंतरम्
सप्तमं च तथा वायुमष्टमं निर्हृतिं तथा॥१.४०.९१
धर्मस्यापत्यमेतद्वै सुरभ्यां तदजायत
विश्वेदेवाश्च विश्वायां धर्माज्जाता इति स्मृताः॥१.४०.९२
दक्षश्चैव महाबाहुः पुष्करस्तम एव च
चाक्षुषश्च ततोत्रिश्च तथा भद्रमहोरगौ॥१.४०.९३
विश्वांतक वसुर्बालो निकुंभश्च महायशाः
रुरुदश्चातिसिद्धौजा भास्कर प्रमितद्युतिः॥१.४०.९४
विश्वान्देवान्देवमाता विश्वेषां जनयत्सुतान्
मरुत्वती मरुत्वतो देवानजनयत्सुतान्॥१.४०.९५
अग्निश्चक्षू रविर्ज्योतिः सावित्री मित्रमेव च
अमरं शरवृष्टिं च सुकर्षं च महत्तरम्॥१.४०.९६
विराजं चैव राजं च विश्वायुं सुमतिं तथा
अश्वगं चित्ररश्मिं च तथा च निषधं नृपं॥१.४०.९७
भूय एवं चात्मविधिं चारित्रं पादमात्रगं
बृहंतं वै बृहद्रूपं तथा चैव सनाभिगं॥१.४०.९८
मरुत्वती प्रजा जज्ञे ज्येष्ठां तं मरुतांगणं
अदितिः कश्यपाज्जज्ञे आदित्यान्द्वादशैव हि॥१.४०.९९
इंद्रो विष्णुर्भगस्त्वष्टा वरुणोंशोर्यमारविः
पूषा मित्रश्च वरदो धाता पर्जन्य एव हि॥१.४०.१००
इत्येते द्वादशादित्या वरिष्टास्त्रिदिवौकसां
आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ॥१.४०.१०१
तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यातिसंमतौ
दनुस्तु दानवान्जज्ञे दितिर्दैत्यान्व्यजायत॥१.४०.१०२
काला तु कालकेयांस्तानसुरान्राक्षसांस्तथा
अनायुषायास्तनया व्याधयश्च महाबलाः॥१.४०.१०३
सिंहिका ग्रहमाता च गंधर्वजननी मुनिः
प्राची त्वप्सरसां माता पुण्यानां भारतेतरा॥१.४०.१०४
क्रोधा साः सर्वभूतानि पिशाचा सा च पार्थिव
जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते॥१.४०.१०५
चतुष्पदानि सत्वानि एता गाश्चैव सौरभी
पुराणपुरुषश्चैव मायां विष्णुर्हरिः प्रभुः॥१.४०.१०६
कथितस्तेनुपूर्वेण संस्तुतश्च महर्षिभिः
यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु चेत्पठेत॥१.४०.१०७
अवाप्यलोकं स हि वीतरागः परत्र च स्वर्गफलानि भुंक्ते चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम्॥१.४०.१०८
प्रसादयति यः कृष्णं तस्य कृष्णः प्रसीदति
राज्यं च लभते राजा निर्धनश्चोत्तमं धनम्॥१.४०.१०९
क्षीणायुर्लभते चायुः पुत्रकामोथ संततिम्
यज्ञार्थिनस्तथा कामांस्तपांसि विविधानि च॥१.४०.११०
यं यं कामयते कामं तं तं लोकेश्वराल्लभेत्
सर्वं विहाय य इमं पठेद्वै पौष्करं हरेः॥१.४०.१११
प्रादुर्भावं नरश्रेष्ठ न तस्य ह्यशुभं भवेत्
एष पौष्करकोनाम प्रादुर्भावो महात्मनः॥१.४०.११२
कीर्तितस्तु महाराज व्यासश्रुतिनिदर्शनात्
विष्णुत्वं शृणु मे विष्णोर्हरित्वं च कृतेयुगे॥१.४०.११३
वैकुंठत्वं च देवेषु कृष्णत्वं मानुषेषु च
ईश्वरस्य हितस्यैषा कर्मणां गहना गतिः॥१.४०.११४
सांप्रतं भूतभव्यं च शृणु राजन्यथातथं
अव्यक्तो व्यक्तलिंगस्थो य एष भगवान्प्रभुः॥१.४०.११५
नारायणो ह्यनंतात्मा प्रभवाप्यय एव च
एष नारायणो भूत्वा हरिरासीत्सनातनः॥१.४०.११६
ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः
अदितेरपि पुत्रत्वमेत्यजः कुरुनंदन॥१.४०.११७
एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः
प्रसादनं तस्यविभोरदित्याः पुत्रकारणम्॥१.४०.११८
वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम्
ससर्जाथ सुरान्कल्पे ब्रह्माणं च प्रजापतीन्॥१.४०.११९
असृजन्मानसांस्तत्र ब्रह्मवंशाननुत्तमान्
तेभ्योभवन्महात्मभ्यः परंब्रह्म सनातनम्॥१.४०.१२०
एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तितं
कीर्त्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे॥१.४०.१२१
वृत्ते वृत्रवधे भीष्म वर्तमाने कृतेयुगे
आसीत्त्रैलोक्यविख्यातः संग्रामस्तारकामयः॥१.४०.१२२
यत्र ते दानवा घोराः सर्वे संग्रामदुर्जयाः
घ्नंति देवासुरान्सर्वान्सयक्षोरगराक्षसान्॥१.४०.१२३
ते वध्यमाना विमुखाश्छिन्नप्रहरणा रणे
त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम्॥१.४०.१२४
एतस्मिन्नंतरे मेघा निर्वाणांगारवर्चसः
सार्कचंद्रग्रहगणं च्छादयंतो नभस्तलम्॥१.४०.१२५
चंडविद्युद्गणोपेता घोरनिर्ह्रादकारिणः
अन्योन्यवेगाभिहताः प्रववुः सप्तमारुताः॥१.४०.१२६
दीप्ततोयाः सनिर्घातैः सह वज्रानलानिलैः
रवैस्सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम्॥१.४०.१२७
पेतुरुल्कासहस्राणि निपेतुः खचराण्यपि
दैवानि च विमानानि प्रपतंत्युत्पतंति च॥१.४०.१२८
चतुर्युगांतसमये लोकानां यद्भयं भवेत्
अरूपवति रूपाणि तस्मिन्नुत्पातलक्षणे॥१.४०.१२९
तस्माद्दुष्प्रथितं सर्वं न प्राज्ञायत किंचन
तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश॥१.४०.१३०
विवेश रूपिणी काली कालमेघावगुंठिता
द्यौर्नभात्यभिभूतार्का घोरेण तमसा वृता॥१.४०.१३१
तां घनौघां सतिमिरां दोर्भ्यामाछिद्य स प्रभुः
वपुः स्वं दर्शयामास दिव्यं कृष्णवपुर्हरिः॥१.४०.१३२
बलाहकांजननिभं बलाहकतनूरुहम्
तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम्॥१.४०.१३३
दीप्तपीतांबरधरं तप्तकांचनभूषणम्
धूम्रांधकारवपुषं युगांताग्निमिवोत्थितम्॥१.४०.१३४
वृत्तद्विगुणपीनां संकिरीटाच्छन्नमूर्धजम्
बभौ चामीकरप्रख्यैरायुधैरुपशोभितम्॥१.४०.१३५
चंद्रार्ककिरणोद्योतं गिरिकूटमिवोच्छ्रितम्
नंदकानंदितकरं कौस्तुभोद्भासितोरसम्॥१.४०.१३६
शक्तिचित्रफलोदग्रं शंखचक्रगदाधरम्
विष्णुशैलं क्षमाशीलं श्रीवत्सं शार्ङ्गपाणिनम्॥१.४०.१३७
त्रिदशोदारफलदं स्वर्गस्त्रीचारुवल्लभम्
सर्वलोकमनःकांतं सर्वसत्वमनोहरम्॥१.४०.१३८
मायाविशालविटपं तोयदौघसमप्रभम्
विद्याहंकारमानाढ्य महाभूतप्ररोहणम्॥१.४०.१३९
विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम्
दैत्यलोकमहास्कंधं मर्त्यलोकप्रकाशितम्॥१.४०.१४०
सागराकारनिर्ह्रादं रसातलगलाश्रयम्
नागेंद्रपाशैर्विततं पक्षिजंतुसमन्वितम्॥१.४०.१४१
शीलानाहार्यगंधाढ्यं सर्वलोकमहाद्रुमम्
अव्यक्तानंदसलिलं व्यक्ताहंकारफेनिलम्॥१.४०.१४२
महाभूतकरौघौघं ग्रहनक्षत्रबुद्बुदम्
विमानवाहनैर्व्याप्तं तोयदाडम्बराकुलम्॥१.४०.१४३
जंतुमत्स्यगणाकीर्णं शैलशंखकुलैर्युतम्
त्रैगुण्यविषयावर्तं सर्वलोकतिमिंगिलम्॥१.४०.१४४
वीरवृक्षलतागुल्मं भुजगोत्सृष्टशैवलम्
द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम्॥१.४०.१४५
वस्वष्टपर्वतोपेतं त्रैलोक्यांभो महोदधिम्
संध्यासंध्योर्मिसलिलमापूर्णानिलशोभितम्॥१.४०.१४६
दैत्ययक्षगणग्रामं रक्षोगणझषाकुलम्
पितामहमहावीर्यं स्वर्गस्त्रीरत्नसंकुलम्॥१.४०.१४७
श्री कीर्ति कांतिलक्ष्मीभिर्नदीभिश्च समाकुलम्
कालयोगमहावर्षप्रलयोत्पत्तिवेगितम्॥१.४०.१४८
सत्संयोगमहापारं नारायणमहार्णवम्
देवातिदेवं वरदं भक्तानां भक्तवत्सलम्॥१.४०.१४९
अनुग्रहकरं देवं प्रशांतिकरणं शुभम्
हर्यश्वरथसंयुक्त सुपर्णध्वजशोभिते॥१.४०.१५०
चंद्रार्कचक्ररचित उदाराक्षवृतांतरे
अनंतरश्मिसंयुक्ते दुर्दर्शे मेरुकूबरे॥१.४०.१५१
तारकाचित्रकुसुमे ग्रहनक्षत्रबंधुरे
भयेष्वभयदे व्योम्नि देवदैत्यापराजिते॥१.४०.१५२
हर्यश्वरथसंयुक्तमुक्ताशोभासमन्वितम्
ददृशुस्ते स्थितं देवं दिव्यलोकमये रथे॥१.४०.१५३
ते कृतांजलयः सर्वे देवा इंद्रपुरोगमाः
जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः॥१.४०.१५४
एतेषां च गिरः श्रुत्वा स विष्णुर्देवदैवतः
मनश्चक्रे विनाशाय दानवानां महामृधे॥१.४०.१५५
आकाशे तु स्थितो विष्णुरुत्तमं वपुराश्रितः
उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः॥१.४०.१५६
शांतिं व्रजत भद्रं वो मा भैष्ट मरुतांगणाः
जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम्॥१.४०.१५७
ततोस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः
देवाः प्रीतिं पराजग्मुः प्राश्यामृतमिवोत्तमम्॥१.४०.१५८
ततस्तमश्च संहृत्य विनेशुश्च बलाहकाः
प्रववुश्च शिवा वाताः प्रसन्नाश्च दिशो दश॥१.४०.१५९
शुद्धप्रायाणि ज्योतींषि सोमं चक्रुः प्रदक्षिणम्
न विग्रहं ग्रहाश्चक्रुः प्रसन्नाश्चापि सिंधवः॥१.४०.१६०
विरजा अभवन्मार्गा लोकाः स्वर्गादयस्त्रयः
यथार्थमूहुस्सरितश्चुक्षुभे न तथार्णवः॥१.४०.१६१
आसन्छुभानीन्द्रियाणि नराणामंतरात्मसु
महर्षयो वीतशोका वेदानुच्चैरधीयत॥१.४०.१६२
यज्ञेषु च हविः पाकं शिवमाप च पावकः
प्रवृत्तधर्मसंवृत्ता लोका मुदितमानसाः॥१.४०.१६३
विष्णोः सत्यप्रतिज्ञस्य श्रुत्वारिनिधना गिरः
ततो भयं विष्णुमुखाच्छ्रुत्वा दैतेयदानवाः॥१.४०.१६४
उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च
मयस्तु कांचनमयं त्रिनल्वांतरमव्ययम्॥१.४०.१६५
चतुश्चक्रं सुविपुलं सुकल्पितमहायुधम्
किंकिणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम्॥१.४०.१६६
रुचिरं रश्मिजालैश्च हैमजालैश्च शोभितम्
ईहामृगगणाकीर्णं पक्षिसंघविराजितम्॥१.४०.१६७
दिव्यास्त्रशस्त्ररुचिरं पयोधरनिनादितम्
स्वक्षं रथवरोदारं सूपस्थं गगनोपमम्॥१.४०.१६८
गदापरिघसंपूर्णं मूर्तिमंतमिवार्णवम्
हेमकेयूरवलयं चंद्रमंडलकूबरम्॥१.४०.१६९
सपताकध्वजोपेतं सादित्यमिव मंदरम्
गजेंद्राभोगवपुषं क्वचित्केसरवर्चसम्॥१.४०.१७०
युक्तमृक्षसहस्रेण सुधारांबुदनादितम्
दीप्तमाकाशगं दिव्यं रथं पररथारुजम्॥१.४०.१७१
अध्यतिष्ठद्रणाकांक्षी मेरुं दीप्तमिवांशुमान्
तारस्तु क्रोशविस्तारमायामे च तथाविधम्॥१.४०.१७२
शैलकूबरसंकाशं नीलांजनचयोपमम्
काललोहस्य रत्नानां समूहाबद्धकूबरम्॥१.४०.१७३
तिमिरोद्गारकिरणं गर्जंतमिव तोयदम्
लोहजालेन महता सगवाक्षेण दंशितम्॥१.४०.१७४
आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः
प्रासैः पाशैश्च विततैरसंयुक्तैश्च कण्टकैः॥१.४०.१७५
शोभितं त्रासनीयैश्च तोमरैः सपरश्वधैः
उद्यतं द्विषतां हेतोर्द्वितीयमिव मंदरम्॥१.४०.१७६
युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम्
विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः॥१.४०.१७७
प्रमुखे तस्य सैन्यस्य दीप्तशृंग इवाचलः
युक्तं हयसहस्रेण हयग्रीवस्तु दानवः॥१.४०.१७८
व्यूहितं दानवव्यूहं परिचक्राम वीर्यवान्
विप्रचित्तिसुतः श्वेतः श्वेतकुंडलभूषणः॥१.४०.१७९
स्यंदनं वाहयामास परानीकस्य मर्दनः
व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत्॥१.४०.१८०
स चाहवमुखे तस्थौ सप्ररोह इवाचलः
खरस्तु विष्किरिन्क्रोधान्नेत्राभ्यां रोपजं जलम्॥१.४०.१८१
स्फुरद्दंतौष्ठनयनः संग्रामं सोभ्यकांक्षत
त्वष्टा त्वष्टादशहयं यानमास्थाय दानवः॥१.४०.१८२
दिव्यव्यूहप्रतीकाशा युद्धायाभिमुखः स्थितः
अरिष्टो बलिपुत्रश्च वरिष्ठो दुर्धरायुधः॥१.४०.१८३
युद्धायाभिमुखस्तस्थौ धराधरविकंपनः
किशोरस्त्वतिसंहर्षात्किशोर इव चोदितः॥१.४०.१८४
अभवद्दैत्यमध्ये स ग्रहमध्ये यथा रविः
लंबस्तु नवमेघाभः प्रलंबांबरभूषणः॥१.४०.१८५
दैत्यव्यूहगतो भाति सनीहार इवांशुमान्
वसुंधराभस्तदनु दशनौष्ठेक्षणायुधः॥१.४०.१८६
हसंस्तिष्ठति दैत्यानाम्मध्ये क्रूर महाग्रहः
अन्ये हयगतास्तत्र मत्तेभेंद्रगताः परे॥१.४०.१८७
सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे
केचित्खरोष्ट्रयातारः केचित्तोयदवाहनाः॥१.४०.१८८
पत्तयश्चापरे दैत्या भीषणा विकृताननाः
एकपादास्त्वपादाश्च ननृतुर्युद्धकांक्षिणः॥१.४०.१८९
आस्फोटयंतो बहवः स्वनंतश्च तथापरे
दृप्तशार्दूलनिर्घोषा नेदुर्दानवपुङ्गवाः॥१.४०.१९०
ते गदापरिघैर्घोरैः शिलामुद्गरपाणयः
बाहुभिः परिघाकारैस्तर्जयंति स्म देवताः॥१.४०.१९१
प्रासैः खड्गैश्च पाशैश्च तोमरांकुशपट्टिशैः
चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः॥१.४०.१९२
खड्गशैलैश्च शैलैश्च परिघैश्चोद्यतायुधैः
युक्तं बलाहकगणैः सर्वतः संवृतं नभः॥१.४०.१९३
एवं तद्दानवं सैन्यं सर्वसत्वमदोत्कटम्
देवताभिमुखं तस्थौ मेघानीकमिवोदितम्॥१.४०.१९४
रेजे च तद्दैत्यसहस्रगाढं वाय्वग्निशैलांबुदतोयकल्पम्
बलं बलौघाकुलमभ्युदीर्णं युयुत्सयोन्मत्तमिवा बभासे॥१.४०.१९५
श्रुतस्ते दैत्यसैन्यस्य विस्तारः कुरुनंदन
सुराणामपि सैन्यस्य विस्तरं वैष्णवं शृणु॥१.४०.१९६

इति श्री पाद्मपुराणे प्रथमे सृष्टिखंडे दैत्यसेनावर्णनंनाम चत्वारिंशत्तमोऽध्यायः४०