पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच
कथं रामेण विप्रर्षे कान्यकुब्जे तु वामनः
स्थापितः क्व च लब्धोसौ विस्तरान्मम कीर्तय१
तथा हि मधुरा चैषा या वाणी रामकीर्तने
कीर्तिता भगवन्मह्यं हृता कर्णसुखावह२
अनुरागेण तं लोकाः स्नेहात्पश्यंति राघवम्
धर्मज्ञश्च कृतज्ञश्च बुद्ध्या च परिनिष्ठितः३
प्रशास्ति पृथिवीं सर्वां धर्मेण सुसमाहितः
तस्मिन्शासति वै राज्यं सर्वकामफलाद्रुमाः४
रसवंतः प्रभूताश्च वासांसि विविधानि च
अकृष्टपच्या पृथिवी निःसपत्ना महात्मनः५
देवकार्यं कृतं तेन रावणो लोककंटकः
सपुत्रोमात्यसहितो लीलयैव निपातितः६
तस्यबुद्धिस्समुत्पन्ना पूर्णे धर्मे द्विजोत्तम
तस्याहं चरितं सर्वं श्रोतुमिच्छामि वै मुने७
पुलस्त्य उवाच
कस्यचित्त्वथ कालस्य रामो धर्मपथे स्थितः
यच्चकार महाबाहो शृणुष्वैकमना नृप८
सस्मार राक्षसेंद्रं तं कथं राजा विभीषणः
लंकायां संस्थितो राज्यं करिष्यति च राक्षसः९
गीर्वाणेषु प्रातिकूल्यं विनाशस्य तु लक्षणम्
मया तस्य तु तद्दत्तं राज्यं चंद्रार्ककालिकम्१०
तस्याविनाशतः कीर्तिः स्थिरा मे शाश्वती भवेत्
रावणेन तपस्तप्तं विनाशायात्मनस्त्विह११
विध्वस्तः स च पापिष्ठो देवकार्ये मयाधुना
तदिदानीं मयान्वेष्यः स्वयं गत्वा विभीषणः१२
संदेष्टव्यं हितं तस्य येन तिष्ठेत्स शाश्वतम्
एवं चिंतयतस्तस्य रामस्यामिततेजसः१३
आजगामाथ भरतो रामं दृष्ट्वाब्रवीदिदम्
किं त्वं चिंतयसे देव न रहस्यं वदस्व मे१४
देवकार्ये धरायां वा स्वकार्ये वा नरोत्तम
एवं ब्रुवंतं भरतं ध्यायमानमवस्थितम्१५
अब्रवीद्राघवो वाक्यं रहस्यं तु न वै तव
भवान्बहिश्चरः प्राणो लक्ष्मणश्च महायशाः१६
अवेद्यं भवतो नास्ति मम सत्यं विधारय
एषा मे महती चिंता कथं देवैर्विभीषणः१७
वर्तते यद्धितार्थं वै दशग्रीवो निपातितः
गमिष्ये तदहं लंकां यत्र चासौ विभीषणः१८
तं च दृष्ट्वा पुरीं तां तु कार्यमुक्त्वा च राक्षसम्
आलोक्य सर्ववसुधां सुग्रीवं वानरेश्वरम्१९
महाराजं च शत्रुघ्नं भातृपुत्रांश्च सर्वशः
एवं वदति काकुत्स्थे भरतः पुरतः स्थितः२०
उवाच राघवं वाक्यं गमिष्ये भवता सह
एवं कुरु महाबाहो सौमित्रिरिह तिष्ठतु२१
इत्युक्त्वा भरतं रामः सौमित्रं चाह वै पुरे
रक्षाकार्या त्वया वीर यावदागमनं हि नौ२२
एवं लक्ष्मणमादिश्य ध्यात्वा वै पुष्पकं नृप
आरुरोह स वै यानं कौसल्यानंदवर्धनः२३
पुष्पकं तु ततः प्राप्तं गांधारविषयो यतः
भरतस्य सुतौ दृष्ट्वा जगन्नीतिं निरीक्ष्य च२४
पूर्वां दिशं ततो गत्वा लक्ष्मणस्य सुतौ यतः
पुरेषु तेषु षड्रात्रमुषित्वा रघुनंदनौ२५
गतौ तेन विमानेन दक्षिणामभितो दिशम्
गंगायामुनसंभेदं प्रयागमृषिसेवितम्२६
अभिवाद्य भरद्वाजमत्रेराश्रममीयतुः
संभाष्य च मुनींस्तत्र जनस्थानमुपागतौ२७
राम उवाच
अत्र पूर्वं हृता सीता रावणेन दुरात्मना
हत्वा जटायुषं गृध्रं योसौ पितृसखो हि नौ२८
अत्रास्माकं महद्युद्धं कबंधेन कुबुद्धिना
हतेन तेन दग्धेन सीतास्ते रावणालये२९
ॠष्यमूके गिरिवरे सुग्रीवो नाम वानरः
स ते करिष्यते साह्यं पंपां व्रज सहानुजः३०
पंपासरः समासाद्य शबरीं गच्छ तापसीम्
इत्युक्तो दुःखितो वीर निराशो जीविते स्थितः३१
इयं सा नलिनी वीर यस्यां वै लक्ष्मणोवदत्
मा कृथाः पुरुषव्याघ्र शोकं शत्रुविनाशन३२
आज्ञाकारिणि भृत्ये च मयि प्राप्स्यसि मैथिलीम्
अत्र मे वार्षिका मासा गता वर्षशतोपमाः३३
अत्रैव निहतो वाली सुग्रीवार्थे परंतप
एषा सा दृश्यते नूनं किष्किंधा वालिपालिता३४
यस्यां वै स हि धर्मात्मा सुग्रीवो वानरेश्वरः
वानरैः सहितो वीर तावदास्ते समाः शतम्३५
वानरैस्सह सुग्रीवो यावदास्ते सभां गतः
तावत्तत्रागतौ वीरौ पुर्यां भरतराघवौ३६
दृष्ट्वा स भ्रातरौ प्राप्तौ प्रणिपत्याब्रवीदिदम्
क्व युवां प्रस्थितौ वीरौ कार्यं किं नु करिष्यथः३७
विनिवेश्यासने तौ च ददावर्घ्ये स्वयं तदा
एवं सभास्थिते तत्र धर्मिष्टे रघुनंदने३८
अंगदोथ हनूमांश्च नलो नीलश्च पाटलः
गजो गवाक्षो गवयः पनसश्च महायशाः३९
पुरोधसो मंत्रिणश्च दैवज्ञो दधिवक्रकः
नीलश्शतबलिर्मैन्दो द्विविदो गंधमादनः४०
वीरबाहुस्सुबाहुश्च वीरसेनो विनायकः
सूर्याभः कुमुदश्चैव सुषेणो हरियूथपः४१
ॠषभो विनतश्चैव गवाख्यो भीमविक्रमः
ॠक्षराजश्च धूम्रश्च सहसैन्यैरुपागताः४२
अंतःपुराणि सर्वाणि रुमा तारा तथैव च
अवरोधोंगदस्यापि तथान्याः परिचारिकाः४३
प्रहर्षमतुलं प्राप्य साधुसाध्विति चाब्रुवन्
वानराश्च महात्मानः सुग्रीवसहितास्तदा४४
वानर्यश्च महाभागास्ताराद्यास्तत्र राघवम्
अभिप्रेक्ष्याश्रुकंठ्यश्च प्रणिपत्येदमब्रुवन्४५
क्व सा देवी त्वया देव या विनिर्जित्यरावणम्
शुद्धिं कृत्वा हि ते वह्नौ पितुरग्र उमापतेः४६
त्वयानीता पुरीं राम न तां पश्यामि तेग्रतः
न विना त्वं तया देव शोभसे रघुनंदन४७
त्वया विनापि साध्वी सा क्व नु तिष्ठति जानकी
अन्यां भार्यां न ते वेद्मि भार्याहीनो न शोभसे४८
क्रौंचयुग्मं मिथो यद्वच्चक्रवाकयुगं यथा
एवं वदंतीं तां तारां ताराधिपसमाननाम्४९
प्राह प्रवचसां श्रेष्ठो रामो राजीवलोचनः
चारुदंष्ट्रे विशालाक्षि कालो हि दुरतिक्रमः1.38.५०
सर्वं कालकृतं विद्धि जगदेतच्चराचरम्
विसृज्यताः स्त्रियः सर्वाः सुग्रीवोभिमुखः स्थितः५१
सुग्रीव उवाच
भवंतौ येन कार्येण इहायातौ नरेश्वरौ
तच्चापि कथ्यतां शीघ्रं कृत्यकालो हि वर्तते५२
ब्रुवाणमेवं सुग्रीवं भरतो रामचोदितः
आचचक्षे च गमनं लंकायां राघवस्य तु
तौ चाब्रवीच्च सुग्रीवो भवद्भ्यां सहितः पुरीम्५३
गमिष्ये राक्षसं देव द्रष्टुं तत्र विभीषणम्
सुग्रीवेणैवमुक्ते तु गच्छस्वेत्याह राघवः५४
सुग्रीवो राघवौ तौ च पुष्पके तु स्थितास्त्रयः
तावत्प्राप्तं विमानं तु समुद्रस्योत्तरं तटम्५५
अब्रवीद्भरतं रामो ह्यत्र मे राक्षसेश्वरः
चतुर्भिः सचिवैः सार्धं जीवितार्थे विभीषणः५६
प्राप्तस्ततो लक्ष्मणेन लंकाराज्येभिषेचितः
अत्र चाहं समुद्रस्य परेपारे स्थितस्त्र्यहम्५७
दर्शनं दास्यते मेऽसौ ज्ञातिकार्यं भविष्यति
तावन्न दर्शनं मह्यं दत्तमेतेन शत्रुहन्५८
ततः कोपः सुमद्भूतश्चतुर्थेहनि राघव
धनुरायम्य वेगेन दिव्यमस्त्रं करे धृतम्५९
दृष्ट्वा मां शरणान्वेषी भीतो लक्ष्मणमाश्रितः
सुग्रीवेणानुनीतोऽस्मि क्षम्यतां राघव त्वया६०
ततो मयोत्क्षिप्तशरो मरुदेशे ह्यपाकृतः
ततस्समुद्रराजेन भृशं विनयशालिना६१
उक्तोहं सेतुबंधेन लंकां त्वं व्रज राघव
लंघयित्वा नरव्याघ्र वारिपूर्णं महोदधिम्६२
एष सेतुर्मया बद्धः समुद्रे वरुणालये
त्रिभिर्दिनैः समाप्तिं वै नीतो वानरसत्तमैः६३
प्रथमे दिवसे बद्धो योजनानि चतुर्दश
द्वितीयेहनि षट्त्रिंशत्तृतीयेर्धशतं तथा६४
इयं सा दृश्यते लंका स्वर्णप्राकारतोरणा
अवरोधो महानत्र कृतो वानरसत्तमैः६५
अत्र युद्धं महद्वृत्तं चैत्राशुक्लचतुर्दशि
अष्टचत्वारिंशद्दिनं यत्रासौ रावणो हतः६६
अत्र प्रहस्तो नीलेन हतो राक्षसपुंगवः
हनूमता च धूम्राक्षो ह्यत्रैव विनिपातितः६७
महोदरातिकायौ च सुग्रीवेण महात्मना
अत्रैव मे कुंभकर्णो लक्ष्मणेनेंद्रजित्तथा६८
मया चात्र दशग्रीवो हतो राक्षसपुंगवः
अत्र संभाषितुं प्राप्तो ब्रह्मा लोकपितामहः६९
पार्वत्या सहितो देवः शूलपाणिर्वृषध्वजः
महेंद्राद्याः सुरगणाः सगंधर्वास्स किंनराः७०
पिता मे च समायातो महाराजस्त्रिविष्टपात्
वृतश्चाप्सरसां संघैर्विद्याधरगणैस्तथा७१
तेषां समक्षं सर्वेषां जानकी शुद्धिमिच्छता
उक्ता सीता हव्यवाहं प्रविष्टा शुद्धिमागता७२
लंकाधिपैः सुरैर्दृष्टा गृहीता पितृशासनात्
अथाप्युक्तोथ राज्ञाहमयोध्यां गच्छ पुत्रकम्७३
न मे स्वर्गो बहुमतस्त्वया हीनस्य राघव
तारितोहं त्वया पुत्र प्राप्तोऽस्मीन्द्रसलोकताम्७४
लक्ष्मणं चाब्रवीद्राजा पुत्र पुण्यं त्वयार्जितम्
भ्रात्रासममथो दिव्यांल्लोकान्प्राप्स्यसि चोत्तमान्७५
आहूय जानकीं राजा वाक्यं चेदमुवाच ह
न च मन्युस्त्वया कार्यो भर्तारं प्रति सुव्रते७६
ख्यातिर्भविष्यत्येवाग्र्या भर्तुस्ते शुभलोचने
एवं वदति रामे तु पुष्पके च व्यवस्थिते७७
तत्र ये राक्षसवरास्ते गत्वाशु विभीषणं
प्राप्तो रामः ससुग्रीवश्चारा इत्थं तदाऽवदन्७८
विभीषणस्तु तच्छ्रुत्वा रामागमनमंतिके
चारांस्तान्पूजयामास सर्वकामधनादिभिः७९
अलंकृत्य पुरीं तां तु निष्क्रान्तः सचिवैः सह
दृष्ट्वा रामं विमानस्थं मेराविव दिवाकरं८०
अष्टांगप्रणिपातेन नत्वा राघवमब्रवीत्
अद्य मे सफलं जन्म प्राप्ताः सर्वे मनोरथाः८१
यद्दृष्टौ देवचरणौ जगद्वंद्यावनिंदितौ
कृतः श्लाघ्योस्म्यहं देव शक्रादीनां दिवौकसां८२
आत्मानमधिकं मन्ये त्रिदशेशात्पुरंदरात्
रावणस्य गृहे दीप्ते सर्वरत्नोपशोभिते८३
उपविष्टे तु काकुत्स्थे अर्घं दत्वा विभीषणः
उवाच प्रांजलिर्भूत्वा सुग्रीवं भरतं तथा८४
इहागतस्य रामस्य यद्दास्ये न तदस्ति मे
इयं च लंका रामेण रिपुं त्रैलोक्यकंटकम्८५
हत्वा तु पापकर्माणं दत्ता पूर्वं पुरी मम
इयं पुरी इमे दारा अमी पुत्रास्तथा ह्यहं८६
सर्वमेतन्मया दत्तं सर्वमक्षयमस्तु ते
ततः प्रकृतयः सर्वा लंकावासिजनाश्च ये८७
आजग्मू राघवं द्रष्टुं कौतूहलसमन्विताः
उक्तो विभीषणस्तैस्तु रामं दर्शय नः प्रभो८८
विभीषणेन कथिता राघवाय महात्मने
तेषामुपायनं सर्वं भरतो रामचोदितः८९
जग्राह वानरेन्द्रश्च धनरत्नौघसंचयं
एवं तत्र त्र्यहं रामो ह्यवसद्राक्षसालये९०
चतुर्थेहनि संप्राप्ते रामे चापि सभास्थिते
केकसी पुत्रमाहेदं रामं द्रक्ष्यामि पुत्रक९१
दृष्टे तस्मिन्महत्पुण्यं प्राप्यते मुनिसत्तमैः
विष्णुरेष महाभागश्चतुर्मूर्तिस्सनातनः९२
सीता लक्ष्मीर्महाभाग न बुद्धा साग्रजेन ते
पित्रा ते पूर्वमाख्यातं देवानां दिविसंगमे९३
कुले रघूणां वै विष्णुः पुत्रो दशरथस्य तु
भविष्यति विनाशाय दशग्रीवस्य रक्षसः९४
विभीषण उवाच
एवं कुरुष्व वै मातर्गृहाण नवमं वरम्
पात्रं चंदनसंयुक्तं दधिक्षौद्राक्षतैः सह९५
दूर्वयार्घं सह कुरु राजपुत्रस्य दर्शनम्
सरमामग्रतः कृत्वा याश्चान्या देवकन्यकाः९६
व्रजस्व राघवाभ्याशं तस्मादग्रे व्रजाम्यहम्
एवमुक्त्वा गतं रक्षो यत्र रामो व्यवस्थितः९७
उत्सार्य दानवान्सर्वान्रामं द्रष्टुं समागतान्
सभां तां विमलां कृत्वा रामं स्वाभिमुखे स्थितम्९८
विभीषण उवाच
विज्ञाप्यं शृणु मे देव वदतश्च विशांपते
दशग्रीवं कुंभकर्णं या च मां चाप्यजीजनत्९९
इयं सा देवमाता नः पादौ ते द्रष्टुमिच्छति
तस्यास्तु त्वं कृपां कृत्वा दर्शनं दातु मर्हसि1.38.१००
राम उवाच
अहं तस्याः समीपं तु मातृदर्शनकांक्षया
गमिष्ये राक्षसेंद्र त्वं शीघ्रं याहि ममाग्रतः१०१
प्रतिज्ञाय तु तं वाक्यमुत्तस्थौ च वरासनात्
मूर्ध्नि चांजलिमाधाय प्रणाममकरोद्विभुः१०२
अभिवादयेहं भवतीं माता भवसि धर्मतः
महता तपसा चापि पुण्येन विविधेन च१०३
इमौ ते चरणौ देवि मानवो यदि पश्यति
पूर्णस्स्यात्तदहं प्रीतो दृष्ट्वेमौ पुत्रवत्सले१०४
कौसल्या मे यथा माता भवती च तथा मम
केकसी चाब्रवीद्रामं चिरं जीव सुखी भव१०५
भर्त्रा मे कथितं वीर विष्णुर्मानुषरूपधृत्
अवतीर्णो रघुकुले हितार्थेत्र दिवौकसाम्१०६
दशग्रीव विनाशाय भूतिं दातुं विभीषणे
वालिनो निधनं चैव सेतुबंधं च सागरे१०७
पुत्रो दशरथस्यैव सर्वं स च करिष्यति
इदानीं त्वं मया ज्ञातः स्मृत्वा तद्भर्तृभाषितम्१०८
सीता लक्ष्मीर्भवान्विष्णुर्देवा वै वानरास्तथा
गृहं पुत्र गमिष्यामि स्थिरकीर्तिमवाप्नुहि१०९
सरमोवाच
इहैव वत्सरं पूर्णमशोकवनिकास्थिता
सेविता जानकी देव सुखं तिष्ठति ते प्रिया११०
नित्यं स्मरामि वै पादौ सीतायास्तु परंतप
कदा द्रक्ष्यामि तां देवीं चिंतयाना त्वहर्निशम्१११
किमर्थं देवदेवेन नानीता जानकी त्विह
एकाकी नैव शोभेथा योषिता च तया विना११२
समीपे शोभते सीता त्वं च तस्याः परंतप
एवं ब्रुवन्त्यां भरतः केयमित्यब्रवीद्वचः११३
ततश्चेंगितविद्रामो भरतं प्राह सत्वरम्
विभीषणस्य भार्या वै सरमा नाम नामतः११४
प्रिया सखी महाभागा सीतायास्सुदृढं मता
सर्वंकालकृतं पश्य न जाने किं करिष्यति११५
गच्छ त्वं सुभगे भर्तृगेहं पालय शोभने
मां त्यक्त्वा हि गता देवी भाग्यहीनं गतिर्यथा११६
तया विरहितः सुभ्रु रतिं विंदे न कर्हिचित्
शून्या एव दिशः सर्वाः पश्यामीह पुनर्भ्रमन्११७
विसृज्यतां च सरमां सीतायास्तु प्रियां सखीम्
गतायामथ केकस्यां रामः प्राह विभीषणम्११८
दैवतेभ्यः प्रियं कार्यं नापराध्यास्त्वया सुराः
आज्ञया राजराजस्य वर्तितव्यं त्वयानघ११९
लंकायां मानुषो यो वै समागच्छेत्कथंचन
राक्षसैर्न च हंतव्यो द्रष्टव्योसौ यथा त्वहम्१२०
विभीषण उवाच
आज्ञयाहं नरव्याघ्र करिष्ये सर्वमेव तु
विभीषणे हि वदति वायू राममुवाच ह१२१
इहास्तिवैष्णवी मूर्तिः पूर्वं बद्धो बलिर्यया
तां नयस्व महाभाग कान्यकुब्जे प्रतिष्ठय१२२
विदित्वा तदभिप्रायं वायुना समुदाहृतम्
विभीषणस्त्वलंकृत्य रत्नैः सर्वैश्च वामनम्१२३
आनीय चार्पयद्रामे वाक्यं चेदमुवाच ह
यदा वै निर्जितः शक्रो मेघनादेन राघव१२४
तदा वै वामनस्त्वेष आनीतो जलजेक्षण
नयस्व तमिमं देव देवदेवं प्रतिष्ठय१२५
तथेति राघवः कृत्वा पुष्पकं च समारुहत्
धनं रत्नमसंख्येयं वामनं च सुरोत्तमम्१२६
गृह्य सुग्रीवभरतावारूढौ वामनादनु
व्रजन्नेवांबरे रामस्तिष्ठेत्याह विभीषणम्१२७
राघवस्य वचः श्रुत्वा भूयोप्याह स राघवम्
करिष्ये सर्वमेतद्धि यदाज्ञप्तं विभो त्वया१२८
सेतुनानेन राजेंद्र पृथिव्यां सर्वमानवाः
आगत्य प्रतिबाधेरन्नाज्ञाभंगो भवेत्तव१२९
कोत्र मे नियमो देव किन्नु कार्यं मया विभो
श्रुत्वैतद्राघवो वाक्यं राक्षसोत्तमभाषितम्१३०
कार्मुकं गृह्य हस्तेन रामः सेतुं द्विधाच्छिनत्
त्रिर्विभज्य च वेगेन मध्ये वै दशयोजनम्१३१
छित्वा तु योजनं चैकमेकं खंडत्रयं कृतम्
वेलावनं समासाद्य रामः पूजां रमापतेः१३२
कृत्वा रामेश्वरं नाम्ना देवदेवं जनार्दनं
अभिषिच्याथ संगृह्य वामनं रघुनंदनः१३३
दक्षिणादुदधेश्चैव निर्जगाम त्वरान्वितः
अंतरिक्षादभूद्वाणी मेघगंभीरनिःस्वना१३४
रुद्र उवाच
भो भो रामास्तु भद्रं ते स्थितोऽहमिह सांप्रतम्
यावज्जगदिदं राम यावदेषा धरा स्थिता१३५
तावदेव च ते सेतु तीर्थं स्थास्यति राघव
श्रुत्वैवं देवदेवस्य गिरं ताममृतोपमाम्१३६
राम उवाच
नमस्ते देवदेवेश भक्तानामभयंकर
गौरीकांत नमस्तुभ्यं दक्षयज्ञविनाशन१३७
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनांपतये नित्यं चोग्राय च कपर्दिने१३८
महादेवाय भीमाय त्र्यंबकाय दिशांपते
ईशानाय भगघ्नाय नमोस्त्वंधकघातिने१३९
नीलग्रीवाय घोराय वेधसे वेधसा स्तुत
कुमारशत्रुनिघ्नाय कुमारजननाय च१४०
विलोहिताय धूम्राय शिवाय क्रथनाय च
नमो नीलशिखंडाय शूलिने दैत्यनाशिने१४१
उग्राय च त्रिनेत्राय हिरण्यवसुरेतसे
अनिंद्यायांबिकाभर्त्रे सर्वदेवस्तुताय च१४२
अभिगम्याय काम्याय सद्योजाताय वै नमः
वृषध्वजाय मुंडाय जटिने ब्रह्मचारिणे१४३
तप्यमानाय तप्याय ब्रह्मण्याय जयाय च
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते१४४
नमो नमोस्तु दिव्याय प्रपन्नार्तिहराय च
भक्तानुकंपिने देव विश्वतेजो मनोगते१४५
पुलस्त्य उवाच
एवं संस्तूयमानस्तु देवदेवो हरो नृप
उवाच राघवं वाक्यं भक्तिनम्रं पुरास्थितम्१४६
रुद्र उवाच
भो भो राघव भद्रं ते ब्रूहि यत्ते मनोगतम्
भवान्नारायणो नूनं गूढो मानुषयोनिषु१४७
अवतीर्णो देवकार्यं कृतं तच्चानघ त्वया
इदानीं स्वं व्रजस्थानं कृतकार्योसि शत्रुहन्१४८
त्वया कृतं परं तीर्थं सेत्वाख्यं रघुनंदन
आगत्य मानवा राजन्पश्येयुरिह सागरे१४९
महापातकयुक्ता ये तेषां पापं विलीयते
ब्रह्मवध्यादिपापानि यानि कष्टानि कानिचित्1.38.१५०
दर्शनादेव नश्यंति नात्र कार्या विचारणा
गच्छ त्वं वामनं स्थाप्य गंगातीरे रघूत्तम१५१
पृथिव्यां सर्वशः कृत्वा भागानष्टौ परंतप
श्वेतद्वीपं स्वकं स्थानं व्रज देव नमोस्तु ते१५२
प्रणिपत्य ततो रामस्तीर्थं प्राप्तश्च पुष्करम्
विमानं तु न यात्यूर्ध्वं वेष्टितं तत्तु राघवः१५३
किमिदं वेष्टितं यानं निरालंबेऽम्बरे स्थितम्
भवितव्यं कारणेन पश्येत्याह स्म वानरम्१५४
सुग्रीवो रामवचनादवतीर्य धरातले
स च पश्यति ब्रह्माणं सुरसिद्धसमन्वितम्१५५
ब्रह्मर्षिसङ्घसहितं चतुर्वेदसमन्वितम्
दृष्ट्वाऽऽगत्याब्रवीद्रामं सर्वलोकपितामहः१५६
सहितो लोकपालैश्च वस्वादित्यमरुद्गणैः
तं देवं पुष्पकं नैव लंघयेद्धि पितामहम्१५७
अवतीर्य ततो रामः पुष्पकाद्धेमभूषितात्
नत्वा विरिंचनं देवं गायत्र्या सह संस्थितम्१५८
अष्टांगप्रणिपातेन पंचांगालिंगितावनिः
तुष्टाव प्रणतो भूत्वा देवदेवं विरिंचनम्१५९
राम उवाच
नमामि लोककर्तारं प्रजापतिसुरार्चितम्
देवनाथं लोकनाथं प्रजानाथं जगत्पतिम्१६०
नमस्ते देवदेवेश सुरासुरनमस्कृत
भूतभव्यभवन्नाथ हरिपिंगललोचन१६१
बालस्त्वं वृद्धरूपी च मृगचर्मासनांबरः
तारणश्चासि देवस्त्वं त्रैलोक्यप्रभुरीश्वरः१६२
हिरण्यगर्भः पद्मगर्भः वेदगर्भः स्मृतिप्रदः
महासिद्धो महापद्मी महादंडी च मेखली१६३
कालश्च कालरूपी च नीलग्रीवो विदांवरः
वेदकर्तार्भको नित्यः पशूनां पतिरव्ययः१६४
दर्भपाणिर्हंसकेतुः कर्ता हर्ता हरो हरिः
जटी मुंडी शिखी दंडी लगुडी च महायशाः१६५
भूतेश्वरः सुराध्यक्षः सर्वात्मा सर्वभावनः
सर्वगः सर्वहारी च स्रष्टा च गुरुरव्ययः१६६
कमंडलुधरो देवः स्रुक्स्रुवादिधरस्तथा
हवनीयोऽर्चनीयश्च ॐकारो ज्येष्ठसामगः१६७
मृत्युश्चैवामृतश्चैव पारियात्रश्च सुव्रतः
ब्रह्मचारी व्रतधरो गुहावासी सुपङ्कजः१६८
अमरो दर्शनीयश्च बालसूर्यनिभस्तथा
दक्षिणे वामतश्चापि पत्नीभ्यामुपसेवितः१६९
भिक्षुश्च भिक्षुरूपश्च त्रिजटी लब्धनिश्चयः
चित्तवृत्तिकरः कामो मधुर्मधुकरस्तथा१७०
वानप्रस्थो वनगत आश्रमी पूजितस्तथा
जगद्धाता च कर्त्ता च पुरुषः शाश्वतो ध्रुवः१७१
धर्माध्यक्षो विरूपाक्षस्त्रिधर्मो भूतभावनः
त्रिवेदो बहुरूपश्च सूर्यायुतसमप्रभः१७२
मोहकोवंधकश्चैवदानवानांविशेषतः
देवदेवश्च पद्माङ्कस्त्रिनेत्रोऽब्जजटस्तथा१७३
हरिश्मश्रुर्धनुर्धारी भीमो धर्मपराक्रमः
एवं स्तुतस्तु रामेण ब्रह्मा ब्रह्मविदांवरः१७४
उवाच प्रणतं रामं करे गृह्य पितामहः
विष्णुस्त्वं मानुषे देहेऽवतीर्णो वसुधातले१७५
कृतं तद्भवता सर्वं देवकार्यं महाविभो
संस्थाप्य वामनं देवं जाह्नव्या दक्षिणे तटे१७६
अयोध्यां स्वपुरीं गत्वा सुरलोकं व्रजस्व च
विसृष्टो ब्रह्मणा रामः प्रणिपत्य पितामहं१७७
आरूढः पुष्पकं यानं संप्राप्तो मधुरां पुरीम्
समीक्ष्य पुत्रसहितं शत्रुघ्नं शत्रुघातिनं१७८
तुतोष राघवः श्रीमान्भरतः स हरीश्वरः
शत्रुघ्नो भ्रातरौ प्राप्तौ शक्रोपेन्द्राविवागतौ१७९
प्रणिपत्य ततो मूर्ध्ना पंचांगालिंगितावनिः
उत्थाप्य चांकमारोप्य रामो भ्रातरमंजसा१८०
भरतश्च ततः पश्चात्सुग्रीवस्तदनंतरं
उपविष्टोऽथ रामाय सोऽर्घमादाय सत्वरं१८१
राज्यं निवेदयामास चाष्टांगं राघवे तदा
श्रुत्वा प्राप्तं ततो रामं सर्वो वै माथुरो जनः१८२
वर्णा ब्राह्मणभूयिष्ठा द्रष्टुमेनं समागताः
संभाष्य प्रकृतीः सर्वा नैगमान्ब्राह्मणैः सह१८३
दिनानि पंचोषित्वाऽत्र रामो गंतुं मनो दधे
शत्रुघ्नश्च ततो रामे वाजिनोथ गजांस्तथा१८४
कृताकृतं च कनकं तत्रोपायनमाहरत्
रामस्त्वाह ततः प्रीतः सर्वमेतन्मया तव१८५
दत्तं पुत्रौ तेऽभिषिञ्च राजानौ माथुरे जने
एवमुक्त्वा ततो रामः प्राप्तो मध्यंदिने रवौ१८६
महोदयं समासाद्य गंगातीरे स वामनं
प्रतिष्ठाप्य द्विजानाह भाविनः पार्थिवांस्तथा१८७
मया कृतोऽयं धर्मस्य सेतुर्भूतिविवर्धनः
प्राप्ते काले पालनीयो न च लोप्यः कथंचन१८८
प्रसारितकरेणैवं प्रार्थनैषा मया कृता
नृपाः कृते मयार्थित्वे यत्क्षेमं क्रियतामिह१८९
नित्यं दैनंदिनीपूजा कार्या सर्वैरतंद्रितैः
ग्रामान्दत्वा धनं तच्च लंकाया आहृतं च यत्१९०
प्रेषयित्वा च किष्किंधां सुग्रीवं वानरेश्वरं
अयोध्यामागतो रामः पुष्पकं तमथाब्रवीत्१९१
नागंतव्यं त्वया भूयस्तिष्ठ यत्र धनेश्वरः
कृतकृत्यस्ततो रामः कर्तव्यं नाप्यमन्यत१९२
पुलस्त्य उवाच
एवन्ते भीष्म रामस्य कथायोगेन पार्थिव
उत्पत्तिर्वामनस्योक्ता किं भूयः श्रोतुमिच्छसि१९३
कथयामि तु तत्सर्वं यत्र कौतूहलं नृप
सर्वं ते कीर्त्तयिष्यामि येनार्थी नृपनंदन१९४

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे वामनप्रतिष्ठानामाष्टत्रिंशोऽध्यायः३८