पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३७

विकिस्रोतः तः
Jump to navigation Jump to search

पुलस्त्य उवाच
तदद्भुततमं वाक्यं श्रुत्वा च रघुनंदनः
गौरवाद्विस्मयाच्चापि भूयः प्रष्टुं प्रचक्रमे१
राम उवाच
भगवंस्तद्वनं घोरं यत्रासौ तप्तवांस्तपः
श्वेतो वैदर्भको राजा तदद्भुतमभूत्कथं२
विषमं तद्वनं राजा शून्यं मृगविवर्जितं
प्रविष्टस्तप आस्थातुं कथं वद महामुने३
समंताद्योजनशतं निर्मनुष्यमभूत्कथं
भवान्कथं प्रविष्टस्तद्येन कार्येण तद्वद४
अगस्त्य उवाच
पुरा कृतयुगे राजा मनुर्दंडधरः प्रभुः
तस्य पुत्रोथ नाम्नासीदिक्ष्वाकुरमितद्युतिः५
तं पुत्रं पूर्वजं राज्ये निक्षिप्य भुविसंमतम्
पृथिव्यां राजवंशानां भव राजेत्युवाच ह६
तथेति च प्रतिज्ञातं पितुः पुत्रेण राघव
ततःपरमसंहृष्टः पुनस्तं प्रत्यभाषत७
प्रीतोस्मि परमोदार कर्मणा ते न संशयः
दंडेन च प्रजा रक्ष न च दंडमकारणम्८
अपराधिषु यो दंडः पात्यते मानवैरिह
स दंडो विधिवन्मुक्तः स्वर्गं नयति पार्थिवम्९
तस्माद्दण्डे महाबाहो यत्नवान्भव पुत्रक
धर्मस्ते परमो लोके कृत एवं भविष्यति१०
इति तं बहुसंदिश्य मनुः पुत्रं समाधिना
जगाम त्रिदिवं हृष्टो ब्रह्मलोकमनुत्तमम्११
जनयिष्ये कथं पुत्रानिति चिंतापरोऽभवत्
कर्मभिर्बहुभिस्तैस्तैस्ससुतैस्संयुतोऽभवत्१२
तोषयामास पुत्रैस्स पितॄन्देवसुतोपमैः
सर्वेषामुत्तमस्तेषां कनीयान्रघुनंदन१३
शूरश्च कृतविद्यश्च गुरुश्च जनपूजया
नाम तस्याथ दंडेति पिता चक्रे स बुद्धिमान्१४
भविष्यद्दण्डपतनं शरीरे तस्य वीक्ष्य च
संपश्यमानस्तं दोषं घोरं पुत्रस्य राघव१५
स विंध्यनीलयोर्मध्ये राज्यमस्य ददौ प्रभुः
स दंडस्तत्र राजाभूद्रम्ये पर्वतमूर्द्धनि१६
पुरं चाप्रतिमं तेन निवेशाय तथा कृतम्
नाम तस्य पुरस्याथ मधुमत्तमिति स्वयम्१७
तथादेशेन संपन्नः शूरो वासमथाकरोत्
एवं राजा स तद्राज्यं चकार सपुरोहितः१८
प्रहृष्ट सुप्रजाकीर्णं देवराजो यथा दिवि
ततः स दंडः काकुत्स्थ बहुवर्षगणायुतम्१९
अकारयत्तु धर्मात्मा राज्यं निहतकंटकं
अथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्२०
रमणीयमुपाक्रामच्चैत्रमासे मनोरमे
तत्र भार्गवकन्यां तु रूपेणाप्रतिमां भुवि२१
विचरंतीं वनोद्देशे दंडोऽपश्यदनुत्तमाम्
उत्तुंगपीवरीं श्यामां चंद्राभवदनां शुभाम्२२
सुनासां चारुसर्वांगीं पीनोन्नतपयोधराम्
मध्ये क्षामां च विस्तीर्णां दृष्ट्वा तां कुरुते मुदम्२३
एकवस्त्रां वने चैकां प्रथमे यौवने स्थिताम्
स तां दृष्ट्वात्वधर्मेण अनंगशरपीडितः२४
अभिगम्य सुविश्रांतां कन्यां वचनमब्रवीत्
कुतस्त्वमसि सुश्रोणि कस्य चासि सुशोभने२५
पीडतोहमनंगेन पृच्छामि त्वां सुशोभने
त्वया मेऽपहृतं चित्तं दर्शनादेव सुंदरि२६
इदं ते वदनं रम्यं मुनीनां चित्तहारकम्
यद्यहं न लभे भोक्तुं मृतं मामवधारय२७
त्वया हृता मम प्राणा मां जीवय सुलोचने
दासोस्मि ते वरारोहे भक्तं मां भज शोभने२८
तस्यैवं तु ब्रुवाणस्य मदोन्मत्तस्य कामिनः
भार्गवी प्रत्युवाचेदं वचः सविनयं नृपम्२९
भार्गवस्य सुतां विद्धि शुक्रस्याक्लिष्टकर्मणः
अरजां नाम राजेंद्र ज्येष्ठामाश्रमवासिनः३०
शुक्रः पिता मे राजेंद्र त्वं च शिष्यो महात्मनः
धर्मतो भगिनी चाहं भवामि नृपनंदन३१
एवंविधं वचो वक्तुं न त्वमर्हसि पार्थिव
अन्येभ्योपि सुदुष्टेभ्यो रक्ष्या चाहं सदा त्वया३२
क्रोधनो मे पिता रौद्रो भस्मत्वं त्वां समानयेत्
अथवा राजधर्मेणासंबंधं कुरुषे बलात्३३
पितरं याचयस्व त्वं धर्मदृष्टेन कर्मणा
वरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम्३४
अन्यथा विपुलं दुःखं तव घोरं भवेद्ध्रुवम्
क्रुद्धो हि मे पिता सर्वं त्रैलोक्यमभिनिर्दहेत्३५
ततोऽशुभं महाघोरं श्रुत्वा दंडः सुदारुणम्
प्रत्युवाच मदोन्मत्तः शिरसाभिनतः पुनः३६
प्रसादं कुरु सुश्रोणि कामोन्मत्तस्य कामिनि
त्वया रुद्धा मम प्राणा विशीर्यंति शुभानने३७
त्वां प्राप्य वैरं मेऽत्रास्तु वधो वापि महत्तरः
भक्तं भजस्व मां भीरु त्वयि भक्तिर्हि मे परा३८
एवमुक्त्वा तु तां कन्यां बलात्संगृह्य बाहुना
अन्येन राज्ञा हस्तेन विवस्त्रा सा तथा कृता३९
अंगमंगे समाश्लेष्य मुखे चैव मुखं कृतम्
विस्फुरंतीं यथाकामं मैथुनायोपचक्रमे४०
तमनर्थं महाघोरं दंडः कृत्वा सुदारुणम्
नगरं स्वं जगामाशु मदोन्मत्त इव द्विपः४१
भार्गवी रुदती दीना आश्रमस्याविदूरतः
प्रत्यपालयदुद्विग्ना पितरं देवसम्मितम्४२
स मुहूर्तादुपस्पृश्य देवर्षिरमितद्युतिः
स्वमाश्रमं शिष्यवृतं क्षुधार्तः सन्यवर्तत४३
सोपश्यदरजां दीनां रजसा समभिप्लुताम्
चंद्रस्य घनसंयुक्तां ज्योत्स्नामिव पराजिताम्४४
तस्य रोषः समभवत्क्षुधार्तस्य महात्मनः
निर्दहन्निव लोकांस्त्रींस्तान्शिष्यान्समुवाच ह४५
पश्यध्वं विपरीतस्य दंडस्यादीर्घदर्शिनः
विपत्तिं घोरसंकाशां दीप्तामग्निशिखामिव४६
यन्नाशं दुर्गतिं प्राप्तस्सानुगश्च न संशयः
यस्तु दीप्तहुताशस्य अर्चिः संस्पृष्टवानिह४७
यस्मात्स कृतवान्पापमीदृशं घोरसंमितम्
तस्मात्प्राप्स्यति दुर्मेधाः पांसुवर्षमनुत्तमम्४८
कुराजा देशसंयुक्तः सभृत्यबलवाहनः
पापकर्मसमाचारो वधं प्राप्स्यति दुर्मतिः४९
समंताद्योजनशतं विषयं चास्य दुर्मतेः
धुनोतु पांसुवर्षेण महता पाकशासनः1.37.५०
सर्वसत्वानि यानीह जंगमस्थावराणि वै
सर्वेषां पांसुवर्षेण क्षयः क्षिप्रं भविष्यति५१
दंडस्य विषयो यावत्तावत्सवनमाश्रमम्
पांसुवर्षमिवाकस्मात्सप्तरात्रं भविष्यति५२
इत्युक्त्वा क्रोधसंतप्तस्तमाश्रमनिवासिनम्
जनं जनपदस्यांते स्थीयतामित्युवाच ह५३
उक्तमात्रे उशनसा आश्रमावसथो जनः
क्षिप्रं तु विषयात्तस्मात्स्थानं चक्रे च बाह्यतः५४
तं तथोक्त्वा मुनिजनमरजामिदमब्रवीत्
आश्रमे त्वं सुदुर्मेधे वस चेह समाहिता५५
इदं योजनपर्यंतमाश्रमं रुचिरप्रभम्
अरजे विरजास्तिष्ठ कालमत्र समाश्शतम्५६
श्रुत्वा नियोगं विप्रर्षेररजा भार्गवी तदा
तथेति पितरं प्राह भार्गवं भृशदुःखिता५७
इत्युक्त्वा भार्गवो वासं तस्मादन्यमुपाक्रमत्
सप्ताहे भस्मसाद्भूतं यथोक्तं ब्रह्मवादिना५८
तस्माद्दंडस्य विषयो विंध्यशैलस्य मानुष
शप्तो ह्युशनसा राम तदाभूद्धर्षणे कृते५९
ततःप्रभृति काकुत्स्थ दंडकारण्यमुच्यते
एतत्ते सर्वमाख्यातं यन्मां पृच्छसि राघव६०
संध्यामुपासितुं वीर समयो ह्यतिवर्तते
एते महर्षयो राम पूर्णकुंभाः समंततः६१
कृतोदका नरव्याघ्र पूजयंति दिवाकरम्
सर्वैरॄषिभिरभ्यस्तैः स्तोत्रैर्ब्रह्मादिभिः कृतैः६२
रविरस्तंगतो राम गत्वोदकमुपस्पृश
ॠषेर्वचनमादाय रामः संध्यामुपासितुम्६३
उपचक्राम तत्पुण्यं ससरोरघुनंदनः
अथ तस्मिन्वनोद्देशे रम्ये पादपशोभिते६४
नदपुण्ये गिरिवरे कोकिलाशतमंडिते
नानापक्षिरवोद्याने नानामृगसमाकुले६५
सिंहव्याघ्रसमाकीर्णे नानाद्विजसमावृते
गृध्रोलूकौ प्रवसितौ बहून्वर्षगणानपि६६
अथोलूकस्य भवनं गृध्रः पापविनिश्चयः
ममेदमिति कृत्वाऽसौ कलहं तेन चाकरोत्६७
राजा सर्वस्य लोकस्य रामो राजीवलोचनः
तं प्रपद्यावहै शीघ्रं कस्यैतद्भवनं भवेत्६८
गृध्रोलूकौ प्रपद्येतां जातकोपावमर्षिणौ
रामं प्रपद्यतौ शीघ्रं कलिव्याकुलचेतसौ६९
तौ परस्परविद्वेषौ स्पृशतश्चरणौ तथा
अथ दृष्ट्वा राघवेंद्रं गृध्रो वचनमब्रवीत्७०
सुराणामसुराणां च त्वं प्रधानो मतो मम
बृहस्पतेश्च शुक्राच्च त्वं विशिष्टो महामतिः७१
परावरज्ञो भूतानां मर्त्ये शक्र इवापरः
दुर्निरीक्षो यथा सूर्यो हिमवानिव गौरवे७२
सागरश्चासि गांभीर्ये लोकपालो यमो ह्यसि
क्षांत्या धरण्या तुल्योसि शीघ्रत्वे ह्यनिलोपमः७३
गुरुस्त्वं सर्वसंपन्नो विष्णुरूपोसि राघव
अमर्षी दुर्जयो जेता सर्वास्त्रविधिपारगः७४
शृणु त्वं मम देवेश विज्ञाप्यं नरपुंगव
ममालयं पूर्वकृतं बाहुवीर्येण वै प्रभो७५
उलूको हरते राजंस्त्वत्समीपे विशेषतः
ईदृशोयं दुराचारस्त्वदाज्ञा लंघको नृप७६
प्राणांतिकेन दंडेन राम शासितुमर्हसि
एवमुक्ते तु गृध्रेण उलूको वाक्यमब्रवीत्७७
शृणु देव मम ज्ञाप्यमेकचित्तो नराधिप
सोमाच्छक्राच्च सूर्याच्च धनदाच्च यमात्तथा७८
जायते वै नृपो राम किंचिद्भवति मानुषः
त्वं तु सर्वमयो देवो नारायणपरायणः७९
प्रोच्यते सोमता राजन्सम्यक्कार्ये विचारिते
सम्यग्रक्षसि तापेभ्यस्तमोघ्नो हि यतो भवान्८०
दोषे दंडात्प्रजानां त्वं यतः पापभयापहः
दाता प्रहर्ता गोप्ता च तेनेंद्र इव नो भवान्८१
अधृष्यः सर्वभूतेषु तेजसा चानलो मतः
अभीक्ष्णं तपसे पापांस्तेन त्वं राम भास्करः८२
साक्षाद्वित्तेशतुल्यस्त्वमथवा धनदाधिकः
चित्तायत्ता तु पत्नीश्रीर्नित्यं ते राजसत्तम८३
धनदस्य तु कोशेन धनदस्तेन वैभवान्
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च८४
शत्रौ मित्रे च ते दृष्टिः समंताद्याति राघव
धर्मेण शासनं नित्यं व्यवहारविधिक्रमैः८५
यस्य रुष्यसि वै राम मृत्युस्तस्याभिधीयते
गीयसे तेन वै राजन्यम इत्यभिविश्रुतः८६
यश्चासौ मानुषो भावो भवतो नृपसत्तम
आनृशंस्यपरो राजा सर्वेषु कृपयान्वितः८७
दुर्बलस्य त्वनाथस्य राजा भवति वै बलम्
अचक्षुषो भवेच्चक्षुरमतेषु मतिर्भवेत्८८
अस्माकमपि नाथस्त्वं श्रूयतां मम धार्मिक
भवता तत्र मंतव्यं यथैते किल पक्षिणः८९
योस्मन्नाथः स पक्षींद्रो भवतो विनियोज्यकः
अस्वाम्यं देव नास्माकं सन्निधौ भवतः प्रभो९०
भवतैव कृतं पूर्वं भूतग्रामं चतुर्विधम्
ममालयप्रविष्टस्तु गृध्रो मां बाधते नृप९१
भवान्देवमनुष्येषु शास्ता वै नरपुंगव
एतच्छ्रुत्वा तु वै रामः सचिवानाह्वयत्स्वयम्९२
विष्टिर्जयंतो विजयः सिद्धार्थो राष्ट्रवर्धनः
अशोको धर्मपालश्च सुमंत्रश्च महाबलः९३
एते रामस्य सचिवा राज्ञो दशरथस्य च
नीतियुक्ता महात्मानः सर्वशास्त्रविशारदाः९४
सुशांताश्च कुलीनाश्च नये मंत्रे च कोविदाः
तानाहूय स धर्मात्मा पुष्पकादवरुह्य च९५
गृध्रोलूकौ विवदंतौ पृच्छति स्म रघूत्तमः
कति वर्षाणि भो गृध्र तवेदं निलयं कृतं९६
एतन्मे कौतुकं ब्रूहि यदि जानासि तत्त्वतः
एतच्छ्रुत्वा वचो गृध्रो बभाषे राघवं स्थितं९७
इयं वसुमती राम मानुषैर्बहुबाहुभिः
उच्छ्रितैराचिता सर्वा तदाप्रभृति मद्गृहं९८
उलूकस्त्वब्रवीद्रामं पादपैरुपशोभिता
यदैव पृथिवी राजंस्तदाप्रभृति मे गृहं९९
एतच्छ्रुत्वा तु रामो वै सभासद उवाचह
न सा सभा यत्र न संति वृद्धा वृद्धा न ते ये न वदंति धर्मं1.37.१००
नासौ धर्मो यत्र न चास्ति सत्यं न तत्सत्यं यच्छलमभ्युपैति
ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायंत आसते१०१
यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः
न वक्ति च श्रुतं यश्च कामात्क्रोधात्तथा भयात्१०२
सहस्रं वारुणाः पाशाः प्रतिमुंचंति तं नरं
तेषां संवत्सरे पूर्णे पाश एकः प्रमुच्यते१०३
तस्मात्सत्यं तु वक्तव्यं जानता सत्यमंजसा
एतच्छ्रुत्वा तु सचिवा राममेवाब्रुवंस्तदा१०४
उलूकः शोभते राजन्न तु गृध्रो महामते
त्वं प्रमाणं महाराज राजा हि परमा गतिः१०५
राजमूलाः प्रजाः सर्वा राजा धर्मः सनातनः
शास्ता राजा नृणां येषां न ते गच्छंति दुर्गतिम्१०६
वैवस्वतेन मुक्ताश्च भवंति पुरुषोत्तमाः
सचिवानां वचः श्रुत्वा रामो वचनमब्रवीत्१०७
श्रूयतामभिधास्यामि पुराणं यदुदाहृतं
द्यौः सचंद्रार्कनक्षत्रा सपर्वतमहीद्रुमम्१०८
सलिलार्णवसंमग्नं त्रैलोक्यं सचराचरं
एकमेव तदा ह्यासीत्सर्वमेकमिवांबरं१०९
पुनर्भूः सह लक्ष्म्या च विष्णोर्जठरमाविशत्
तां निगृह्य महातेजाः प्रविश्य सलिलार्णवं११०
सुष्वाप हि कृतात्मा स बहुवर्षशतान्यपि
विष्णौ सुप्ते ततो ब्रह्मा विवेश जठरं ततः१११
बहुस्रोतं च तं ज्ञात्वा महायोगी समाविशत्
नाभ्यां विष्णोः समुद्भूतं पद्मं हेमविभूषितं११२
स तु निर्गम्य वै ब्रह्मा योगी भूत्वा महाप्रभुः
सिसृक्षुः पृथिवीं वायुं पर्वतांश्च महीरुहान्११३
तदंतराः प्रजाः सर्वा मानुषांश्च सरीसृपान्
जरायुजाण्डजान्सर्वान्ससर्ज स महातपाः११४
तस्य गात्रसमुत्पन्नः कैटभो मधुना सह
दानवौ तौ महावीर्यौ घोरौ लब्धवरौ तदा११५
दृष्ट्वा प्रजापतिं तत्र क्रोधाविष्टावुभौ नृप
वेगेन महता भोक्तुं स्वयंभुवमधावतां११६
दृष्ट्वा सत्वानि सर्वाणि निस्सरन्ति पृथक्पृथक्
ब्रह्मणा संस्तुतो विष्णुर्हत्वा तौ मधुकैटभौ११७
पृथिवीं वर्धयामास स्थित्यर्थं मेदसा तयोः
मेदोगंधा तु धरणी मेदिनीत्यभिधां गता११८
तस्माद्गृध्रस्त्वसत्यो वै पापकर्मापरालयम्
स्वीयं करोति पापात्मा दण्डनीयो न संशयः११९
ततोऽशरीरिणीवाणी अंतरिक्षात्प्रभाषते
मा वधी राम गृध्रं त्वं पूर्वंदग्धं तपोबलात्१२०
पुरा गौतम दग्धोऽयं प्रजानाथो जनेश्वर
ब्रह्मदत्तस्तु नामैष शूरः सत्यव्रतः शुचिः१२१
गृहमागत्य विप्रर्षेर्भोजनं प्रत्ययाचत
साग्रं वर्षशतं चैव भुक्तवान्नृपसत्तम१२२
ब्रह्मदत्तस्य वै तस्य पाद्यमर्घ्यं स्वयं ततः
आत्मनैवाकरोत्सम्यग्भोजनार्थं महाद्युते१२३
समाविश्य गृहं तस्य आहारे तु महात्मनः
नारीं पूर्णस्तनीं दृष्ट्वा हस्तेनाथ परामृशत्१२४
अथ क्रुद्धेन मुनिना शापो दत्तः सुदारुणः
गृध्रत्वं गच्छ वै मूढ राजा मुनिमथाब्रवीत्१२५
कृपां कुरु महाभाग शापोद्धारो भविष्यति
दयालुस्तद्वचः श्रुत्वा पुनराह नराधिप१२६
उत्पत्स्यते रघुकुले रामो नाम महायशाः
इक्ष्वाकूणां महाभागो राजा राजीवलोचनः१२७
तेन दृष्टो विपापस्त्वं भविता नरपुंगव
दृष्टो रामेण तच्छ्रुत्वा बभूव पृथिवीपतिः१२८
गृध्रत्वं त्यज्य वै शीघ्रं दिव्यगंधानुलेपनः
पुरुषो दिव्यरूपोऽसौ बभाषे तं नराधिपं१२९
साधु राघव धर्मज्ञ त्वत्प्रसादादहं विभो
विमुक्तो नरकाद्घोरादपापस्तु त्वया कृतः१३०
विसर्जितं मया गार्ध्यं नररूपी महीपतिः
उलूकं प्राह धर्मज्ञ स्वगृहं विश कौशिक१३१
अहं संध्यामुपासित्वा गमिष्ये यत्र वै मुनिः
अथोदकमुपस्पृश्य संध्यामन्वास्य पश्चिमां१३२
आश्रमं प्राविशद्रामः कुंभयोनेर्महात्मनः
तस्यागस्त्यो बहुगुणं फलमूलं च सादरं१३३
रसवंति च शाकानि भोजनार्थमुपाहरत्
सभुक्तवान्नरव्याघ्रस्तदन्नममृतोपमम्१३४
प्रीतश्च परितुष्टश्च तां रात्रिं समुपावसत्
प्रभाते काल्यमुत्थाय कृत्वाह्निकमरिंदम१३५
ॠषिं समभिचक्राम गमनाय रघूत्तमः
अभिवाद्याब्रवीद्रामो महर्षिं कुंभसंभवम्१३६
आपृच्छे साधये ब्रह्मन्ननुज्ञातुं त्वमर्हसि
धन्योस्म्यनुगृहीतोस्मि दर्शनेन महामुने१३७
दिष्ट्या चाहं भविष्यामि पावनात्मा महात्मनः
एवं ब्रुवति काकुत्स्थे वाक्यमद्भुतदर्शनं१३८
उवाच परमप्रीतो बाष्पनेत्रस्तपोधनः
अत्यद्भुतमिदं वाक्यं तव राम शुभाक्षरं१३९
पावनं सर्वभूतानां त्वयोक्तं रघुनंदन
मुहूर्तमपि राम त्वां मैत्रेणेक्षंति ये नराः१४०
पावितास्सर्वसूक्तैस्ते कथ्यंते त्रिदिवौकसः
ये च त्वां घोरचक्षुर्भिरीक्षंते प्राणिनो भुवि१४१
ते हता ब्रह्मदंडेन सद्यो नरकगामिनः
ईदृशस्त्वं रघुश्रेष्ठ पावनः सर्वदेहिनां१४२
कथयंतश्च लोकास्त्वां सिद्धिमेष्यंति राघव
गच्छस्वानातुरोऽविघ्नं पंथानमकुतोभयः१४३
प्रशाधि राज्यं धर्मेण गतिस्तु जगतां भवान्
एवमुक्तस्तु मुनिना प्राञ्जलि प्रग्रहो नृपः१४४
अभिवादयितुं चक्रे सोऽगस्त्यमृषिसत्तमम्
अभिवाद्य मुनिश्रेष्ठंस्तांश्च सर्वांस्तपोधिकान्१४५
अथारोहत्तदाव्यग्रः पुष्पकं हेमभूषितम्
तं प्रयांतं मुनिगणा आशीर्वादैस्समंततः१४६
अपूपुजन्नरेंद्रं तं सहस्राक्षमिवामराः
ततोऽर्धदिवसे प्राप्ते रामः सर्वार्थकोविदः१४७
अयोध्यां प्राप्य काकुत्स्थः पद्भ्यां कक्षामवातरत्
ततो विसृज्य रुचिरं पुष्पकं कामवाहितं१४८
कक्षांतराद्विनिष्क्रम्य द्वास्थान्राजाऽब्रवीदिदं
लक्ष्मणं भरतं चैव गच्छध्वं लघुविक्रमाः१४९
ममागमनमाख्याय समानयत मा चिरम्
श्रुत्वाथ भाषितं द्वास्था रामस्याक्लिष्टकर्मणः1.37.१५०
गत्वा कुमारावाहूय राघवाय न्यवदेयन्
द्वास्थैः कुमारावानीतौ राघवस्य निदेशतः१५१
दृष्ट्वा तु राघवः प्राप्तौ प्रियौ भरतलक्ष्मणौ
समालिंग्य तु रामस्तौ वाक्यं चेदमुवाच ह१५२
कृतं मया यथातथ्यं द्विजकार्यमनुत्तमं
धर्महेतुमतो भूयः कर्तुमिच्छामि राघवौ१५३
भवद्भ्यामात्मभूताभ्यां राजसूयं क्रतूत्तमं
सहितो यष्टुमिच्छामि यत्र धर्मश्च शाश्वतः१५४
पुष्करस्थेन वै पूर्वं ब्रह्मणा लोककारिणा
शतत्रयेण यज्ञानामिष्टं षष्ट्याधिकेन च१५५
इष्ट्वा हि राजसूयेन सोमो धर्मेण धर्मवित्
प्राप्तः सर्वेषु लोकेषु कीर्तिस्थानमनुत्तमम्१५६
इष्ट्वा हि राजसूयेन मित्रः शत्रुनिबर्हणः
मुहूर्तेन सुशुद्धेन वरुणत्वमुपागतः१५७
तस्माद्भवंतौ संचिंत्य कार्येस्मिन्वदतं हि तत्
भरत उवाच
त्वं धर्मः परमः साधो त्वयि सर्वा वसुंधरा१५८
प्रतिष्ठिता महाबाहो यशश्चामितविक्रम
महीपालाश्च सर्वे त्वां प्रजापतिमिवामराः१५९
निरीक्षंते महात्मानो लोकनाथ तथा वयं
प्रजाश्च पितृवद्राजन्पश्यंति त्वां महामते१६०
पृथिव्यां गतिभूतोसि प्राणिनामिह राघव
सत्वमेवंविधं यज्ञं नाहर्त्तासि परंतप१६१
पृथिव्यां सर्वभूतानां विनाशो दृश्यते यतः
श्रूयते राजशार्दूल सोमस्य मनुजेश्वर१६२
ज्योतिषां सुमहद्युद्धं संग्रामे तारकामये
तारा बृहस्पतेर्भार्या हृता सोमेनकामतः१६३
तत्र युद्धं महद्वृत्तं देवदानवनाशनम्
वरुणस्य क्रतौ घोरे संग्रामे मत्स्यकच्छपाः१६४
निवृत्ते राजशार्दूल सर्वे नष्टा जलेचराः
हरिश्चंद्रस्य यज्ञांते राजसूयस्य राघव१६५
आडीबकंमहद्युद्धं सर्वलोकविनाशनम्
पृथिव्यां यानि सत्वानि तिर्यग्योनिगतानि वै१६६
दिव्यानां पार्थिवानां च राजसूये क्षयः श्रुतः
स त्वं पुरुषशार्दूल बुद्ध्या संचिंत्य पार्थिव१६७
प्राणिनां च हितं सौम्यं पूर्णधर्मं समाचर
भरतस्य वचः श्रुत्वा राघवः प्राह सादरम्१६८
प्रीतोस्मि तव धर्मज्ञ वाक्येनानेन शत्रुहन्
निवर्तिता राजसूयान्मतिर्मे धर्मवत्सल१६९
पूर्णं धर्मं करिष्यामि कान्यकुब्जे च वामनम्
स्थापयिष्याम्यहं वीर सा मे ख्यातिर्दिवं गता१७०
भविष्यति न संदेहो यथा गंगा भगीरथात्१७१

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे यज्ञनिवारणंनाम सप्तत्रिंशोऽध्यायः३७