पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search

पुलस्त्य उवाच
ततो देवाः प्रयातास्ते विमानैर्बहुभिस्तदा
रामोप्यनुजगामाशु कुंभयोनेस्तपोवनम्१
उक्तं भगवता तेन भूयोप्यागमनं क्रियाः
पूर्वमेव सभायां च यो मां द्रष्टुं समागतः२
तदहं देवतादेशात्तत्कार्यार्थे महामुनिं
पश्यामि तं मुनिं गत्वा देवदानवपूजितम्३
उपदेशं च मे तुष्टः स्वयं दास्यति सत्तमः
दुःखी येन पुनर्मर्त्ये न भवामि कदाचन४
पिता दशरथो मह्यं कौसल्या जननी तथा
सूर्यवंशे समुत्पन्नस्तथाप्येवं सुदुःखितः५
राज्यकाले वने वासो भार्यया चानुजेन च
हरणं चापि भार्याया रावणेन कृतं मम६
असहायेन तु मया तीर्त्वा सागरमुत्तमम्
रुद्ध्वा तु तां पुरीं सर्वां कृत्वा तस्य कुलक्षयम्७
दृष्टा सीता मया त्यक्ता देवानां तु पुरस्तदा
शुद्धां तां मां तथोचुस्ते मया सीता तथा गृहम्८
समानीता प्रीतिमता लोकवाक्याद्विसर्जिता
वने वसति सा देवी पुरे चाहं वसामि वै९
जातोहमुत्तमे वंशे उत्तमोहं धनुष्मताम्
उत्तमं दुःखमापन्नो हृदयं नैव भिद्यते१०
वज्रसारस्य सारेण धात्राहं निर्मितो ध्रुवम्
इदानीं ब्राह्मणादेशाद्भ्रमामि धरणीतले११
तपः स्थितस्तु शूद्रोसौ मया पापो निपातितः
देववाक्यात्तु मे भूयः प्राणो मे हृदि संस्थितः१२
पश्यामि तं मुनिं वंद्यं जगतोस्य हिते रतम्
दृष्टेन मे तथा दुःखं नाशमेष्यति सत्वरम्१३
उदयेन सहस्रांशोर्हिमं यद्वद्विलीयते
तद्वन्मे दुःखसंप्राप्तिः सर्वथा नाशमेष्यति१४
दृष्ट्वा च देवान्संप्राप्तानगस्त्यो भगवानृषिः
अर्घ्यमादाय सुप्रीतः सर्वांस्तानभ्यपूजयत्१५
ते तु गृह्य ततः पूजां संभाष्य च महामुनिं
जग्मुस्तेन तदा हृष्टा नाकपृष्ठं सहानुगाः१६
गतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च
अभिवादयितुं प्राप्तः सोगस्त्यमृषिमुत्तमम्१७
राजोवाच
सुतो दशरथस्याहं भवंतमभिवादितुम्
आगतो वै मुनिश्रेष्ठ सौम्येनेक्षस्व चक्षुषा१८
निर्धूतपापस्त्वां दृष्ट्वा भवामीह न संशयः
एतावदुक्त्वा स मुनिमभिवाद्य पुनः पुनः१९
कुशलं भृत्यवर्गस्य मृगाणां तनयस्य च
भगवद्दर्शनाकांक्षी शूद्रं हत्वा त्विहागतः२०
अगस्त्य उवाच
स्वागतं ते रघुश्रेष्ठ जगद्वंद्य सनातन
दर्शनात्तव काकुत्स्थ पूतोहं मुनिभिः सह२१
त्वत्कृते रघुशार्दूल गृहाणार्घं महाद्युते
स्वागतं नरशार्दूल दिष्ट्या प्राप्तोसि शत्रुहन्२२
त्वं हि नित्यं बहुमतो गुणैर्बहुभिरुत्तमैः
अतस्त्वं पूजनीयो वै मम नित्यं हृदिस्थितः२३
सुरा हि कथयंति त्वां शूद्रघातिनमागतं
ब्राह्मणस्य च धर्मेण त्वया वै जीवितः सुतः२४
उष्यतां चेह भगवः सकाशे मम राघव
प्रभाते पुष्पकेणासि गंतायोध्यां महामते२५
इदं चाभरणं सौम्य सुकृतं विश्वकर्मणा
दिव्यं दिव्येनवपुषा दीप्यमानं स्वतेजसा२६
प्रतिगृह्णीष्व राजेन्द्र मत्प्रियं कुरु राघव
लब्धस्य हि पुनर्द्दाने सुमहत्फलमुच्यते२७
त्वं हि शक्तः परित्रातुं सेंद्रानपि सुरोत्तमान्
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नरर्षभ२८
अथोवाच महाबाहुरिक्ष्वाकूणां महारथः
कृतांजलिर्मुनिश्रेष्ठं स्वं च धर्ममनुस्मरन्२९
प्रतिग्रहो वै भगवंस्तव मेऽत्र विगर्हितः
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता३०
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि
सपुत्रो गृहवानस्मि समर्थोस्मि महामुने३१
आपदा चन चाक्रांतः कथं ग्राह्यः प्रतिग्रहः
भार्या मे सुचिरं नष्टा न चान्या मम विद्यते३२
केवलं दोषभागी च भवामीह न संशयः
कष्टां चैव दशां प्राप्य क्षत्रियोपि प्रतिग्रही३३
कुर्वन्न दोषमाप्नोति मनुरेवात्र कारणम्
वृद्धौ च मातापितरौ साध्वी भार्या शिशुः सुतः३४
अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्
नाहं प्रतीच्छे विप्रर्षे त्वया दत्तं प्रतिग्रहं३५
न च मे भवता कोपः कार्यो वै सुरपूजित३६
अगस्त्य उवाच
न च प्रतिग्रहे दोषो गृहीते पार्थिवैर्नृप
भवान्वै तारणे शक्तस्त्रैलोक्यस्यापि राघव३७
तारय ब्राह्मणं राम विशेषेण तपस्विनं
तस्मात्प्रदास्ये विधिवत्प्रतीच्छस्व नराघिप३८
राम उवाच
क्षत्रियेण कथं विप्र प्रतिग्राह्यं विजानता
ब्राह्मणेन तु यद्दत्तं तन्मे त्वं वक्तुमर्हसि३९
अगस्त्य उवाच
आसीत्कृतयुगे राम ब्रह्मपूते पुरातने
अपार्थिवाः प्रजाः सर्वाः सुराणां च शतक्रतुः४०
ताः प्रजा देवदेवेशं राजार्थं समुपागमन्
सुराणां विद्यते राजा देवदेवः शतक्रतुः४१
श्रेयसेस्मासु लोकेश पार्थिवं कुरु सांप्रतं
यस्मिन्पूजां प्रयुंजानाः पुरुषा भुंजते महीम्४२
ततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्
समाहूयाब्रवीत्सर्वांस्तेजोभागोऽत्र युज्यताम्४३
ततो ददुर्लोकपालाश्चतुर्भागं स्वतेजसा
अक्षयश्च ततो ब्रह्मा यतो जातोऽक्षयो नृपः४४
तं ब्रह्मा लोकपालानामंशं पुंसामयोजयत्
ततो नृपस्तदा तासां प्रजानां क्षेमपंडितः४५
तत्रैंद्रेण तु भागेन सर्वानाज्ञापयेन्नृपः
वारुणेन च भागेन सर्वान्पुष्णाति देहिनः४६
कौबेरेण तथांशेन त्वर्थान्दिशति पार्थिवः
यश्च याम्यो नृपे भागस्तेन शास्ति च वै प्रजाः४७
तत्र चैंद्रेण भागेन नरेन्द्रोसि रघूत्तम
प्रतिगृह्णीष्वाभरणं तारणार्थे मम प्रभो४८
ततो रामः प्रजग्राह मुनेर्हस्तान्महात्मनः
दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करं४९
प्रतिगृह्य ततोगस्त्याद्राघवः परवीरहा
निरीक्ष्य सुचिरं कालं विचार्य च पुनः पुनः1.36.५०
मौक्तिकानि विचित्राणि धात्रीफलसमानि च
जांबूनदनिबद्धानि वज्रविद्रुमनीलकैः५१
पद्मरागैः सगोमेधैर्वैडूर्यैः पुष्परागकैः
सुनिबद्धं सुविभक्तं सुकृतं विश्वकर्मणा५२
दृष्ट्वा प्रीतिसमायुक्तो भूयश्चेदं व्यचिंतयत्
नेदृशानि च रत्नानि मया दृष्टानि कानिचित्५३
उपशोभानि बद्धानि पृथ्वीमूल्यसमानि च
विभीषणस्य लंकायां न दृष्टानि मया पुरा५४
इति संचित्य मनसा राघवस्तमृषिं पुनः
आगमं तस्य दिव्यस्य प्रष्टुं समुपचक्रमे५५
अत्यद्भुतमिदं ब्रह्मन्न प्राप्यं च महीक्षिताम्
कथं भगवता प्राप्तं कुतो वा केन निर्मितम्५६
कुतूहलवशाच्चैव पृच्छामि त्वां महामते
करतलेस्थिते रत्ने करमध्यं प्रकाशते५७
अधमं तद्विजानीयात्सर्वशास्त्रेषु गर्हितम्
दिशः प्रकाशयेद्यत्तन्मध्यमं मुनिसत्तम५८
ऊर्ध्वगं त्रिशिखं यत्स्यादुत्तमं तदुदाहृतम्
एतान्युत्तमजातीनि ऋषिभिः कीर्तितानि तु५९
आश्चर्याणां बहूनां हि दिव्यानां भगवान्निधिः
एवं वदति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्६०
अगस्त्य उवाच
शृणु राम पुरावृत्तं पुरा त्रेतायुगे महत्
द्वापरे समनुप्राप्ते वने यद्दृष्टवानहम्६१
आश्चर्यं सुमहाबाहो निबोध रघुनंदन
पुरा त्रेतायुगे ह्यासीदरण्यं बहुविस्तरम्६२
समंताद्योजनशतं मृगव्याघ्रविवर्जितम्
तस्मिन्निष्पुरुषेऽरण्ये चिकीर्षुस्तप उत्तमम्६३
अहमाक्रमितुं सौम्य तदरण्यमुपागतः
तस्यारण्यस्य मध्यं तु युक्तं मूलफलैः सदा६४
शाकैर्बहुविधाकारैर्नानारूपैः सुकाननैः
तस्यारण्यस्य मध्ये तु पंचयोजनमायतम्६५
हंसकारंडवाकीर्णं चक्रवाकोपशोभितम्
तत्राश्चर्यं मया दृष्टं सरः परमशोभितम्६६
विसारिकच्छपाकीर्णं बकपंक्तिगणैर्युतम्
समीपे तस्य सरसस्तपस्तप्तुं गतः पुरा६७
देशं पुण्यमुपेत्यैवं सर्वहिंसाविवर्जितम्
तत्राहमवसं रात्रिं नैदाघीं पुरुषर्षभ६८
प्रभाते पुरुत्थाय सरस्तदुपचक्रमे
अथापश्यं शवमहमस्पृष्टजरसं क्वचित्६९
तिष्ठंतं परया लक्ष्म्या सरसो नातिदूरतः
तदर्थं चिंतयानोहं मुहूर्तमिव राघव७०
अस्य तीरे न वै प्राणी को वाप्येष सुरर्षभः
मुनिर्वा पार्थिवो वापि क्व मुनिः पार्थिवोपि वा७१
अथवा पार्थिवसुतस्तस्यैवं संभवः कृतः
अतीतेहनि रात्रौ वा प्रातर्वापि मृतो यदि७२
अवश्यं तु मया ज्ञेया सरसोस्य विनिष्क्रिया
यावदेवं स्थितश्चाहं चिंतयानो रघूत्तम७३
अथापश्यं मूहूर्तात्तु दिव्यमद्भुतदर्शनम्
विमानं परमोदारं हंसयुक्तं मनोजवम्७४
पुरस्तत्र सहस्रं तु विमानेप्सरसां नृप
गंधर्वाश्चैव तत्संख्या रमयंति वरं नरम्७५
गायंति दिव्यगेयानि वादयंति तथा परे
अथापश्यं नरं तस्माद्विमानादवरोहितम्७६
शवमांसं भक्षयन्तं च स्नात्वा रघुकुलोद्वह
ततो भुक्त्वा यथाकामं स मांसं बहुपीवरम्७७
अवतीर्य सरः शीघ्रमारुरोह दिवं पुनः
तमहं देवसंकाशं श्रिया परमयान्वितम्७८
भो भो स्वर्गिन्महाभाग पृच्छामि त्वां कथं त्विदम्
जुगुप्सितस्तवाहारो गतिश्चेयं तवोत्तमा७९
यदि गुह्यं न चैतत्ते कथय त्वद्य मे भवान्
कामतः श्रोतुमिच्छामि किमेतत्परमं वचः८०
को भवान्वद संदेहमाहारश्च विगर्हितः
त्वयेदं भुज्यते सौम्य किमर्थं क्व च वर्तसे८१
कस्यायमैश्वरोभावः शवत्वेन विनिर्मितः
आहारं च कथं निंद्यं श्रोतुमिच्छामि तत्त्वतः८२
श्रुत्वा च भाषितं तत्र मम राम सतां वर
प्रांजलिः प्रत्युवाचेदं स स्वर्गी रघुनंदन८३
शृणुष्वाद्य यथावृत्तं ममेदं सुखदुःखजम्
कामो हि दुरितक्रम्यः शृणु यत्पृच्छसे द्विज८४
पुरा वैदर्भको राजा पिता मे हि महायशाः
वासुदेव इति ख्यातस्त्रिषु लोकेषु धार्मिकः८५
तस्य पुत्रद्वयं ब्रह्मन्द्वाभ्यां स्त्रीभ्यामजायत
अहं श्वेत इति ख्यातो यवीयान्सुरथोऽभवत्८६
पितर्युपरते तस्मिन्पौरा मामभ्यषेचयन्
तत्राहंकारयन्राज्यं धर्मे चासं समाहितः८७
एवं वर्षसहस्राणि बहूनि समुपाव्रजन्
मम राज्यं कारयतः परिपालयतः प्रजाः८८
सोहं निमित्ते कस्मिंश्चिद्वैराग्येण द्विजोत्तम
मरणं हृदये कृत्वा तपोवनमुपागमम्८९
सोहं वनमिदं रम्यं भृशं पक्षिविवर्जितम्
प्रविष्टस्तप आस्थातुमस्यैव सरसोंतिके९०
राज्येऽभिषिच्य सुरथं भ्रातरं तं नराधिपम्
इदं सरः समासाद्य तपस्तप्तं सुदारुणम्९१
दशवर्षसहस्राणि तपस्तप्त्वा महावने
शुभं तु भवनं प्राप्तो ब्रह्मलोकमनामयम्९२
स्वर्गस्थमपि मां ब्रह्मन्क्षुत्पिपासे द्विजोत्तम
अबाधेतां भृशं चाहमभवं व्यथितेंद्रियः९३
ततस्त्रिभुवनश्रेष्ठमवोचं वै पितामहम्
भगवन्स्वर्गलोकोऽयं क्षुत्पिपासा विवर्जितः९४
कस्येयं कर्मणः पक्तिः क्षुत्पिपासे यतो हि मे
आहारः कश्च मे देव ब्रूहि त्वं श्रीपितामह९५
ततः पितामहः सम्यक्चिरं ध्यात्वा महामुने
मामुवाच ततो वाक्यं नास्ति भोज्यं स्वदेहजम्९६
ॠते ते स्वानि मांसानि भक्षय त्वं तु हि नित्यशः
स्वशरीरं त्वया पुष्टं कुर्वता तप उत्तमम्९७
नादत्तं जायते तात श्वेत पश्य महीतले
आग्रहाद्भिक्षमाणाय भिक्षापि प्राणिने पुरा९८
न हि दत्ता गृहे भ्रांत्या मोहादतिथये तदा
तेन स्वर्गगतस्यापि क्षुत्पिपासे तवाधुना९९
स त्वं प्रपुष्टमाहारैः स्वशरीरमनुत्तमम्
भक्षयस्व च राजेंद्र सा ते तृप्तिर्भविष्यति1.36.१००
एवमुक्तस्ततो देवं ब्रह्माणमहमुक्तवान्
भक्षिते च स्वके देहे पुनरन्यन्न मे विभो१०१
क्षुधानिवारणं नैव देहस्यास्य विनौदनं
खादामि ह्यक्षयं देव प्रियं मे न हि जायते१०२
ततोब्रवीत्पुनर्ब्रह्मा तव देहोऽक्षयः कृतः
दिनेदिने ते पुष्टात्मा शवः श्वेत भविष्यति१०३
यावद्वर्षशतं पूर्णं स्वमांसं खाद भो नृप
यदागच्छति चागस्त्यः श्वेतारण्यं महातपाः१०४
भगवानतिदुर्धर्षस्तदा कृच्छ्राद्विमोक्ष्यसे
स हि तारयितुं शक्तः सेंद्रानपि सुरासुरान्१०५
आहारं कुत्सितं चेमं राजर्षे किं पुनस्तव
सुरकार्यं महत्तेन सुकृतं तु महात्मना१०६
उदधिं निर्जलं कृत्वा दानवाश्च निपातिताः
विंध्यश्चादित्यविद्वेषाद्वर्धमानो निवारितः१०७
लंबमाना मही चैषा गुरुत्वेनाधिवासिता
दक्षिणा दिग्दिवं याता त्रैलाक्यं विषमस्थितम्१०८
मया गत्वा सुरैः सार्द्धं प्रेषितो दक्षिणां दिशम्
समां कुरु महाभाग गुरुत्वेन जगत्समम्१०९
एवं च तेन मुनिना स्थित्वा सर्वा धरा समा
कृता राजेंद्र मुनिना एवमद्यापि दृश्यते११०
सोहं भगवत श्रुत्वा देवदेवस्य भाषितम्
भुंजे च कुत्सिताहारं स्वशरीरमनुत्तमम्१११
पूर्णं वर्षशतं चाद्य भोजनं कुत्सितं च मे
क्षयं नाभ्येति तद्विप्र तृप्तिश्चापि ममोत्तमा११२
तं मुनिं कृच्छ्रसन्तप्तश्चिंतयामि दिवानिशम्
कदा वै दर्शनं मह्यं स मुनिर्दास्यते वने११३
एवं मे चिंतयानस्य गतं वर्षशतन्त्विह
सोगस्त्यो हि गतिर्ब्रह्मन्मुनिर्मे भविता ध्रुवं११४
न गतिर्भविता मह्यं कुंभयोनिमृते द्विजम्
श्रुत्वेत्थं भाषितं राम दृष्ट्वाहारं च कुत्सितम्११५
कृपया परया युक्तस्तं नृपं स्वर्गगामिनम्
करोम्यहं सुधाभोज्यं नाशयामि च कुत्सितम्११६
चिन्तयन्नित्यवोचं तमगस्त्यः किं करिष्यति
अहमेतत्कुत्सितं ते नाशयामि महामते११७
ईप्सितं प्रार्थयस्वास्मान्मनः प्रीतिकरं परम्
स स्वर्गी मां ततः प्राह कथं ब्रह्मवचोन्यथा११८
कर्तुं मुने मया शक्यं न चान्यस्तारयिष्यति
ॠते वै कुंभयोनिं तं मैत्रावरुणसंभवम्११९
अपृष्टोपि मया ब्रह्मन्नेवमूचे पितामहः
एवं ब्रुवाणं तं श्वेतमुक्तवानहमस्मि सः१२०
आगतस्तव भाग्येन दृष्टोहं नात्र संशयः
ततः स्वर्गी स मां ज्ञात्वा दंडवत्पतितो भुवि१२१
तमुत्थाप्य ततो रामाब्रवं किं ते करोम्यहम्
राजोवाच
आहारात्कुत्सिताद्ब्रह्मंस्तारयस्वाद्य दुष्कृतात्१२२
येन लोकोऽक्षयः स्वर्गो भविता त्वत्कृतेन मे
ततः प्रतिग्रहो दत्तो जगद्वंद्य नृपेण हि१२३
भवान्मामनुगृह्णातु प्रतीच्छस्व प्रतिग्रहम्१२७
कृता मतिस्तारणाय न लोभाद्रघुनंदन
गृहीते भूषणे राम मम हस्तगते तदा१२८
मानुषः पौर्विको देहस्तदा नष्टोस्य भूपते
प्रणष्टे तु शरीरे च राजर्षिः परया मुदा१२९
मयोक्तोसौ विमानेन जगाम त्रिदिवं पुनः
तेन मे शक्रतुल्येन दत्तमाभरणं शुभं१३०
तस्मिन्निमित्ते काकुत्स्थ दत्तमद्भुतकर्मणा
श्वेतो वैदर्भको राजा तदाभूद्गतकल्मषः१३१

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रामागस्त्यसंवादोनाम षट्त्रिंशोऽध्यायः३६