पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३५

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच
उक्तं भगवता सर्वं पुराणाश्रयसंयुतं
तथा श्वेतेन ब्रह्मांडं गुरवे प्रतिपादितं१
श्रुत्वैतत्कौतुकं जातं यथा तेनास्थिलेहनं
कृतं क्षुधापनोदार्थे अन्नदानाद्विना द्विज२
तदहं श्रोतुमिच्छामि पृथिव्यां ये च पार्थिवाः
अन्नदानाद्दिवं प्राप्ताः क्रतवश्चान्नमूलकाः३
कथं तस्य मतिर्नष्टा श्वेतस्य च महात्मनः
न दत्तं तेनान्नदानमृषिभिर्वा न दर्शितम्४
अहो माहात्म्यमन्नस्य इह दत्तस्य यत्फलम्
परत्र भुज्यते पुंभिः स्वर्गश्चाक्षयतां व्रजेत्५
अन्नदानं परं विप्राः कीर्तयंति सदोत्थिताः
अन्नदानात्सुरेद्रेण त्रैलोक्यमिह भुज्यते६
शतक्रतुरिति प्रोक्तः सर्वैरेव द्विजोत्तमैः
तेनावस्थां तत्सदृशीं प्राप्तवांस्त्रिदशेश्वरः७
दानदेवगतः स्वर्गं त्वत्तः सर्वं श्रुतं मया
अपरं च पुरावृत्तं निवृत्तं यदि कर्हिचित्८
भूयोपि श्रोतुमिच्छामि तन्मे वद महामते
पुलस्त्य उवाच
एतदाख्यानकं पूर्वमगस्त्येन महात्मना९
रामाय कथितं राजंस्तत्ते वक्ष्यामि सांप्रतम्
भीष्म उवाच
कस्मिन्वंशे समुत्पन्नो रामोऽसौ नृपसत्तमः१०
यस्यागस्त्येन कथितश्चेतिहासः पुरातनः
पुलस्त्य उवाच
रघुवंशे समुत्पन्नो रामो नाम महाबलः११
देवकार्यं कृतं तेन लंकायां रावणो हतः
पृथिवीं राज्यसंस्थस्य ऋषयोऽभ्यागता गृहे१२
प्राप्तास्ते तु महात्मानो राघवस्य निवेशनम्
प्रतीहारस्ततो राममगस्त्यवचनाद्द्रुतम्१३
आवेदयामास ऋषीन्प्राप्तास्तांश्च त्वरान्वितः
दृष्ट्वा रामं द्वारपालः पूर्णचंद्रमिवोदितम्१४
कौसल्यासुत भद्रं ते सुप्रभाताद्य शर्वरी
द्रष्टुमभ्युदयं तेद्य सम्प्राप्तो रघुनंदन१५
अगस्त्यो मुनिभिः सार्धं द्वारि तिष्ठति ते नृप
श्रुत्वा प्राप्तान्मुनीन्रामस्तान्भास्करसमद्युतीन्१६
प्राह वाक्यं तदा द्वास्थं प्रवेशय त्वरान्वितः
किमर्थं तु त्वया द्वारि निरुद्धा मुनिसत्तमाः१७
रामवाक्यान्मुनींस्तांस्तु प्रावेशयद्यथासुखम्
दृष्ट्वा तु तान्मुनींन्प्राप्तान्प्रत्युवाच कृतांजलि१८
रामोऽभिवाद्य प्रणत आसनेषु न्यवेशयत्
ते तु कांचनचित्रेषु स्वास्तीर्णेषु सुखेषु च१९
कुशोत्तरेषु चासीनाः समंतान्मुनिपुंगवाः
पाद्यमाचमनीयं च ददौ चार्घ्यं पुरोहितः२०
रामेण कुशलं पृष्टा ऋषयः सर्व एव ते
महर्षयो वेदविद इदं वचनमब्रुवन्२१
कुशलं ते महाबाहो सर्वत्र रघुनंदन
त्वां तु दिष्ट्या कुशलिनं पश्यामो हतविद्विषम्२२
हृता सीतातिपापेन रावणेन दुरात्मना
पत्नी ते रघुशार्दूल तस्या एवौजसा हतः२३
असहायेन चैकेन त्वया राम रणे हतः
यादृशं ते कृतं कर्म तस्य कर्ता न विद्यते२४
इह संभाषितुं प्राप्ता दृष्ट्वा पूताः स्म सांप्रतम्
दर्शनात्तव राजेंद्र सर्वे जातास्तपस्विनः२५
रावणस्य वधात्तेद्य कृतमश्रुप्रमार्जनम्
दत्वा पुण्यामिमां वीर जगत्यभयदक्षिणाम्२६
दिष्ट्या वर्धसि काकुत्स्थ जयेनामितविक्रम
दृष्टस्संभाषितश्चासि यास्यामश्चाश्रमान्स्वकान्२७
अरण्यं ते प्रविष्टस्य मया चेंद्रशरासनम्
अर्पितं चाक्षयौ तूणौ कवचं च परंतप२८
भूयोप्यागमनं कार्यमाश्रमे मे रघूद्वह
एवमुक्त्वा तु ते सर्वे मुनयोंतर्हिताऽभवन्२९
गतेषु मुनिमुख्येषु रामो धर्मभृतां वरः
चिंतयामास तत्कार्यं किं स्यान्मे मुनिनोदितम्३०
भूयोप्यागमनं कार्यमाश्रमे रघुनंदन
अवश्यमेव गंतव्यं मयाऽगस्त्यस्य सन्निधौ३१
श्रोतव्यं देवगुह्यं तु कार्यमन्यच्च यद्वदेत्
एवं चिंतयतस्तस्य रामस्यामिततेजसः३२
करिष्ये नियतं धर्मं धर्मो हि परमा गतिः
सुतवर्षसहस्राणि दश राज्यमकारयत्३३
ददतो जुह्वतश्चैव जग्मुस्तान्येकवर्षवत्
प्रजाः पालयतस्तस्य राघवस्य महात्मनः३४
एतस्मिन्नेव दिवसे वृद्धो जानपदो द्विजः
मृतं पुत्रमुपादाय रामद्वारमुपागतः३५
उवाच विविधं वाक्यं स्नेहाक्षरसमन्वितम्
दुष्कृतं किंतु मे पुत्र पूर्वदेहांतरे कृतम्३६
त्वामेकपुत्रं यदहं पश्यामि निधनं गतम्
अप्राप्तयौवनं बालं पंचवर्षं गतायुषम्३७
अकाले कालमापन्नं दुःखाय मम पुत्रक
अकृत्वा पितृकार्याणि गतो वैवस्वतक्षयम्३८
रामस्य दुष्कृतं व्यक्तं येन ते मृत्युरागतः
बालवध्या ब्रह्मवध्या स्त्रीवध्या चैव राघवम्३९
प्रवेक्ष्यति न सन्देहः सभार्ये तु मृते मयि
शुश्राव राघवः सर्वं दुःखशोकसमन्वितम्४०
निवार्य तं द्विजं रामो वसिष्ठं वाक्यमब्रवीत्
किं मयाद्य च कर्तव्यं कार्यमेवं विधे स्थिते४१
प्राणानहं जुहोम्यग्नौ पर्वताद्वा पतेह्यहम्
कथं शुद्धिमहं यामि श्रुत्वा ब्राह्मणभाषितम्४२
वसिष्ठस्याग्रतः स्थित्वा राज्ञो दीनस्य नारदः
प्रत्युवाच श्रुतं वाक्यमृषीणां सन्निधौ तदा४३
शृणु राम यथाकालं प्राप्तो वै बालसंक्षयः
पुरा कृतयुगे राम सर्वत्र ब्राह्मणोत्तरम्४४
अब्राह्मणो न वै कश्चित्तपस्तपति राघव
अमृत्यवस्तदा सर्वे जायंते चिरजीविनः४५
त्रेतायुगे पुनः प्राप्ते ब्रह्मक्षत्रमनुत्तमम्
अधर्मो द्वापरे तेषां वैश्यान्शूद्रांस्तथाविशत्४६
एवं निरंतरं जुष्टमुद्भूतमनृतं पुनः
अधर्मस्य त्रयः पादा एको धर्मस्य चागतः४७
ततः पूर्वे भृशं त्रस्ता वर्णा ब्राह्मणपूर्वकाः
भूयः पादस्तु धर्मस्य द्वितीयः समपद्यत४८
तस्मिन्द्वापरसंज्ञे तु तपो वैश्यं समाविशत्
युगत्रयस्य वैधर्म्यं धर्मस्य प्रतितिष्ठति४९
कलिसंज्ञे ततः प्राप्ते वर्तमाने युगेंतिमे
अधर्मश्चानृतं चैव ववृधाते नरर्षभ1.35.५०
भविता शूद्रयोन्यां तु तपश्चर्या कलौ युगे
स ते विषयपर्यंते राजन्नुग्रतरं तपः५१
शूद्रस्तपति दुर्बुद्धिस्तेन बालवधः कृतः
यस्याधर्ममकार्यं वा विषये पार्थिवस्य हि५२
पुरे वा राजशार्दूल कुरुते दुर्मतिर्नरः
क्षिप्रं स नरकं याति यावदाभूतसंप्लवम्५३
चतुर्थं तस्य पापस्य भागमश्नाति पार्थिवः
सत्त्वं पुरुषशार्दूल गच्छस्व विषयं स्वकम्५४
दुष्कृतं यत्र पश्येथास्तत्र यत्नं समाचर
एवं ते धर्मवृद्धिश्च बलस्य वर्धनं तथा५५
भविष्यति नरश्रेष्ठ बालस्यास्य च जीवनम्
नारदेनैवमुक्तस्तु साश्चर्यो रघुनंदनः५६
प्रहर्षमतुलं लेभे लक्ष्मणं चेदमब्रवीत्
गच्छ सौम्य द्विजश्रेष्ठं समाश्वासय लक्ष्मण५७
बालस्य च शरीरं त्वं तैलद्रोण्यां निधापय
गंधैश्च परमोदारैस्तैलैश्चैव सुगंधिभिः५८
यथा न शीर्यते बालस्तथा सौम्य विधीयताम्
यथा शरीरं गुप्तं स्याद्बालस्याक्लिष्टकर्मणः५९
विपत्तिः परिभेदो वा न भवेत्तत्तथा कुरु
तथा संदिश्य सौमित्रं लक्ष्मणं शुभलक्षणम्६०
मनसा पुष्पकं दध्यावागच्छेति महायशाः
इंगितं तत्तु विज्ञाय कामगं हेमभूषितम्६१
आजगाम मुहूर्तात्तु समीपं राघवस्य हि
सोब्रवीत्प्राञ्जलिर्वाक्यमहमस्मि नराधिप६२
अग्रे तव महाबाहो किंकरः समुपस्थितः
भाषितं सुचिरं श्रुत्वा पुष्पकस्य नराधिप६३
अभिवाद्य महर्षींस्तान्विमानं सोध्यरोहत
धनुर्गृहीत्वा तूणौ च खड्गं चापि महाप्रभम्६४
निक्षिप्य नगरे वीरौ सौमित्रि भरतावुभौ
प्रायात्प्रतीचीं त्वरितो विचिन्वन्सुसमाहितः६५
उत्तरामगमत्पश्चाद्दिशं हिमवदाश्रिताम्
पूर्वामपि दिशां गत्वा तथाऽपश्यन्नराधिपः६६
सर्वां शुद्धसमाचारामादर्शमिव निर्मलाम्
ततो दिशं समाक्रामद्दक्षिणां रघुनंदनः६७
शैलस्य उत्तरे पार्श्वे ददर्श सुमहत्सरः
तस्मिन्सरसि तप्यंतं तापसं सुमहत्तपः६८
ददर्श राघवो भीमं लंबमानमधोमुखं
तमुपागम्य काकुत्स्थस्तप्यमानं तु तापसम्६९
उवाच राघवो वाक्यं धन्यस्त्वममरप्रभ
कस्यां योनौ तपोवृद्धिर्वर्तते दृढनिश्चय७०
अहं दाशरथी रामः पृच्छामि त्वां कुतूहलात्
कोर्थो व्यवसितस्तुभ्यं स्वर्गलोकोथ वेतरः७१
किमर्थं तप्यसे वा त्वं श्रोतुमिच्छामि तापस
ब्राह्मणो वासि भद्रं ते क्षत्रियो वाथ दुर्जयः७२
वैश्यस्तृतीयवर्णो वा शूद्रो वा सत्यमुच्यताम्
तपः सत्यात्मकं नित्यं स्वर्गलोकपरिग्रहे७३
सात्विकं राजसं चैव तच्च सत्यात्मकं तपः
जगदुपकारहेतुर्हि सृष्टं तद्वै विरिंचिना७४
रौद्रं क्षत्रियतेजोजं तत्तु राजसमुच्यते
परस्योत्सादनार्थाय तच्चासुरमुदाहृतम्७५
अंगानि निह्नुते यो वा असृग्दिग्धानि भागशः
पंचाग्निंसाधयेद्वापि सिद्धिं वा मृत्युमेव वा७६
आसुरो ह्येष ते भावो न च मे त्वं द्विजो मतः
सत्यं ते वदतः सिद्धिरनृते नास्ति जीवितम्७७
तस्य तद्भाषितं श्रुत्वा रामस्याक्लिष्टकर्मणः
अवाक्शिरास्तथा भूतो वाक्यमेतदुवाच ह७८
स्वागतं ते नृपश्रेष्ठ चिराद्दृष्टोसि राघव
पुत्रभूतोस्मि ते चाहं पितृभूतोसि मेनघ७९
अथवा नैतदेवं हि सर्वेषां नृपतिः पिता
सत्वमर्च्योऽसि भो राजन्वयं ते विषये तपः८०
चरामस्तत्रभागोस्ति पूर्वं सृष्टः स्वयंभुवा
न धन्याः स्मो वयं राम धन्यस्त्वमसि पार्थिव८१
यस्य ते विषये ह्येवं सिद्धिमिच्छंति तापसाः
तपसा त्वं मदीयेन सिद्धिमाप्नुहि राघव८२
यदेतद्भवता प्रोक्तं योनौ कस्यां तु ते तपः
शूद्रयोनिप्रसूतोहं तप उग्रं समास्थितः८३
देवत्वं प्रार्थये राम स्वशरीरेण सुव्रत
न मिथ्याहं वदे भूप देवलोकजिगीषया८४
शूद्रं मां विद्धि काकुत्स्थ शंबूकं नाम नामतः
भाषतस्तस्य काकुत्स्थः खड्गं तु रुचिरप्रभं८५
निष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः
तस्मिन्शूद्रे हते देवाः सेन्द्राश्चाग्निपुरोगमाः८६
साधुसाध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः
पुष्पवृष्टिश्च महती देवानां सुसुगंधिनी८७
आकाशाद्विप्रमुक्ता तु राघवं सर्वतोकिरत्
सुप्रीताश्चाब्रुवन्देवा रामं वाक्यविदांवरम्८८
सुरकार्यमिदं सौम्य कृतं ते रघुनंदन
गृहाण च वरं राम यमिच्छसि महाव्रत८९
त्वत्कृतेन हि शूद्रोऽयं सशरीरोऽभ्यगाद्दिवं
देवानां भाषितं श्रुत्वा राघवः सुसमाहितः९०
उवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरंदरम्
यदि देवाः प्रसन्ना मे वरार्हो यदि वाप्यहम्९१
कर्मणा यदि मे प्रीता द्विजपुत्रः स जीवतु
वरमेतद्धि भवतां कांक्षितं परमं हि मे९२
ममापराधाद्बालोऽसौ ब्राह्मणस्यैकपुत्रकः
अप्राप्तकालः कालेन नीतो वैवस्वत क्षयम्९३
तं जीवयत भद्रं वो नानृती स्यामहं गुरोः
द्विजस्य संश्रुतो ह्यर्थो जीवयिष्यामि ते सुतम्९४
मदीयेनायुषा बालं पादेनार्द्धेन वा सुराः
जीवेदयं वरो मह्यं वरकोट्यधिको वृतः९५
राघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः
प्रत्यूचुस्ते महात्मानं प्रीताः प्रीतिसमन्विताः९६
निर्वृतो भव काकुत्स्थ ब्राह्मणस्यैकपुत्रकः
जीवितं प्राप्तवान्भूयः समेतश्चापि बंधुभिः९७
यस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः
तस्मिन्मुहूर्ते सहसा जीवेन समयुज्यत९८
स्वस्ति प्राप्नुहि भद्रं ते साधयामः परंतपः
अगस्त्यस्याश्रमपदे द्रष्टारः स्म महामुनिम्९९
स तथेति प्रतिज्ञाय देवानां रघुनंदनः
आरुरोह विमानं तं पुष्पकं हेमभूषितम्१००

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे शूद्रतापसवधोनाम पंचत्रिंशोऽध्यायः३५