पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच
मार्कंडेयेन वै रामः कथमत्र प्रबोधितः
कथं समागमो भूतः कस्मिन्काले कदा मुने१
मार्कंडेयः कस्य सुतः कथं जातो महातपाः
नाम्नोऽस्य निगमं ब्रूहि यथाभूतं महामुने२
पुलस्त्य उवाच
अथ ते संप्रवक्ष्यामि मार्कंडेयोद्भवं पुनः
पुराकल्पे मुनिः पूर्वं मृकंडुर्नाम विश्रुतः३
भृगोः पुत्रो महाभागः सभार्यस्तप्तवांस्तपः
तस्य पुत्रस्तदा जातो वसतस्तु वनांतरे४
सपंचवार्षिको भूतो बाल एव गुणाधिकः
ज्ञानिना स तदा दृष्टो भ्रमन्बालस्तदांगणे५
स्थित्वा स सुचिरं कालं भाव्यर्थं प्रत्यबुध्यत
तस्य पित्रा स वै पृष्टः कियदायुः सुतस्य मे६
संख्यायाचक्ष्व वर्षाणि तस्याल्पान्यधिकानि वा
मृकंडुनैवमुक्तस्तु स ज्ञानी वाक्यमब्रवीत्७
षण्मासमायुः पुत्रस्य धात्रा सृष्टं मुनीश्वर
नैव शोकस्त्वया कार्यः सत्यमेतदुदाहृतम्८
स तच्छ्रुत्वा वचो भीष्म ज्ञानिना यदुदाहृतम्
अथोपनयनं चक्रे बालकस्य पिता तदा९
आह चैनं पितापुत्रमृषींस्त्वमभिवादय
एवमुक्तः स वै पित्रा प्रहृष्टश्चाभिवादने१०
न वर्णा वर्णतां वेत्ति सर्ववर्णाभिवादनः
पंचमासास्त्वतिक्रांता दिवसाः पंचविंशतिः११
मार्गेणाथ समायाता ऋषयस्तत्र सप्त वै
बालेन तेन ते दृष्टाः सर्वे चाप्यभिवादिताः१२
आयुष्मान्भव तैरुक्तः स बालो दंडमेखली
उक्त्वैवं ते पुनर्बालमपश्यन्क्षीणजीवितम्१३
दिनानि पंच तस्यायुर्ज्ञात्वा भीताश्च ते नृप
तं गृहीत्वा बालकं च गतास्ते ब्रह्मणोंतिकम्१४
प्रतिमुच्य च तं राजन्प्रणिपेतुः पितामहम्
अयमावेदितस्तैस्तु तेन ब्रह्माभिवादितः१५
चिरायुर्ब्रह्मणा बालः प्रोक्तः स ऋषिसन्निधौ
ततस्ते मुनयः प्रीताः श्रुत्वा वाक्यं पितामहात्१६
पितामह ऋषीन्दृष्ट्वा प्रोवाच विस्मयान्वितः
कार्येण येन चायातः कोयं बालो निवेद्यताम्१७
ततस्त ऋषयो राजन्सर्वं तस्मै न्यवेदयन्
पुत्रो मृकंडोः क्षीणायुः सायुषं कुरु बालकम्१८
अल्पायुषस्त्वस्य मुनिर्बध्वेमां चापि मेखलाम्
यज्ञोपवीतं दंडं च दत्वा चैनमबोधयत्१९
यं कंचित्पश्यसे बाल भ्रमंतं भूतले जनम्
तस्याभिवादः कर्तव्य एवमाह पिता वचः२०
अभिवादनशीलोयं क्षितौ दृष्टः परिभ्रमन्
तीर्थयात्राप्रसंगेन दैवयोगात्पितामह२१
चिरायुर्भव पुत्रेति प्रोक्तोसौ तत्र बालकः
कथं वचो भवेत्सत्यमस्माकं भवता सह२२
एवमुक्तस्तदा तैस्तु ब्रह्मा लोकपितामहः
ऋतवाक्यादियं भूमिः संस्थिता सर्वतोभया२३
ब्रह्मोवाच
मत्समश्चायुषा बालो मार्कंडेयो भविष्यति
कल्पस्यादौ तथाचांते मतो मे मुनिसत्तमः२४
एवं ते मुनयो बालं ब्रह्मलोके पितामहात्
संसाध्य प्रेषयामासुर्भूयोप्येनं धरातलम्२५
तीर्थयात्रां गता विप्रा मार्कंडेयो निजं गृहम्
जगाम तेषु यातेषु पितरं स्वमथाब्रवीत्२६
ब्रह्मलोकमहं नीतो मुनिभिर्ब्रह्मवादिभिः
दीर्घायुश्च कृतश्चास्मि वरान्दत्वा विसर्जितः२७
एतदन्यच्च मे दत्तं गतं चिंताकरं तव
कल्पस्यादौ तथा चांते भविष्ये समनंतरे२८
लोककर्तुर्ब्रह्मणोहं प्रसादात्तस्य वै पितः
पुष्करं वै गमिष्यामि तपस्तप्तुं समुद्यतः२९
तत्राहं देवदेवेशमुपासिष्ये पितामहम्
सर्वकामावाप्तिकरं सर्वारातिनिबर्हणम्३०
सर्वसौख्यप्रदं देवमिन्द्रादीनां परायणम्
ब्रह्माणं तोषयिष्यामि सर्वलोकपितामहम्३१
मार्कंडेयवचः श्रुत्वा मृकंडुर्मुनिसत्तमः
जगाम परमं हर्षं क्षणमेकं समुच्छ्वसन्३२
धैर्यं सुमनसा स्थाय इदं वचनमब्रवीत्
अद्य मे सफलं जन्म जीवितं च सुजीवितम्३३
सर्वस्य जगतां स्रष्टा येन दृष्टः पितामहः
त्वया दायादवानस्मि पुत्रेण वंशधारिणा३४
त्वं गच्छ पश्य देवेशं पुष्करस्थं पितामहम्
दृष्टे तस्मिन्जगन्नाथे न जरामृत्युरेव च३५
नृणां भवति सौख्यानि तथैश्वर्यं तपोऽक्षयम्
त्रीणि शृङ्गाणि शुभ्राणि त्रीणि प्रस्रवणानि च३६
पुष्कराणि तथा त्रीणि नविद्मस्तत्र कारणम्
कनीयांसं मध्यमं च तृतीयं ज्येष्ठपुष्करम्३७
शृंगशब्दाभिधानानि शुभप्रस्रवणानि च
ब्रह्माविष्णुस्तथा रुद्रो नित्यं सन्निहितास्त्रयः३८
पुष्करेषु महाराजा नातः पुण्यतमं भुवि
विरजं विमलं तोयं त्रिषु लोकेषु विश्रुतम्३९
ब्रह्मलोकस्य पन्थानं धन्याः पश्यंति पुष्करं
यस्तु वर्षशतं साग्रमग्निहोत्रमुपासते४०
कार्तिकीं वा वसेदेकां पुष्करे सममेव च
कर्तुम्मया न शकितं कर्मणा नैव साधितम्४१
तदयत्नात्त्वया तात मृत्युस्सर्वहरो जितः
तत्र दृष्टस्स देवेशो ब्रह्मा लोकपितामहः४२
नान्यो मर्त्यस्त्वया तुल्यो भविता जगतीतले
अहं वै तोषितो येन पञ्चवार्षिकजन्मना४३
वरेण त्वं मदीयेन उपमां चिरजीविनाम्
गमिष्यसि न सन्देहस्तथाशीर्वचनम्मम४४
एवं वदन्ति ते सर्वे व्रज लोकान्यथेप्सितान्
एवं लब्धप्रसादेन मृकण्डुतनयेन च४५
आश्रमःस्थापितस्तेन मार्कण्डाश्रम इत्युत
तत्र स्नात्वा शुचिर्भूत्वा वाजपेयफलं लभेत्४६
सर्वपापविशुद्धात्मा चिरायुर्जायते नरः
पुलस्त्य उवाच
तथान्यं ते प्रवक्ष्यामि इतिहासं पुरातनम्४७
यथा रामेण वै तीर्थं पुष्करं तु विनिर्मितम्
चित्रकूटात्पुरा रामो मैथिल्या लक्ष्मणेन च४८
अत्रेराश्रममासाद्य पप्रच्छ मुनिसत्तमम्
राम उवाच
कानि पुण्यानि तीर्थानि किं वा क्षेत्रं महामुने४९
यत्र गत्वा नरो योगिन्वियोगं सह बंधुभिः
नैव प्राप्नोति भगवन्तन्ममाचक्ष्व सुव्रत1.33.५०
अनेन वनवासेन राज्ञस्तु मरणेन च
भरतस्य वियोगेन परितप्ये ह्यहं त्रिभिः५१
तद्वाक्यं राघवेणोक्तं श्रुत्वा विप्रर्षभस्तदा
ध्यात्वा च सुचिरं कालमिदं वचनमब्रवीत्५२
अत्रिरुवाच
साधु पृष्टं त्वया वीर रघूणां वंशवर्धन
मम पित्रा कृतं तीर्थं पुष्करं नाम विश्रुतम्५३
पर्वतौ द्वौ च विख्यातौ मर्यादा यज्ञपर्वतौ
कुंडत्रयं तयोर्मध्ये ज्येष्ठमध्यकनिष्ठकम्५४
तेषु गत्वा दशरथं पिंडदानेन तर्पय
तीर्थानां प्रवरं तीर्थं क्षेत्राणामपि चोत्तमम्५५
अवियोगा च सुरसा वापी रघुकुलोद्वह
तथा सौभाग्यकूपोन्यः सुजलो रघुनंदन५६
तेषु पिंडप्रदानेन पितरो मोक्षमाप्नुयुः
आभूतसंप्लवं कालमेतदाह पितामहः५७
तत्र राघव गच्छस्व भूयोप्यागमनं क्रियाः
तथेति चोक्त्वा रामोपि गमनाय मनो दधे५८
ऋक्षवंतमभिक्रम्य नगरं वैदिशं तथा
चर्मण्वतीं समुत्तीर्य प्राप्तोसौ यज्ञपर्वतम्५९
तमतिक्रम्य वेगेन मध्यमे पुष्करे स्थितः
पितॄन्संतर्पयामास अद्भिर्देवांश्च सर्वशः६०
स्नानावसाने रामेण मार्कंडो मुनिपुंगवः
आगच्छन्शिष्यसंयुक्तो दृष्टस्तत्रैव धीमता६१
गत्वा वै संमुखं तस्य प्रणिपत्य च सादरम्
पृष्टोऽवियोगदः कूपः कतमस्यां दिशि प्रभो६२
सुतो दशरथस्याहं रामो नाम जनैः स्मृतः
सौभाग्यवापीं तां द्रष्टुमहं प्राप्तोत्रिशासनात्६३
तत्स्थानं तौ च वै कूपौ भगवान्प्रब्रवीतु मे
एवमुक्तश्च रामेण मार्कंडः प्रत्युवाच ह६४
मार्कंडेय उवाच
साधु राघव भद्रं ते सुकृतं भवता कृतम्
तीर्थयात्राप्रसंगेन यत्प्राप्तोसीह सांप्रतम्६५
एह्यागच्छस्व पश्य स्ववापीं तामवियोगदाम्
अवियोगश्च सर्वैश्च कूप एवात्र जायते६६
आमुष्मिके चैहिके च जीवतोपि मृतस्य वा
एतद्वाक्यं मुनींद्रस्य श्रुत्वा लक्ष्मणपूर्वजः६७
सस्मार रामो राजानं तदा दशरथं नृप
भरतं सह शत्रुघ्न्रंभातॄनन्यांश्चनागरान्६८
एवंचिंतयतस्तस्य संध्याकालो व्यजायत
उपास्य पश्चिमां संध्यां मुनिभिःसह राघवः६९
सुष्वाप तां निशां तत्र भ्रातृभार्यासमन्वितः
विभावर्यवसाने तु स्वप्नांते रघुनंदनः७०
पित्रा मात्रा तथा चान्यैरयोध्यायां स्थितः किल
विवाहमंगले वृत्ते बहुभिर्बांधवैः सह७१
समासीनः सभार्योऽसावृषिभिः परिवारितः
लक्ष्मणेनाप्येवमेव दृष्टोऽसौ सीतया तथा७२
प्रभाते तु मुनीनां तत्सर्वमेव प्रकीर्तितम्
ऋषिभिश्च तथेत्युक्तः सत्यमेतद्रघूत्तम७३
मृतस्य दर्शने श्राद्धं कार्यमावश्यकं स्मृतम्
वृद्धिकामास्तु पितरस्तथा चैवान्नकांक्षिणः७४
ददंति दर्शनं स्वप्ने भक्तियुक्तस्य राघव
अवियोगस्तु ते भ्रात्रा पित्रा च भरतेन च७५
चतुर्दशानां वर्षाणां भविता राघव ध्रुवम्
कुरु श्राद्धं तथा वीर राज्ञो दशरथस्य च७६
अमी च ऋषयः सर्वे तव भक्ताः कृतक्षणाः
अहं च जमदग्निश्च भारद्वाजश्च लोमशः७७
देवरातः शमीकश्च षडेते वै द्विजोत्तमाः
श्राद्धे च ते महाबाहो संभारांस्त्वमुपाहर७८
मुख्यं चेंगुदिपिण्याकं बदरामलकैः सह
श्रीफलानि च पक्वानि मूलं चोच्चावचं बहु७९
मार्गेण चाथ मांसेन धान्येन विविधेन च
तृप्तिं प्रयच्छ विप्राणां श्राद्धदानेन सुव्रत८०
पुष्करारण्यमासाद्य नियतो नियताशनः
पितॄंस्तर्पयते यस्तु सोश्वमेधमवाप्नुयात्८१
स्नानार्थं तु वयं राम गच्छामो ज्येष्ठपुष्करम्
इत्युक्त्वा ते गताः सर्वे मुनयो राघवं नृप८२
लक्ष्मणं चाब्रवीद्रामो मेध्यमाहर मे मृगम्
शुद्धेक्षणं च शशकं कृष्णशाकं तथा मधु८३
जंबीराणि च मुख्यानि मूलानि विविधानि च
पक्वानि च कपित्थानि फलान्यन्यानि यानि च८४
तान्याहरस्व वै श्राद्धे क्षिप्रमेवास्तु लक्ष्मण
तथा तत्कृतवान्सर्वं रामादेशाच्च राघवः८५
बदरेङ्गुदिशाकानि मूलानि विविधानि च
तत्राहृत्य च रामेण कूटाकारः कृतो महान्८६
परिपक्वं च जानक्या सिद्धं रामे निवेदितम्
स्नात्वा रामो योगवाप्यां मुनींस्ताननुपालयन्८७
मध्याह्नाच्चलिते सूर्ये काले कुतपके तथा
आयाता ऋषयः सर्वे ये रामेणानुमंत्रिताः८८
तानागतान्मुनीन्दृष्ट्वा वैदेही जनकात्मजा
रामांतिकं परित्यज्य व्रीडिताऽन्यत्र संस्थिता८९
विस्मयोत्फुल्लनयना चिंतयाना च वेपती
ब्राह्मणा नेह जानंति श्राद्धकाले ह्युपस्थिताः९०
रामेण भोजिता विप्राः स्मृत्युक्तेन यथाविधि
वैदिक्यश्च कृतास्सर्वाः सत्क्रिया यास्समीरिताः९१
पुराणोक्तो विधिश्चैव वैश्वदेविकपूर्वकः
भुक्तवत्सु च विप्रेषु दत्वा पिंडान्यथाक्रमम्९२
प्रेषितेषु यथाशक्ति दत्वा तेषु च दक्षिणाम्
गतेषु विप्रमुख्येषु प्रियां रामोऽब्रवीदिदम्९३
किमर्थं सुभ्रु नष्टासि मुनीन्दृष्ट्वा त्विहागतान्
तत्सर्वं त्वमिदं तत्वं कारणं वद माचिरम्९४
भवितव्यं कारणेन तच्च गोप्यं न मे कुरु
शापितासि मम प्राणैर्लक्ष्मणस्य शुचिस्मिते९५
एवमुक्ता तदा भर्त्रा त्रपयाऽवाङ्मुखी स्थिता
विमुंचंती साऽश्रुपातं राघवं वाक्यमब्रवीत्९६
शृणु त्वं नाथ यद्दृष्टमाश्चर्यमिह यादृशम्
राम त्वयाऽचिंत्यमानो राजेंद्रस्त्विह चागतः९७
सर्वाभरणसंयुक्तौ द्वौ चान्यौ च तथाविधौ
द्विजानां देहसंयुक्तास्त्रयस्ते रघुनंदन९८
पितरस्तु मया दृष्टा ब्राह्मणांगेषु राघव
दृष्ट्वा त्रपान्विता चाहमपक्रांता तवांतिकात्९९
त्वया वै भोजिता विप्राः कृतं श्राद्धं यथाविधि
वल्कलाजिनसंवीता कथं राज्ञः पुरःसरा1.33.१००
भवामि रिपुवीरघ्न सत्यमेतदुदाहृतम्
कौशेयानि च वस्त्राणि कैकेय्यापहृतानि च१०१
ततः प्रभृति चैवाहं चीरिणी तु वनाश्रयम्
ज्ञात्वाहं न वदे किंचिन्मा ते दुःखं भवत्विति१०२
नाहं स्मरामि वै मातुर्न पितुश्च परंतप
कदा भविष्यतीहांतो वनवासस्य राघव१०३
एतदेवानिशं राम चिंतयंत्याः पुनः पुनः
व्रजंति दिवसा नाथ तव पद्भ्यां शपाम्यहम्१०४
स्वहस्तेन कथं राज्ञो दास्ये वै भोजनं त्विदम्
दासानामपि यो दासो नोपभुंजीतयत्क्वचित्१०५
एतादृशी कथं त्वस्मै संप्रदातुं समुत्सहे
याहं राज्ञा पुरा दृष्टा सर्वालङ्कारभूषिता१०६
बालव्यजनहस्ता च वीजयंती नराधिपम्
सा स्वेदमलदिग्धांगी कथं पश्यामि भूमिपम्१०७
व्यक्तं त्रिविष्टपं प्राप्तस्त्वया पुत्रेण तारितः
दृष्ट्वा मां दुःखितां बालां वने क्लिष्टामनागसम्१०८
शोकः स्यात्पार्थिवस्यास्य तेन नष्टास्मि राघव
भवान्प्राणसमो राम न ते गोप्यं ममत्विह१०९
सत्येन तेन चैवाथ स्पृशामि चरणौ तव
तच्छ्रुत्वा राघवः प्रीतः प्रियां तां प्रियवादिनीम्११०
अंकमानीय सुदृढं परिष्वज्य च सादरम्
भुक्तौ भोज्यं तदा वीरौ पश्चाद्भुक्ता च जानकी१११
एवं स्थितौ तदा सा च तां रात्रिं तत्र राघवौ
उदिते च सहस्रांशौ गमनाय मनो दधुः११२
प्रत्यङ्मुखं गतः क्रोशं ज्येष्ठं यावच्च पुष्करम्
पूर्वभागे पुष्करस्य यावत्तिष्ठति राघवः११३
शुश्राव च ततो वाचं देवदूतेन भाषितम्
भो भो राघव भद्रं ते तीर्थमेतत्सुदुर्लभम्११४
अस्मिन्स्थाने स्थितो वीर आत्मनः पुण्यतां कुरु
देवकार्यं त्वया कार्यं हंतव्या देवशत्रवः११५
ततो हृष्टमना वीरो ह्यब्रवील्लक्ष्मणं वचः
सौमित्रेऽनुगृहीतोहं देवदेवेन ब्रह्मणा११६
अत्राश्रमपदं कृत्वा मासमेकं च लक्ष्मण
व्रतं चरितुमिच्छामि कायशोधनमुत्तमम्११७
तथेति लक्ष्मणेनोक्ते व्रतं परिसमाप्यतु
पिंडदानादिभिर्दानैः श्राद्धैश्चैव पितामहान्११८
पुष्करे तु तदा रामोऽतर्पयद्विधिवत्तदा
कनका सुप्रभा चैव नंदा प्राची सरस्वती११९
पंचस्रोताः पुष्करेषु पितॄणां तुष्टिदायिनी
दैनंदिनीं पितॄणां तु पूजां तां पितृपूर्विकाम्१२०
रचयित्वा तदा रामो लक्ष्मणं वाक्यमब्रवीत्
एहि लक्ष्मण शीघ्रं त्वं पुष्कराज्जलमानय१२१
पादप्रक्षालनं कृत्वा शयनं कुरु संस्तरे
विभावर्यां निवृत्तायां यास्यामो दक्षिणां दिशम्१२२
लक्ष्मणस्त्वब्रवीद्वाक्यं सीतयानीय तां पयः
नाहं राम सर्वकाले दासभावं करोमि ते१२३
इयंपुष्टाचसुभृशंपीवरीचममाप्युत
किं त्वं करिष्यस्यनया भार्यया वद सांप्रतम्१२४
किं वा मृतस्य वै पृष्ठ इयं यास्यति ते प्रिया
रक्षसे त्वं सदा कालं सुपुष्टां चैव सर्वदा१२५
हृष्टा चैषा क्लेशयति सततं मां रघूत्तम
त्वं च क्लेशयसे राम परत्र जायते क्षतिः१२६
त्वत्कृते च सदा चाहं पिपासां क्षुधया सह
संसहामि न संदेहः परत्र च निशामय१२७
मृतानां पृष्ठतः कश्चिद्गतो नैव च दृश्यते
भार्य्या पुत्रो धनं चापि एवमाहुर्मनीषिणः१२८
मृतश्च ते पिता राम त्यक्त्वा राज्यमकंटकम्
विनिक्षिप्य वने त्वां च कैकेय्याः प्रियकाम्यया१२९
इहस्थिता सा कैकेयी धनं सर्वे च बांधवाः
महाराजो दशरथ एक एव गतो गतिम्१३०
मन्येहं न त्वया सार्धं सीता यास्यति वै ध्रुवम्
करिष्यसे किमनया वद राघव सांप्रतम्१३१
श्रुत्वा चाश्रुतपूर्वं हि वाक्यं लक्ष्मणभाषितम्
विमना राघवस्तस्थौ सीता चापि वरानना१३२
यदुक्तं लक्ष्मणेनाथ सीता सर्वं चकार ह
स्नात्वा भुक्त्वा ततो वीरौ पुष्करे पुष्करेक्षणौ१३३
नीत्वा विभावरीं तत्र गमनाय मनो दधुः
एह्युत्तिष्ठ च सौमित्रे व्रजामो दक्षिणां दिशम्१३४
सौमित्रिरब्रवीद्राम नाहं यास्ये कथंचन
व्रज त्वमनया सार्धं भार्यया कमलेक्षण१३५
नान्यद्वनं गमिष्यामि नैवायोध्यां च राघव
अस्मिन्वने वसिष्यामि वर्षाणीह चतुर्दश१३६
मया विना त्वयोध्यायां यदि त्वं न गमिष्यसि
अनेन वर्त्मना भूप आगंतव्यं त्वया विभो१३७
यदि जीवामि तत्कालं पुनर्यास्ये पितुः पुरम्
तपस्संभावयिष्यामि मया त्वं किं करिष्यसि१३८
व्रज सौम्य शिवः पंथामा च ते परिपंथिनः
पश्यामि त्वां पुनः प्राप्तं सभार्यं कमलेक्षणम्१३९
पितृपैतामहं राज्यमयोध्यायां नराधिप
शत्रुघ्नभरतौ चोभौ त्वदाज्ञाकरणे स्थितौ१४०
अहं ते प्रतिकूलस्तु वनवासे विशेषतः
अनारतं दिवा चाहं रात्रौ चैव परंतप१४१
कर्मकर्तुं न शक्रोमि व्रज सौम्य यथासुखम्
एवं ब्रुवाणं सौमित्रिमुवाच रघुनंदनः१४२
कथं पूर्वमयोध्याया निर्गतोसि मया सह
वने वत्स्याम्यहं राम नववर्षाणि पंच च१४३
न तु त्वया विरहितः स्वर्गेपि निवसे क्वचित्
या गतिस्ते नरव्याघ्र मम सापि भविष्यति१४४
प्रसादः क्रियतां मह्यं नय मामपि राघव
इदानीमर्धमार्गे त्वं कथं स्थास्यसि शत्रुहन्१४५
लक्ष्मणस्त्वब्रवीद्रामं नाहं गंता वने पुनः
लक्ष्मणं संस्थितं ज्ञात्वा रामो वचनमब्रवीत्१४६
मामनुव्रज सौमित्र एको यास्यामि काननम्
द्वितीया मे त्वियं सीता रामेणोक्तस्तु लक्ष्मणः१४७
गृहीत्वाऽथ समुत्तस्थौ रामवाक्यं स लक्ष्मणः
मर्यादापर्वतं प्राप्तौ क्षेत्रसीमां परंतपौ१४८
अजगंधं च देवेशं देवदेवं पिनाकिनम्
अष्टांगप्रणिपातेन नत्वा रामस्त्रिलोचनम्१४९
तुष्टाव प्रयतः स्थित्वा शंकरं पार्वतीप्रियम्
कृतांजलिपुटो भूत्वा रोमांचितशरीरकः1.33.१५०
सात्विकं भावमापन्नो विनिर्धूतरजस्तमाः
लोकानां कारणं देवं बुबुधे विबुधाधिपम्१५१
राम उवाच
कृत्स्नस्य योऽस्य जगतः स चराचरस्य कर्ता कृतस्य च पुनः सुखदुःखदश्च
संहारहेतुरपि यः पुनरंतकाले तं शंकरं शरणदं शरणं व्रजामि१५२
योऽयं सकृद्विमलचारुविलोलतोयां गंगां महोर्मिविषमां गगनात्पतंतीम्
मूर्ध्ना दधेऽस्रजमिव प्रविलोलपुष्पां तं शंकरं शरणदं शरणं व्रजामि१५३
कैलासशैलशिखरं परिकम्प्यमानं कैलासशृंगसदृशेन दशाननेन
यत्पादपद्मविधृतं स्थिरतां दधार तं शंकरं शरणदं शरणं व्रजामि१५४
येनासकृद्दनुसुताः समरे निरस्ता विद्याधरोरगगणाश्च वरैः समग्रैः
संयोजिता मुनिवराः फलमूलभक्षास्तं शंकरं शरणदं शरणं व्रजामि१५५
दक्षाध्वरे च नयने च तथा भगस्य पूष्णस्तथा दशनपंक्तिमपातयच्च
तस्तंभयः कुलिशयुक्तमथेंद्रहस्तं तं शंकरं शरणदं शरणं व्रजामि१५६
एनःकृतोपिविषयेष्वपिसक्तचित्ताज्ञानान्वयश्रुतगुणैरपिनैवयुक्ताः
यं संश्रिताः सुखभुजः पुरुषा भवंति तं शंकरं शरणदं शरणं व्रजामि१५७
अत्रिप्रसूतिरविकोटिसमानतेजाः संत्रासनं विबुधदानवसत्तमानाम्
यः कालकूटमपिबत्प्रसभं सुदीप्तं तं शंकरं शरणदं शरणं व्रजामि१५८
ब्रह्मेंद्ररुद्रमरुतां च सषण्मुखानां दद्याद्वरं सुबहुशो भगवान्महेशः
नन्दिं च मृत्युवदनात्पुनरुज्जहार तं शंकरं शरणदं शरणं व्रजामि१५९
आराधितः सुतपसा हिमवन्निकुंजे धूमव्रतेन मनसापि परैरगम्ये
संजीवनीमकथयद्भृगवे महात्मा तं शंकरं शरणदं शरणं व्रजामि१६०
नानाविधैर्गजबिडालसमानवक्त्रैर्दक्षाध्वरप्रमथनैर्बलिभिर्गणैंद्रैः
योभ्यर्चितोमरगणैश्च सलोकपालैस्तं शंकरं शरणदं शरणं व्रजामि१६१
शंखेंदुकुंदधवलं वृषभं प्रवीरमारुह्य यः क्षितिधरेंद्रसुतानुयातः
यात्यंबरं प्रलयमेघविभूषितं च तं शंकरं शरणदं शरणं व्रजामि१६२
शांतं मुनिं यमनियोगपरायणैस्तैर्भीमैर्महोग्रपुरुषैः प्रतिनीयमानम्
भक्त्यानतं स्तुतिपरं प्रसभं ररक्ष तं शंकरं शरणदं शरणं व्रजामि१६३
यः सव्यपाणि कमलाग्रनखेन देवस्तत्पंचमं प्रसभमेव पुरस्सुराणाम्
ब्राह्मं शिरस्तरुणपद्मनिभं चकर्त्त तं शंकरं शरणदं शरणं व्रजामि१६४
यस्य प्रणम्य चरणौ वरदस्य भक्त्या स्तुत्वा च वाग्भिरमलाभिरतंद्रितात्मा
दीप्तस्तमांसि नुदते स्वकरैर्विवस्वांस्तं शंकरं शरणदं शरणं व्रजामि१६५
ये त्वां सुरोत्तमगुरुं पुरुषा विमूढा जानंति नास्य जगतः सचराचरस्य
ऐश्वर्यमाननिगमानुशयेन पश्चात्ते यातनामनुभवंत्यविशुद्धचित्ताः१६६
तस्यैवं स्तुवतोऽवोचच्छूलपाणिर्वृषध्वजः
उवाच वचनं हृष्टो राघवं तुष्टमानसः१६७
रुद्र उवाच
राम हृष्टोस्मि भद्रं ते जातस्त्वं निर्मले कुले
त्वं चापि जगतां वंद्यो देवो मानुषरूपधृत्१६८
त्वया नाथेन वै देवाः सुखिनः शाश्वतीः समा
सेविष्यंते चिरं कालं गते वर्षे चतुर्दशे१६९
अयोध्यामागतं त्वां ये द्रक्ष्यंति भुवि मानवाः
सुखं तेऽत्र भजिष्यंति स्वर्गे वासन्तथाक्षयम्१७०
देवकार्यं महत्कृत्वा आगच्छेथाः पुनः पुरीम्
राघवस्तु तथा देवं नत्वा शीघ्रं विनिर्गतः१७१
इंद्रमार्गां नदीं प्राप्य जटाजूटं नियम्य च
अब्रवील्लक्ष्मणं राम इदमर्पय मे धनुः१७२
रामवाक्यं तु तच्छ्रुत्वा सीतां वै लक्ष्मणोऽब्रवीत्
किमर्थं देवि रामेण त्यक्तोहं कारणं विना१७३
अपराधं न जानामि कुपितो यन्महाभुजः
रामेणाहं परित्यक्तः प्राणांस्त्यक्ष्याम्यसंशयम्१७४
नैव मे जीवितेनार्थो धिग्धिङ्मां कुलपांसनम्
आर्यस्य येन वै मन्युर्जनितः पापकारिणा१७५
कांस्तु लोकान्गमिष्यामि अपध्यातो महात्मना
उभौ हस्तौ मुखे कृत्वा साश्रुकंठोऽब्रवीदिदम्१७६
नापराध्यामि रामस्य कर्मणा मनसा गिरा
स्पृष्टौ ते चरणौ देवि मम नान्या गतिर्भवेत्१७७
ततः सीताऽब्रवीद्रामं त्यक्तः किमनुजस्त्वया
वैषम्यं त्यज्यतां बाले लक्ष्मणे लक्ष्मिवर्धने१७८
राघवस्त्वब्रवीत्सीतां नाहं त्यक्ष्यामि लक्ष्मणम्
न कदाचिदपि स्वप्ने लक्ष्मणस्य मतं प्रिये१७९
श्रुतपूर्वं च सुश्रोणि क्षेत्रस्यास्य विचेष्टितम्
अत्र क्षेत्रे जनास्सत्यं सर्वे हि स्वार्थतत्पराः१८०
परस्परं न पश्यंति स्वात्मनश्च हितं वचः
न शृण्वंति पितुः पुत्राः पुत्राणां पितरस्तथा१८१
न शिष्या हि गुरोर्वाक्यं शिष्यस्यापि तथा गुरुः
अर्थानुबंधिनीप्रीतिर्न कश्चित्कस्यचित्प्रियः१८२
इत्येवं कथयन्नेव प्राप्तो रेवां महानदीम्
चक्रेभिषेकं काकुत्स्थः सानुजः सह सीतया१८३
तर्पयित्वा च सलिलैः स्वान्पितॄन्दैवतान्यपि
उदीक्ष्य च मुहुः सूर्यं देवताश्च समाहितः१८४
कृताभिषेकस्तु रराज रामः सीता द्वितीयः सह लक्ष्मणेन
कृताभिषेकः सह शैलपुत्र्या गुहेन सार्धं भगवानिवेशः१८५

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे मार्कंडेयाश्रमदर्शनं नाम त्र्यस्त्रिंशोऽध्यायः३३