पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच
यज्ञपवर्तमासाद्य विष्णुना प्रभविष्णुना
पदानि चेह दत्तानि किमर्थं पदपद्धतिः१
कृता वै देवदेवेन तन्मे वद महामते
कतमो दानवस्तेन विष्णुना दमितोत्र वै२
कृत्वा वै पदविन्यासं तन्मे शंस महामुने
स्वर्लोके वसतिर्विष्णोर्वैकुंठेऽस्य महात्मनः३
स कथं मानुषे लोके पदन्यासं चकार ह
देवलोकेषु वै देव देवाः सेंद्रपुरोगमाः४
तपसा महता ब्रह्मन्भक्ता ये सततं प्रभुम्
श्रीवराहस्य वसतिर्महर्ल्लोके प्रकीर्तिता५
नृसिंहस्य तथा प्रोक्ता जनलोके महात्मनः
त्रिविक्रमस्य वसतिस्तपोलोके प्रकीर्तिता६
लोकानेतान्परित्यज्य कथं भूमौ पदद्वयम्
क्षेत्रे पैतामहे चास्मिन्पुष्करे यज्ञपर्वते७
पदानि कृतवान्ब्रह्मन्विस्तरान्मम कीर्तय
श्रुतेन सर्वपापस्य नाशो वै भविता ध्रुवम्८
पुलस्त्य उवाच
सम्यक्पृच्छसि भोस्त्वं यत्संशृणु त्वं समाहितः
यथापूर्वं पदन्यासः कृतो देवेन विष्णुना९
यज्ञपर्वतमासाद्य शिलापर्वतरोधसि
पुरा कृतयुगे भीष्म देवकार्यार्थसिद्धये१०
विष्णुना च कृतं पूर्वं पृथिव्यर्थे परंतप
त्रिदिवं सर्वमानीतं दानवैर्बलवत्तरैः११
त्रैलोक्यं वशमानीय जित्वा देवान्सवासवान्
दानवा यज्ञभोक्तारस्तत्रासन्बलवत्तराः१२
कृता बाष्कलिना सर्वे दानवेन बलीयसा
एवंभूते तदा लोके त्रैलोक्ये सचराचरे१३
परमार्तिं ययौ शक्रो निराशो जीविते कृतः
स बाष्कलिर्दानवेंद्रोऽवध्योयं मम संयुगे१४
ब्रह्मणो वरदानेन सर्वेषां तु दिवौकसाम्
तदहं ब्रह्मणो लोके वृतः सर्वैर्दिवौकसैः१५
व्रजामि शरणं देवं गतिरन्या न विद्यते
एवं विचिंत्य देवेंद्रो वृतः सर्वैर्दिवौकसैः१६
जगाम त्वरितो भीष्म यत्र देवः पितामहः
ब्रह्मणः स पदं प्राप्य वृतस्तैश्च दिवौकसैः१७
अब्रवीज्जगतः कार्यं प्राप्तामापदमुत्तमाम्
किं न जानासि वै देव यतो नो भयमागतम्१८
दैत्यैर्यदाहृतं सर्वं वरदानाच्च ते प्रभो
कथितं वै मया सर्वं बाष्कलेश्च दुरात्मनः१९
क्रियतां चाविलंबेन पिता त्वं नः पितामहः
तत्त्वं चिंतय देवेश शांत्यर्थं जगतस्त्विह२०
तेषां च पश्यतां किंचिच्छ्रौतस्मार्तादिकाः क्रियाः
न प्रावर्तन्त हानिस्तु तैरस्माकं दिनेदिने२१
यथा हि प्राकृतः कश्चित्स्वार्थमुद्दिश्य भाषते
विज्ञाप्यसे तथास्माभिर्निरस्तोपकृतैः सदा२२
यद्येनोपकृतं यस्य सहस्रगुणितं पुनः
यो न तस्योपकाराय तत्करोति वृथा मतिः२३
तस्योपकारदग्धस्य निस्त्रपस्यासतः पुनः
नरकेष्वपि संवासस्तस्य दुष्कृतकारिणः२४
नैतावतैव साधुत्वं कृते यातु प्रतिक्रिया
स्वार्थैकनिष्ठबुद्धीनामेतन्नापि प्रवर्तते२५
यद्यस्य नाभवत्स्थानं जगतो ह्यत्र दुःखदं
शतधा हृदयं दीर्णं तन्न तृप्तिमुपागतम्२६
तत्र वा यत्र गंतास्मि निमग्नानुद्धरस्व नः
उपायकथनेनास्य येन तेजः प्रवर्तते२७
यथाख्यातं मया दृष्टं जगत्तत्स्थमवेक्ष्य ताम्
निःस्वाध्यायवषट्कारं निवृत्तोत्सवमंगलम्२८
त्यक्ताध्ययनसंयोगं मुक्तवार्ता परिग्रहम्
दंडनीत्या परित्यक्तं श्वासमात्रावशेषितम्२९
जगदार्तिमपि प्राप्तं पुनः कष्टतरां दशां
एतावता हि कालेन वयं ग्लानिमुपागताः३०
ब्रह्मोवाच
जानामि बाष्कलिं तं तु वरदानाच्च गर्वितम्
अजेयं भवतां मन्ये विष्णुसाध्यो भविष्यति३१
निरुध्य संस्थितो ब्रह्मा भावं तत्वमयं तदा
समाधिस्थस्य तस्यैव ध्यानमात्राच्चतुर्भुजः३२
स्तोकेनैव हि कालेन चिंत्यमानः स्वयंभुवा
आजगाम मुहूर्तेन सर्वेषामेव पश्यताम्३३
विष्णुरुवाच
भो भो ब्रह्मन्निवर्त्तस्व ध्यानादस्मान्निवारितः
यदर्थमिष्यते ध्यानं सोहं त्वां समुपागतः३४
ब्रह्मोवाच
महाप्रसाद एषोऽत्र स्वामिनो हि प्रदर्शनम्
कस्यान्यस्य भवेच्चैषा चिन्ता या जगतः प्रभो३५
ममैव तावदुत्पत्तिर्जगदर्थे विनिर्मिता
जगदेतत्त्वदर्थीयं तत्त्वतो नास्ति विस्मयः३६
भवता पालनं कार्यं संहरेद्रुद्र एव तु
एवंभूते जगत्यस्मिन्शक्रस्यास्य महात्मनः३७
हृतं राज्यं बाष्कलिना त्रैलोक्यं सचराचरम्
भृत्यस्य क्रियतां साह्यं मंत्रदानेन केशव३८
वासुदेव उवाच
भवतो वरदानेन अवध्यः स तु सांप्रतम्
बुद्धिसाध्यः स वै कार्यो बंधनादिह दानवः३९
वामनोहं भविष्यामि दानवानां विनाशकः
मया सह व्रजत्वेष बाष्कलेस्तु निवेशनम्४०
तत्र गत्वा वरं त्वेष मदर्थे याचतामिमम्
वामनस्यास्य विप्रस्य भूमे राजन्पदत्रयम्४१
प्रयच्छस्व महाभाग याच्ञैषा तु मया कृता
शक्रेणोक्तो दानवेंद्रो दद्यात्स्वमपि जीवितम्४२
गृह्य प्रतिग्रहं तस्य दानवस्य पितामह
तं बध्वा च ततो यत्नात्कृत्वा पातालवासिनम्४३
सौकरं रूपमास्थाय वधार्थं च दुरात्मनः
भविष्यामि न संदेहो व्रज शक्र त्वरान्वितः४४
विरराम तमुक्त्वैवमंतर्द्धानं गतश्च वै
अथ कालांतरे विष्णावदितेर्गर्भतां गते४५
निमित्तान्यतिघोराणि प्रादुर्भूतान्यनेकशः
समस्तजगदाधारे विष्णौ गर्भत्वमागते४६
शोभनं हि तदा जातं निमित्तं चैवमूर्जितम्
मालतीकुसुमानां तु सुगंधः सुरभिर्ववौ४७
अथ विहितविधानं कालमासाद्य देवस्त्रिदशगणहितार्थं सर्वभूतानुकंपी
विमल विरल केशश्चंद्रशंखोदयश्रीरदितितनयभावं देवदेवश्चकार४८
अवतरति च विष्णौ सिद्धदेवासुराणामनिमिषनयनानां विप्रसेदुर्मुखानि
अतिविरतरजोभिर्वायुभिः संवहद्भिर्दिनमपि च तदासीज्जन्म विष्णोः सुगर्भे४९
अदितिरजनगर्भा सापि देवी प्रयांती नतजघनभरार्त्ता मंदसंचाररम्या
अलसवदनखेदं पांडुभावं वहंती गुरुतरमवगाढं गर्भमेवोद्वहंती1.30.५०
ततः प्रविष्टे खलु गर्भवासं नारायणे भूतभविष्ययोगात्
विनापदं प्राप्तमनोरथानि भूतानि सर्वाणि तदा बभूवुः५१
समीरणो वाति च मंदमंदं पतत्सु वर्षेषु नगोद्भवेषु
विविक्तमार्गेषु दिगंतरेषु जनेषु वै सत्यमुपागतेषु५२
विमुच्यमाने गगने रजोभिः शनैश्शनैर्नश्यति चांधकारे
उदरांतर्गते विष्णौ द्रोहबुद्धिस्तदाभवत्५३
तां निशामय राजेंद्र देवमातुर्यथाक्रमम्
किमनुक्रमणेनैव लंघयामि त्रिविष्टपम्५४
बाष्कलिं दानवेंद्रं तं कुर्यां पातालवासिनम्
शक्रस्य तु मया दत्तं धनं लावण्यमेव च५५
दानवानां विनाशाय एकैव प्रभवाम्यहम्
क्षिपामि शरजालानि चक्रयानान्यनेकशः५६
गदाव्रातांश्च विविधान्दानवानां विनाशने
विबुधान्देवलोकस्थानधोभूमेस्तु दानवान्५७
करोमि कालयोगेन तत्तु कार्यं व्रतेन मे
निस्सृता सहसा वाणी वक्त्रमेवाभिसंस्थिता५८
येनेदं चिन्त्यते पूर्वं यन्न दृष्टं न च श्रुतम्
बंधं वै दनुमुख्यस्य कृतं कोपेन पश्य मे५९
कश्यपाय पुरा दत्तं धनं लावण्यमेव च
किमयं विगतोत्साहो वायवोथ समाकुलाः६०
भ्रमतीव हि मे दृष्टिर्मैतद्रूपं प्रचिंतितम्
आविष्टा किमहं वच्मि केनाप्यसदृशं वचः६१
विकल्पवशमापन्नाऽभीक्ष्णं हृदिममर्श सा
दधार दिव्यं वर्षाणां सहस्रं दिव्यमीश्वरम्६२
ततः समभवत्तस्यां वामनो भूतवामनः
जातेन येन चक्षूंषि दानवानां हृतानि वै६३
जातमात्रे ततस्तस्मिन्देवदेवे जनार्दने
नद्यः स्वच्छांबुवाहिन्यो ववौ गंधवहोऽनिलः६४
कश्यपोपि सुखं लेभे तेन पुत्रेण भास्वता
सर्वेषां मानसोत्साहस्त्रैलोक्यांतरवासिनाम्६५
संजातमात्रे तु ततो जनाधिपजनार्दने
स्वर्गलोके दुंदुभयो विनेदुस्तैश्च ताडिताः६६
अतिप्रहर्षात्तु जगत्त्रयस्य मोहश्च दुःखानि च नाशमीयुः
जगो च गन्धर्वगणोतिमात्रं भावस्वरैर्भर्तृविमिश्रिताश्च६७
सुराङ्गनाश्चापि च भावयुक्ता नृत्यंति तत्राप्सरसां समूहाः
तथैव विद्याधरसिद्धसंघा विमानयानैर्मुदिता भ्रमंति६८
वदंति सत्यानृतकार्यनिर्णयं तथाभिरंगं प्रतिदर्शयंति
गायंति गेयं विनिवृत्तरागा मुहुर्मुहुर्दुःखसुखप्रभूताः६९
नृत्यंति वै स्वर्गगताश्च ते तु धर्मार्जितं स्वर्गमितो व्रजंति
इति विगतविषादे निर्मले जीवलोके तिमिरनिकरमुक्ता निर्वृतिं प्राप्तुकामाः७०
तत्रोचुः केचिदुर्व्यां जयजय भगवन्संप्रहृष्टाश्च केचित्
त्वेवं प्रोक्तप्रणादैरविरल मनसश्चानुवादैस्तथान्यैः
ध्यायंतेन्ये निगूढं जननभय जरामृत्युविच्छेदहेतो-
रित्येवं कृत्स्नमासीज्जगदिदमखिलं सर्वतः संपृहृष्टम्७१
परमासाद्य यं विष्णुं ब्रह्माह जगतः कृते
जातोयं भवतामर्थे वामनो यदपीश्वरः७२
एष ब्रह्मा च विष्णुश्च एष एव महेश्वरः
एष वेदाश्च यज्ञाश्च स्वर्गश्चैष न संशयः७३
विष्णुव्याप्तमिदं सर्वं जगत्स्थावरजंगमम्
एकः स तु पृथ्क्त्वेन स्वयंभूरिति विश्रुतः७४
यथार्थवर्णके स्थाने विचित्रः स्फाटिको मणिः
ततो गुणवशात्तस्य स्वयंभोरनुवर्त्तनम्७५
यथा हि गार्हपत्योग्निरन्यसंज्ञां पुनर्व्रजेत्
लभेत संज्ञां भगवान्ब्राह्मादिषु तथा ह्यसौ७६
सर्वथा वामनो देवो देवकार्यं करिष्यति
एवं चिंतयतां तेषां भावितानां दिवौकसाम्७७
जगाम शक्रसहितो बाष्कलेश्च निवेशनम्
दूरादेव च तां दृष्ट्वा पुरीं तस्य समावृताम्७८
पांडुरैः खगमागम्यैः सर्वरत्नोपशोभितैः
शोभितां भवनैर्मुख्यैस्सुविभक्तमहापथैः७९
नित्यप्रभिन्नैर्मातंगैरंजनाचलसन्निभैः
देवनागकुलोत्पन्नैः शतसंख्यैर्विराजिताम्८०
निर्मांसगात्रैस्तुरगैरल्पकर्णैर्मनोजवैः
दीर्घग्रीवाक्षिकूटैश्च मनोज्ञैरुपशोभिताम्८१
पद्मगर्भसुवर्णाभाः पूर्णचंद्रनिभाननाः
संल्लापोल्लापकुशलास्तत्र वेश्याः सहस्रशः८२
न तत्पुण्यं न सा विद्या न तच्छिल्पं न सा कला
बाष्कलेर्न पुरेऽस्याथ निवासं प्रतिगच्छति८३
उद्यानशतसंबाधं समाजोत्सवमालिनि
अन्विते दनुमुख्यैश्च सर्वैरंतकवर्जितैः८४
वीणावेणुमृदंगानां शब्दैः सर्वत्र नादिते
सदा प्रहृष्टा दनुजा बहुरत्नोपशोभिताः८५
क्रीडमानाः प्रदृश्यंते मेराविव यथामराः
ब्रह्मघोषो महांस्तत्र दनुवृद्धैरुदीरितः८६
साज्यधूमेन चाग्नीनां वायुना नष्टकिल्बिषे
सुगंधधूपविक्षेप सुरभीकृतमारुते८७
सुगंधिदनुजाकीर्णे पुरे तस्मिंस्तु बाष्कलि
त्रैलोक्यं तु वशे कृत्वा सुखेनास्ते स दानवः८८
तत्रस्थः पालयन्नास्ते त्रैलोक्यं सचराचरं
धर्मज्ञश्च कृतज्ञश्च सत्यवादी जितेंद्रियः८९
सुदर्शः पूर्वदेवानां नयानयविचक्षणः
ब्रह्मण्यश्च शरण्यश्च दीनानामनुकंपकः९०
वेदमंत्रप्रभूत्साह सर्वशक्तिसमन्वितः
षाड्गुण्यविषयोत्साहः स्मितपूर्वाभिभाषितः९१
वेदवेदांगतत्वज्ञो यज्ञयाजी तपोरतः
न च दुःशीलनिरतः स सर्वत्राविहिंसकः९२
मान्यमानयिता शुद्धः सुमुखः पूज्यपूजकः
सर्वार्थविदनाधृष्यः सुभगः प्रियदर्शनः९३
बहुधान्यो बहुधनो बहुयानश्च दानवः
त्रिवर्गसाधको नित्यं त्रैलोक्ये वरपूरुषः९४
स्वपुरीनिलयो नित्यं देवदानवदर्पहा
स चैवं पालयामास त्रैलोक्ये सकलाः प्रजाः९५
नाधमः कश्चिदप्यास्ते तस्मिन्राजनि दानवे
दीनो वा व्यधितो वापि अल्पायुर्वाथ दुःखितः९६
मूर्खो वा मंदरूपो वा दुर्भगो वा निराकृतः
एवं युतं तं विमलैर्गुणौघैर्दृष्ट्वा च मत्वा च निविष्टबुद्धिं९७
प्रसादयन्दैत्यवरं महात्मा पुरंदरस्तं तु दनुप्रधानं
तेजोयुक्तं दानवं तं तपंतमिव भास्करं९८
त्रैलोक्यधारणे शक्तं विस्मितः सोऽभवत्तदा
इंद्रं पुरागतं दृष्ट्वा दानवेंद्राय पार्थिव९९
इदमूचुस्तदागत्वा दानवा युद्धदुर्मदाः
आश्चर्यमिति वै कृत्वा इंद्रोभ्येति पुरीं तव1.30.१००
एकाकी द्विजमुख्येन वामनेन सह प्रभो
अस्माभिर्यदनुष्ठेयं सांप्रतं नो वदस्व राट्१०१
दानवानब्रवीत्सर्वान्पुरे तिष्ठत संकुलं
प्रवेश्यतां देवराजः पूज्यः स तु ममाद्य वै१०२
एतस्मिन्नेव काले तु वामनः स च वासवः
आगतौ दनुनाथेन प्रेम्णा चैवावलोकितौ१०३
कृतार्थं मन्यतात्मानं प्रणिपातपुरःसरम्
उवाच वचनं राजा दानवानां धुरंधरः१०४
अद्य वै त्रिषु लोकेषु नास्ति धन्यतरो मया
योहं श्रियावृतः शक्रं पश्यामि गृहमागतम्१०५
अर्थित्वकाम्यया यस्तु मामयं याचयिष्यति
गृहागतस्य तस्याहं दास्ये प्राणानपि ध्रुवम्१०६
दारान्पुत्रांस्तथागारं त्रैलोक्ये का कथा मम
आगत्य संमुखं तस्य अंकमानीय सादरम्१०७
परिष्वज्याभिनन्द्यैनं गृहं प्रावेशयत्स्वकम्
तस्य स्वागतमर्घ्याद्यैः कृत्वा पूजां प्रयत्नतः१०८
अद्य मे सफलं जन्म पूर्णाः सर्वे मनोरथाः
यस्त्वां पश्यामि शक्राद्य स्वयमेव गृहागतम्१०९
ख्याप्योहं दनुमुख्यानां देवराज त्वया कृतः
आगच्छता मम गृहं पुण्यता तु परा हि मे११०
अग्निष्टोमादिभिर्यज्ञैस्सम्यगिष्टैस्तु यत्फलम्
तत्फलं समवाप्येत त्वयि दृष्टे पुरंदर१११
यत्फलं भूमिदानेन गवां दानेन ऋत्विजे
ममाद्य तत्फलं भूतमथवा राजसूयकम्११२
नाल्पेन तपसा लभ्यं दर्शनं तव वासव
एवं गेहे मया यत्ते प्रियं कार्यं तदुच्यताम्११३
विकल्पोऽन्यो न भवता हृदि कार्यः कथंचन
कृतं च तद्विजानीया यद्यदि स्यात्सुदुष्करं११४
पुण्योहं पुण्यतां प्राप्तो दर्शनात्तव शत्रुहन्
यत्ते देव वरैर्वंद्यौ वंदितौ चरणौ मया११५
किमागमनकृत्यं ते वद सर्वं मयि प्रभो
अत्याश्चर्यमिदं मन्ये तवागमन कारणं११६
इंद्र उवाच
जानेहं दनुमुख्यानां प्रधानं त्वां तु बाष्कले
नात्याश्चर्यमिदं भाति त्वयि दृष्टेऽसुरोत्तम११७
विमुखा नार्थिनो यांति भवतो गृहमागताः
अर्थिनां कल्पवृक्षोसि दाता चान्यो न विद्यते११८
प्रभायां सूर्यतुल्योसि गांभीर्ये सागरोपमः
सहिष्णुत्वे धरा चैव श्रिया नारायणोपमः११९
ब्राह्मणः कश्यपकुले जातोयं वामनः शुभे
प्रार्थितोहमनेनैवं भूमेर्देहि पदत्रयं१२०
ममाग्निशरणार्थाय यत्र कुर्यां मखं त्वहं
तदस्य कारणं कृत्वा अर्थितैषा मम प्रभो१२१
लोकत्रयं मेऽपहृतं त्वया विक्रम्य बाष्कले
निर्वृत्तिको निर्धनोस्मि यद्दित्से न तदस्ति मे१२२
भवंतं याचयिष्यामि परार्थेनापि चात्मना
अर्थित्त्वेन ममाप्यस्य यद्योग्यं तत्समाचर१२३
जातोसि काश्यपे च त्वं वंशे वंशविवर्द्धनः
दित्यास्त्वं गर्भसंभूतः पिता त्रैलोकपूजितः१२४
एवंभूतमहं ज्ञात्वा तेन त्वां याचयाम्यहम्
अस्याग्निशरणार्थाय दीयतां भू पदत्रयम्१२५
अतीव ह्रस्वगात्रस्य वामनस्यास्य दानव
भूमिभागे च पारक्ये दातुं न त्वहमुत्सहे१२६
एतदेव मया दत्तं यद्भवानर्थितोसि मे
गुरवो यदि मन्यंते मंत्रिणो वा पदत्रयम्१२७
अर्थित्वेन मदीयेन स्वकुले बांधवेपि च
गृहायाते मयि तथा यद्योग्यं तत्समाचर१२८
यदि ते रुचितं वीर दानवेंद्र महाद्युते
तदस्मै दीयतां शीघ्रं वामनाय महात्मने१२९
बाष्कलिरुवाच
देवेंद्र स्वागतं तेऽस्तु स्वस्ति प्राप्नुहि मा चिरम्
त्वं समीक्षस्वधात्मानं सर्वेषां च परायणम्१३०
त्वयि भारं समावेश्य सुखमास्ते पितामहः
ध्यानधारणयायुक्तश्चिंतयानः परं पदम्१३१
संग्रामैर्बहुभिः खिन्नो जगच्चिंतामपास्य तु
क्षीराब्धिद्वीपमाश्रित्य सुखं स्वपिति केशवः१३२
अन्ये च दानवाः सर्वे बलिनः सायुधास्त्वया
असहायेनैव शक्र सर्वेपि विनिपातिताः१३३
आदित्या द्वादशैवेह रुद्रास्त्वेकादशापि वा
अश्विनौ वसवश्चैव धर्मश्चैव सनातनः१३४
त्वद्बाहुबलमाश्रित्य त्रिदिवे मखभागिनः
त्वया क्रतुशतैरिष्टं समाप्तवरदक्षिणैः१३५
त्वया च घातितो वृत्रो नमुचिः पाकशासन
त्वदाज्ञाकारिणा पूर्वं विष्णुना प्रभविष्णुना१३६
हिरण्यकशिपोर्भ्राता हिरण्याक्षोपि घातितः
हिरण्यकशिपुर्योत्र जङ्घे चारोप्य घातितः१३७
वज्रपाणिनमायांतमैरावणशिरोगतम्
संग्रामभूमौ दृष्ट्वा त्वां सर्वे नश्यंति दानवाः१३८
ये त्वया विजिताः पूर्वं दानवा बलवत्तराः
सहस्रांशेन तत्तुल्यो न भवामि कथंचन१३९
एवंविधोऽसि देवेंद्र मम का गणना भवेत्
मां समुद्धर्तुकामेन त्वयैवागमनं कृतम्१४०
करिष्यामि न संदेहो दास्ये प्राणानपि ध्रुवम्
किमर्थं देवराजोक्ता भूमिरेषा त्वया हि मे१४१
इमे दाराः सुता गावो यच्चान्यद्विद्यते वसु
त्रैलोक्यराज्यमखिलं विप्रस्यास्य प्रदीयताम्१४२
अपकीर्तिर्भवेन्मह्यं पूर्वेषां च न संशयः
गृहायातस्य शक्रस्य दत्तं बाष्कलिना न तु१४३
अन्योपि योर्थी मे प्राप्तः समे प्रियतरः सदा
भवानत्र विशेषेण विचारं मा कृथाः क्वचित्१४४
बृहत्त्रपा मे देवेंद्र यद्भूमेस्तु पदत्रयम्
ब्राह्मणस्य विशेषेण प्रार्थितं तु त्वया विभो१४५
दास्ये ग्रामवरानस्य भवतस्तु त्रिविष्टपम्
अश्वान्गजान्भूमिधनं स्त्रियश्चोद्भिन्नचूचुकाः१४६
यासां दर्शनमात्रेण वृद्धोपि तरुणायते
ताः स्त्रियो वसुधां चैतां वामनस्य प्रतिग्रहम्१४७
प्रतिदास्यामि देवेन्द्र प्रसादः क्रियतां हि मे
एतावदुक्ते वचने तदा बाष्कलिना नृप१४८
पुरोधास्तूशना प्राह दानवेंद्रं तदा वचः
भवान्राजा दानवेंद्र ऐश्वर्येष्टविधे स्थितः१४९
युक्तायुक्तं न जानासि देयं कस्य मया क्वचित्
मंत्रिभिः सुसमालोच्य युक्तायुक्तं परीक्ष्य च 1.30.१५०
प्राप्तं त्रैलोक्यराज्यत्वं जित्वा देवान्सवासवान्
वाक्यस्यास्यावसानेव भवान्प्राप्स्यति बंधनं१५१
य एष वामनो राजन्विष्णुरेव सनातनः
नास्य वै भवता देयं पिता ते घातितः स्वयं१५२
अयं ते पितृहा प्राप्तो मातृहा बंधुघातकः
वंशोच्छेदकरस्तुभ्यं भूतश्चैव भविष्यति१५३
न चैष धर्मं जानाति शक्रादीनां हिते रतः
मायाविना दानवा ये मायया येन निर्जिताः१५४
मायया ब्राह्मणं रूपं वामनं च प्रदर्शितम्
अत्र किं बहुनोक्तेन नास्य देयं तु किंचन१५५
मक्षिकापादमात्रं तु भूमिरस्य प्रतिग्रहः
विनाशमेष्यसि क्षिप्रं सत्यंसत्यं मया श्रुतम्१५६
गुरुणाप्येवमुक्तस्तु भूयो वाक्यमथाब्रवीत्
धर्मार्थिना मया सर्वं प्रतिज्ञातं गुरो त्विदम्१५७
प्रतिज्ञापालनं कार्यं सतां धर्मः सनातनः
यद्येष भगवान्विष्णुर्नास्ति धन्यतरो मया१५८
गृह्य प्रतिग्रहं मत्तो यदि देवान्बुभूषति
भूयोपि धन्यतां नीतो देवेनानेन वै गुरो१५९
यं योगिनो ध्यानयुक्ता ध्यायमाना हि दर्शनम्
न लभंते तथा विप्रास्सोयं दृष्टो मयाद्य वै१६०
दानानि ये प्रयच्छंति सकुशोदकपाणिना
प्रीयतां भगवान्विष्णुः परमात्मा सनातनः१६१
एवमुक्ते तु वचने अपवर्गस्य भागिनः
यदत्र कार्यकरणे विकल्पो मे बभूव ह१६२
उपदिष्टोस्मि भवता बालत्वे चावधारितम्
शत्रावपि गृहायाते मास्त्वदेयं तु किंचन१६३
एतदेव विचिंत्याहं प्राणानपि स्वकान्गुरो
वामनस्य प्रदास्यामि शक्रस्यापि त्रिविष्टपम्१६४
अपीडाकारि यद्दानं तद्दानमिह दीयते
पीडाकारि च यद्दानं तद्दानं समलं स्मृतम्१६५
एतच्छ्रुत्वा गुरुस्तत्र त्रपयाधोमुखः स्थितः
बाष्कलिरुवाच
अर्थिता भवतो देव देया सर्वा धरा मया१६६
त्रपाकरं भवेन्मह्यं यदस्य भूपदत्रयम्
इंद्र उवाच
सत्यमेतद्दानवेन्द्र यदुक्तं भवता हि मे१६७
भूमेः पदत्रयार्थित्वं द्विजेनानेन मे कृतम्
एतावता त्वयं चार्थी मयाप्यस्य कृते भवान्१६८
दनुपुत्रो याचितोसि वरमेतत्प्रदीयताम्
बाष्कलिरुवाच
पदत्रयं वामनाय देवराज प्रतीच्छ मे१६९
तत्र त्वं सुचिरं कालं सुखी सुरपते वस
एवमुक्त्वा बाष्कलिना वामनाय पदत्रयम्१७०
तोयपूर्वं तदा दत्तं प्रीयतां मे हरिः स्वयम्
दत्ते तु दानवेंद्रेण त्यक्त्वा रूपं च वामनम्१७१
हरिराचक्रमे लोकान्देवानां हितकाम्यया
यज्ञपर्वतमासाद्य गत्वा चैव उदङ्मुखः१७२
देवस्य वामचरणे निविष्टो दानवालयः
तत्र क्रमं स प्रथमं ददौ सूर्ये जगत्पतिः१७३
द्वितीयं च ध्रुवे देवस्तृतीयेन च पार्थिव
ब्रह्मांडस्ताडितस्तेन देवेनाद्भुतकर्मणा१७४
अंगुष्ठाग्रेण भिन्नेंडे जलं भूरि विनिःसृतम्
प्लावयित्वा ब्रह्मलोकान्सर्वान्लोकाननुक्रमात्१७५
ध्रुवस्थानं सूर्यलोकं प्लाव्य तं यज्ञपर्वतम्
प्रविष्टा पुष्करं धारा धौत्वा विष्णुपदानि सा१७६
पदानि यानि जातानि वैष्णवानि धरातले
तत्राश्रमे तु यो गत्वा स्नानं वाप्यां समाचरेत्१७७
अश्वमेधफलं तस्य दर्शनादेव जायते
एकविंशगणोपेतो वैकुंठे वासमाप्नुयात्१७८
भुक्त्वा तु विपुलान्भोगान्कल्पानां तु शतत्रयम्
तदंते जायते राजा सार्वभौमः क्षिताविह१७९
तोयधारा तु सा भीष्म अंगुष्ठाग्राद्विनिःसृता
नदी सा वैष्णवी प्रोक्ता विष्णुपादसमुद्भवा१८०
अनेन कारणेनाभूद्गंगा विष्णुपदी नृप
यया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम्१८१
अंगुष्ठाग्रक्षतादंडाद्यत्प्रविष्टं जलं शुभम्
प्राप्तं देवनदीत्वं तु यातु विष्णुपदी नदी१८२
देवनद्या तया व्याप्तं ब्रह्मांडं सचराचरम्
विभूतिभिर्महाभाग सर्वानुग्रहकाम्यया१८३
स बाष्कलिर्वामनेन उक्तः पूरय मे क्रमान्
अधोमुखस्तदा जात उत्तरं नास्य विंदति१८४
मौनीभूतं तु तं दृष्ट्वा पुरोधा वाक्यमब्रवीत्
स्वाभाविकी दानशक्तिर्न तु स्रष्टुं वयं क्षमाः१८५
यावतीयं धरा देव सा दत्तानेन ते प्रभो
उक्तो बाष्कलिना विष्णुर्यावन्मात्रा वसुंधरा१८६
या सृष्टा भवता पूर्वं सा मया न च गोपिता
अल्पाभूमिर्भवान्दीर्घो न तु सृष्टेरहं क्षमः१८७
इच्छाशक्तिः प्रभवति प्रभोस्ते देव सर्वदा
निरुत्तरस्तदा विष्णुर्मत्वा तं सत्यवादिनम्१८८
ब्रूहि दानवमुख्य त्वं कं ते कामं करोम्यहम्
मम हस्तगतं तोयं त्वया दत्तं तु दानव१८९
तेन त्वं वरयोग्योसि वराणां भाजनं शुभं
दास्येहं भवतः काममर्थीयेन वृणुष्व ह१९०
विज्ञप्तो हि तदा तेन देवदेवो जनार्दनः
भक्तिं वृणोमि देवेश त्वद्धस्तान्मरणं हि मे१९१
व्रजामि श्वेतद्वीपं ते दुर्लभं तु तपस्विनाम्
आहैवमुक्ते विष्णुस्तं तिष्ठस्वैव युगांतरम्१९२
वाराहरूपी यदाहं प्रवेक्ष्यामि धरातलम्
तदा हनिष्येहं त्वां तु मदग्रे च यदैष्यसि१९३
उक्तोथ दानवस्तेन अपासर्प्पत्तदग्रतः
वामनेन समाक्रांताः सर्वे लोकास्तदा नृप१९४
असुरैस्तैस्तदा त्यक्तं देवानां सत्यभाषणम्
देवो हृत्वा तु त्रैलोक्यं जगामादर्शनं विभुः१९५
पातालनिलयश्चापि सुखमास्ते स बाष्कलि
शक्रोपि पालयामास विपश्चिद्भुवनत्रयम्१९६
अयं त्रैविक्रमो नाम प्रादुर्भावो जगद्गुरोः
गंगासंभवसंयुक्तस्सर्वकल्मषनाशनः१९७
विष्णोः पदानामेषा ते उत्पत्तिः कथिता नृप
यां श्रुत्वा तु नरो लोके सर्वपापैः प्रमुच्यते१९८
दुःस्वप्नं दुर्विचिंत्यं च दुःष्करं दुःष्कृतानि च
क्षिप्रं हि नाशमायांति दृष्टे विष्णुपदत्रये१९९
युगानुक्रमशो दृष्ट्वा पापिनो जंतवस्तथा
सूक्ष्मता दर्शिता भीष्म विष्णुना पददर्शने1.30.२००
यस्त्वारोहति तस्मिंस्तु मौनवान्मानवो भुवि
कृत्वा त्रिपुष्करी यात्रामश्वमेधफलं व्रजेत्२०१
मुच्यते सर्वपापैश्च मृतो विष्णुपुरं व्रजेत्२०२

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे विष्णुपदोत्पत्तिर्नाम त्रिंशोऽध्यायः३०