पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २२

विकिस्रोतः तः
Jump to navigation Jump to search

भीष्म उवाच
भूर्लोकोथ भुवर्लोकः स्वर्लोकोथ महर्जनः
तपः सत्यं च सप्तैते देवलोकाः प्रकीर्त्तिताः१
पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत्
इहलोके शुभं रूपमायुरारोग्यमेव च २
लक्ष्मीश्च विपुला ब्रह्मन्कथं स्यात्सुरपूजित
पुलस्त्य उवाच
पुरा हुताशनः सार्द्धं मारुतेन महीतले ३
आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम्
निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः ४
तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः
विरोचनस्तु संह्रादः प्रयातास्ते तदा वसन् ५
अंतःसमुद्रमाविश्य सन्निवेशमकुर्वत
अशक्ता इति तेप्यग्निमारुताभ्यामुपेक्षिताः ६
ततः प्रभृति वै देवान्मानुषान्स भुजंगमान्
संपीड्य च मुनीन्सर्वान्प्रविशंति पुनर्जलम् ७
एवं युगसहस्राणि ते वीराः सप्त पंच च
जलदुर्गबलाद्राजन्पीडयंति जगत्त्रयम् ८
ततः पुनरथो वह्निमारुतावमराधिपः
आदिदेशाचिरादंबु निधिरेष विशोष्यताम्९
यस्मादस्मद्द्विषां चैष शरणं वरुणालयः
तस्माद्भवद्भ्यामद्यैव शोषमेष प्रणीयताम्१०
तावूचतुस्ततः शक्रं मयशम्बरसूदनम्
अधर्म एष देवेंद्र सागरस्य विनाशनम्११
यस्माज्जीवनिकायस्य महतः संक्षयो भवेत्
तस्मादुपायमन्यं तु समाश्रय पुरंदर१२
यस्य योजनमात्रेपि जीवकोटि शतानि च
निवसंति सुरश्रेष्ठ स कथं नाशमर्हति१३
एवमुक्तः सुरेंद्रस्तु क्रोधसंरक्तलोचनः
उवाचेदं वचो रोषादमरावग्निमारुतौ १४
न धर्माधर्मसंयोगं प्राप्नुवंत्यमराः क्वचित्
भवंतौ तु विशेषेण महात्मानौ च तिष्ठतः १५
ममाज्ञा न कृता यस्मान्मारुतेन समं त्वया
मुंनिव्रतपरो भूत्वा परिगृह्य कलेवरम्१६
धर्मार्थशास्त्ररहितां योनिं प्रति विभावसो
तस्मादेकेन वपुषा मुनिरूपेण मानुषे १७
मारुतेन समं लोके तव जन्म भविष्यति
यदा तु मानुषत्वेपि त्वया गंडूषशोषितः १८
भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि
इतींद्रशापात्पतितौ तत्क्षणात्तौ महीतले १९
अवाप्तवंतौ देहे च कुंभाज्जन्म ततोभवत्
मित्रावरुणयोर्वीर्याद्वसिष्ठश्चात्मजोभवत् २०
ततोगस्त्य उग्रतपा बभूव मुनिसत्तमः
अस्माद्भ्रातुः स वै भ्राता वसिष्ठस्यानुजो मुनिः२१
भीष्म उवाच
कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ
जन्म कुंभादगस्त्यस्य यथाभूत्तद्वदाधुना २२
पुलस्त्य उवाच
पुरा पुराणपुरुषः कदाचिद्गंधमादने
भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः २३
तपसा चास्य भीतेन विघ्नार्थे प्रेषितावुभौ
शक्रेण माधवानंगावप्सरोगणसंयुतौ २४
यदा च गीतवाद्येन भावहावादिना हरिः
न काममाधवाभ्यां च मोहं नेतुमशक्यत २५
तदा काममधुस्त्रीणां विषादमभजद्गणः
संक्षोभायत तस्तेषामूरुदेशान्नराग्रजः२६
नारीमुत्पादयामास त्रैलोक्यस्यापि मोहिनीम्
संमोहितास्तया देवास्तौ तु चैव सुरावुभौ२७
अप्सराणां समक्षं हि देवानामब्रवीद्धरिः
उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति२८
ततः कामयमानेन मित्रेणाहूयतोर्वशी
प्रोक्ता मां रमयस्वेति बाढमित्यब्रवीच्च सा २९
गच्छंती तु ततः सूर्यलोकमिंदीवरेक्षणा
वरुणेन वृता पश्चाद्वचनं तमभाषत ३०
मित्रेणाहं वृता पूर्वं मम सूर्यः पतिः प्रभो
उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ३१
गतायां बाढमित्युक्त्वा मित्रः शापमदादथ
अद्यैव मानुषे लोके गच्छ सोमसुतात्मजम्३२
भजस्वेति यतो मिथ्या धर्म एष त्वया कृतः
जलकुंभे ततो वीर्यं मित्रेण वरुणेन च ३३
प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ
निमिर्नाम नृपः स्त्रीभिः पुरा द्यूतमदीव्यत ३४
तदंतरेभ्याजगाम वसिष्ठो ब्रह्मसंभवः
तस्य पूजामकुर्वाणं शशाप स मुनिर्नृपम् ३५
विदेहस्त्वं भवस्वेति शप्तस्तेनाप्यसौ मुनिः
अन्योन्यशापादुभयोर्विशरीरे तु तेजसी ३६
जग्मतुश्शापनाशाय ब्रह्माणं जगतः पतिम्
अथ ब्रह्मसमादेशाल्लोचनेष्ववसन्निमिः ३७
निमेषाः स्युश्चलोकानां तद्विश्रामाय पार्थिव
वसिष्ठोप्यभवत्तस्मिञ्जलकुंभे च पूर्ववत् ३८
ततो जातश्चतुर्बाहुः साक्षसूत्रकमंडलुः
अगस्त्य इति शांतात्मा बभूव ऋषिसत्तमः३९
मलयस्यैकदेशे तु वैखानस विधानतः
सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुष्करम् ४०
ततः कालेन महता तारकादिनिपीडितम्
जगद्वीक्ष्यसकोपेन पीतवान्वरुणालयम्४१
ततोस्य वरदास्सर्वे बभूवुः शंकरादयः
ब्रह्माविष्णुश्च भगवान्वरदानाय जग्मतुः४२
वरं वृणीश्व भद्रं ते यश्चाभीष्टोत्र वै मुने
अगस्त्य उवाच
यावद्ब्रह्मसहस्राणां पंचविंशतिकोटयः४३
वैमानिको भविष्यामि दक्षिणांबरवर्त्मनि
मद्विमानोदयात्कुर्याद्यः कश्चित्पूजनं मम ४४
स सप्तलोकाधिपतिः पर्यायेण भविष्यति
यस्त्वाश्रमं पुष्करे तु मन्नाम्ना परिकीर्तयेत् ४५
स चैव पुण्यतां यातु वर एष वृतो मया
श्राद्धं येऽत्र करिष्यंति पिंडपूर्वं तु भक्तितः४६
तेषां पितृगणास्सर्वे मया सह दिवि स्थिताः
एतत्कालं वसिष्यंति एष एव वरो मम४७
एवमस्त्विति तेप्युक्त्वा जग्मुर्देवा यथागतम्
तस्मादर्घः प्रदातव्यो ह्यगस्त्याय सदा बुधैः४८
भीष्म उवाच
कथमर्घप्रदानं च कर्तव्यं तस्य वै मुनेः
विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ४९
पुलस्त्य उवाच
प्रत्यूष समये विद्वान्कुर्यादस्योदये निशि
स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्यांबरो गृही ५० 1.22.50
स्थापयेदव्रणं कुंभं माल्यवस्त्रविभूषितम्
पंचरत्नसमायुक्तं घृतपात्रेणसंयुतम्५१
अंगुष्ठमात्रं पुरुषं तथैव सुवर्णमध्यायतबाहुदंडम्
चतुर्भुजं कुंभमुखे निधाय धान्यानि सप्ताचलसंयुतानि५२
सकांस्यपात्राक्षतशुक्लयुक्तं मंत्रेण दद्याद्द्विजपुंगवाय
उत्क्षिप्य कुंभोपरिदीर्घबाहुमनन्यचेता यमदिङ्मुखस्थम्५३
श्वेतां च दद्याद्यदिशक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्सां
धेनुं नरः क्षीरवतीं प्रणम्य स्रग्वस्त्रघंटाभराणां द्विजाय५४
आसप्तरात्रादुदये नृपास्य दातव्यमेतत्सकलं नरेण
यावत्समास्सप्तदशाथ वा स्युरथोर्द्ध्वमप्यत्र वदंति केचित्५५
काशपुष्पप्रतीकाश अग्निमारुतसंभव
मित्रावरुणयोः पुत्र कुंभयोने नमोस्तु ते५६
प्रत्यब्दं च फलत्यागमेवं कुर्वन्नसीदति
होमं कृत्वा ततः पश्चाद्वर्तयेन्मानवः फलम्५७
अनेनविधिना यस्तु पुमानर्घं निवेदयेत् अर्घ्य
इमं लोकमवाप्नोति रूपारोग्यफलप्रदम्५८
द्वितीयेन भुवर्लोकं स्वर्लोकं च ततः परम्
सप्तैव लोकानाप्नोति सप्तार्घान्यः प्रयच्छति५९
इति पठति शृणोति यो हि सम्यक्चरितमगस्त्यसमर्चनं च पश्येत्
मतिमपि च ददाति सोपि विष्णोर्भवनगतः परिपूज्यतेमरौघैः६०
भीष्म उवाच
सौभाग्यारोग्यफलदममित्रक्षयकारकम्
भुक्तिमुक्तिप्रदं यच्च तन्मे ब्रूहि महामते६१
पुलस्त्य उवाच
यदुमाया पुरा देव उवाचांधकसूदनः
कथासु संप्रवृत्तासु धर्म्यासु ललितासु च६२
तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम्
गौर्युवाच
दत्तः शापो हि सावित्र्या मह्यं लक्ष्म्यै सुरेश्वर६३
यथा लक्ष्मीप्रधानत्वमहं यामि तथा वद
शंकर उवाच
शुणुष्वावहिता देवि तथैवान्यत्स्वयंकृतम्६४
नराणामथ नारीणामाराधनमनुत्तमम्
नभस्ये वाथ वैशाखे पुण्ये मार्गशिरस्यथ६५
शुक्लपक्षे तृतीयायां स्नातः स गौरसर्षपैः
गोरोचनं सगोमूत्रं गोदुग्धं च घृतं तथा६६
दधिचंदनसंमिश्रं ललाटे तिलकं न्यसेत्
सौभाग्यारोग्यकृद्यस्मात्सदा च ललिताप्रियम्६७
प्रतिपक्षं तृतीयायां पुमान्वापि सुवासिनी
धारयेद्रक्तवस्त्राणि कुसुमानि सितानि च ६८
विधवा शुक्लवस्त्रं वै त्वेकमेव हि धारयेत्
कुमारी शुक्ल सूक्ष्मे च परिदध्यात्तु वाससी ६९
देवीं च पंचगव्येन ततः क्षीरेण केवलं
स्नापयेन्मधुना तद्वत्पुष्पगंधोदकेन तु७०
पूजयेच्छुक्लपुष्पैस्तु फलैर्नानाविधैरपि
धान्यलाजादिलवणगुडक्षीरघृतान्वितैः७१
शुक्लाक्षततिलैरर्चा कार्या देवि सदा त्वया
पादयोरर्चनं कुर्यात्प्रतिपक्षं वरानने ७२
वरदायै नमः पादौ तथा गुल्फौ श्रियै नमः
अशोकायै नमो जंघे पार्वत्यै जानुनी तथा ७३
ऊरू मांगल्यकारिण्यै वामदेव्यै तथा कटिम्
पद्मोदरायै जठरं नमः कंठे श्रियै नमः७४
करौ सौभाग्यदायिन्यै बाहू च सुमुखश्रियै
मुखं दर्पविनाशिन्यै स्मरदायै स्मितं पुनः७५
गौर्यै नमस्तथानासामुत्पलायै च लोचने
तुष्ट्यै ललाटमलकं कात्यायन्यै नमः शिरः७६
नमो गोर्य्यै नमः पुष्ट्यै नमः कांत्यै नमः श्रियै
रंभायै ललितायै च वामदेव्यै नमो नमः७७
एवं संपूज्य विधिवदग्रतः पद्ममालिखेत्
पत्रैः षोडशभिर्युक्तं क्रमेणैव सकर्णिकम्७८
पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम्
भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम्७९
विन्यसेत्पश्चिमे भागे सौम्यां मदनवासिनीम्
वायव्ये पाटलामुग्रामुत्तरेण तथा उमाम्८०
साध्यां पथ्यां तथा सौम्यां मंगलां कुमदां सतीम्
भद्रां च मध्ये संस्थाप्य ललितां कर्णिकोपरि८१
कुसुमैरक्षताद्भिर्वा नमस्कारेण विन्यसेत्
गीतमंगलघोषं च कारयित्वा सुवासिनीम्८२
पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः
सिंदूरं स्नानचूर्णं च तासां शिरसि पातयेत्८३
सिंदूरं कुंकुमं स्नानमतीवेष्टं यतस्ततः
तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम्८४
न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः
जप्यैश्च पूजयेद्गौरीमुत्पलैरसितैः सदा८५
बंधुजीवैः प्रिये पूज्या कार्तिके मासि यत्नतः
जातीपुष्पैर्मार्गशिरे पौषे पीतैः कुरंटकैः८६
कुंदैः कुमुदपुष्पैश्च देवीं माघेपि पूजयेत्
सिंदुवारेण जात्या वा फाल्गुनेप्यर्चयेन्नरः८७
चैत्रे तु मल्लिकाशोकैर्वैशाखे गंधपाटलैः
ज्येष्ठे कमलमंदारैराषाढे च जलांबुजैः८८
मंदारैरथ मालत्या श्रावणे पूजयेत्सदा
गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम्८९
बिल्वपत्रार्ककुसुमांबुज गोशृंगवारि च
पंचगव्यं च बिल्वं च प्राशयेत्क्रमशः सदा९०
एतद्भाद्रपदादौ तु प्राशनं समुदाहृतम्
प्रतिपक्षं च मिथुनं तृतीयायां वरानने९१
भोजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः
पुंसः पीतांबरे दद्यात्स्त्रियाः कौशेयवाससी९२
निष्पाव जीरलवणमिक्षुदंड गुडान्वितम्
स्त्रियै दद्यात्फलं पुंसः सुवर्णोत्पलसंयुतम्९३
यथा न देवि देवस्त्वां संपरित्यज्य गच्छति
तथा मामुद्धराशेष दुःखसंसारसागरात्९४
कुमुदा विमला नंदा भवानी वसुधा शिवा
ललिता कमला गौरी सती रम्भाथ पार्वती९५
नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत्
व्रतांते शयनं दद्यात्सुवर्णकमलान्वितम्९६
मिथुनानि चतुर्विशद्द्वादशाथ समर्चयेत्
अष्टावष्टाथवा भूयश्चतुर्मासेथ वार्चयेत्९७
पूर्वं दत्वाथ गुरवे पश्चादन्यान्समर्चयेत्
उक्तानन्ततृतीयैषा सदानंतफलप्रदा९८
सर्वपापहरा देवी सौभाग्यारोग्यवर्धिनी
न चैनं वित्तशाठ्येन कदाचिदपि लंघयेत्९९
नरो वा यदि वा नारी सोपवासव्रतं चरेत्
गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी१०० 1.22.100
यदाऽशुद्धा तदान्येन कारयेत्प्रयता स्वयम्
इमामनंतफलदां यस्तृतीयां समाचरेत्१०१
कल्पकोटिशतं साग्रं शिवलोके महीयते
वित्तहीनोपि कुर्वीत यावद्वर्षमुपोषणम्१०२
पुष्पमंत्रविधाने सोपि तत्फलमाप्नुयात्
नारी वा कुरुते या तु आत्मनः शुभमिच्छती१०३
जन्मपौरुषमाप्नोति गौर्यनुग्रहकारितम्
इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिंद्रलोकसंस्थः१०४
मतिमपि च ददाति योपि देवैरमरवधूजनकिन्नरैः स पूज्यः
अन्यामपि प्रवक्ष्यामि तृतीयां पापनाशिनीम्१०५
रसकल्याणिनीमेतां पुराकल्पभवा विदुः
माघेमासि तु संप्राप्य तृतीयां शुक्लपक्षतः१०६
प्रातर्गंधेन पयसा तिलैः स्नानं समाचरेत्
स्नापयेन्मधुना देवीं तथैवेक्षुरसेन तु१०७
गंधोदकेन च पुनः पूजनं कुंकुमेन तु
दक्षिणांगानि संपूज्य ततो वामानि पूजयेत्१०८
ललितायै पदं देव्यै वामगुल्फौ ततोर्चयेत्
जंघे जानु तथा शांत्यै तथैवोरुं श्रियै नमः१०९
मदालसायै च कटिममलायै तथोदरम्
स्तनौ मदनवासिन्यै कुमुदायै च कंधराम्११०
भुजं भुजाग्रं माधव्यै कमलायै सुखस्मिते
भ्रूललाटं च रुद्राण्यै शंकरायै तथालकं१११
मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ
नेत्रे चंद्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः११२
उत्कंठिन्यै नमः कंठममृतायै नमस्तनुम्
रंभायै च महाबाहू विशोकायै नमः करौ११३
हृदयं मन्मथाह्वायै पाटलायै तथोदरं
कटिं सुरतवासिन्यै तथोरू पंकजश्रियै११४
जानुजंघे नमो गौर्यै गुल्फौ शांत्यै तथार्चयेत्
धराधरायै पादौ तु विश्वकायै नमः शिरः११५
नमो भवान्यै कामिन्यै वासुदेव्यै जगच्छ्रियै
आनंददायै नंदायै सुभद्रायै नमोनमः११६
एवं संपूज्य विधिवद्द्विजदांपत्यमर्चयेत्
भोजयित्त्वा तथान्नेन मधुरेण विमत्सरः११७
समोदकं वारिकुंभं शुक्लांबरयुगद्वयं
दत्त्वा सुवर्णकमलं गंधमाल्यैरथार्चयेत्११८
प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम्
अनेन विधिना देवीं मासिमासि सदार्चयेत्११९
लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः
नवनीतं तथा चैत्रे वर्ज्यं मधु च माधवे१२०
पानीयं ज्येष्ठमासे तु तथाषाढे च जीरकं
श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा१२१
घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकं
धान्याकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा१२२
व्रतांते करकं पूर्णमेतेषां मासिमासि च
दद्याद्विकालवेलायां भक्ष्यपात्रेण संयुतं१२३ विकाल
लड्डुकास्सेवकाश्चैव संयावमथ पूरिका
नारिका घृतपूर्णाश्च पिष्टपूर्णा च नंदिकी१२४
क्षीरशाकं च दध्यन्नं पिंडशाकं तथैव च
माघादौ क्रमशो दद्यादेतानि करकोपरि१२५
कुमुदा माधवी रंभा सुभद्रा च शिवा जया
ललिता कमलानंगा मंगला रति लालसा१२६
क्रमान्माघादिमासेषु प्रीयतामिति कीर्तयेत्
सर्वत्र पंचगव्यं च प्राशनं समुदाहृतं१२७
उपवासी भवेन्नित्यमशक्तौ नक्तमिष्यते
कुर्यादेवमिदं नारी रसकल्याणिनी व्रतं१२८
पुनर्माघे च संप्राप्ते शर्करा कलशोपरि
कृत्वा तु कांचनीं गौरीं पंचरत्नसमन्वितां१२९
स्वकीयांगुष्ठमात्रं च साक्षसूत्रकमंडलुं
चतुर्भुजामिंदुयुतां सितनेत्रपटावृतां१३०
तद्वद्गोमिथुनं चैव सुवर्णस्य सितांबरं
सवस्त्रं भाजनं दद्याद्भवानी प्रीयतामिति१३१
अनेनविधिना यस्तु रसकल्याणिनीव्रतं
कुर्याच्च सर्वपापेभ्यस्तत्क्षणादेव मुच्यते१३२
भवानां च सहस्रं तु न दुःखी जायते क्वचित्
अग्निष्टोमसहस्रेण यत्फलं तदवाप्नुयात्१३३
नारी वा कुरुते या तु कुमारी वा वरानने
विधवा च वराकी वा सापि तत्फलभागिनी१३४
सौभाग्यारोग्यसंपन्ना गौरीलोके महीयते
इति पठति य इत्थं यः शृणोति प्रसंगात्
सकलकलुषमुक्तः पार्वतीलोकमेति१३५
मतिमपि च विधत्ते यो नराणां प्रियार्थं
विबुधपतिजनानां लोकगः स्यादमोघः
तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम्१३६
नाम्ना च लोकविख्यातामग्र्यानंदकरीमिमां
यदा शुक्लतृतीयायामषाढर्क्षं भवेत्क्वचित्१३७
ब्रह्मर्क्षं वाथ च मघा हस्तो मूलमथापि वा
दर्भगंधोदकैः स्नानं तदा सम्यक्समाचरेत्१३८
शुक्लमाल्यांबरधरः शुक्लगंधानुलेपनः
भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगंधिभिः१३९
महादेवं च सकलमुपविष्टं महासने
वासुदेव्यै नमः पादौ शंकरायै नमो हरेः१४०
जंघेशोकविनाशिन्यै मानदायै नमः प्रभोः
रंभायै पूजयेदूरू शिवाय च पिनाकिने१४१
आनंदिन्यै कटिं देव्याः शूलिनश्शूलपाणये
माधव्यै च तथा नाभिमथ शंभोर्भवाय वै१४२
स्तनौ चानंदकारिण्यै शंकरस्येंदुधारिणे
उत्कंठिन्यै नमः कंठं नीलकंठाय वै हरेः१४३
करावुत्पलधारिण्यै रुद्राय जगतः प्रभो
बाहू च परिरंभिण्यै नृत्यप्रीताय वै हरेः१४४
देव्या मुखं विलासिन्यै वृषभाय पुनर्विभोः
स्मितं च स्मरणीयायै विश्ववक्त्राय वै विभोः१४५
नेत्रे मंदारवासिन्यै विश्वधाम्ने त्रिशूलिनः
भ्रुवौ नृत्यप्रियायै च शंभोर्वै पाशशूलिने१४६
देव्या ललाटमिंद्राण्यै वृषवाहाय वै विभोः
स्वाहायै मकुटं देव्या विभो गंगाधराय वै१४७
विश्वकायौ विश्वभुजौ विश्वपादमुखौ शिवौ
प्रसन्नवरदौ वंदे पार्वतीपरमेश्वरौ१४८
एवं संपूज्य विधिवदग्रतः शिवयोः पुनः
पद्मोत्पलानि रजसा नानावर्णेन कारयेत्१४९
शंखचक्रे सकटके स्वस्तिकं शुभकारकम्
यावंतः पांसवस्तत्र रजसः पतिता भुवि१५० 1.22.150
तावद्वर्षसहस्राणि शिवलोके महीयते
चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः१५१
दत्वा द्विजाय करकमुदकेन समन्वितम्
प्रतिपक्षं चतुर्मासं यावदेतान्निवेदयेत्१५२
ततस्तु चतुरो मासान्पूर्ववत्करकोपरि
चत्वारि घृतपात्राणि तिलपात्राण्यंनंतरं१५३
गंधोदकं पुष्पवारि चंदनं कुङ्कुमोदकं
अपक्वं दधिदुग्धं च गोशृंगोदकमेव च१५४
अब्दोदकं तथा वारिकुष्ठचूर्णान्वितं पुनः
उशीरसलिलं चैव यवचूर्णोदकं पुनः१५५
तिलोदकं च संप्राश्यस्वपेन्मार्गशिरादिषु
मासेषु पक्षद्वितयं प्राशनं समुदाहृतम्१५६
सर्वत्रशुक्लपुष्पाणिप्रशस्तानिसदार्चने
दानकाले च सर्वत्र मंत्रमेतमुदीरयेत्१५७
गौरी मे प्रीयतां नित्यमघनाशाय मंगला
सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये१५८
संवत्सरांते लवणं गुडकुंकुमसंयुतम्
चंदनेनयुतं कुंभं सहस्वर्णांबुजेन च१५९
उमायाः प्रीतये हैमं तद्विदिक्षुफलैर्युतम्
सास्तरावरणां शय्यां सविश्रामां निवेदयेत्१६०
सपत्नीकाय विप्राय गौरी मे प्रीयतामिति
आत्मानंदकरीं नाम प्राप्नुयात्संपदं नरः१६१
आयुरानंदसंपन्नो न क्वचिच्छोकमाप्नुयात्
नारी वा कुरुते या तु कुमारी विधवा तथा१६२
सापि तत्फलमाप्नोति देव्यनुग्रहलालिता
प्रतिपक्षमुपोष्यैवं मंत्रार्चनविधानतः१६३
रुद्राणां लोकमाप्नोति पुनरावृत्तिदुर्लभम्
इमां यः शृणुयान्नित्यं श्रावयेद्वापि भक्तितः१६४
शक्रलोकं स गत्वा तु पूज्यते कल्पसंस्थितः
शंकर उवाच
एवंविधा भवति चेन्नारी व्रतपरायणा१६५
सावित्री तु वराकी सा तस्याः शापस्तु कीदृशः
न काचिद्गणना चास्ति यतस्त्रैलोक्यसुंदरी१६६
सा पूर्वस्यापि वन्द्या च लक्ष्मीर्विष्णुप्रतिग्रहात्
मया पूर्वं तवार्थाय दक्षयज्ञस्तु नाशितः१६७
लक्ष्म्यर्थं विष्णुना चापि वारिधिर्मथितः पुरा
आज्ञाकरौ भवत्योश्च मा कुरुष्व भयं क्वचित्१६८
सावित्र्या मानना कार्या कुपितायाः प्रसादनम्
मया च विष्णुना चैव ब्रह्मणा मानमीप्सुना१६९
गमिष्ये ब्रह्मसदनं त्वं च तिष्ठ वरानने
एवमुक्त्वा गतो रुद्रो गौरी तत्र व्यवस्थिता१७०
कृतं युगं समग्रं च यज्ञे तस्मिन्हुताशनः
वहंस्तु हव्यं देवानां प्रीणयानो जगत्त्रयम्१७१
भोजनं द्विजमुख्येषु भोगान्विद्याधरे गणे
कामावाप्तिं मनुष्येषु सर्वमेव ददौ प्रभुः१७२
रुद्रेणोक्तस्तदा विष्णुर्धर्मांस्ते त्वं प्रकीर्त्तय
गौरीधर्मान्सरस्वत्या व्रतं यत्परिकीर्तितम्१७३
इत्येवमुक्ते रुद्रेण विष्णुः प्रोवाच सादरम्
नाहं धर्मं ख्यापयिष्ये स्वकीयं शंकराधुना१७४
भवानाख्यातु माहात्म्यं मदीयं सुरसत्तम
त्वया वै कथितं पूर्वं कृते वै पापसंक्षयः१७५
भविष्यति न संदेहो भवान्पूतो भविष्यति
भीष्म उवाच
मधुरा गीर्भवेत्केन व्रतेन मुनिसत्तम१७६
तथैव जनसौभाग्यं मतिर्विद्यासु कौशलम्
अभेदश्चापि दांपत्ये संगो बंधुजनेन च१७७
आयुश्च विपुलं पुंसां तन्मे कथय सत्तम
पुलस्त्य उवाच
सम्यक्पृष्टं त्वया राजन्शृणु सारस्वतं व्रतम्१७८
यस्य संकीर्तनादेव देवी तुष्येत्सरस्वती
यावद्भक्तः स्तवं कुर्यादेतद्व्रतमनुत्तमम्१७९
प्राग्वासरादौ संपूज्य दिव्यं स्तवं समारभेत्
अथवा रविवारेण ग्रहताराबलेन च१८०
पायसं भोजयेद्विप्रान्कुर्याद्ब्राह्मणवाचनम्
शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः१८१
गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः
यथा न देवि भगवान्ब्रह्मा लोकपितामहः१८२
त्वां परित्यज्य तिष्ठेच्च तथा भव वरप्रदा
वेदशास्त्राणि धर्माणि नृत्यगीतादिकं च यत्१८३
न विहीनं त्वया देवि तथा मे संतु सिद्धयः
लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिर्जया मतिः१८४
एताभिः पाहि चाष्टाभिमूर्तिभिर्मां सरस्वति
एवं संपूज्य गायत्रीं वीणाकमलधारिणीम्१८५
शुक्लपुष्पाक्षतैर्भक्त्या सकमंडलु पुस्तकाम्
मौनव्रतेन भुंजीत सायंप्रातश्च धर्मवित्१८६
पंचम्यां प्रतिपक्षं च गां च विप्राय शोभनाम्
तथैव तंडुलप्रस्थं घृतपात्रेण संयुतम्१८७
क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति
संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत्१८८
न रात्र्यां भोजनं कुर्याद्यावन्मासास्त्रयोदश
समाप्ते तु व्रते दद्याद्भोजनं शुक्लतंडुलैः१८९
दिव्यां वितानं घंटां च सितनेत्रपटान्विताम्
चंदनं वस्त्रयुग्मं च दध्यन्नं सुरसं पुनः१९०
अथोपदेष्टारमपि भक्त्या संपूजयेद्गुरुम्
वित्तशाठ्येनरहितो वस्त्रमाल्यानुलेपनैः१९१
अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम्
सौभाग्यमतियुक्तस्तु सूक्ष्मकंठश्च जायते१९२
सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते
नारी वा कुरुते या तु सापि तत्फलभागिनी१९३
ब्रह्मलोके वसेद्राजन्यावत्कल्पायुत त्रयम्
सारस्वतं व्रतं यस्तु शृणुयादपि वा पठेत्१९४
विद्याधरपुरे सोऽपि वसेदब्दायुतत्रयम्

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे व्रताध्यायो नाम द्वाविंशोऽध्यायः२२