पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः २०

विकिस्रोतः तः
← अध्यायः १९ पद्मपुराणम्
अध्यायः २०
वेदव्यासः
अध्यायः २१ →

भीष्म उवाच।
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी।
विस्तरेण च मे ब्रूहि याथातथ्येन पृच्छतः १।
माहात्म्यं मध्यमस्यापि ऋषिभिः परिकीर्तितम्।
फलं चान्नस्य कथितं माहात्म्यं च दमस्य तु २।
विष्णुना च पदन्यासः कृतो यत्र महामुने।
कनीयसस्तथोत्पत्तिर्यथाभूता वदस्व मे ३।
पुलस्त्य उवाच।
पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः।
नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसन्निभः ४।
तपसा तस्य तुष्टेन चतुर्वक्त्रेण भारत।
कमलं कांचनं दत्तं यथाकामगमं नृप ५।
सप्तद्वीपानि लोकं च यथेष्टं विचरत्सदा।
कल्पादौ तु समं द्वीपं तस्य पुष्करवासिना ६।
लोकेन पूजितं तस्मात्पुष्करद्वीपमुच्यते।
तदेव ब्रह्मणा दत्तं यानमस्य ततोंबुजम् ७।
पुष्पवाहन इत्याहुस्तस्मात्तं देवदानवाः।
नौपम्यमस्तीह जगत्त्रयेपि ब्रह्मांबुजस्थस्य च तस्य राज्ञः ८।
तपोनुभावादथ तस्य राज्ञी नारी सहस्रैरभिवंद्यमाना।
नाम्ना च लावण्यवती बभूव या पार्वतीवेष्टतमा भवस्य ९।
तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम्।
तदात्मजांस्तानभिवीक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद १०।
सोभ्यागतं पूज्य मुनिप्रवीरं प्रचेतसं वाक्यमिदं बभाषे।
कस्माद्विभूतिरचलामरमर्त्यपूजा जाता कथं कमलजा सदृशी सुराज्ञी ११।
भार्या मयाल्पतपसा परितोषितेन दत्तं ममांबुजगृहं च मुनींद्र धात्रा।
यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुंजररथौघजनावृतानां १२।
नालक्ष्यते क्वगतमम्बरगामिभिश्च तारागणेंदुरविरश्मिभिरप्यगम्यम्।
तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषजनातिगं यत् १३।
सर्वैर्मयाथ तनयैरथ वानयापि सद्भार्यया तदखिलं कथय प्रचेतः।
सोप्यभ्यधादथ भवांतरितं निरीक्ष्य पृथ्वीपते शृणु तदद्भुतहेतुवृत्तम् १४।
जन्माभवत्तव तु लुब्धकुलेपि घोरं जातस्त्वमप्यनुदिनं किल पापकारी।
वपुरप्यभूत्तव पुनः पुरुषांगसंधिदुर्गंधिसत्त्वकुनखाभरणं समंतात् १५।
न च ते सुहृन्न सुतबंधुजनो न तादृक्नैवस्वसा न जननी च तदाभिशस्ता।
अतिसंमता परमभीष्टतमाभिमुखी जाता मही शतवयोषिदियं सुरूपा १६।
अभूदनावृष्टिरतीव रौद्रा कदाचनाहारनिमित्तमस्यां।
क्षुत्पीडितेन भवता तु यदा न किंचिदासादितं वन्यफलादि भक्ष्यं१७।
अथाभिदृष्टं महदंबुजाढ्यं सरोवरं पंकपरीतरोधः।
पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिश नामधेयं १८।
तन्मूल्यलाभाय पुरं समस्तं भ्रांतं त्वयाशेषमहस्तदासीत्।
क्रेता न कश्चित्कमलेषु जातः क्लांतः परं क्षुत्परिपीडितश्च १९।
उपविष्टस्त्वमेकस्मिन्सभार्यो भवनांगणे।
ततो रात्रौ भवांस्तत्र अश्रौषीन्मंगलध्वनिं २०।
सभार्यस्तत्र गतवान्यत्रासौ मंगलध्वनिः।
तत्र मंडलमध्यस्था विष्णोरर्चाविलोकिता २१।
वेश्यानंगवती नाम बिभ्रती द्वादशीव्रतं।
समाप्य माघमासस्य द्वादश्यां लवणाचलं २२।
न्यवेदयत्तु गुरवे शय्यां चोपस्करान्विताम्।
अलंकृत्य हृषीकेशं सौवर्णं सममादरात् २३।
सा तु दृष्टा ततस्ताभ्यामिदं च परिचिंतितं।
किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः २४।
इति भक्तिस्तदा जाता दंपत्योस्तु नरेश्वर।
तत्प्रसंगात्समभ्यर्च्य केशवं लवणाचलं २५।
शय्या च पुष्पप्रकरैः पूजिताभूच्च सर्वशः।
अथानंगवती तुष्टा तयोर्धान्यशतत्रयम् २६।
दीयतामादिदेशाथ कलधौतपलत्रयं।
न गृहीतं ततस्ताभ्यां महासत्वावलंबनात् २७।
अनंगवत्या च पुनस्तयोरन्नं चतुर्विधं।
आनीय व्याहृतं चान्नं भुज्यतामिति भूपते २८।
ताभ्यां च तदपि त्यक्तं भोक्ष्यावः श्वो वरानने।
प्रसंगादुपवासो नौ तवाद्यास्तु शुभावहः २९।
जन्मप्रभृति पापिष्ठावावां देवि दृढव्रते।
त्वत्प्रसंगाद्भवद्गेहे धर्मलेशोस्तु नाविह ३०।
इति जागरणं ताभ्यां तत्प्रसंगादनुष्ठितं।
प्रभाते च तया दत्ता शय्या सलवणाचला ३१।
ग्रामश्च गुरवे भक्त्या विप्रेभ्यो द्वादशैव तु।
वस्त्रालंकारसंयुक्ता गावश्च कनकान्विताः ३२।
भोजनं च सुहृन्मित्रदीनांधकृपणैः सह।
तच्च लुब्धकदांपत्यं पूजयित्वा विसर्जितम् ३३।
स भवान्लुब्धको जातः सपत्नीको नृपेश्वरः।
पुष्करप्रकरात्तस्मात्केशवस्य तु पूजनात् ३४।
विनष्टाशेषपापस्य तव पुष्करमंदिरं।
तस्य सत्यस्य माहात्म्यादलोभतपसा नृप ३५।
प्रादात्कामगमं यानं लोकनाथश्चतुर्मुखः।
संतुष्टस्तव राजेंद्र पुष्करं त्वं समाश्रय ३६।
कल्पं सत्वं समासाद्य विभूतिद्वादशीव्रतं।
कुरु राजेंद्र निर्वाणमवश्यं समवाप्स्यसि ३७।
एतदुक्त्वा तु स मुनिस्तत्रैवांतरधीयत।
राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ३८।
इदमाचरतो राजन्नखंडव्रतता भवेत्।
यथाकथंचित्कालेन द्वादशद्वादशीर्नृप ३९।
कर्तव्या शक्तितो देव विप्रेभ्यो दक्षिणा नृप।
ज्येष्ठे गावः प्रदातव्या मध्यमे भूमिरुत्तमा ४०।
कनिष्ठे कांचनं देयमित्येषा दक्षिणा स्मृता।
प्रथमं ब्रह्मदैवत्यं द्वितीयं वैष्णवं तथा ४१।
तृतीयं रुद्रदैवत्यं त्रयो देवास्त्रिषु स्थिताः।
इति कलुषविदारणं जनानां पठति च यस्तु शृणोति चापि भक्त्या ४२।
मतिमपि च स याति देवलोके वसति च रोमसमानि वत्सराणि।
अथातः संप्रवक्ष्यामि व्रतानामुत्तमं व्रतं ४३।
कथितं तेन रुद्रेण महापातकनाशनम्।
नक्तमब्दं चरित्वा तु गवासार्धं कुटुंबिने ४४।
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी।
एवं यः कुरुते पुण्यं शिवलोके स मोदते४५।
एतदेव व्रतं नाम महापातकनाशनम्।
यस्वेकभक्तेन क्षिपेद्धेनुं वृषसमन्विताम् ४६।
धेनुं तिलमयीं दद्यात्स पदं याति शांकरम्।
एतद्रुद्रव्रतं नाम भयशोकविनाशनम् ४७।
यश्च नीलोत्पलं हैमं शर्करापात्रसंयुतम्।
एकांतरितनक्ताशी समांते वृषसंयुतम् ४८।
वैष्णवं स पदं याति नीलव्रतमिदं स्मृतम्।
आषाढादिचतुर्मासमभ्यंगं वर्जयेन्नरः ४९।
भोजनोपस्करं दद्यात्स याति भवनं हरेः।
जनप्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ५० 1.20.50।
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्।
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रेण संयुतम् ५१।
संपूज्य विप्रमिथुनं गौरी मे प्रीयतामिति।
एतद्गौरीव्रतं नाम भवानीलोकदायकम् ५२।
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तमथो पुनः।
अशोकं कांचनं दद्यादिक्षुयुक्तं दशांगुलम् ५३।
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति।
कल्पं विष्णुपुरे स्थित्वा विशोकस्स्यात्पुनर्नृप ५४।
एतत्कामव्रतं नाम सदा शोकविनाशनम्।
आषाढादि व्रते यस्तु वर्जयेद्यः फलाशनम् ५५।
चातुर्मास्ये निवृत्ते तु घटं सर्पिर्गुडान्वितम्।
कार्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् ५६।
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम्।
वर्जयेद्यस्तु पुष्पाणि हेमंते शिशिरावृते ५७।
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च कांचनम्।
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ ५८।
दत्वा परं पदं याति सौम्यव्रतमिदं स्मृतम्।
फाल्गुनादि तृतीयायां लवणं यस्तु वर्जयेत्५९।
समांते शयनं दद्याद्गृहं चोपस्करान्वितम्।
संपूज्य विप्रमिथुनं भवानी प्रीयतामिति ६०।
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते।
संध्यामौनं नरः कृत्वा समांते घृतकुंभकम् ६१।
वस्त्रयुग्मं तिलान्घंटां ब्राह्मणाय निवेदयेत्।
लोकं सारस्वतं याति पुनरावृत्तिदुर्लभम् ६२।
एतत्सारस्वतं नाम रूपविद्याप्रदायकम्।
लक्ष्मीमभ्यर्च्य पंचम्यामुपवासी भवेन्नरः ६३।
समांते हेमकमलं दद्याद्धेनुसमन्वितम्।
स वै विष्णुपदं याति लक्ष्मीः स्याज्जन्मजन्मनि ६४।
एतल्लक्ष्मीव्रतं नाम दुःखशोकविनाशनम्।
कृत्वोपलेपनं शंभोरग्रतः केशवस्य च ६५।
यावदब्दं पुनर्देया धेनुर्जलघटस्तथा।
जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् ६६।
एतदायुर्व्रतं नाम सर्वकामप्रदायकम्।
अश्वत्थं भास्करं गंगां प्रणम्यैकाग्रमानसः ६७।
एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः।
व्रतांते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् ६८।
वृक्षं हिरण्मयं दद्यात्सोश्वमेधफलं लभेत्।
एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ६९।
घृतेन स्नपनं कृत्वा शंभोर्वा केशवस्य वा।
अक्षताभिः सपुष्पाभिः कृत्वा गोमयमंडलम् ७०।
समांते हेमकमलं तिलधेनुसमन्वितम्।
शूलमष्टांगुलं दद्याच्छिवलोके महीयते७१।
सामगायनकं चैव सामव्रतमिहोच्यते।
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः ७२।
भोजयित्वा समं दद्याद्धेमकंचुकवाससी।
हैमं सिंहं च विप्रा यदद्याच्छिवपदं व्रजेत् ७३।
जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः।
एतद्वीरव्रतं नाम नराणां च सुखप्रदम्७४।
चैत्रादि चतुरोमासाञ्जलं दद्याद्दयान्वितः।
व्रतांते मणिकं दद्यादन्नं वस्त्रसमन्वितम्७५।
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते।
कल्पांते भूतिजननमानंदव्रतमुच्यते ७६।
पंचामृतेन स्नपनं कृत्वा संवत्सरं विभोः।
वत्सरांते पुनर्दद्याद्धेनुं पंचामृतान्वितां ७७।
विप्राय दद्याच्छंखं च सपदं याति शांकरम्।
राजा भवति कल्पांते धृतिव्रतमिदं स्मृतम्७८।
वर्जयित्वा पुमान्मांसं व्रतांते गोप्रदो भवेत्।
तद्वद्धेममृगं दद्यात्सोश्वमेधफलं लभेत्७९।
अहिंसाव्रतमित्युक्तं कल्पांते भूपतिर्भवेत्।
कल्यमुत्थाय वै स्नानं कृत्वा दांपत्यमर्चयेत्८०।
भोजयित्वा यथाशक्ति माल्यवस्त्रविभूषणैः।
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम्८१।
आषाढादि चतुर्मासं प्रातःस्नायी भवेन्नरः।
विप्राय भोजनं दत्वा कार्तिक्यां गोप्रदो भवेत्८२।
स वैष्णवपदं याति विष्णुव्रतमिदं स्मृतम्।
अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी८३।
तदंते पुष्पमन्नानि घृतधेन्वा सहैव तु।
दत्वा शिवपदं याति विप्राय घृतपायसम्८४।
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम्।
यावत्समं भवेद्यस्तु पंचदश्यां पयोव्रतः८५।
समांते श्राद्धकृद्दद्याद्गाश्च पंच पयस्विनीः।
वासांसि च पिशंगानि जलकुंभयुतानि च८६।
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्८७।
कल्पांते राजराजेंद्र पितृव्रतमिदं स्मृतम्।
संध्यादीप प्रदो यस्तु घृतैस्तैलं विवर्जयेत्८८।
समांते दीपकं दद्याच्चक्रं शूलं च कांचनम्।
वस्त्रयुग्मं च विप्राय स तेजस्वी भवेन्नरः८९।
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम्।
कार्तिकादि तृतीयायां प्राश्य गोमूत्र यावकम्९०।
नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत्।
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह९१।
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम्।
वर्जयेच्चतुरो मासान्यस्तु गन्धानुलेपनम्९२।
शुक्तिगन्धाक्षतान्दद्याद्विप्राय सितवाससी।
वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम्९३।
वैशाखे पुष्पलवणं वर्जयेदथ गोप्रदः।
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह९४।
एतच्छान्तिव्रतं नाम कीर्तिकामफलप्रदम्।
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशि समन्वितम्९५।
घृतेनान्यप्रदो भूत्वा वह्निं संतर्प्य सद्विजम्।
संपूज्य विप्रदांपत्यं माल्यवस्त्रविभूषणैः९६।
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति।
पुण्येऽह्नि दद्यादपरे ब्रह्म यात्यपुनर्भवम्९७।
एतद्ब्रह्मव्रतं नाम निर्वाणफलदं नृणाम्।
यश्चोभयमुखीं दद्यात्प्रभूतसकलान्विताम्९८।
दिनं पयोव्रतं तिष्ठेत्स याति परमं पदम्।
एतद्वै सुव्रतं नाम पुनरावृत्तिदुर्लभम्९९।
त्र्यहं पयोव्रतः स्थित्वा काञ्चनं कल्पपादपम्।
पलादूर्ध्वं यथाशक्ति तण्डुलप्रस्थसंयुतम्१०० 1.20.100।
दत्त्वा ब्रह्मपदं याति भीमव्रतमिदं स्मृतम्।
मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम्१०१।
स वैष्णवपदं याति भीमव्रतमिदं स्मृतम्।
दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्१०२।
दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते।
धनप्रदमिदं प्रोक्तं सप्तकल्पशतानुगम्१०३।
माघेमास्यथ चैत्रे वा गुडधेनुप्रदो भवेत्।
गुडव्रतं तृतीयायां गौरीलोके महीयते१०४।
महाव्रतमिदं नाम परमानन्दकारकम्।
पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम्१०५।
स ब्रह्मलोकमाप्नोति देवासुरसुपूजितः।
कल्पान्ते सर्वराजा स्यात्प्रभाव्रतमिदं स्मृतम्१०६।
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुंभदः।
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम्७।
नक्ताशी त्वष्टमीषु स्याद्वत्सरांते तु धेनुदः।
पौरंदरं पुरं याति सुगतिव्रतमुच्यते८।
इंधनं यो ददेद्विप्रे वर्षादींश्चतुरस्त्वृतून्।
घृतधेनुप्रदोंते च स परं ब्रह्म गच्छति१०९।
वैश्वानरव्रतं नाम सर्वपापप्रणाशनम्।
एकादश्यां तु नक्ताशी यश्चक्रं विनिवेदयेत्११०।
कृत्वा समांते सौवर्णं विष्णोः पदमवाप्नुयात्।
एतत्कृष्णव्रतं नाम कल्पांते राज्यलाभकृत्१११।
पायसाशी समांते तु दद्याद्विप्राय गोयुगम्।
लक्ष्मीलोके वसेत्कल्पमेतद्देवीव्रतं स्मृतं११२।
सप्तम्यां नक्तभुग्दद्यात्समाप्ते गां पयस्विनीं।
सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम्११३।
चतुर्थ्यां नक्तभुग्दद्याद्धेमंते गोयुगं तथा।
एतद्वैनायकं नाम शिवलोकफलप्रदम्११४।
महाफलानि यस्त्यक्त्वा चातुर्मास्ये द्विजातये।
हैमानि कार्तिकेदद्याद्धोमान्ते गोयुगं तथा११५।
एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम्।
द्वादशाद्वादशीर्यस्तु समाप्योपोषणे नृप११६।
गोवस्त्रकांचनैर्विप्रान्पूजयेच्छक्तितो नरः।
परं पदमवाप्नोति विष्णुव्रतमिदं स्मृतम्११७।
चतुर्दश्यां तु नक्ताशी समान्ते गोयुगप्रदः।
शैवं पदमवाप्नोति त्रैयंबकमिदं स्मृतम्११८।
सप्तरात्रोषितो दद्याद्घृतकुंभं द्विजातये।
वरव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम्११९।
असौ काशीं समासाद्य धेनुं दत्ते पयस्विनीम्।
शक्रलोके वसेत्कल्पमिदं मंत्रव्रतं स्मृतम्१२०।
मुखवासं परित्यज्य समांते गोप्रदो भवेत्।
वारुणं लोकमाप्नोति वारुणव्रतमुच्यते१२१।
चांद्रायणं च यः कुर्याद्धैमं चंद्रं निवेदयेत्।
चंद्रव्रतमिदं प्रोक्तं चंद्रलोकफलप्रदम्१२२।
ज्येष्ठे पंचतपा योंते हेमधेनुप्रदो दिवम्।
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्१२३।
सकृद्विधानकं कुर्यात्तृतीयायां शिवालये।
समाप्ते धेनुदो याति भवानीव्रतमुच्यते१२४।
माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत्।
दिविकल्पं वसित्वेह राजा स्यात्पवनव्रतम्१२५।
त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम्।
आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम्१२६।
त्रिसंध्यं पूज्य दांपत्यमुपवासी विभूषणैः।
ददन्मोक्षमवाप्नोति मोक्षव्रतमिदं स्मृतम्१२७।
दत्त्वासितद्वितीयायामिंदौ लवणभाजनम्।
समाप्ते गोप्रदो याति विप्राय शिवमंदिरम्१२८।
कांस्यं सवस्त्रं राजेन्द्र दक्षिणासहितं तथा।
समाप्ते गां च यो दद्यात्स याति शिवमंदिरम्१२९।
कल्पांते राजराजस्स्यात्सोमव्रतमिदं स्मृतम्।
प्रतिपत्स्वेकभक्ताशी समाप्ते च फलप्रदः१३०।
वैश्वानरपदं याति शिखिव्रतमिदं स्मृतम्।
हैमं पलद्वयादूर्द्ध्वं रथमश्वयुगान्वितम्१३१।
दद्यात्कृतोपवासः स दिवि कल्पशतं वसेत्।
तदंते राजराजस्स्यादश्वव्रतमिदं स्मृतम्१३२।
तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं पुनः।
सत्यलोके वसेत्कल्पं सहस्रमपि भूमिपः१३३।
भवेदिहागतो भूम्यां करिव्रतमिदं स्मृतम्।
दशम्यामेकभक्ताशी समाप्ते दशधेनुदः१३४।
दीपं च कांचनं दद्याद्ब्रह्माण्डाधिपतिर्भवेत्।
एतद्विश्वव्रतं नाम महापातकनाशनम्१३५।
कन्यादानं तु कार्तिक्यां पुष्करे यः करिष्यति।
एकविंशद्गुणोपेतो ब्रह्मलोकं गमिष्यति१३६।
कन्यादानात्परं दानं नैव चास्त्यधिकं क्वचित्।
पुष्करे तु विशेषेण कार्तिक्यां तु विशेषतः१३७।
विप्राय विधिवद्देयं तेषां लोकोक्षयो भवेत्।
तिलपिष्टमयं कृत्वा गजं रत्नसमन्वितम्१३८।
विप्राय ये प्रयच्छंति जलमध्ये स्थिता नराः।
तेषां चैवाक्षयो लोको भविता भूतसंप्लवम्१३९।
यः पठेच्छृणुयाद्वापि व्रतषष्ठिमनुत्तमाम्।
मन्वंतरशतं सोपि गंधर्वाधिपतिर्भवेत्१४०।
षष्ठिव्रतं भारत पुण्यमेतत्तवोदितं विश्वजनीनमद्य।
श्रोतुं यदीच्छा तवराजराज शृणु द्विजातेः करणीयमेतत्१४१।
नैर्मल्यं भावशुद्धिश्चविनास्नानं न विद्यते।
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते१४२।
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्।
तीर्थं प्रकल्पयेद्विद्वान्मूलमंत्रेण मंत्रवित्१४३।
नमो नारायणायेति मूलमंत्र उदाहृतः।
सदर्भपाणिर्विधिना आचांतः प्रयतः शुचिः१४४।
चतुर्हस्तसमायुक्तं चतुरश्रं समंततः।
प्रकल्प्यावाहयेद्गंगामेभिर्मंत्रैर्विचक्षणः१४५।
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता।
त्राहि नस्त्वेनसस्तस्मादाजन्ममरणांतिकात्१४६।
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्।
दिवि भुव्यंतरिक्षे च तानि ते संति जाह्नवि१४७।
नंदिनीत्येव ते नाम देवेषु नलिनीति च।
दक्षा पृथ्वी च सुभगा विश्वकाया शिवासिता१४८।
विद्याधरी सुप्रसन्ना तथा लोकप्रसादिनी।
क्षेमा च जाह्नवी चैव शांता शांतिप्रदायिनी१४९।
एतानि पुण्यनामानि स्नानकाले प्रकीर्त्तयेत्।
भवेत्सन्निहिता तत्र गंगा त्रिपथगामिनी१५० 1.20.150।
सप्तवाराभिजप्तेन करसंपुटयोजितम्।
मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुःपंचसप्तधा१५१।
स्नानं कुर्यान्मृदातद्वदामंत्र्य तु विधानतः।
अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे१५२।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्।
उद्धृतासि वराहेण कृष्णेन शतबाहुना१५३।
नमस्ते सर्वलोकानां प्रभवोरणि सुव्रते।
एवं स्नात्वा ततः पश्चादाचम्य तु विधानतः१५४।
उत्थाय वाससी शुभ्रे शुद्धे तु परिधाय वै।
ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै१५५।
ब्रह्माणं तर्पयेत्पूर्वं विष्णुं रुद्रं प्रजापतीन्।
देवायक्षास्तथा नागा गंधर्वाप्सरसां गणाः१५६।
क्रूरास्सर्पाः सुपर्णाश्च तरवो जंभकादयः।
विद्याधरा जलधरास्तथैवाकाशगामिनः१५७।
निराधाराश्च ये जीवा पापधर्मरताश्च ये।
तेषामाप्यायनायैतद्दीयते सलिलं मया१५८।
कृतोपवीतो देवेभ्यो निवीती च भवेत्ततः।
मनुष्यांस्तर्पयेद्भक्त्या ऋषिपुत्रानृषींस्तथा१५९।
सनकश्च सनंदश्च तृतीयश्च सनातनः।
कपिलश्चासुरिश्चैव वोढुः पंचशिखस्तथा१६०।
सर्वे ते तृप्तिमायांतु मद्दत्तेनांबुना सदा।
मरीचिमत्र्यंगिरसौ पुलस्त्यं पुलहं क्रतुम्१६१।
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च।
देवब्रह्मऋषीन्सर्वांस्तर्पयेत्साक्षतोदकैः१६२।
अपसव्यं ततः कृत्वा सव्यं जानु च भूतले।
अग्निष्वात्तांस्तथा सौम्यान्हविष्मंतस्तथोष्मपान्१६३।
सुकालिनो बर्हिषदस्तथा चैवाज्यपान्पुनः।
संतर्पयेत्पितॄन्भक्त्या सतिलोदकचंदनैः१६४।
सदर्भपाणिर्विधिना पितॄंन्स्वांस्तर्पयेतत्तः।
पित्रादीन्नामगोत्रेण तथा मातामहानपि१६५।
संतर्प्य विधिवद्भक्त्या इमं मंत्रमुदीरयेत्।
यो बांधवा बांधवा ये येन्यजन्मनि बांधवाः१६६।
ते तृप्तिमखिलायां तु येप्यस्मत्तोयकांक्षिणः।
आचम्य विधिना सम्यगालिखेत्पद्ममग्रतः१६७।
साक्षताद्भिस्सपुष्पाभिः सतिलारुणचंदनैः।
अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानुकीर्तनैः१६८।
नमस्ते विश्वरूपाय नमस्ते विष्णुरूपिणे।
सर्वदेवनमस्तेस्तु प्रसीद मम भास्कर१६९।
दिवाकर नमस्तेस्तु प्रभाकर नमोस्तु ते।
एवं सूर्यं नमस्कृत्य त्रिः कृत्वा च प्रदक्षिणम्१७०।
द्विजं गां कांचनं चैव दृष्ट्वा स्पृष्ट्वा गृहं व्रजेत्।
स्वगेहस्थां ततः पुण्यां प्रतिमां चापि पूजयेत्१७१।
भोजनं च ततः पश्चाद्द्विजपूर्वं च कारयेत्।
अनेन विधिना सर्वॠषयः सिद्धिमागताः१७२।

इति श्री पद्मपुराणे प्रथमे सृष्टिखंडे स्नानविधिर्नाम विंशोऽध्यायः२०।