पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः १४

विकिस्रोतः तः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
← अध्यायः १४ पद्मपुराणम्
अध्यायः १५
वेदव्यासः
अध्यायः १६ →


भीष्म उवाच
कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा
कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते१
वरं तयोः कथं भूतं निसर्गादेव तद्वद
बृहत्कौतूहलं मह्यं तद्भवान्वक्तुमर्हति२
पुलस्त्य उवाच
छिन्ने वक्त्रे पुरा ब्रह्मा क्रोधेन महता वृतः
ललाटे स्वेदमुत्पन्नं गृहीत्वा ताडयद्भुवि३
स्वेदतः कुंडली जज्ञे सधनुष्को महेषुधिः
सहस्रकवची वीरः किंकरोमीत्युवाच ह४
तमुवाच विरिंचस्तु दर्शयन्रुद्रमोजसा
हन्यतामेष दुर्बुद्धिर्जायते न यथा पुनः५
ब्रह्मणो वचनं श्रुत्वा धनुरुद्यम्य पृष्ठतः
संप्रतस्थे महेशस्य बाणहस्तोतिरौद्रदृक्६
दृष्ट्वा पुरुषमत्युग्रं भीतस्तस्य त्रिलोचनः
अपक्रांतस्ततो वेगाद्विष्णोराश्रममभ्यगात्७
त्राहित्राहीति मां विष्णो नरादस्माच्च शत्रुहन्
ब्रह्मणा निर्मितः पापो म्लेच्छरूपो भयंकरः८
यथा हन्यान्न मां क्रुद्धस्तथा कुरु जगत्पते
हुंकारध्वनिना विष्णुर्मोहयित्वा तु तं नरम्९
अदृश्यः सर्वभूतानां योगात्मा विश्वदृक्प्रभुः
तत्र प्राप्तं विरूपाक्षं सांत्वयामास केशवः१०
ततस्स प्रणतो भूमौ दृष्टो देवेन विष्णुना
विष्णुरुवाच
पौत्रो हि मे भवान्रुद्र कं ते कामं करोम्यहम्११
दृष्ट्वा नारायणं देवं भिक्षां देहीत्युवाच ह
कपालं दर्शयित्वाग्रे प्रज्वलंस्तेजसोत्कटम्१२
कपालपाणिं संप्रेक्ष्य रुद्रं विष्णुरचिन्तयत्
कोन्यो योग्यो भवेद्भिक्षुर्भिक्षादानस्य सांप्रतम्१३
योग्योऽयमिति संकल्प्य दक्षिणं भुजमर्पयत्
तद्बिभेदातितीक्ष्णेन शूलेन शशिशेखरः१४
प्रावर्तत ततो धारा शोणितस्य विभोर्भुजात्
जांबूनदरसाकारा वह्निज्वालेव निर्मिता१५
निपपात कपालांतश्शम्भुना सा प्रभिक्षिता
ऋज्वी वेगवती तीव्रा स्पृशंती त्वांबरं जवात्१६
पंचाशद्योजना दैर्घ्याद्विस्ताराद्दशयोजना
दिव्यवर्षसहस्रं सा समुवाह हरेर्भुजात्१७
इयंतं कालमीशोसौ भिक्षां जग्राह भिक्षुकः
दत्ता नारायणेनाथ कापाले पात्र उत्तमे१८
ततो नारायणः प्राह शंभुं परमिदं वचः
संपूर्णं वा न वा पात्रं ततो वै परमीश्वरः१९
सतोयांबुदनिर्घोषं श्रुत्वा वाक्यं हरेर्हरः
शशिसूर्याग्निनयनः शशिशेखरशोभितः२०
कपाले दृष्टिमावेश्य त्रिभिर्नेत्रैर्जनार्दनम्
अंगुल्या घटयन्प्राह कपालं परिपूरितम्२१
श्रुत्वा शिवस्य तां वाणीं विष्णुर्धारां समाहरत्
पश्तोऽथ हरेरीशः स्वांगुल्या रुधिरं तदा२२
दिव्यवर्षसहस्रं च दृष्टिपातैर्ममंथ सः
मथ्यमाने ततो रक्ते कलिलं बुद्बुदं क्रमात्२३
बभूव च ततः पश्चात्किरीटी सशरासनः
बद्धतूणीरयुगलो वृषस्कंधोङ्गुलित्रवान्२४
पुरुषो वह्निसंकाशः कपाले संप्रदृश्यते
तं दृष्ट्वा भगवान्विष्णुः प्राह रुद्रमिदं वचः२५
कपाले भव को वाऽयं प्रादुर्भूतोऽभवन्नरः
वचः श्रुत्वा हरेरीशस्तमुवाच विभो शृणु२६
नरो नामैष पुरुषः परमास्त्रविदां वरः
भवतोक्तो नर इति नरस्तस्माद्भविष्यति२७
नरनारायणौ चोभौ युगे ख्यातौ भविष्यतः
संग्रामे देवकार्येषु लोकानां परिपालने२८
एष नारायणसखो नरस्तस्माद्भविष्यति
अथासुरवधे साह्यं तव कर्ता महाद्युतिः२९
मुनिर्ज्ञानपरीक्षायां जेता लोके भविष्यति
तेजोधिकमिदं दिव्यं ब्रह्मणः पंचमं शिरः३०
तेजसो ब्रह्मणो दीप्ताद्भुजस्य तव शोणितात्
मम दृष्टि निपाताच्च त्रीणि तेजांसि यानि तु३१
तत्संयोगसमुत्पन्नः शत्रुं युद्धे विजेष्यति
अवध्या ये भविष्यंति दुर्जया अपि चापरे३२
शक्रस्य चामराणां च तेषामेष भयंकरः
एवमुक्त्वा स्थितः शंभुर्विस्मितश्च हरिस्तदा३३
कपालस्थः स तत्रैव तुष्टाव हरकेशवौ
शिरस्यंजलिमाधाय तदा वीर उदारधीः३४
किंकरोमीति तौ प्राह इत्युक्त्वा प्रणतः स्थितः
तमुवाच हरः श्रीमान्ब्रह्मणा स्वेन तेजसा३५
सृष्टो नरो धनुष्पाणिस्त्वमेनं तु निषूदय
इत्थमुक्त्वांजलिधरं स्तुवंतं शंकरो नरम्३६
तथैवांजलिसंबद्धं गृहीत्वा च करद्वयम्
उद्धृत्याथ कपालात्तं पुनर्वचनमब्रवीत्३७
स एष पुरुषो रौद्रो यो मया वेदितस्तव
विष्णुहुंकाररचितमोहनिद्रां प्रवेशितः३८
विबोधयैनं त्वरितमित्युक्त्वान्तर्दधे हरः
नारायणस्य प्रत्यक्षं नरेणानेन वै तदा३९
वामपादहतः सोपि समुत्तस्थौ महाबलः
ततो युद्धं समभवत्स्वेदरक्तजयोर्महत्४०
विस्फारितधनुः शब्दं नादिताशेषभूतलम्
कवचं स्वेदजस्यैकं रक्तजेन त्वपाकृतम्४१
एवं समेतयोर्युद्धे दिव्यं वर्षद्वयं तयोः
युध्यतोः समतीतं च स्वेदरक्तजयोर्नृप४२
रक्तजं द्विभुजं दृष्ट्वा स्वेदजं चैव संगतौ
विचिन्त्य वासुदेवोगाद्ब्रह्मणः सदनं परम्४३
ससंभ्रममुवाचेदं ब्रह्माणं मधुसूदनः
रक्तजेनाद्य भो ब्रह्मन्स्वेदजोयं निपातितः४४
श्रुत्वैतदाकुलो ब्रह्मा बभाषे मधुसूदनम्
हरे द्यजन्मनि नरो मदीयो जीवतादयम्४५
तथा तुष्टोऽब्रवीत्तं च विष्णुरेवं भविष्यति
गत्वा तयो रणमपि निवार्याऽऽह च तावुभौ४६
अन्यजन्मनि भविता कलिद्वापरयोर्मिथः
संधौ महारणे जाते तत्राहं योजयामि वां४७
विष्णुना तु समाहूय ग्रहेश्वरसुरेश्वरौ
उक्ताविमौ नरौ भद्रौ पालनीयौ ममाज्ञया४८
सहस्रांशो स्वेदजोयं स्वकीयोंऽशो धरातले
द्वापरांतेवतार्योयं देवानां कार्यसिद्धये४९
यदूनां तु कुले भावी शूरोनाम महाबलः
तस्य कन्या पृथा नाम रूपेणाप्रतिमा भुवि५० 1.14.50
उत्पत्स्यति महाभागा देवानां कार्यसिद्धये
दुर्वासास्तु वरं तस्यै मंत्रग्रामं प्रदास्यति५१
मंत्रेणानेन यं देवं भक्त्या आवाहयिष्यति
देवि तस्य प्रसादात्तु तव पुत्रो भविष्यति५२
सा च त्वामुदये दृष्ट्वा साभिलाषा रजस्वला
चिंताभिपन्ना तिष्ठंती भजितव्या विभावसो५३
तस्या गर्भे त्वयं भावी कानीनः कुंतिनंदनः
भविष्यति सुतो देवदेवकार्यार्थसिद्धये५४
तथेति चोक्त्वा प्रोवाच तेजोराशिर्दिवाकरः
पुत्रमुत्पादयिष्यामि कानीनं बलगर्वितम्५५
यस्य कर्णेति वै नाम लोकः सर्वो वदिष्यति
मत्प्रसादादस्य विष्णो विप्राणां भावितात्मनः५६
अदेयं नास्ति वै लोके वस्तु किंचिच्च केशव
एवं प्रभावं चैवैनं जनये वचनात्तव५७
एवमुक्त्वा सहस्रांशुर्देवं दानवघातिनम्
नारायणं महात्मानं तत्रैवांतर्दधे रविः५८
अदर्शनं गते देवे भास्करे वारितस्करे
वृद्धश्रवसमप्येवमुवाच प्रीतमानसः५९
सहस्रनेत्ररक्तोत्थो नरोऽयं मदनुग्रहात्
स्वांशभूतो द्वापरांते योक्तव्यो भूतले त्वया६०
यदा पांडुर्महाभागः पृथां भार्यामवाप्स्यति
माद्रीं चापि महाभाग तदारण्यं गमिष्यति६१
तस्याप्यरण्यसंस्थस्य मृगः शापं प्रदास्यति
तेन चोत्पन्नवैराग्यः शतशृगं गमिष्यति६२
पुत्रानभीप्सन्क्षेत्रोत्थान्भार्यां स प्रवदिष्यति
अनीप्संती तदा कुंती भर्त्तारं सा वदिष्यति६३
नाहं मर्त्यस्य वै राजन्पुत्रानिच्छे कथंचन
दैवतेभ्यः प्रसादाच्च पुत्रानिच्छे नराधिप६४
प्रार्थयंत्यै त्वया शक्र कुंत्यै देयो नरस्ततः
वचसा च मदीयेन एवं कुरु शचीपते६५
अथाब्रवीत्तदा विष्णुं देवेशो दुःखितो वचः
अस्मिन्मन्वंतरेऽतीते चतुर्विंशतिके युगे६६
अवतीर्य रघुकुले गृहे दशरथस्य च
रावणस्य वधार्थाय शांत्यर्थं च दिवौकसाम्६७
रामरूपेण भवता सीतार्थमटता वने
मत्पुत्रो हिंसितो देव सूर्यपुत्रहितार्थिना६८
वालिनाम प्लवंगेंद्रः सुग्रीवार्थे त्वया यतः
दुःखेनानेन तप्तोहं गृह्णामि न सुतं नरम्६९
अगृह्णमानं देवेंद्रं कारणांतरवादिनम्
हरिः प्रोचे शुनासीरं भुवो भारावतारणे७०
अवतारं करिष्यामि मर्त्यलोके त्वहं प्रभो
सूर्यपुत्रस्य नाशार्थं जयार्थमात्मजस्य ते७१
सारथ्यं च करिष्यामि नाशं कुरुकुलस्य च
ततो हृष्टोभवच्छक्रो विष्णुवाक्येन तेन ह७२
प्रतिगृह्य नरं हृष्टः सत्यं चास्तु वचस्तव
एवमुक्त्वा वरं देवः प्रेषयित्वाऽच्युतः स्वयम्७३
गत्वा तु पुंडरीकाक्षो ब्रह्माणं प्राह वै पुनः
त्वया सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम्७४
आवां कार्यस्य करणे सहायौ च तव प्रभो
स्वयं कृत्वा पुनर्नाशं कर्तुं देव न बुध्यसे७५
कृतं जुगुप्सितं कर्म शंभुमेतं जिघांसता
त्वया च देवदेवस्य सृष्टः कोपेन वै पुमान्७६
शुद्ध्यर्थमस्य पापस्य प्रायश्चित्तं परं कुरु
गृह्णन्वह्नित्रयं देव अग्निहोत्रमुपाहर७७
पुण्यतीर्थे तथा देशे वने वापि पितामह
स्वपत्न्या सहितो यज्ञं कुरुष्वास्मत्परिग्रहात्७८
सर्वे देवास्तथादित्या रुद्राश्चापि जगत्पते
आदेशं ते करिष्यंति यतोस्माकं भवान्प्रभुः७९
एकोहि गार्हपत्योग्निर्दक्षिणाग्निर्द्वितीयकः
आहवनीयस्तृतीयस्तु त्रिकुंडेषु प्रकल्पय८०
वर्तुले त्वर्चयात्मानम्मामथो धनुराकृतौ
चतुःकोणे हरं देवं ऋग्यजुःसामनामभिः८१
अग्नीनुत्पाद्य तपसा परामृद्धिमवाप्य च
दिव्यं वर्षसहस्रं तु हुत्वाग्नीन्शमयिष्यसि८२
अग्निहोत्रात्परं नान्यत्पवित्रमिह पठ्यते
सुकृतेनाग्निहोत्रेण प्रशुद्ध्यंति भुवि द्विजाः८३
पंथानो देवलोकस्य ब्राह्मणैर्दशितास्त्वमी
एकोग्निः सर्वदा धार्यो गृहस्थेन द्विजन्मना८४
विनाग्निना द्विजेनेह गार्हस्थ्यन्न तु लभ्यते
भीष्म उवाच
योऽसौ कपालादुत्पन्नो नरो नाम धनुर्द्धरः८५
किमेष माधवाज्जात उताहो स्वेन कर्मणा
उत रुद्रेण जनितो ह्यथवा बुद्धिपूर्वकम्८६
ब्रह्मन्हिरण्यगर्भोऽयमंडजातश्चतुर्मुखः
अद्भुतं पञ्चमं तस्य वक्त्रं तत्कथमुत्थितम्८७
सत्वे रजो न दृश्येत न सत्वं रजसि क्वचित्
सत्वस्थो भगवान्ब्रह्मा कथमुद्रेकमादधात्८८
मूढात्मना नरो येन हंतुं हि प्रहितो हरं
पुलस्त्य उवाच
महेश्वरहरी चैतो द्वावेव सत्पथि स्थितौ८९
तयोरविदितं नास्ति सिद्धासिद्धं महात्मनोः
ब्रह्मणः पंचमं वक्त्रमूर्द्ध्वमासीन्महात्मनः९०
ततो ब्रह्माभवन्मूढो रजसा चोपबृंहितः
ततोऽयं तेजसा सृष्टिममन्यत मया कृता९१
मत्तोऽन्यो नास्ति वै देवो येन सृष्टिः प्रवर्तिता
सह देवाः सगंधर्वाः पशुपक्षिमृगाकुलाः९२
एवं मूढः स पंचास्यो विरिंचिरभवत्पुनः
प्राग्वक्त्रं मुखमेतस्य ऋग्वेदस्य प्रवर्तकम्९३
द्वितीयं वदनं तस्य यजुर्वेदप्रवर्तकम्
तृतीयं सामवेदस्य अथर्वार्थं चतुर्थकम्९४
सांगोपांगेतिहासांश्च सरहस्यान्ससंग्रहान्
वेदानधीते वक्त्रेण पंचमेनोर्द्ध्वचक्षुषा९५
तस्याऽसुरसुराः सर्वे वक्त्रस्याद्भुतवर्चसः
तेजसा न प्रकाशंते दीपाः सूर्योदये यथा९६
स्वपुरेष्वपि सोद्वेगा ह्यवर्तंत विचेतसः
न कंचिद्गणयेच्चान्यं तेजसा क्षिपते परान्९७
नाभिगंतु न च द्रष्टुं पुरस्तान्नोपसर्पितुम्
शेकुस्त्रस्ताः सुरास्सर्वे पद्मयोनिं महाप्रभुम्९८
अभिभूतमिवात्मानं मन्यमाना हतत्विषः
सर्वे ते मंत्रयामासुर्दैवता हितमात्मनः९९
गच्छामः शरणं शंभुं निस्तेजसोऽस्य तेजसा
देवा ऊचुः
नमस्तेसर्वसत्वेश महेश्वर नमोनमः१०० 1.14.100
जगद्योने परंब्रह्म भूतानां त्वं सनातनः
प्रतिष्ठा सर्वजगतां त्वं हेतुर्विष्णुना सह१०१
एवं संस्तूयमानोसौ देवर्षिपितृदानवैः
अंतर्हित उवाचेदं देवाः प्रार्थयतेप्सितम्१०२
देवा ऊचुः
प्रत्यक्षदर्शनं दत्वा देहि देव यथेप्सितम्
कृत्वा कारुण्यमस्माकं वरश्चापि प्रदीयताम्१०३
यदस्माकं महद्वीर्यं तेज ओजः पराक्रमः
तत्सर्वं ब्रह्मणा ग्रस्तं पंचमास्यस्य तेजसा१०४
विनेशुः सर्वतेजांसि त्वत्प्रसादात्पुनः प्रभो
जायते तु यथापूर्वं तथा कुरु महेश्वर१०५
ततः प्रसन्नवदनो देवैश्चापि नमस्कृतः
जगाम यत्र ब्रह्माऽसौ रजोहंकारमूढधीः१०६
स्तुवंतो देवदेवेशं परिवार्य समाविशन्
ब्रह्मा तमागतं रुद्रं न जज्ञे रजसावृतः१०७
सूर्यकोटिसहस्राणां तेजसा रंजयन्जगत्
तदादृश्यत विश्वात्मा विश्वसृग्विश्वभावनः१०८
सपितामहमासीनं सकलं देवमंडलम्
अभिगम्य ततो रुद्रो ब्रह्माणं परमेष्ठिनम्१०९
अहोतितेजसा वक्त्रमधिकं देव राजते
एवमुक्त्वाट्टहासं तु मुमोच शशिशेखरः११०
वामांगुष्ठनखाग्रेण ब्रह्मणः पंचमं शिरः
चकर्त कदलीगर्भं नरः कररुहैरिव१११
विच्छिन्नं तु शिरः पश्चाद्भवहस्ते स्थितं तदा
ग्रहमंडलमध्यस्थो द्वितीय इव चंद्रमाः११२
करोत्क्षिप्तकपालेन ननर्त च महेश्वरः
शिखरस्थेन सूर्येण कैलास इव पर्वतः११३
छिन्ने वक्त्रे ततो देवा हृष्टास्तं वृषभध्वजम्
तुष्टुवुर्विविधैस्तोत्रैर्देवदेवं कपर्दिनम्११४
देवा ऊचुः
नमः कपालिने नित्यं महाकालस्य कालिने
ऐश्वर्यज्ञानयुक्ताय सर्वभागप्रदायिने११५
नमो हर्षविलासाय सर्वदेवमयाय च
कलौ संहारकर्ता त्वं महाकालः स्मृतो ह्यसि११६
भक्तानामार्तिनाशस्त्वं दुःखांतस्तेन चोच्यसे
शंकरोष्याशुभक्तानां तेन त्वं शंकरः स्मृतः११७
छिन्नं ब्रह्मशिरो यस्मात्त्वं कपालं बिभर्षि च
तेन देव कपाली त्वं स्तुतो ह्यद्य प्रसीद नः११८
एवं स्तुतः प्रसन्नात्मा देवान्प्रस्थाप्य शंकरः
स्वानि धिष्ण्यानि भगवांस्तत्रैवासीन्मुदान्वितः११९
विज्ञाय ब्रह्मणो भावं ततो वीरस्य जन्म च
शिरो नीरस्य वाक्यात्तु लोकानां कोपशांतये१२०
शिरस्यंजलिमाधाय तुष्टावाथ प्रणम्य तम्
तेजोनिधि परं ब्रह्म ज्ञातुमित्थं प्रजापतिम्१२१
निरुक्तसूक्तरहस्यैर्ऋग्यजुः सामभाषितैः
रुद्र उवाच
अप्रमेय नमस्तेस्तु परमस्य परात्मने१२२
अद्भुतानां प्रसूतिस्त्वं तेजसां निधिरक्षयः
विजयाद्विश्वभावस्त्वं सृष्टिकर्ता महाद्युते१२३
ऊर्द्ध्ववक्त्र नमस्तेस्तु सत्वात्मकधरात्मक
जलशायिन्जलोत्पन्न जलालय नमोस्तु ते१२४
जलजोत्फुल्लपत्राक्ष जय देव पितामह
त्वया ह्युत्पादितः पूर्वं सृष्ट्यर्थमहमीश्वर१२५
यज्ञाहुतिसदाहार यज्ञांगेश नमोऽस्तु ते
स्वर्णगर्भ पद्मगर्भ देवगर्भ प्रजापते१२६
त्वं यज्ञस्त्वं वषट्कारः स्वधा त्वं पद्मसंभव
वचनेन तु देवानां शिरश्छिन्नं मया प्रभो१२७
ब्रह्महत्याभिभूतोस्मि मां त्वं पाहि जगत्पते
इत्युक्तो देवदेवेन ब्रह्मा वचनमब्रवीत्१२८
ब्रह्मोवाच
सखा नाराणो देवः स त्वां पूतं करिष्यति
कीर्तनीयस्त्वया धन्यः स मे पूज्यः स्वयं विभुः१२९
अनुध्यातोऽसि वै नूनं तेन देवेन विष्णुना
येन ते भक्तिरुत्पन्ना स्तोतुं मां मतिरुत्थिता१३०
शिरश्छेदात्कपाली त्वं सोमसिद्धांतकारकः
कोटीः शतं च विप्राणामुद्धर्तासि महाद्युते१३१
ब्रह्महत्याव्रतं कुर्या नान्यत्किंचन विद्यते
अभाष्याः पापिनः क्रूरा ब्रह्मघ्नाः पापकारिणः१३२
वैतानिका विकर्मस्था न ते भाष्याः कथंचन
तैस्तु दृष्टैस्तथा कार्यं भास्करस्यावलोकनम्१३३
अंगस्पर्शे कृते रुद्र सचैलो जलमाविशेत्
एवं शुद्धिमवाप्नोति पूर्वं दृष्टां मनीषिभिः१३४
स भवान्ब्रह्महन्तासि शुद्ध्यर्थं व्रतमाचर
चीर्णे व्रते पुनर्भूयः प्राप्स्यसि त्वं वरान्बहून्१३५
एवमुक्त्वा गतो ब्रह्मा रुद्रस्तन्नाभिजज्ञिवान्
अचिंतयत्तदाविष्णुं ध्यानगत्या ततः स्वयं१३६
लक्ष्मीसहायं वरदं देवदेवं सनातनम्
अष्टांगप्रणिपातेन देवदेवस्त्रिलोचनः१३७
तुष्टाव प्रणतो भूत्वा शंखचक्रगदाधरम्
रुद्र उवाच
परं पराणाममृतं पुराणं परात्परं विष्णुमनंतवीर्यं१३८
स्मरामि नित्यं पुरुषं वरेण्यं नारायणं निष्प्रतिमं पुराणम्
परात्परं पूर्वजमुग्रवेगं गंभीरगंभीरधियां प्रधानम्१३९
नतोस्मि देवं हरिमीशितारं परात्परं धामपरं च धाम
परापरं तत्परमं च धाम परापरेशं पुरुषं विशालम्१४०
नारायणं स्तौमि विशुद्धभावं परापरं सूक्ष्ममिदं ससर्ज
सदास्थितत्वात्पुरुषप्रधानं शांतं प्रधानं शरणं ममास्तु१४१
नारायणं वीतमलं पुराणं परात्परं विष्णुमपारपारम्
पुरातनं नीतिमतां प्रधानं धृतिक्षमाशांतिपरं क्षितीशम्१४२
शुभं सदा स्तौमि महानुभावं सहस्रमूर्द्धानमनेकपादम्
अनंतबाहुं शशिसूर्यनेत्रं क्षराक्षरं क्षीरसमुद्रनिद्रम्१४३
नारायणं स्तौमि परं परेशं परात्परं यत्त्रिदशैरगम्यम्
त्रिसर्गसंस्थं त्रिहुताशनेत्रं त्रितत्वलक्ष्यं त्रिलयं त्रिनेत्रम्१४४
नमामि नारायणमप्रमेयं कृते सितं द्वापरतश्च रक्तम्
कलौ च कृष्णं तमथो नमामि ससर्ज यो वक्त्रत एव विप्रान्१४५
भुजांतरात्क्षत्रमथोरुयुग्माद्विशः पदाग्राच्च तथैव शूद्रान्
नमामि तं विश्वतनुं पुराणं परात्परं पारगमप्रमेयम्१४६
सूक्ष्ममूर्त्तिं महामूर्त्तिं विद्यामूर्त्तिममूर्तिकम्
कवचं सर्वदेवानां नमस्ये वारिजेक्षणम्१४७
सहस्रशीर्षं देवेशं सहस्राक्षं महाभुजम्
जगत्संव्याप्य तिष्ठंतं नमस्ये परमेश्वरम्१४८
शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम्
नीलमेघप्रतीकाशं नमस्ये शार्ङ्गपाणिनम्१४९
शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम्
भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम्१५० 1.14.150
न चात्र किंचित्पश्यामि व्यतिरिक्तं तवाच्युत
त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम्१५१
एवं तु वदतस्तस्य रुद्रस्य परमेष्ठिनः
इतीरितेस्तेन सनातन स्वयं परात्परस्तस्य बभूव दर्शने१५२
रथांगपाणिर्गरुडासनो गिरिं विदीपयन्भास्करवत्समुत्थितः
वरं वृणीष्वेति सनातनोब्रवीद्वरस्तवाहं वरदः समागतः१५३
इतीरिते रुद्रवरो जगाद ममातिशुद्धिर्भविता सुरेश
न चास्य पापस्य हरं हि चान्यत्संदृश्यतेग्र्यं च ऋते भवं तम्१५४
ब्रह्महत्याभिभूतस्य तनुर्मे कृष्णतां गता
शवगंधश्च मे गात्रे लोहस्याभरणानि मे१५५
कथं मे न भवेदेवमेतद्रूपं जनार्दनम्
किं करोमि महादेव येन मे पूर्विका तनूः१५६
त्वत्प्रसादेन भविता तन्मे कथय चाच्युत
विष्णुरुवाच
ब्रह्मवध्या परा चोग्रा सर्वकष्टप्रदा परा१५७
मनसापि न कुर्वीत पापस्यास्य तु भावनाम्
भवता देववाक्येन निष्ठा चैषा निबोधिता१५८
इदानीं त्वं महाबाहो ब्रह्मणोक्तं समाचर
भस्मसर्वाणि गात्राणि त्रिकालं घर्षयेस्तनौ१५९
शिखायां कर्णयोश्चैव करे चास्थीनि धारय
एवं च कुर्वतो रुद्र कष्टं नैव भविष्यति१६०
संदिश्यैवं स भगवांस्ततोंऽतर्द्धानमीश्वरः
लक्ष्मीसहायो गतवान्रुद्रस्तं नाभिजज्ञिवान्१६१
कपालपाणिर्देवेशः पर्यटन्वसुधामिमाम्
हिमवंतं समैनाकं मेरुणा च सहैव तु१६२
कैलासं सकलं विंध्यं नीलं चैव महागिरिम्
कांचीं काशीं ताम्रलिप्तां मगधामाविलां तथा१६३
वत्सगुल्मं च गोकर्णं तथा चैवोत्तरान्कुरून्
भद्राश्वं केतुमालं च वर्षं हैरण्यकं तथा१६४
कामरूपं प्रभासं च महेंद्रं चैव पर्वतम्
ब्रह्महत्याभिभूतोसौ भ्रमंस्त्राणं न विंदति१६५
त्रपान्वितः कपालं तु पश्यन्हस्तगतं सदा
करौ विधुन्वन्बहुशो विक्षिप्तश्च मुहुर्मुहुः१६६
यदास्य धुन्वतो हस्तौ कपालं पतते न तु
तदास्य बुद्धिरुत्पन्ना व्रतं चैतत्करोम्यहम्१६७
मदीयेनैव मार्गेण द्विजा यास्यंति सर्वतः
ध्यात्वैवं सुचिरं देवो वसुधां विचचार ह१६८
पुष्करं तु समासाद्य प्रविष्टोऽरण्यमुत्तमम्
नानाद्रुमलताकीर्णं नानामृगरवाकुलम्१६९
द्रुमपुष्पभरामोद वासितं यत्सुवायुना
बुद्धिपूर्वमिव न्यस्तैः पुष्पैर्भूषितभूतलम्१७०
नानागधंरसैरन्यैः पक्वापक्वैः फलैस्तथा
विवेश तरुवृंदेन पुष्पामोदाभिनंदितः१७१
अत्राराधयतो भक्त्या ब्रह्मा दास्यति मे वरम्
ब्रह्मप्रसादात्संप्राप्तं पौष्करं ज्ञानमीप्सितम्१७२
पापघ्नं दुष्टशमनं पुष्टिश्रीबलवर्द्धनम्
एवं वै ध्यायतस्तस्य रुद्रस्यामिततेजसः१७३
आजगाम ततो ब्रह्मा भक्तिप्रीतोऽथ कंजजः
उवाच प्रणतं रुद्रमुत्थाप्य च पुनर्गुरुः१७४
दिव्यव्रतोपचारेण सोहमाराधितस्त्वया
भवता श्रद्धयात्यर्थं ममदर्शनकांक्षया१७५
व्रतस्था मां हि पश्यंति मनुष्या देवतास्तथा
तदिच्छया प्रयच्छामि वरं यत्प्रवरं वरम्१७६
सर्वकामप्रसिद्ध्यर्थं व्रतं यस्मान्निषेवितम्
मनोवाक्कायभावैश्च संतुष्टेनांतरात्मना१७७
कं ददामि च वै कामं वद भोस्ते यथेप्सितम्
रुद्र उवाच
एष एवाद्य भगवन्सुपर्याप्तो महा वरः१७८
यद्दृष्टोसि जगद्वंद्य जगत्कर्तर्नमोस्तुते
महता यज्ञसाध्येन बहुकालार्जितेन च१७९
प्राणव्ययकरेण त्वं तपसा देव दृश्यते
इदं कपालं देवेश न करात्पतितं विभो१८०
त्रपाकरा ऋषीणां च चर्यैषा कुत्सिता विभो
त्वत्प्रसादाद्व्रतं चेदं कृतं कापालिकं तु यत्१८१
सिद्धमेतत्प्रपन्नस्य महाव्रतमिहोच्यताम्
पुण्यप्रदेशे यस्मिंस्तु क्षिपामीदं वदस्व मे१८२
पूतो भवामि येनाहं मुनीनां भावितात्मनाम्
ब्रह्मोवाच
अविमुक्तं भगवतः स्थानमस्ति पुरातनम्१८३
कपालमोचनं तीर्थं तव तत्र भविष्यति
अहं च त्वं स्थितस्तत्र विष्णुश्चापि भविष्यति१८४
दर्शने भवतस्तत्र महापातकिनोपि ये
तेपि भोगान्समश्नंति विशुद्धा भवने मम१८५
वरणापि असीचापि द्वे नद्यौ सुरवल्लभे
अंतराले तयोः क्षेत्रे वध्या न विशति क्वचित्१८६
तीर्थानां प्रवरं तीर्थं क्षेत्राणां प्रवरं तव
आदेहपतनाद्ये तु क्षेत्रं सेवंति मानवाः१८७
ते मृता हंसयानेन दिवं यांत्यकुतोभयाः
पंचक्रोशप्रमाणेन क्षेत्रं दत्तं मया तव१८८
क्षेत्रमध्याद्यदा गंगा गमिष्यति सरित्पतिम्
तदा सा महती पुण्या पुरी रुद्र भविष्यति१८९
पुण्या चोदङ्मुखी गंगा प्राची चापि सरस्वती
उदङ्मुखी योजने द्वे गच्छते जाह्नवी नदी१९०
तत्र वै विबुधाः सर्वे मया सह सवासवाः
आगता वासमेष्यंति कपालं तत्र मोचय१९१
तस्मिंस्तीर्थे तु ये गत्वा पिण्डदानेन वै पितॄन्
श्राद्धैस्तु प्रीणयिष्यंति तेषां लोकोऽक्षयो दिवि१९२
वाराणस्यां महातीर्थे नरः स्नातो विमुच्यते
सप्तजन्मकृतात्पापाद्गमनादेव मुच्यते१९३
तत्तीर्थं सर्वतीर्थानामुत्तमं परिकीर्तितम्
त्यजंति तत्र ये प्राणान्प्राणिनः प्रणतास्तव१९४
रुद्रत्वं ते समासाद्य मोदंते भवता सह
तत्रापि हि तु यद्दत्तं दानं रुद्र यतात्मना१९५
स्यान्महच्च फलं तस्य भविता भावितात्मनः
स्वांगस्फुटित संस्कारं तत्र कुर्वंति ये नराः१९६
ते रुद्रलोकमासाद्य मोदंते सुखिनः सदा
तत्र पूजा जपो होमः कृतो भवति देहिनां१९७
अनंतफलदः स्वर्गो रुद्रभक्तियुतात्मनः
तत्र दीपप्रदाने तु ज्ञानचक्षुर्भवेन्नरः१९८
अव्यंगं तरुणं सौम्यं रूपवंतं तु गोसुतम्
योङ्कयित्वा मोचयति स याति परमं पदम्१९९
पितृभिः सहितो मोक्षं गच्छते नात्र संशयः
अथ किं बहुनोक्तेन यत्तत्र क्रियते नरैः२०० 1.14.200
कर्मधर्मं समुद्दिश्य तदनंतफलं भवेत्
स्वर्गापवर्गयोर्हेतुस्तद्धि तीर्थम्मतं भुवि२०१
स्नानाज्जपात्तथा होमादनंतफलसाधनम्
गत्वा वाराणसीतीर्थं भक्त्या रुद्रपरायणाः२०२
ये तत्र पंचतां प्राप्ता भक्तास्ते नात्र संशयः
वसवः पितरो ज्ञेया रुद्राश्चैव पितामहाः२०३
प्रपितामहास्तथादित्या इत्येषा वैदिकी श्रुतिः
त्रिविधः पिंडदानाय विधिरुक्तो मयानघ२०४
मानुषैः पिंडादानं तु कार्यमत्रागतैस्सदा
पिंडदानं च तत्रैव स्वपुत्रैः कार्यमादरात्२०५
सुपुत्रास्ते पितॄणां तु भवंति सुखदायकाः
प्रोक्तं तीर्थं मया तुभ्यं दर्शनादपि मुक्तिदम्२०६
स्नात्वा तु सलिले तत्र मुच्यते जन्मबंधनात्
विमुक्तो ब्रह्महत्यायास्तत्र रुद्र यथासुखम्२०७
अविमुक्ते मया दत्ते तिष्ठ त्वं भार्यया सह
रुद्र उवाच
पृथिव्यां यानि तीर्थानि तेष्वहं विष्णुना सह२०८
तिष्ठामि भवतोक्तेन वर एष वृतो मया
अहं देवो महादेव आराध्यो भवता सदा२०९
वरं दास्यामि ते चाहं संतुष्टेनांतरात्मना
विष्णोश्चाहं प्रदास्यामि वरांश्च मनसीप्सितान्२१०
सुराणां चैव सर्वेषां मुनीनां भवितात्मनाम्
अहं दाता अहं याच्यो नान्यो भाव्यः कथंचन२११
ब्रह्मोवाच
एवं करिष्येहं रुद्र यत्वयोक्तं वचः शुभम्
नारायणश्च ते वाक्यं कर्ता सर्वं न संशयः२१२
विसृज्यैवं तदा रुद्रं ब्रह्मा चांतरधीयत
वाराणस्यां महादेवो गत्वा तीर्थं न्यवेशयत्२१३
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखंडे रुद्रस्य ब्रह्मवध्यानाशश्चतुर्दशोऽध्यायः१४