पद्मपुराणम्/खण्डः १ (सृष्टिखण्डम्)/अध्यायः ०८

विकिस्रोतः तः
← अध्यायः ०७ पद्मपुराणम्
अध्यायः ०८
वेदव्यासः
अध्यायः ०९ →

भीष्म उवाच।
बहुभिर्द्धरणी भुक्ता भूपालैः श्रूयते पुरा।
पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः१।
किमर्थं च कृता संज्ञा भूमेस्सा पारिभाषिकी।
गौरितीयं च संज्ञा वा भुवः कस्माद्ब्रवीहि मे२।
पुलस्त्य उवाच।
पुरा कृतयुगस्यासीदंगो नाम प्रजापतिः।
मृत्योस्तु दुहिता तेन परिणीतातिदुर्मुखी३।
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा।
अधर्मनिरतः कामी बलवान्वसुधाधिपः४।
लोकस्याधर्मकृच्चापि परभार्यापहारकः।
अथ तस्य प्रसिद्यर्थं जगदर्थं महर्षिभिः५।
अनुनीतोपि न ददावशुद्धात्माऽभयं ततः।
शापेन मारयित्वैनमराजकभयार्दिताः६।
ममंथुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः।
तत्कायान्मथ्यमानात्तु जनिता म्लेच्छजातयः७।
शरीरे मातुरंशेन कृष्णांजनसमप्रभाः।
पितुरंशस्य संगेन धार्मिको धर्मकारकः८।
उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी।
दिव्यतेजोमयः पुत्रस्सरत्नकवचांगदः९।
पृथुरेवाभवन्नाम्ना स च विष्णुरजायत।
स विप्रैरभिषिक्तः संस्तपः कृत्वा सुदुष्करं१०।
विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्प्रभुः।
निःस्वाध्यायवषट्कारं निर्द्धर्मं वीक्ष्य भूतलं११।
वेद्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः।
ततो गोरूपमास्थाय भूः पलायितुमुद्यता१२।
पृष्ठे त्वन्वगमत्तस्याः पृथुः सेषुशरासनः।
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत्१३।
पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते।
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च१४।
तथेति चाब्रवीद्भूमिर्दुदोह स नराधिपः।
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायंभुवं मनुं१५।
तदन्नमभवद्दुग्धं प्रजा जीवंति येन तु।
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत्१६।
दोग्धा वाचस्पतिरभूत्पात्रं वेदस्तपो रसः।
देवैश्च वसुधा दुग्धा मरुद्दोग्धा तदाभवत्१७।
इन्द्रो वत्सः समभवत्क्षीरमूर्ज्जस्वलं बलं।
देवानां कांचनं पात्रं पितृणां राजतं तथा१८।
अंतकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः।
बिलं च पात्रं नागानां तक्षको वत्सकोभवत्१९।
विषं क्षीरं ततो दोग्धा धृतराष्ट्रोभवत्पुनः।
असुरैरपि दुग्धेयं आयसे शत्रुपीडनम्२०।
पात्रे मायामभूद्वत्सःप्राल्हादिस्तुविरोचनः।
दोग्धा त्रिमूर्द्धा तत्रासीन्माया येन प्रवर्तिता२१।
यक्षैश्च वसुधा दुग्धा पुरांतर्द्धानमीप्सुभिः।
कृत्वा विश्वावसुं वत्सं मणिमंतं महीपते२२।
प्रेतरक्षोगणैर्दुग्धा वसा रुधिरमुल्बणं।
रौप्यनाभोभवद्दोग्धा सुमाली वत्स एव च२३।
गंधर्वैश्च पुनर्दुग्धा वसुधा साप्सरोगणैः।
वत्सं चित्ररथं कृत्वा गंधान्पद्मदले तथा२४।
दोग्धावसुरुचिर्नामाथर्ववेदस्य पारगः।
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च२५।
औषधानि च दिव्यानि दोग्धा मेरुर्महीधरः।
वत्सोभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः२६।
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणं।
पालाशपात्रे दोग्धा तु सालः पुष्पवनाकुलः२७।
प्लक्षोभवत्ततो वत्सः सर्ववृक्षवनाधिपः।
एवमन्यैश्च वसुधा तथा दुग्धा यथेच्छतः२८।
आयुर्द्धनानि सौख्यं च पृथौ राज्यं प्रशासति।
न दारिद्र्यं तथा रोगी नाधनोनचपापकृत्२९।
नोपसर्गा न चाघातः पृथौ राज्यं प्रशासति।
नित्यंप्रमुदितालोका दुःखशोकविवर्जिताः३०।
धनुः कोट्या च शैलेंद्रानुत्सार्य स महाबलः।
भूमंडलं समं चक्रे लोकानां हितकाम्यया३१।
न पुरग्रामदुर्गाणि न चायुधधरा नराः।
म्रियंते यत्र दुःखं च नार्थशास्त्रस्य चादरः३२।
धर्मैकतानाः पुरुषाः पृथौ राज्यं प्रशासति।
कथितानि च पात्राणि यत्क्षीरं च यथा तव३३।
येषां येन रुचिस्तत्र तेभ्यो दत्तं विजानता।
यज्ञश्रीदेषु सर्वेषु मया तुभ्यं निवेदितं३४।
दुहितृत्वं गता यस्मात्पृथोः पृथ्वी महामते।
तस्यानुसारयोगाच्च पृथिवी विश्रुता बुधैः३५।
भीष्म उवाच।
आदित्यवंशमखिलं वद ब्रह्मन्यथाक्रमं।
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि३६।
पुलस्त्य उवाच।
विवस्वान्कश्यपात्पूर्वमदित्यामभवत्पुरा।
तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा३७।
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतं।
प्रभा प्रभातं सुषुवे त्वाष्ट्रं संज्ञा तथा मनुं३८।
यमश्च यमुना चैव यमलौ च बभूवतुः।
ततस्तेजोमयं रूपमसहंती विवस्वतः३९।
नारीमुत्पादयामास स्वशरीरादनिंदितां।
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी४०।
किंकरोमीति पुरतः संस्थितां तामभाषत।
छाये त्वं भज भर्तारं मदीयं तं वरानने४१।
अपत्यानि मदीयानि मातृस्नेहेन पालय।
तथेत्युक्त्वा च सा देवमगात्कामाय सुव्रता४२।
कामयामास देवोपि संज्ञेयमिति चादरात्।
जनयामास सावर्णिं मनुं मनुस्वरूपिणम्४३।
सवर्णत्वाच्च सावर्णेर्मनोर्वैवस्वतस्य तु।
ततः सुतां च तपतीं त्वाष्ट्रीं चैव क्रमेण तु४४।
छायायां जनयामास संज्ञेयमिति भास्करः।
छाया स्वपुत्रे त्वधिकं स्नेहं चक्रे मनौ तदा४५।
न चक्षमे मनुः पूर्वस्तद्यमः क्रोधमूर्छितः।
संतर्जयामास तदा पादमुत्क्षिप्य दक्षिणं४६।
शशाप च यमं छाया भवतु क्रिमिसंयुतः।
पादोयमेको भविता पूयशोणितविस्रवः४७।
निवेदयामास पितुर्यमः शापेन धर्षितः।
निःकारणमहं शप्तो मात्रा देव सकोपया४८।
बालभावान्मया किंचिदुद्यतश्चरणः सकृत्।
मनुना वार्यमाणापि मम शापमदाद्विभो४९।
प्रायो न माता सास्माकमसमा स्नेहतो यतः।
देवोप्याह यमं भूयः किं करोमि महामते५० 1.8.50।
सौख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः।
अनिवार्या भवस्यापि का कथान्येषु जंतुषु५१।
कृकवाकुस्तव पदे स क्रिमिं भक्षयिष्यति।
खंजं च रुचिरं चैव पादमेतद्भविष्यति५२।
एवमुक्तः समाश्वस्तस्तपस्तीव्रं चकार ह।
वैराग्यात्पुष्करे तीर्थे फलफेनानिलाशनः५३।
पितामहं समाराध्य यावद्वर्षायुतं पुनः।
तपःप्रभावाद्देवेशः संतुष्टः पद्मसंभवः५४।
वव्रे स लोकपालत्वं पितृलोकं तथाक्षयं।
धर्माधर्मात्मकस्यास्य जगतस्तु परीक्षणम्५५।
एवं स लोकपालत्वमगमत्पद्मसंभवात्।
पितॄणामाधिपत्यं च धर्माधर्मस्य चानघ५६।
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितं।
त्वष्टुः समीपमगमदाचचक्षे सरोषवान्५७।
तमुवाच ततस्त्वष्टा सांत्वपूर्वमिदं वचः।
तवासहंती भगवंस्तेजस्तीव्रं तमोनुद५८।
बडवारूपमास्थाय मत्सकाशमिहागता।
निवारिता मया सा च त्वद्भयेन दिवस्पते५९।
यस्मादविज्ञातमना मत्सकाशमिहागता।
तस्मान्मदीयं भवनं प्रवेष्टुं न तवार्हति६०।
एवमुक्ता जगामाशु मरुदेशमनिंदिता।
बडवारूपमास्थाय भूतले संप्रतिष्ठिता६१।
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्।
अपनेष्यामि ते तेजः कृत्वा यंत्रे दिवाकरम्६२।
रूपं तव करिष्यामि लोकानंदकरं प्रभो।
तथेत्युक्तः स रविणा भ्रमे कृत्वा दिवाकरं६३।
पृथक्चकार तेजश्च चक्रं विष्णोः प्रकल्पयत्।
त्रिशूलं चापि रुद्रस्य वज्रमिंद्रस्य चापरं६४।
दैत्यदानवसंहर्तृ सहस्रकिरणात्मकं।
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत्६५।
न शशाक च तद्द्रष्टुं पादरूपं रवेः पुनः।
अद्यापि च ततः पादौ न कश्चित्कारयेत्क्वचित्६६।
यः करोति स पापिष्ठो गतिमाप्नोति निंदितां।
कुष्ठरोगमवाप्नोति लोकेस्मिन्दुःखसंज्ञितं६७।
तस्मान्न धर्मकामार्थी चित्रेष्वायतनेषु च।
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः६८।
ततः स भगवान्गत्वा भूर्लोकममराधिपः।
कामयामास कामार्तो मुख एव दिवाकरः६९।
अश्वरूपेण महता तेजसा च समन्वितः।
संज्ञा च मनसा क्षोभमगमद्भयविह्वला७०।
नासापुटाभ्यामुत्सृष्टं परोयमिति शंकया।
तस्याथ रेतसो जातावश्विनाविति नः श्रुतम्७१।
दस्रौ श्रुतित्वात्संजातौ नासत्यौ नासिकाग्रतः।
ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परं७२।
विमानेनागमत्स्वर्गे पत्न्या सह मुदान्वितः।
सावर्ण्योपि मनुर्मेरावद्यापि तपते तपः७३।
शनिस्तपोबलाच्चापि ग्रहाणां समतां गतः।
यमुना तपती चैव पुनर्नद्यौ बभूवतुः७४।
विष्ठिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता।
मनोर्वैवस्वतस्यापि दश पुत्रा महाबलाः७५।
इलस्तु प्रथमस्तेषां पुत्रेष्ट्या समकल्पि यः।
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च७६।
नरिष्यंतः करूषश्च शर्यातिश्च महाबलः।
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः७७।
अभिषिच्य मनुः पूर्वमिलं पुत्रं स धार्मिकम्।
जगाम तपसे भूयः पुष्करं स तपोवनं७८।
अथाजगाम सिध्यर्थं तस्य ब्रह्मा वरप्रदः।
वरं वरय भद्रं ते मानवेय यथेप्सितं७९।
उवाच स तदा देवं पद्माक्षं पद्मजं विभुं।
वंशे मे धर्मसंयुक्ताः पृथिव्यां सर्वपार्थिवाः८०।
भवेयुरीश्वराः स्वामिन्प्रसादात्तव कंजज।
तथेत्युक्त्वा तु देवेशस्तत्रैवांतरधीयत८१।
ततोयोध्यां समागत्य समतिष्ठद्यथा पुरा।
अथैकदा रथारूढ इलो निज सुतो मनोः८२।
निर्जगामार्थसिध्यर्थमिनप्रायां महीमिमां।
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः संप्रसाधयन्८३।
जगामोपवनं शंभोरथाकृष्टः प्रतापवान्।
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत्८४।
रमते यत्र देवेशः सोमः सोमार्द्धशेखरः।
उमया समयस्तत्र पुरा शरवणे कृतः८५।
पुंनामसंज्ञं यत्किंचिदागमिष्यति नो वनं।
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमंडले८६।
अज्ञातसमयो राजा इलः शरवणं गतः।
स्त्रीत्वं जगाम सहसा बडवाश्वोऽभवत्क्षणात्८७।
पुरुषत्वे कृतं सर्वं स्त्रीकाये विस्मृतं ततः।
इलेति साभवन्नारी पीनोन्नतघनस्तनी८८।
उन्नतश्रोणिजघना पद्मपत्रायतेक्षणा।
पूर्णेन्दुवदना तन्वी विलासिन्यसितेक्षणा८९।
पीनोन्नतायतभुजा नीलकुंचितमूर्द्धजा।
तनुलोमा सुवदना मृदुगद्गदभाषिणी९०।
श्यामागौरेण वर्णेन तनुताम्रनखांकुरा।
कार्मुकभ्रूयुगोपेता हंसावरणगामिनी९१।
भ्रममाणा वने तस्मिन्चिंतयामास भामिनी।
को मे पिता वा भ्राता वा को मे त्राता भवेदिह९२।
कस्य भर्त्तुरहं दत्ता कियद्वर्षास्मि भूतले।
चिंतयंती च ददृशे सोमपुत्रेण साङ्गना९३।
इलारूप समाक्षिप्त मनसा वरवर्णिनी।
बुधस्तदाप्तये यत्नमकरोत्कामपीडितः९४।
विशिष्टाकारवान्मुंडी स कमंडलुपुस्तकः।
वेणुदंडकृतावेशः पवित्रक खनित्रकः९५।
द्विजरूपः शिखी ब्रह्म निगदन्कर्णकुंडली।
वटुभिश्चार्थिभिर्युक्तः समित्पुष्पकुशोदकैः९६।
कालेन्विष्यां ततस्तस्मिन्नाजुहाव स तामिलाम्।
बहिर्वनस्यांतरितः किल पादपमंडपे९७।
ससंभ्रममकस्माच्च सोपालंभमिवाभवत्।
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मंदिरान्मम९८।
इयं विहारवेला ते अतिक्रामति सांप्रतम्।
एह्येहि पृथुसुश्रोणि संभ्रांता केन हेतुना९९।
इयं सायंतनी वेला विहारस्येह वर्त्तते।
कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम१०० 1.8.100।
साब्रवीद्विस्मृताहं च सर्वमेव तपोधन।
आत्मानं त्वां च भर्त्तारं कुलं च वद मेनघ१०१।
बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी।
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः१०२।
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः।
इति सा तस्यवचनात्प्रविष्टा बुधमंदिरम्१०३।
रत्नस्तंभसमाकीर्णं दिव्यमायाविनिर्मितम्।
इला कृतार्थमात्मानं मेने तद्भवने स्थिता१०४।
अहो वृत्तमहोरूपमहो धनमहोकुलम्।
मम चास्य च भर्त्तुर्वा अहो लावण्यमुत्तमम्१०५।
रेमे च सा तेन सममतिकालमिला वने।
सर्वभोगमये गेहे यथेंद्रभवने तथा१०६।
अथान्विष्यंतो राजानं भ्रातरस्तस्य मानवाः।
इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणांतिकम्१०७।
ततस्ते ददृशुः सर्वे वडवामग्रतः स्थिताम्।
रत्नपर्यंतकिरणदीप्यमानामनुत्तमाम्१०८।
संप्राप्य प्रत्यभिज्ञानात्सर्वे विस्मयमागताः।
अयं चंद्रप्रभो नाम वाजी तस्य महात्मनः१०९।
अगमद्वडवारूपमुत्तमं केन हेतुना।
ततस्तु मैत्रावरुणिं पप्रच्छुः स्वपुरोहितम्११०।
किमेतदित्यभूच्चित्रं वद योगविदां वर।
वसिष्ठोप्यब्रवीत्सर्वं दृष्ट्वा तं ध्यानचक्षुषा१११।
समयः शंभुदयिता कृतः शरवणे पुरा।
यः पुमान्प्रविशेच्चात्र स नारीत्वमवाप्स्यति११२।
अयमश्वोपि नारीत्वमगाद्राज्ञा सहैव तु।
इलः पुरुषतामेति यथासौ धनदोपमः११३।
तथैव यत्नः कर्त्तव्य आराध्य च पिनाकिनम्।
ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः११४।
तुष्टवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ।
तावूचतुरलं चैष समयः किं नु सांप्रतं११५।
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः।
दत्वा किंपुरुषो वीरः स भविष्यत्यसंशयम्११६।
तथेत्युक्त्वा तु ते सर्वे जग्मुर्वैवस्वतात्मजाः।
इष्ट्वाश्वमेधेन तत इला किंपुरुषोभवत्११७।
मासमेकं पुमान्वीरः स्त्रीत्वं मासमभूत्पुनः।
बुधस्य भवने तिष्ठन्निलो गर्भधरोभवत्११८।
अजीजनत्पुत्रमेकमनेकगुणसंयुतम्।
बुध उत्पाद्य तं पूरुं स स्वर्गमगमत्पुनः११९।
इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा।
सोमार्कवंशजो राजा इलोभूद्वंशवर्द्धनः१२०।
एवं पुरूरवाः पूरोरभवद्वंशवर्द्धनः।
इक्ष्वाकुरर्कवंशस्य तथैवोक्तो नरेश्वरः१२१।
इलः किंपुरुषत्वे च सुद्युम्न इति चोच्यते।
पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम्१२२।
उत्कलोथ गयस्तद्वद्धरिताश्वश्च वीर्यवान्।
उत्कलस्योत्कला नाम गयस्य तु गयापुरी१२३।
हरिताश्वस्य दिग्याम्या संज्ञाता कुरुभिः सह।
प्रतिष्ठानेभिषिच्याथ स पुरूरवसं सुतम्१२४।
जगामेलावृतं भोक्तुं दिव्यं वर्षं फलाशनः।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान्१२५।
नरिष्यंतस्य पुत्रोभूच्छुको नाम महाबलः।
नाभागादंबरीषस्तु धृष्टस्य तु सुतत्रयम्१२६।
धृष्टकेतुः स्वधर्माथो रणधृष्टश्च वीर्यवान्।
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका१२७।
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्।
आनर्तो नाम देशोभून्नगरी च कुशस्थली१२८।
रोचमानस्य रेवोभूद्रेवाद्रैवत एव च।
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च१२९।
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता।
करूषाच्चैव कारूषा बहवः प्रथिता भुवि१३०।
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत।
इक्ष्वाकुपुत्रा नाम्नाथ विकुक्षि निमिदंडकाः१३१।
श्रेष्ठाः पुत्रशतस्यासन्पंचाशच्चाथ तत्सुताः।
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः१३२।
चत्वारिंशत्तथाष्टान्ये शतमध्ये च येभवन्।
मेरोर्दक्षिणतश्चैव राजानस्ते प्रकीर्तिताः१३३।
ज्येष्ठात्ककुत्स्थनामाभूत्सुतस्तस्य सुयोधनः।
तस्य पुत्रः पृथृर्नाम विश्वस्तस्य पृथोः सुतः१३४।
आर्द्रस्तस्य च पुत्रोभूद्युवनाश्वस्ततोभवत्।
युवनाश्वस्य पुत्रोभूच्छावस्तो नाम वीर्यवान्१३५।
निर्मिता येन शावस्ती ह्यंगदेशे नराधिप।
शावस्ताद्बृहदश्वो भूत्कुवलाश्वस्ततोभवत्१३६।
धुंधुमारत्वमगमद्धुंधुं हत्वाऽसुरं पुरा।
तस्य पुत्रास्त्रयो जाता दृढाश्वो घृणिरेव च१३७।
कपिलाश्वश्च विख्यातो धौंधुमारिः प्रतापवान्।
दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः१३८।
हर्यश्वस्य निकुंभोभूत्संहताश्वस्ततोभवत्।
अकृताश्वो रणाश्वश्च संहताश्व सुतावुभौ१३९।
युवनाश्वो रणाश्वस्य मांधाता च ततोभवत्।
मांधातुः पुरुकुत्सोभूद्धर्मसेतुश्च पार्थिवः१४०।
मुचुकुन्दश्च विख्यातश्शक्रमित्रः प्रतापवान्।
पुरुकुत्सस्य पुत्रोभूद्दुस्सहो नर्मदापतिः१४१।
संभूतिस्तस्य पुत्रोभूत्त्रिधन्वा च ततोभवत्।
त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः१४२।
तस्य सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः।
तस्य पुत्रो हरिश्चन्द्रो हरिश्चंद्राच्च रोहितः१४३।
रोहताच्च वृको जातो वृकाद्बाहुरजायत।
सगरस्तस्य पुत्रोभूद्राजा परमधार्मिकः१४४।
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा।
ताभ्यामाराधितः पूर्वमौर्वाग्निः पुत्रकाम्यया१४५।
और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम्।
एका षष्टिसहस्राणि सुतमेकं तथापरा१४६।
अगृह्णाद्वंशकर्तारं प्रभाऽगृह्णाद्बहून्सुतान्।
एकं भानुमती पुत्रमगृह्णादसमंजसं१४७।
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा।
खनंतः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे१४८।
असमंजस्तु तनयो ह्यंशुमान्नाम विश्रुतः।
तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः१४९।
येन भागीरथी गङ्गा तपः कृत्वावतारिता।
भगीरथस्य तनयो नाभाग इति विश्रुतः१५० 1.8.150।
नाभागस्यांबरीषोभूत्सिंधुद्वीपस्ततोभवत्।
तस्यायुतायुः पुत्रोभूदृतुपर्णस्ततोभवत्१५१।
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः।
तस्यानरण्यः पुत्रोभून्निघ्नस्तस्य सुतोभवत्१५२।
निघ्नपुत्रावुभौ जातावनमित्र रघूत्तमौ।
अनमित्रो वनमगादरिनाशकृते नृप१५३।
रघोरभूद्दिलीपस्तु दिलीपाच्चाप्यजस्तथा।
दीर्घबाहुरजाज्जातः प्रजापालस्ततोभवत्१५४।
ततो दशरथो जातस्तस्य पुत्रचतुष्टयं।
नारायणात्मकाः सर्वे रामस्तस्याग्रजोभवत्१५५।
रावणांतकरस्तद्वद्रघूणां वंशवर्द्धनः।
वाल्मीकिर्यस्य चरितं चक्रे भार्गवसत्तमः१५६।
तस्य पुत्रः कुशो नाम इक्ष्वाकुकुलवर्द्धनः।
अतिथिस्तु कुशाज्जातो निषधस्तस्य चात्मजः१५७।
नलस्तु निषधाज्जातो नभास्तस्मादजायत।
नभसः पुंडरीकोभूत्क्षेमधन्वा ततः परम्१५८।
तस्यपुत्रोभवद्वीरो देवानीकः प्रतापवान्।
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः१५९।
ततश्चंद्रावलोकस्तु तारापीडस्ततोभवत्।
तस्यात्मजश्चन्द्रगिरिश्चंद्रस्तस्य सुतोभवत्१६०।
श्रुतायुरभवत्तस्माद्भारते यो निपातितः।
नलौ द्वावेव विख्यातौ वंशे यस्य विशेषतः१६१।
वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः।
एते विवस्वतो वंशे राजानो भूरिदक्षिणाः१६२।
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः१६३।

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे आदित्यवंशकथनंनामाष्टमोध्यायः८।