पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः ०४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४८ पद्मपुराणम्
अध्यायः ०४९
वेदव्यासः
अध्यायः ०५० →

युधिष्ठिर उवाच-
वैशाख शुक्लपक्षे तु किन्नामैकादशी भवेत्
किं फलं को विधिस्तत्र कथयस्व जनार्दन १
श्रीकृष्ण उवाच-
इदमेव पुरा पृष्टं रामचंद्रेण धीमता
वसिष्ठं प्रति राजेंद्र यत्त्वं मामनुपृच्छसि २
राम उवाच-
भगवञ्छ्रोतुमिच्छामि व्रतानामुत्तमं व्रतम्
सर्वपापक्षयकरं सर्वदुःखनिकृंतनम् ३
मया दुःखानि भुक्तानि सीताविरहजानि तु
ततोऽहं भयभीतोऽस्मि पृच्छामि त्वां महामुने ४
वसिष्ठ उवाच-
साधु पृष्टं त्वया राम तवैषा नैष्ठिकी मतिः
त्वन्नामग्रहणेनैव पूतो भवति मानवः ५
तथापि कथयिष्यामि लोकानां हितकाम्यया
पवित्रं पावनानां च व्रतानामुत्तमं व्रतम् ६
वैशाखस्य सिते पक्षे राम चैकादशी भवेत्
मोहिनी नाम सा प्रोक्ता सर्वपापहरापराः ७
मोहजालात्प्रमुच्यंते पातकानां समूहतः
अस्या व्रत प्रभावेन सत्यं सत्यं वदाम्यहम् ८
अतः कारणतो राम कर्तव्यैषा भवादृशैः
पातकानां क्षयकरी महादुःखविनाशिनी ९
शृणुष्वैकमना राम कथां पापहरां पराम्
यस्याः श्रवणमात्रेण महापापं प्रणश्यति १०
सरस्वत्यास्तटे रम्ये पुरी भद्रावती शुभा
द्युतिमान्नाम नृपतिस्तत्र राज्यं करोति वै ११
चंद्रवंशोद्भवो नाम धृतिमान्सत्यसंगरः
तत्र वैश्यो निवसति धनधान्यसमृद्धिमान् १२
धनपाल इति ख्यातः पुण्यकर्मप्रवर्त्तकः
प्रपा कूप मठाराम तडाग गृहकारकः १३
विष्णुभक्तिरतः शांतस्तस्यासन्पंचपुत्रकाः
सुमना द्युतिमांश्चैव मेधावी सुकृतस्तथा १४
पंचमो धृष्टबुद्धिश्च महापापरतः सदा
परस्त्रीसंगनिरतो विटगोष्ठी विशारदः १५
द्यूतादि व्यसनासक्तः परस्त्री रतिलालसः
न च देवार्चने बुद्धिर्नपितॄन्न द्विजान्प्रति १६
अन्यायवर्ती दुष्टात्मा पितुर्द्रव्यक्षयंकरः
अभक्ष्यभक्षकः पापी सुरापाने रतः सदा १७
वेश्याकंठे क्षिप्तबाहुर्भ्रमन्दुष्टश्चतुष्पथे
पित्रा निष्कासितो गेहात्परित्यक्तश्च बांधवैः १८
स्वदेहभूषणान्येव क्षयं नीतानि तेन वै
गणिकाभिः परित्यक्तो निंदितश्च धनक्षयात् १९
ततश्चिंतापरो जातो वस्त्रहीनः क्षुधार्दितः
किं करोमि क्वगच्छामि केनोपायेन जीव्यते २०
तस्करत्वं समारब्धं तत्रैव नगरे पितुः
गृहीतो राजपुरुषैर्मुक्तश्च पितृगौरवात् २१
पुनर्बद्धः पुनस्त्यक्तः पुनर्बद्धः ससंभ्रमैः
धृष्टबुद्धिर्दुराचारो निबध्य निगडै र्दृढैः २२
कशाघातैस्ताडितश्च पीडितश्च पुनः पुनः
न स्थातव्यं हि मंदात्मंस्त्वया मद्देशगोचरे २३
एवमुक्त्वा ततो राज्ञा मोचितो दृढबंधनात्
निर्जगाम भयात्तस्य गतोऽसौ गहनं वनम् २४
क्षुत्तृषापीडितश्चायमितश्चेतश्च धावति
सिंहवन्निजघानासौ मृग शूकर चित्रलान् २५
आमिषाहार निरतो वने तिष्ठति सर्वदा
करे शरासनं कृत्वा निषंगं पृष्ठ संगतम् २६
अरण्यचारिणो हंति पक्षिणश्च पदाचरन्
चकोरांश्च मयूरांश्च कंक तित्तिर मूषिकान् २७
एतानन्यान्हिनस्त्यंधो धृष्टबुद्धिस्तु निर्घृणः
पूर्वजन्मकृतैः पापैर्निमग्नः पापकर्दमे २८
दुःखशोकसमाविष्टः पीड्यमानो दिवानिशम्
कौंडिन्यस्याश्रमपदं प्राप्तः पुण्यागमात्क्वचित् २९
माधवे मासि जाह्नव्याः कृतस्नानं तपोधनम्
आससाद धृष्टबुद्धिः शोकभारेण पीडितः ३०
तद्वस्त्रबिंदुस्पर्शेन गतपापो हताशुभः
कौंडिन्यस्याग्रतः स्थित्वा प्रत्युवाच कृतांजलि ३१
धृष्टबुद्धिरुवाच-
भो भो ब्रह्मन्द्विजश्रेष्ठ दयां कृत्वा ममोपरि
येन पुण्यप्रभावेन मुक्तिर्भवति तद्वद ३२
कौंडिन्य उवाच-
शृणुष्वैकमनाभूत्वा येन पापक्षयस्तव
वैशाखस्य सिते पक्षे मोहिनी नाम विश्रुता ३३
एकादशीव्रतं तस्याः कुरु मद्वाक्यनोदितः
मेरुतुल्यानि पापानि क्षयं गच्छंति देहिनाम् ३४
बहुजन्मार्जितान्येषा मोहिनी समुपोषिता
इति वाक्यं मुनेः श्रुत्वा धृष्टबुद्धिः प्रसन्नधीः ३५
व्रतं चकार विधिवत्कौंडिन्यस्योपदेशतः
कृते व्रते नृपश्रेष्ठ गतपापो बभूव सः ३६
दिव्यदेहस्ततो भूत्वा गरुडोपरिसंस्थितः
जगाम वैष्णवं लोकं सर्वोपद्रव वर्जितम् ३७
इतीदृशं रामचंद्र उत्तमं मोहिनी व्रतम्
नातः परतरं किंचित्त्रैलोक्ये सचराचरे ३८
यज्ञादितीर्थदानानि कलां नार्हंति षोडशीम्
पठनाच्छ्रवणाद्राजन्गोसहस्र फलं लभेत् ३९
इति श्रीपाद्मेमहापुराणे पंचपंचाशत्साहस्र्यां सहितायामुत्तरखंडे उमापतिनारदसंवादे वैशाखशुक्ले मोहन्येकादशीनाम एकोनपंचाशत्तमोऽध्यायः४९