सामग्री पर जाएँ

पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १६८

विकिस्रोतः तः
← अध्यायः १६७ पद्मपुराणम्
अध्यायः १६८
वेदव्यासः
अध्यायः १६९ →

महादेव उवाच।
ततोगच्छेन्महादेवि वार्त्रघ्न्या गिरिकन्यया ।
शक्रश्चैव तया साध्व्या संगमं यत्र लब्धवान् १।
तत्र स्नानं प्रकुर्वंति नरा नियतमानसाः ।
दशानामश्वमेधानां यत्फलं स्नानकृल्लभेत् २।
तत्र यः कुरुते श्राद्धं पिंडान्वै तिलचूर्णजान् ।
पुनाति पुरुषो वंशान्सप्तसप्तपरावरान् ३।
संपूज्य विधिवत्स्नात्वा संगमे गणनायकम् ।
न विघ्नैरभिभूयेत लक्ष्म्या नैव विहीयते ४।
पार्वत्युवाच।
कस्मिन्कार्यसमारंभे समायातः पुरंदरः ।
स्वर्गलोकादिमं लोकमेतदाख्यातुमर्हसि ५।
वार्त्रघ्नी च नदी केन निरुक्तेन निगद्यते ।
पुरंदरपुरं देव ब्रह्मघोषनिनादितम् ।
संभावयति योऽजस्रं मम तत्संगमं वद ६।
महादेव उवाच।
अस्मिंश्चैव तु भूर्लोके प्रश्नोऽयं समभूत्पुरा ।
युधिष्ठिरेति विख्यातो राजा वै धार्मिको महान् ७।
पृष्टवान्स तु भीष्माय धर्मिणे ज्ञानरूपिणे ।
तेनोक्तं यत्तु तद्देवि प्रवक्ष्यामि तवाग्रतः ८।
दशवर्षसहस्राणि दशवर्षशतानि च ।
वृत्रवासवयोर्युद्धमभवल्लोमहर्षणम् ९।
ततः पराजितः शक्रः कृत्वा वृत्रेण संविधम् ।
अद्रोहे स रणं त्यक्त्वा जगाम शरणं मम १०।
वार्त्रघ्न्या संगमे पुण्ये तोषयामास शंकरम् ।
अथांतरिक्षेऽहं देवि दर्शनं दत्तवांस्तदा ११।
ममगात्रात्तु यद्भस्म पतितं काश्यपी तटे ।
भस्मगात्रेति तत्पुण्यं लिंगं देवि विनिर्मितम् १२।
भूतेश्वरं भस्मगात्रं ब्रह्मणा संप्रतिष्ठितम् ।
तस्य वै दर्शनादेव ब्रह्महत्या लयं व्रजेत् १३।
मुच्यते सर्वपापेभ्यः श्राद्धं कृत्वा युगादिषु ।
तदहं सुप्रसन्नोऽभूदिन्द्राय सुमहात्मने १४।
यद्यत्त्वं वांछसे देव तत्सर्वं हि ददामि ते ।
अनेन वज्रयोगेन शीघ्रं वृत्रं हनिष्यसि १५।
शक्र उवाच।
भगवंस्त्वत्प्रसादेन दितिजं च दुरासदम् ।
वज्रेण निहनिष्यामि पश्यतस्ते सुरोत्तम १६।
एवमुक्त्वा तदा इंद्रो गतवांश्चासुरं प्रति ।
तदा दुंदुभयो नेदुर्देवसैन्ये विशेषतः १७।
मृदंग डिंडिमाश्चैव भेरी तूर्याण्यनेकशः ।
असुराणां च सर्वेषां वृत्तिलोभो महानभूत १८।
बलवान्मघवा चैव क्षणेन समजायत् ।
तमाविष्टं ततो ज्ञात्वा ऋषयः पन्नगास्तथा १९।
स्तुवंति शक्रमीशानं स्तुत्या जयजयेति च ।
गच्छतस्तस्य शक्रस्य युद्धकामस्य सन्निधौ ।
ऋषिभिः स्तूयमानस्य रूपमासीत्सुदुर्भरम् २०।
महादेव उवाच।
वृत्रस्यसहसा देवि तदा संग्राममूर्द्धनि ।
अभवन्यानि लिंगानि शरीरे तानि मे शृणु २१।
ज्वलतास्योभवद्धोरो वैवर्ण्यमभवत्परम् ।
गात्रकंपश्च सुमहान्श्वासः सोष्मा व्यजायत् २२।
रोमहर्षश्च तीव्रोऽभूच्छ्वासश्चैव महानभूत् ।
निष्पपात महाघोरा उल्काः पार्श्वं प्रपेदिरे २३।
गृध्रा वटाः श्येन कंका वचो मुंचन्सुदारुणाः ।
वृत्रस्योपरि ते सर्वे चक्रवत्परिबभ्रमुः २४।
ततः स गजमास्थाय इंद्रस्तत्र समागतः ।
वज्रोद्यतकरस्तत्र शक्रस्तं दैत्यमासदत् २५।
अमानुषमथो नादं स मुमोच सुरेश्वरः ।
वृत्रासुरस्य यततः शक्रो वज्रमपातयत् २६।
स वज्रः सुमहातेजाः कालाग्निसदृशो महान् ।
समुद्रस्य तटे वृत्रं शक्रो दैत्यमपातयत् २७।
ततो नादः समभवत्पुनरेव समंततः ।
वृत्रं विनिहतं दृष्ट्वा सर्वदेवभयंकरम् २८।
पुष्पवृष्टिस्तु महती इंद्र मूर्ध्नि पपात ह ।
वृत्रं हत्वा स भगवान्दानवेशं भयंकरम् २९।
स्तूयमानोऽमरैः सार्द्धं देवदानीं तमाविशत् ।
अथ वृत्रशरीरात्तु निर्गतं तेज उत्तमम् ३०।
ब्रह्महत्यामहाघोरा रौद्र लोकभयंकरी ।
करालवदना सा च विकृता कृष्णपिंगला ३१।
कपालमालिनी चैव सुकृशा नगनंदिनि ।
रुधिराक्ता च पापिष्ठा मीनगंधातिभीषणा ३२।
सानिष्क्रम्य महादेवि तादृग्रूपा भयावहा ।
इंद्रमन्वेषयामास तदा वै सुरसत्तमे ३३।
निर्धावती ततः सा तु दृष्ट्वा शक्रं महौजसम् ।
कंठे जग्राह देवेंद्रं सुलग्ना साभवत्तदा ३४।
स च तस्मिन्समुद्भ्रांतो ब्रह्महत्याकृते भये ।
निलिल्य बिसमध्येऽसौ स्थितो वर्षगणान्बहून् ३५।
तया गृहीतो भो देवि निश्चेष्टः समपद्यत ।
तस्या व्यपोहने शक्रः प्रयत्नं च चकार ह ३६।
न शक्तोऽभून्महादेवि ब्रह्महत्यां व्यपोहितुम् ।
तया गृहीतमात्रस्तु देवेंद्रो निष्ठरूपधृक् ३७।
पितामहमुपागम्य शिरसा प्रत्यपूजयत् ।
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया ३८।
ब्रह्मा संचिंतयामास तदा वै सुरसत्तमे ।
सा चिंत्यमाना ब्रह्माणमुपगम्याब्रवीद्वचः ३९।
प्राप्तास्मि भगवन्देव त्वत्सकाशं हि मानद ।
यत्कर्त्तव्यं मया देव तद्भवान्वक्तुमर्हति ४०।
तामुवाच महाभागे ब्रह्महत्यां पितामहः ।
स्वरेण मधुरेणाथ संक्षेपेण यथातथम् ४१।
मुच्यतां देवराजोऽयं मत्प्रियं कुरु भामिनि ।
ब्रूहि किं ते करोम्यद्य कामं त्वं किमिहेच्छसि ४२।
हत्योवाच।
शक्रादपगमिष्यामि वचनात्ते नरोत्तम ।
देवदेव नमस्तेस्तु निवासं च ददस्व मे ४३।
महादेव उवाच।
तथेति तां प्रतिज्ञाय हत्यां चापि पितामहः ।
उपायमथ शक्रस्य ब्रह्महत्यापनोदने ४४।
ततो वह्निं समाहूय ब्रह्मा वचनमब्रवीत् ।
शक्रहत्या चतुर्थांशं जातवेदो गृहाण भो ४५।
अग्निरुवाच।
मम मोक्षस्य को हेतुर्ब्रह्महत्याकृते प्रभो ।
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित ४६।
ब्रह्मोवाच।
यस्त्वां ज्वलंतमासाद्य न होष्यति नरः क्वचित् ।
बीजौषधितिलानग्रे फलमूलसमित्कुशान् ४७।
तदैव त्यक्षति त्वां च तत्रैव च निवत्स्यति ।
ब्रह्महत्या हव्यवाह व्येतु ते मनसो ज्वरः ४८।
ततः स परिजग्राह तद्वचो हव्यकव्यभुक् ।
पितामहश्च भगवान्तथा तदलभत्प्रियम् ४९।
ततो वृक्षौषधितृणान्याहूय स पितामहः ।
इममर्थं महाभागे वक्तुं समुपचक्रमे 6.168.५०।
ततो वृक्षौषधितृणैस्तथैवोक्तं यथातथम् ।
व्यथितान्यग्निवद्देवि ब्रह्माणं वाक्यमब्रुवन् ५१।
अस्माकं ब्रह्महत्यायाः कथयंतः पितामह ।
स्वभाव निहिता तस्मान्न पुनर्हंतुमर्हसि ५२।
वयमग्निं तथा शीतं वर्षं च पवनेरितम् ।
सहामः सततं देव तथा छेदनभेदनम् ५३।
ब्रह्मोवाच।
अकारणं नरो यस्तु युष्मच्छेदनभेदनम् ।
करिष्यति महामोहात्तमेषानु प्रयास्यति ५४।
महादेव उवाच।
ततो महौषधितृणैरोमित्युक्तं महात्मभिः ।
ब्रह्माणमपि संपूज्य जग्मुश्चाथ यथागतम् ५५।
आहूयाप्सरसो देवस्ततो लोकपितामहः ।
वाचा मधुरया प्राह सांत्वयन्निव सत्तमे ५६।
इयं वृत्रादनुप्राप्ता ब्रह्महत्या वराङ्गनाः ।
चतुर्थमस्या भागं च मयोक्तं संप्रतीच्छथ ५७।
अप्सरा ऊचुः ।
ग्रहणे कृतबुद्धीनां देवेश तव शासनात् ।
संमोक्षसमयोऽस्माकं चिंतनीयः पितामह ५८।
पितामह उवाच।
रजस्वलासु नारीषु यो वै मैथुनमाचरेत् ।
तमेषा यास्यति क्षिप्रं व्येतु वो मनसो ज्वरः ५९।
महादेव उवाच।
तथेति हृष्टमनसः प्रत्युक्ता ह्यप्सरोगणाः ।
स्वानि स्थानानि संप्राप्य रेमिरे शैलजे तदा ६०।
ततश्च लोककृद्देवः पुनरेव पितामहः ।
आपः संचिंतयामास ततस्ताश्च समागमन् ६१।
ताश्च सर्वाः समागम्य ब्रह्माणममितौजसम् ।
इदमूचुर्वचो देवि प्रणिपत्य पितामहम् ६२।
इमाः स्म देव संप्राप्तास्त्वत्सकाशमरिंदम।
शासनात्तव देवेश समाज्ञापय तत्प्रभो ६३।
ब्रह्मोवाच।
इयं वृत्रादनुप्राप्ता पुरुहूतं भयानका ।
ब्रह्महत्या चतुर्थांशं यूयमस्याः प्रतीच्छथ ६४।
आप ऊचुः।
एवं भवतु लोकेश यत्त्वं वदसि नः प्रभोः ।
मोक्षस्य समयं नस्त्वं संचिंतयितुमर्हसि ६५।
त्वं हि देवेंद्र सर्वस्य जगतः परमा गतिः ।
कोऽन्येभ्यो हि प्रसादोऽपि यः कृच्छ्रान्नः समुद्धरेत् ६६।
ब्रह्मोवाच।
अल्पमेव मतिं कृत्वा यो नरो बुद्धिमोहितः ६७।
श्लेष्ममूत्रपुरीषाणि युष्मासु प्रतिमोक्षति ।
तमेव यास्यति क्षिप्रं तत्रैव च निवत्स्यति ।
ततो वै भविता मोक्ष इति सत्यं ब्रवीमि वः ६८।
महादेव उवाच।
ततो विमुच्य देवेंद्रं ब्रह्महत्या सुरेश्वरि ।
गतातिहृष्टो देवेशो ह्यभवद्देवशासनात् ६९।
एवं शक्रेण संप्राप्ता ब्रह्महत्या पुरा युगे ।
अस्मिंस्तीर्थे तपस्तप्त्वा शुद्धात्मा त्रिदिवं ययौ ७०।
अश्वमेधं ततः कृत्वा विपाप्मा समपद्यत ।
इति साभ्रमती तीर्थे वार्त्रघ्नीयं नगात्मजे ७१।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायामुत्तरखंडे।
वार्त्रघ्नीमाहात्म्यंनामाष्टषष्ट्यधिकशततमोऽध्यायः १६८।