पतञ्जलिचरितम्/प्रथमः सर्गः

विकिस्रोतः तः
               




   

काव्यमाला।

श्रीरामभद्रदीक्षितप्रणीतं

पतञ्जलिचरितम् ।

प्रथमः सर्गः ।


अस्ति श्रियश्चन्द्रमसः सुधायाः कल्पद्रुमाणां च पिता पयोधिः ।
रुन्धन्समन्ताद्वलयं धरण्या दधाति यः स्वच्छदुकूललीलाम् ॥ १ ॥

तरङ्गिणी वारुणराजधानीधेनुस्तनप्रस्नुतदुग्धजन्मा ।
बहिष्प्रसुर्पद्भुजगाधिराजभङ्गीमिवाङ्गीकुरुते यदग्रे ॥ २ ॥

अन्ये गुणाः सन्ति तथापि मन्ये माधुर्यमन्यादृशमेव यस्य ।
यतो मधुद्वेषकृदेव जातो निषेवमाणः पुरुषो यदम्भः ॥ ३ ॥

घना यतः प्रावृषिका गृहीत्वा पयांसि शङ्खोदरपाण्डुराणि ।
दरीगृहान्तर्गतभूतसङ्घाः कैलासशैला इव संचरन्ति ॥ ४ ॥

मन्थभ्रमन्मन्दरवेगकीर्णान्व्योमीङ्गणे वारिकणान्यदीयान्।
विद्याधरीविभ्रममौक्तिकाभानद्यापि पश्यन्त्युडुकैतवेन ॥ ५ ॥

यमुद्गतैरावतदानधारानिःष्यन्दनीलीभवदेकदेशम् ।
तटस्थमास्वादितकालकूटं भर्गं समं प्राग्ददृशुः सुरेन्द्राः ॥ ६ ॥

उदेष्यता पूर्वमुडुप्रियेण विशिष्य यस्मिन्गमिते विवृद्धिम् ।
मन्थाद्रिशृङ्गे वसता शिवेन क्षीराभिषेकः क्षणमन्वभावि ॥ ७ ॥

यस्यानुलिप्तः क्षणमुद्गतश्रीकराब्जकिञ्जल्करजोभिरूर्मिः ।
कुलाद्रिकन्याकुचकुङ्कुमाङ्कं विडम्बयामास भुजं पुरारेः ॥ ८ ॥

मन्थानशैलभ्रमिवातनुन्नैः प्रादुर्भवत्कल्पतरुप्रसूनैः ।
सुगन्धिभिश्चारुसुधारसानामुदित्वराणामुपचस्करे यः ॥ ९ ॥

यो मन्दरेण क्षुभितोऽपि गाढं पुंसा पुरोभागमुपेयुषेव ।
सतां कवीनामिव शब्दबन्धोरसंबुधानां रुचिरं व्यतानीत् ॥ १० ॥

आत्तेन यस्मादमृतद्रवेण जीवन्ति देवा इति नात्र चित्रम् ।
विषं निपीयापि यतः समुत्थं व्यजेष्ट किं नान्तकमष्टमूर्तिः ॥ ११ ॥

मरुद्गणैर्यन्मथनावसाने तटार्पिता वासुकिमन्थरज्जुः ।
दिगन्तसान्द्रीकृतदुग्धगन्धं तरङ्गवाताङ्कुरमाचचाम ॥ १२ ॥

निर्मथ्य यं साधु यथास्वदेशं निर्लिंपलोकैर्दिवि नीयमानः ।
यतो यतो याति स मन्दराद्रिस्ततस्ततोऽभूयत दुग्धवृष्ट्या ॥ १३ ॥

पयांसि यस्य प्रथमं प्रविष्टान्यादाय मन्थाचलकन्दरेषु ।
पुष्णन्ति यत्नेन विनैव भूता भूतेशभूषाभुजगानजस्रम् ॥ १४ ॥

सारज्ञ एकः स सरोरुहाक्षो जज्ञे सुधाजृम्भितसौरभेयः ।
यदन्तराले जलजन्तुशून्ये कदापि मीनः कमठः कदापि ॥ १५ ॥

तस्यान्तरे श्रान्त इवागमान्तकान्तारसंचारवशादशेत ।
फणीन्द्रशय्यां पवमानतूलैरापूरणीयामधिरुह्य शौरिः ॥ १६ ॥

कदाचिदासादितयोगनिद्रमभूतपूर्वेण वपुर्गरिम्णा ।
अधोक्षजं वोढुमदक्षिणोऽभूत्पर्यङ्कभूतः फणिनामधीशः ॥ १७ ॥

निरुद्धमुक्तश्वसितस्तदानीमभीक्ष्णमच्छूनकृशं फणीन्द्रः ।
मतङ्गजक्लिष्टमृणालकल्पमनेकधा वृत्तमधत्त भोगम् ॥ १८ ॥

संभ्रान्तदृक्पञ्चशतीचतुष्को जिह्वासहस्रद्वयलीढसृक्का |
शतैर्मुखानां दशभिर्विमुञ्चन्फूत्कारमुग्रं ददृशे स शेषः ॥ १९ ॥

तं तादृशं वीक्ष्य पलायितेषु सनत्कुमारादिषु तापसेषु ।
समीपमागत्य बली गरुत्मान्पर्याकुलः किंचिदिदं बभाषे ॥ २० ॥

न दृश्यते शेष भवान्पुरेव वदाधुना किं तव वैमनस्यम् ।
प्रज्ञां बलं धैर्यमुदारतां च पश्यामि नान्यस्य तवेव लोके ॥ २१ ॥

निबध्य चण्डेन समीरणेन स्पर्धां पुरा दुर्धरभोगभीमः ।
चकर्थ तं मेरुगुहान्तरे त्वं चञ्चत्फणामण्डलरुद्धवेगम् ॥ २२ ॥

विशालमूर्वीवलयं तरस्वी सशैलकान्तारनदीसमुद्रम् ।
त्वमुत्तमाङ्गस्य समुन्नतस्य महत्तमोष्णीषदशामनैषीः ॥ २३ ॥

गत्वैव धातुर्भुवनं युगान्ते कृतस्तुतिः प्राञ्जलिभिर्मुनीन्द्रैः ।
वेिसृष्टफूत्कारविषानलस्त्वं वेिश्वत्रयं धक्ष्यसि दुर्निरीक्ष्यः ॥ २४ ॥

जगत्रयं यो जठरे बिभर्ति विश्वानि भूतानि च यस्य पादः ।
भोगेन बिभ्रत्पुरुषं तमाद्यं भवान्न वेद्यः परमेष्ठिनोऽपेि ॥ २५ ॥

संजल्पितैः किं समरे गृहीत्वा कारागृहं यो रुरुधे महेन्द्रम् ।
तस्यापि लङ्केशसुतस्य हन्ता स लक्ष्मणस्ते किल मूर्तिभेदः ॥ २६ ॥

इत्थं गरुत्मन्तमुदीरयन्तं स दुर्वहश्रीशशरीरखिन्न: ।
कथंचिदालम्ब्य धृतिं फणीन्द्रो गिरा शनैर्गद्गदया जगाद ॥ २७ ॥

मुरद्विषो मूर्तिरियं पुरेव मयाद्य धर्तुं महती न शक्या ।
परीक्षितुं मां गरिमा धृतः किमनेन सत्वं मम वा गृहीतम् ॥ २८ ॥

इति ब्रुवन्नेव स पन्नगेन्द्रः शरीरभारेण हरेश्चचाल ।
खगेश्वरो मन्दरगौरवाभ्यां तदा भुजाभ्यां द्रुतमाललम्बे ॥ २९ ॥

किमेतदित्युज्झितकेलिपद्मा पयोधिकन्यापि तदा भयेन ।
नवाम्बुजाभेन नवाम्बुजाभं निष्पीडयामास करं करेण ॥ ३० ॥

तत: स्फुरत्पद्मदलाभिरामं प्रमोदबाष्पाकुलपक्ष्ममालम् ।
उद्गाढरोमाञ्चितमूर्तिरक्ष्णोरुन्मीलयामास युगं मुरारिः ॥ ३१ ॥

लघूभवन्तीमथ तस्य मूर्तिं लक्ष्मीपतेर्वोढुमहिः शशाक ।

जहर्ष च श्रीर्धृतकेलिपद्मा यथास्थितं विष्णुरथश्च तस्थौ ॥ ३२ ॥

प्रणम्य भक्त्या परमं पुमांसं पिप्रच्छिषुस्तत्तनुभारहेतुम् ।
विद्वत्प्रियान्व्याकरणानुशिष्टान्प्रायुङ्क्त शब्दान्पवनाशनेन्द्रः ॥ ३३ ॥

यदि प्रसादो मयि यद्यहं च श्रोतुं जगन्नाथ भवामि योग्यः ।
वदात्र हेतुं यदशिश्रियस्त्वमभूतपूर्वं वपुषो गुरुत्वम् ॥ ३४ ॥

इत्युक्तमीशेनं भुजंगमानां श्रुत्वा मुकुन्दः स्मितकन्दलेन ।
मुक्ताफलालंकृतविद्रुमाभं बिम्बाधरं बिभ्रदवोचदेवम् ॥ ३५ ॥

शृणु त्वमाश्चर्यमिदं फणीन्द्र शुश्रूषुरुद्घाट्य दृशां सहस्रे ।
साम्यं बिभर्ति स्मरतो यदन्तः कायेन मे कुड्मलितः कदम्बः ॥ ३६ ॥

निरुद्धनिश्वासमवाप्य योगं स्थिरीकृते धारणया च चित्ते ।
अदृश्यत द्रागपनीतमायानैपथ्यमीशस्य परस्य नृत्तम् ॥ ३७ ॥

अस्मत्करासङ्गरणन्मृदङ्गं चतुर्मुखास्फलितचारुतालम् ।
बिडौजसोदञ्चितवेणुनादं वाणीकरक्वाणितवल्लकीकम् ॥ ३८ ॥

कपर्दलोलाभ्रनदीतरङ्गं घर्माम्बुसिक्तालिकभस्मपुण्ड्रम्
भुजान्तरोद्धूतभुजङ्गहारं कटीविराजत्करिचर्मकक्ष्यम् ॥ ३९ ॥

अमर्त्यलोकैरनिमेषभावमासादितं शश्वदभिष्टुवद्भिः ।
अवेक्ष्यमाणाद्भुतसंनिवेशशिञ्जानमञ्जीरपदारविन्दम् ॥ ४० ॥

अनल्पकल्पद्रुमपुष्पवर्षे चिदम्बरे हेमसभान्तराले ।
कालीसमक्षं कलितप्रमोदैः प्रशस्यमानं मुनिभिः पुराणैः ॥ ४१ ॥

आनन्दनृत्तं नटनायकस्य क्षेमं ददद्वृष्टवते जनाय ।
यावन्मयादर्शि फणीन्द्र तावत्त्वया वपुर्गौरवमन्वभावि ॥ ४२ ॥

इति ब्रुवाणं रमणं रमाया नूनं तदुक्तिश्रवहर्षनुन्नः ।
गलत्प्रमोदाश्रुकणाप्रदेशादानर्च मुक्तामणिभिः फणीन्द्रः ॥ ४३ ॥

रोमा[१]ञ्चिते तस्य शरीरमञ्चे क्षणं विनिन्ये नलिनेक्षणोऽपि ।
कुरङ्गदष्टाग्रकुशप्ररोहे करीव तीरे कमलाकरस्य ॥ ४४ ॥
 
श्रीश त्वदुक्तिश्रवणेन नीते चक्षुःसहस्रे मम चारितार्थ्यम् ।
तथापि पश्येयमवश्यमैशं नृत्तं प्रसीदेति स तं ययाचे ॥ ४५ ॥

स याचमानाय सरोरुहाक्षस्तस्मै पुनर्विस्मयमादधानः ।
कथामथो माक्षिकमाक्षिपन्त्या भुजङ्गराजाय गिरा जगाद ॥ ४६ ॥

पणीति कश्चिन्मुनिरस्ति पूर्वं स पाणिनं नाम कुमारमाप ।
स्वतुल्यनाम्ना तनयेन सोऽपि दाक्षीमुदूढां दृढमभ्यनन्दत् ॥ ४७ ॥

स पाणिनो दक्षभुवा पुरन्ध्र्या रिपुः पुराणामुमयेव रेमे ।
काले मुनिः स्कन्द इव प्रसूतो हर्षं तयोः पाणिनिरप्यकार्षीत्॥ ४८ ॥

तपोभिराराधयतः कठोरैस्तस्य प्रसन्नस्तरुणेन्दुचूडः ।
अघोषयद्दण्डविघट्टनेन चण्डं करस्थं डमरुं पुरस्तात् ॥ ४९ ॥

शब्दावलेर्व्याकरणं चिकीर्षोस्तदा मुनेः पाणिनिसंभवस्य ।
मृडस्य चण्डा डमरुप्रणादाः शास्त्रादिसूत्राणि चतुर्दशासन् ॥ ५० ॥

इतीश्वरानुग्रहतो निबध्नन्सूत्राणि स व्याकृत शब्दजालम् ।
सुष्ठु प्रयोगं कथयन्ति यस्य स्वर्लोकसोपानपरंपरेति ॥ ५१ ॥

कात्यायनः कर्कशया प्रसाद्य तपस्यया चन्द्रकलावतंसम् ।
तस्याथ सूत्रेषु पदार्थबोधप्रवर्तकं वार्तिकमाबबन्ध ॥ ५२ ॥

प्रयुक्तया व्याकरणस्य सूत्रैः सवार्तिकै: साधुतया पदानाम् ।
अदुग्ध गौर्लौकिकवैदिकात्मा चिराय दुग्धं त्रिदिवं जनानाम् ॥ ५३ ॥

श्रुत्वा निजस्योपरि वार्तिकानि सूत्रप्रबन्धस्य स सूत्रकारः ।
कात्यायनेन ग्रथितान्यकुप्यत्कालो हि धीरेऽपि करोति मोहम् ॥ ५४ ॥

प्रकम्पितोष्ठं परिवर्तिताक्षं पादक्रमन्यञ्चितभूमिभागम् ।
तमाश्रमं पाणिनिराजगाम कात्यायनस्तिष्ठति यत्र योगी ॥ ५५ ॥

तमापतन्तं कुपितं मुनीन्द्रो दृष्ट्वापि सज्जीकृतपाद्यपात्रः ।
कात्यायनः प्रत्युद्गगान्न यावत्तं पाणिनिस्तावदृषिं शशाप ॥ ५६ ॥

यस्मादविज्ञाय मम प्रभावं वृषध्वजानुग्रहभाजनस्य ।
सूत्रेष्वनुक्तोक्तदुरुक्तचिन्तावृथोद्यमं वार्तिकमातनिष्ठाः ॥ ५७ ॥
 
तस्मात्पतेदेव तनुस्तवेयमित्युद्धतं पाणिनिशापवाक्यम् ।
आकर्ण्य तूर्णं स विवृद्धमन्युः कात्यायनोऽपि प्रति तं शशाप ॥ ५८ ॥

भवानजानन्भगवत्प्रसादविवर्तभूतान्यपि वार्तिकानि ।
मह्यं यतः शापमदान्मदेन ततो विशीर्येत तवापि मूर्धा ॥ ५९ ॥
 
इति त्रयोदश्यभिधानवत्यां तिथौ मिथः शापविसृष्टदेहौ ।
उभौ मुनीन्द्रौ स्वकृतैस्तपोभिः पत्युः पशूनां पदमाश्रयेताम् ॥ ६० ॥

आचार्ययोरद्भुतबोधभाजोरालोचयन्तः परलोकयात्राम् ।
तदादि वैयाकरणा महान्तस्तस्यां तिथौ न प्रसजन्ति शास्त्रम् ॥ ६१ ॥

ततो विवव्रे बुधमण्डलाय सवार्तिकं पाणिनिसूत्रबन्धम् ।
स व्याघ्रभूतिः सह पाणिनीयः श्वोभूतिना वाक्यकृदाश्रवेण ॥ ६२ ॥

भोगीन्द्र तेषां भुवि वार्तिकानामशेषविद्वज्जनदुर्ग्रहाणाम् ।
भाष्यं महत्कुर्विति भक्तरक्षी नियोक्ष्यते त्वां किल नीलकण्ठः ॥ ६३ ॥

तदा नियोगात्तरुणेन्दुमौलेर्धरातले त्वं विहितावतारः ।

चिदम्बरक्षेत्रगतः पवित्रं नेत्रोत्सवं द्रक्ष्यसि नृत्तमैशम् ॥ ६४ ॥
इति मुरमथनोक्तया मोदमानः फणीन्द्र-
स्त्रिपुरहरनियोगं दीर्घकालादवाप्य ।
तदपि परिदिदृक्षुस्ताण्डवं चन्द्रमौले-
रवतरितुमवन्यामंशतश्चाशशंसे ॥ ६५ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
प्रथमः सर्गः ।


  1. सर्पाणां रोमाभावेऽपि कविभी रोमाञ्चो वर्ण्यते. तथा च--
    ‘मन्दोद्धूतै: शिरोभिर्मणिभिरगुरुभिः प्रौढरोमाञ्चदण्ड-
    स्फायन्निर्मोकसंघिप्रसरदुरुगलत्सन्मदस्वेद्पूराः ।
    जिह्वायुग्माभिपूर्णाननविषमसंमुद्गीर्णवर्णाभिरामं
    वेलाशैलान्तभाजो भुजगयुवतयस्त्वद्गुणानुद्गिरन्ति ॥

    इति मुरारिः.