सामग्री पर जाएँ

पतञ्जलिचरितम्/द्वितीयः सर्गः

विकिस्रोतः तः
               




   

द्वितीयः सर्गः ।

भूतलेऽथ जननोचितमार्षं वंशमीक्षितुमविक्षददृश्यः ।
जन्तुविस्मृतपरस्परवैरं तापसाश्रमवनान्तमनन्तः ॥ १ ॥

[]त्र काननचरो गजराजो वीतकर्दममृणालविशङ्की ।
जृम्भणेषु चटुलेन करेण व्याचकर्ष किल केसरिदंष्ट्राम् ॥ २ ॥


अम्बरान्तरगते रविबिम्बे यत्र चानुदिनमातपभीतान् ।
पन्नगान्वनमयूरयुवानः पालयन्ति गरुता विततेन ॥ ३ ॥

यत्र चत्वरमपास्य तटान्ते चर्वितुं गवि तृणानि गतायाम् ।
द्वीपिनी रसनया परिलिह्य स्तन्यमर्पयति वत्सतरस्य ॥ ४ ॥
 
यत्र मुक्तकुहरं हिमभीतं रक्षितुं निजमुखेन गृहीत्वा ।
मूषिकार्भकमरण्यबिडाली मूलकोटरमगस्य निनाय ॥ ५ ॥
 
कृष्णसारवदनार्पितदर्भं कीरदत्तयवकल्पितहव्यम् ।
हस्तिपुष्करसमाहृतनीरं हृष्यति स्म तदवेक्ष्य वनं सः ॥ ६ ॥

तत्र कापि ददृशे मुनिकन्या गोणिकेति गुणसिन्धुरनेन ।
या हि यापयति पुत्रनिमित्तं दारुणेन तपसा दिवसानि ॥ ७ ॥

जन्म तापसकुले परिशुद्धे शीलमीशगृहिणीस्पृहणीयम् ।
तां च विक्ष्य तपसा ग्लपिताङ्गीं मातरं स मनसा निरनैषीत् ॥ ८ ॥

दातुमर्घ्यमहिमद्युतयेऽम्भः पूतमञ्जलिपुटे विनिधाय ।
सा निमील्य नयने भगवन्तं भास्करं हृदि तदा परिदध्यौ ॥ ९ ॥
 
प्राज्ञमर्पय सुतं मम भास्वन्नन्तरित्थमभिसन्धिजुषोऽस्याः ।
पन्नगाधिपतिरर्कनियुक्तः प्राविशज्जनितुमञ्जलिगर्भम् ॥ १० ॥

संभृतार्घ्यजलमञ्जलिमुच्चैः सा सहस्रकिरणं प्रति देवम् ।
यावदुत्क्षिपति तावदमुष्मात्तापसाकृतिरहिः स पपात ॥ ११ ॥

पादयोगपरिपावितभूमिं सा सुवर्णगिरिदृष्टपटुत्वम् ।
दक्षिणं कलयितुं कमलेशं तं ददर्श नवमर्कमिवाग्रे ॥ १२ ॥
 
मेधया विमलया चिरमन्तर्व्याप्य निष्पतितयेव बहिश्च ।
शारदेन्दुमहसः सहचर्यापाण्डरं भसितकुण्ठनयाङ्गे ॥ १३ ॥
 
धावितो मनसि सत्त्वगुणेन द्वौ गुणावपि रजस्तमसीयौ ।
तौ जटाभरमृगाजिनदम्भाद्दर्शयन्तमिव चोर्ध्वमघश्च ॥ १४ ॥

चित्तसङ्गिहरशेखरचन्द्रस्थित्यपेक्षकमिवोडुकदम्बम् ।
दक्षिणेन विमलं श्रवणेन स्फाटिकाक्षवलयं कलयन्तम् ॥ १५ ॥
 
वल्कबिम्बमुदितस्मितमीषद्वारिजं विकचमित्युपयान्तीम् ।
चञ्चरीकपटलीमिव कण्ठे शंकराक्षमणिधाम दधानम् ॥ १६ ॥
 
पुत्र एष मम पुण्यविपाकात्प्रादुरास किल पावकतेजाः ।
इत्युपेत्य मुदिता सहसा सा मूर्ध्नि तं मुनिकुमारमजिघ्रत् ॥ १७ ॥
 
प्रस्नुतस्तनमुदञ्चितबाष्पं विस्मृतव्रततपोविधिखेदम् ।
पुत्रलाभसुखनाम्नि समुद्रे मज्जतीं स जननीं प्रणनाम् ॥ १८ ॥
 
तं तदाभिवदितुं प्रणतं प्राङ्नाम तस्य जननी विततान ।
यत्पतन्नभवदञ्जलितोऽसौ तत्पतञ्जलिरिति प्रथमानम् ॥ १९ ॥
 
श्रावितश्च स तदाभिवदन्त्या नाम तत्प्रथममेव जनन्या ।
चिन्तितस्त्वदुपकण्ठमुपेयामित्युदीर्य तपसे चलितश्च ॥ २० ॥
 
दर्शितद्रुमलताफलपुष्पे दक्षिणोदधितटेऽथ निवेश्य ।
चन्द्रचूडकरुणाघटनार्हे दारुणे तपसि चारु स तस्थौ ॥ २१ ॥
 
आत्मनोऽपि भरणे धरणी मां प्रागियं नियुयुजे यदशक्ता ।
न व्यथेत तदसाविति तस्यां स न्यधत्त चरणाङ्गुलिमेकाम् ॥ २२ ॥
 
अर्कमण्डलगतः सहसा मे शंकरोऽभिमतमर्पयितेति ।
सोऽवगम्य तदिवाथ जिघृक्षुः स्वं भुजद्वयमुदक्षिपदूर्ध्वम् ॥ २३ ॥

नायमीक्षितचरो नयनैर्मे मूर्ध्नि भूभृत इति प्रहिताक्षः ।
चापलादिव स चण्डमरीचिं संददर्श न ततो विरराम ॥ २४ ॥
 
तिष्ठता तपसि भक्षयितव्यं कन्दमूलफलपर्णमपास्य ।
पूर्वजन्मकृतवासनया किं पूतमभ्यवजहार स वासम् ॥ २५ ॥
 
आगतां शुचमनीक्षितभास्वान्नित्यशीतलरसातलवासात् ।
हातुमूष्मदिवसेषु स हर्षादध्युवास शिखिपञ्चकमध्ये ॥ २६ ॥

शार्ङ्गधन्वशयनत्वदशायां ताडितस्य तरलब्धितरङ्गैः ।
तस्य किं क्षतमभूदुदवासे शीतले शिशिरकालदिनेषु ॥ २७ ॥
 
प्राग्बिलेशयतया दुरवापान्यासनानि यदनेन जितानि ।
अद्भुताय तदसूत्रुरुधे यन्नात्र चित्रमनिलाशितयास्य ॥ २८ ॥
 
चक्षमे वपुषि कर्तुमनूनन्यासमङ्कुरितकर्णकराङ्घ्रिः ।
सांप्रतं किल स तापसरूपो मातृकाक्षरगणस्य फणीन्द्रः ॥ २९ ॥
 
रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्गः ।
अर्यमातप[] इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥ ३० ॥
 
प्राणरोधमतनिष्ट यदायं सा पुनः प्रथममेव ततोऽपि ।
कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥ ३१ ॥
 
पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण ।
प्रा[]गभूवमसहस्रमुखः किं नेति तत्स इव सोऽपि चकार ॥ ३२ ॥

चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन ।
निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन ॥ ३३ ॥
 
गोणिकासुततपःकृतशङ्का गोत्रभित्प्रभृतयस्त्रिदिवेशाः ।
तत्तपो दलयतेति तदानीं प्रै[]रिरन्नमरवारनताङ्गीः ॥ ३४ ॥
 
अङ्गभाज इव कल्पकवल्यो जङ्गमा इव मनोजपताकाः ।
विभ्रमैरथ विटान्भ्रमयन्त्यः सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥ ३५ ॥

स्र[]स्तनीविनहनं च्युत्तचेलव्यञ्चितस्तनमृजूकृतमध्यम् ।

पाणिना विटपमानमयन्ती पल्लवानहृत काचन तासु ॥ ३६ ॥

एकया विकचचम्पकक्लृप्तं ग[]द्दुकं कचभरे विनिधातुम् ।
दोर्युगं नखपदोज्ज्वलमूलं नोद्धृतं न विरतं च नताङ्ग्या ॥ ३७ ॥

कल्पितं बकुलदाम कराभ्यामर्पयाम्यहमिहेति हसन्ती ।
आहृतांशुकमदर्शयदेका हेमकुम्भसदृशं कुचभारम् ॥ ३८ ॥

वीक्ष्य कानकशुके कुचयुग्मं द्रागनुद्रवति दाडिमबुद्ध्या ।
स्रंसमानजघनांशुकमीषद्दृश्यनाभिबिलमद्रवदन्या ॥ ३९ ॥

अन्यया तरूतले तरलाक्ष्या वारितोऽपि वलयस्वनितेन ।
आपतन्मधुकरोऽधरबिम्बं पातकी परिचुचुम्ब चिराय ॥ ४० ॥

स्वेदबिन्दुकमनीयकपोला श्वासकम्पितघनस्तनकुम्भा ।
भूतले निहितजानुयुगान्या कन्दुकं प्रतिजघान कराभ्याम् ॥ ४१ ॥

मा विकर्ष मम वेणिलतामित्याहतः करजुषा कमलेन ।
किं व्यथेति पुनरेव तरुण्या चुम्ब्यते स्म सुकृती ननु बर्ही ॥ ४२ ॥

संप्रदर्श्य नवमौक्तिकहारं संमुखे नवमृणाललतेति ।
केलिचंक्रममिवोपदिशन्ती कापि दूरमहरत्कलहंसम् ॥ ४३ ॥

संनिधौ किमपि चारु नदन्तं मामयं बत विडम्बयतीति ।
कङ्कणक्वणितपाणिकपोतं कापि केलिकमलेन जघान ॥ ४४ ॥

चारु वाममधिरोप्य कराब्जं दक्षिणेन परिमृष्टपतत्राम् ।
मञ्जुलानि रणितानि तदानीं शारिकां कलमपाठयदेका ॥ ४५ ॥

प्रौढयौवनमदोद्धतलीलं पञ्चबाणपिककेलिविलासम् ।
इत्थमन्तिकचरं सुरनारीचक्रमेत्य तमियेष विकर्तुम् ॥ ४६ ॥

लोलहेमवलयेन विराजन्मुद्रिकेण धृतिभिः सह यूनाम् ।
पाणिपल्लवयुगेन मृदङ्गस्ताडितोऽजनि कयापि तरुण्या ॥ ४७ ॥

कञ्चुकस्थगितवल्गदुरोजं कन्दलत्क्वणितकङ्कणहस्तम् ।
तन्वती तरलतां तरुणानां तालयोर्द्वयमघट्टयदन्या ॥ ४८ ॥

कण्ठजृम्भितकलस्वनभङ्ग्या कामिनां भ्रमिसृजा हृदयेषु ।
अङ्गुलीभिरिव पल्लवयन्त्या वल्लकीमपरया समगायि ॥ ४९ ॥

पक्वबिम्बफलरोचिषि धन्यं वेणुमेकमधरे विनिवेश्य ।
कापि वादनमिषेणं मृगाणां कर्णयोरपि मधूनि ववर्ष ॥ ५० ॥

स्पन्दमानकबरीभरमाल्यं मन्दहासमधुराधरबिम्बम् ।
धर्मवारिकणमौक्तिकपङ्क्ति क्लिन्नपत्रमकराङ्ककपोलम् ॥ ५१ ॥

भावसूचनविलोलकराग्रं संहतस्तनलुठन्मणिहारम् ।
चारुनूपुरझलज्झलिताङ्घ्रिन्यासमेणनयनानटदेका ॥ ५२ ॥
 
केशमाल्यमकरन्दतुषारो वीटिकारसलवङ्गसुगन्धी ।
सुभ्रुवां कुचतटाहतिमन्दस्तं तदाभजदृषिं वनवातः ॥ ५३ ॥

इत्यमर्त्यवनिताललितेन क्षोदितोऽपि न चचाल स योगी ।
वा[]ति चण्डपवनो वसुमत्यां तावता चलति किं गिरिरीषत् ॥ ५४ ॥

काचिदेत्य तदनु प्रमदानामालिलिङ्ग तमुरोजयुगेन ।
कानने कलभकुम्भनिकाषादस्य किंचिदधिकं न ततोऽभूत् ॥ ५५ ॥

आदधे वपुषि तस्य ततोऽन्या वक्रपाटलमुखानि नखानि ।
खेलतामुपरि तद्विहगानामातनोत्पदनखार्पणभङ्गीम् ॥ ५६ ॥

कापि वक्त्रकमलेन मृगाक्षी तत्कपोलमथ चारु चुचुम्ब ।
न व्यकारि स ततोऽपि तपस्वी लेहनादिव कुरङ्गशिशूनाम् ॥ ५७ ॥

तस्य तत्र मतिनिर्जितकामे यौवतस्य विफलोऽजनि यत्न: ।
किं करोतु बलिना युधि नाथे पातिते परनृपेण भटौघः ॥ ५८ ॥

तादृशं भुवि कुशासनभाजं धारिताक्षवलय करपद्मे ।
नासिकाग्रनिहिताक्षमवेक्ष्य व्यस्मयन्त सुरविभ्रमवत्यः ॥ ५९ ॥

विभ्रमैरपि निजैरविकार्यं तं विरागमिव मूर्तमवेक्ष्य ।
शापदानचकिता हरिणाक्ष्यस्तस्य किंचिदपचक्रमुरग्रात् ॥ ६० ॥

हृष्यतः शतमखस्य नियोगात्सिद्धचारणगणेन तदानीम् ।
पातिताजनि मुनेरुपरिष्टात्पारिजातकुसुमोत्करवृष्टिः ॥ ६१ ॥

तावदम्बुदकदम्बगभीरा दध्वनुस्त्रिदिवदुन्दुभयश्च ।
या विमोहयितुमागतवत्यस्ताभिरेव ननृते च वधूभिः ॥ ६२ ॥

तस्यातिदुष्करमवेक्ष्य तपः प्रसन्नो
दातुं वरं तदुचितं दययाथ तस्मै ।
कैलासगौरमधिरुह्य वृषं महान्त-
मर्धेन्दुमौलिरुमया सममाविरासीत् ॥ ६३ ॥

इति श्रीयज्ञरामदीक्षितपुत्रस्य रामभद्रयज्वनः कृतौ पतञ्जलिचरिते
द्वितीयः सर्गः ॥


  1. ‘शुण्डालेन सलीलमेष कलभो वक्रान्मृणालोज्ज्वलं
    जृम्भारम्यविकस्वरान्मृगपतेर्दंष्ट्राङ्कुरान्कर्षति ।
    एषा वत्सतरी च मातरि तृणान्यत्तुं गतायां क्वचि-
    द्वीपिन्या वरकन्दरस्थितिजुषः स्तन्यं पयश्चूषति ॥’

    इत्यदसीयजानकीपरिणयनाटके.

    ‘उलूकानां काकैरुदभवदुदासीनवसतिः
    रहःक्रीडा सिंहैरनुकलभभून्मत्तकरिणाम् ।
    अजानां गोपुच्छैरजनि जनितप्रीतिभिरयः (?)
    समालापोऽन्योयं शुककुलबिडालस्य समभूत् ॥’
    समूहं सर्पाणां समजनि सदा जाकुलकुलै-
    र्मयूरेन्द्रान्निद्रां फणिकुलमदः प्रापयति च ।
    गवां योगक्षेमे कृतमतिरभूद्व्याघ्रनिकरो
    मृगाणां संबन्धः श्वभि... रन्योन्यमहिलः ॥’

    इत्यप्पयदीक्षितीयगौरीमयूरचम्पूः.

  2. 'अर्कमातप' इति पुस्तकान्तरे.
  3. ‘प्रागभूवमसहस्रकरः किम्' क.
  4. ‘प्रैरयन् ख.
  5. ‘स्रस्तनीविनहनच्युतचेलं' क.
    'आरक्तसंकुचदषाङ्गमुदस्तहस्तमुन्नम्रितस्तनमृजूकृतमध्यभागम् ।
    नीवीसमुच्छ्वसितदर्शितनाभिदेशं निद्राविशेषकलुषा कुरुतेऽङ्गभङ्गम् ॥'
    इत्यदसीयशृङ्गारतिलकभाणे.
  6. ‘गर्भकं’ ख.
  7. 'वातु' ख.'न पादपोन्मूलनशक्तिरंहः शिलोच्चये मूर्च्छति मारुतस्य’ इति रघुवंशे.