नैष्कर्म्यसिद्धिः/तृतीयोऽध्यायः
← द्वितीयोऽध्यायः | नैष्कर्म्यसिद्धिः सुरेश्वरः |
चतुर्थोऽध्यायः → |
अथ तृतीयोऽध्यायः ।
सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण
आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश
उपपत्तिभिरतिष्ठिपम् । आत्मा च
जन्मादिषड्भावविकारवर्जितः
कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च
मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं
संबन्धोऽन्यत्र चोदनापरिप्रापितात् यथा
"इयमेवर्गग्निः साम" इति । तच्चाज्ञानं
स्वात्ममात्र निमित्तं न संभवतीति
कस्यचित्कस्मिंश्चिद्विषये
भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं
निर्द्धारितमात्मानात्मा च ।
तत्रानात्मनस्तावन्नाज्ञानेनाभिसंबन्धः । तस्य हि
स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते ।
संभवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् ।
न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं
स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् ।
न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत
आश्रयस्याश्रयि संभवति । तदनपेक्षस्य च तस्य
निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो
नानात्मविषयमज्ञानं
संभवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं
नापि
तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं
तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । "सोऽहं भगवो
मन्त्रविदेवास्मि नात्मवित् "इति श्रुतेः ।
न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या
दतिशयश्च संभवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च
संभवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं
कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव
स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं
पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः ।
नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च
ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते ।
घटत एव । कथम् ।
अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः ।
तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च
वाक्यादेव तत्पदपदार्थाभिज्ञस्य ।
अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन
प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः
कृतान्वयव्यतिरेकः ।
यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्च्हति ।
प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥ १॥
यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां
प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत
एतद्ध्यवसीयते । यस्मात् ।
तत्पदं प्रकृतार्थं स्यात्त्वंपदं प्रत्यगात्मनि ।
नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥ २॥
एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत
इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः ।
सामानाधिकरण्यं च विशेषणविशेष्यता ।
लक्ष्यलक्षणसंबन्धः पदार्थप्रत्यगात्मनाम् ॥ ३॥
अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं
वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो
न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं
विधिपरिप्रापितः किं वा स्वरसत एवात्र
पुमान्प्रवर्तत इति । किंचातः । शृणु ।
यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं
न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय
व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना
अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति ।
अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो
भवति । यदि पुनर्यदृच्च्हातः प्रवर्तते तदा न
कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह ।
शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा ।
अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥ ४॥
युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः ।
वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥ ५॥
अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि
ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं
तन्निबन्धनो ह्यात्मनोऽनेकानर्थसंबन्धस्तस्य
चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं
तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष
महिमा योऽयमात्मानात्मनोर्विभाग इति ।
तन्निराकरणायेदमुच्यते ।
भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि ।
कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६॥
ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् ।
मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं
वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य
चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः
सज्जन्मेष्यते "कुतस्तु खलु सोम्यैवं स्यात् " इति
"कथमसतः सज्जायेत " इति श्रुतेरिति । अत्रोच्यते ।
अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः ।
एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥ ७॥
सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन ।
कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह ।
प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः ।
स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥ ८॥
अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा
तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति ।
अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति
विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः
प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते ।
तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति
तन्निराकरणायेदमुच्यते ।
सामानाधिकरण्यादेर्घटेतरखयोरिव ।
व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ९॥
कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं
विशेषणविशेष्ययोः सामर्थ्योक्तिः ।
निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् ।
प्रत्यक्ता च तदर्थस्य त्वंपदेनास्य संनिधेः ॥ १०॥
उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च
संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह ।
कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः ।
बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११॥
बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे
ये त्वसाधारणे तयोर्विशेषवचनम् ।
बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया ।
तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥ १२॥
यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य
विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह ।
धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः ।
प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसंभवात् ॥ १३॥
भेदहेतसंभवं दर्शयन्नाह ।
न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा ।
व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥ १४॥
यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो
नात्मनस्तस्मादेतत्सिद्धम् ।
कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः ।
कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥ १५॥
अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च
लक्षणमुच्यते ।
विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते ।
प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६॥
सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् ।
व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥ १७॥
आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं
तयोरसाधारणलक्षणाभिधानार्थमाह ।
बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् ।
आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १८॥
बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः ।
आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥ १९॥
तयोः कूटस्थपरिणामिनोरात्मानवबोध एव संबन्धहेतुर्न
पुनर्वास्तवः कश्चिदपि संबन्ध उपपद्यत इत्याह ।
सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते ।
हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २०॥
कुतः कूटस्थात्मसिद्धिरिति चेद्यतः ।
न हानं हानमात्रेण नोदयोऽपीयता यतः ।
तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥ २१॥
एवम् ।
आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः ।
ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥ २२॥
इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं
प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि
त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते ।
तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण
प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह ।
तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् ।
अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥ २३॥
त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु ।
संसारितामसंत्यज्य सापि स्यादभिधानजा ॥ २४॥
विरुद्धोद्देशनत्वाच्च
पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह ।
उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् ।
आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥ २५॥
यत एतदेवमतोऽनुपादित्सितयोरपि
तत्त्वमर्थयोर्विशेषणविशेष्यभावो
भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः ।
तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा ।
लक्ष्यलक्षणसंबन्धस्तयोः स्यात्प्रत्यगात्मना ॥ २६॥
कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् ।
लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा ।
तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥ २७॥
इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव ।
यस्मात् ।
यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति ।
तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ २८॥
कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा
तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते ।
प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं
बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना
त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप
एव केवलोऽवशिष्यते तस्मादुच्यते ।
देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः ।
पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥ २९॥
यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् ।
प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता ।
चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥ ३०॥
यस्मादेवमतो विशुद्धमवसीयताम् ।
पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः ।
पदार्थांल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥ ३१॥
कुतः पुनः सामान्यमात्रवृत्तेः पदस्य
वाक्यार्थप्रतिपत्तिहेतुत्वमिति । बाढम् ।
सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः ।
श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥ ३२॥
अन्वयव्यतिरेकपुरस्सरं वाक्यमेव
सामानाधिकरण्यादिनाविद्या
पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न
त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह ।
बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति ।
निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३॥
न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न
प्राप्नोतीत्यनर्थं चाप्नोतीत्याह ।
अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः ।
आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥ ३४॥
न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं
प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा
विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा
प्रतिपादनमिति-- न चैतेषामन्यतमदपि कारणमस्ति ।
यत आह ।
मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा ।
बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५॥
न च संशयितव्यमवगमयति । यतः ।
सर्वसंशयहेतौ हि निरस्ते कथमात्मनि ।
जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६॥
अपि च ।
यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः ।
न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥ ३७॥
अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह ।
बोधेऽप्यनुभवो यस्य न कथंचन जायते ।
तं कथं बोधयेच्च्हास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८॥
अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं
प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न
श्रुत्युदाहरणमुपन्यस्यति ।
जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः ।
स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥ ३९॥
यथा "तत्सत्यं स आत्मा तत्त्वमसि " इत्यस्य
शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा "य एषोऽक्षिणि
पुरुषो
दृश्यते " इत्याद्या "अथ यो वेदेदं जिघ्राणि "
इत्यन्ता तथा "अहं ब्रह्मास्मि " इत्यस्य शेषः ।
अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः ।
बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥ ४०॥
कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो
बुबोधयिषित इति । यतः ।
एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः ।
इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥ ४१॥
निर्णेनेक्ति च पृष्टो मुनिः ।
आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते ।
बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२॥
यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो
जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव
वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह ।
अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्च्हति ।
तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३॥
अत एव च यः प्रतिज्ञातोऽर्थो "नाहंग्राह्ये न
तद्धीने "इत्यादिः स युक्तिभिरुपपादित इति
कृत्वोपसंह्रियते ।
गृहीताहंपदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते ।
प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४॥
पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह ।
पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि ।
प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥ ४५॥
तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो
हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां
मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं
निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं
विजानीयात् । तदेतदाह ।
अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः ।
अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥ ४६॥
प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य
कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द
लक्षणमात्मानं तत्त्वमस्यहंब्रह्मास्मीत्यादिवाक्यं
संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन
साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे
त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै
र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न
यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् ।
न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया
नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् ।
अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं
प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ
मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ
विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक
वाक्यस्येव वक्तव्यमित्ययमारम्भः ।
नित्यावगतिरूपत्वादन्यमानानपेक्षणात् ।
शब्दादिगुणहीनत्वात्संशयानवतारतः ॥ ४७॥
तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते ।
प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥ ४८॥
श्रुतिरपीममर्थं निर्वदति ।
दिद्दक्षितपरिच्हिन्नपराग्रूपादिसंश्रयात् ।
विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥ ४९॥
न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः ।
न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५०॥
अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते ।
प्रत्यक्षस्य पराक्त्वान्न संबन्धग्रहणं यतः ।
आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥ ५१॥
एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव
पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् ।
एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह ।
प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः ।
सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥ ५२॥
यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहंब्रह्मास्मीति
वाक्यार्थस्तस्मात् ।
अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः ।
वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३॥
सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त
दभिज्ञस्याहंब्रह्मास्मीत्याविर्भवति ।
द्रष्टृदृश्यविभागेनागमापायि
साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते ।
दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि ।
मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥ ५४॥
तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि ।
प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा ।
अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५॥
तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं
प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्
धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः
शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया
व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ
पूर्वकत्वमवसीयते । तदेतदाह ।
घटादयो यथा लिङ्गं स्युः परंपरयाहमः ।
दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥ ५६॥
ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते
ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स
आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः
प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य
इति ।
यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित
विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि
वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः ।
लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा
दात्मस्वभावेनानात्मनो हानोपादानयोः
संबन्धग्रहणात्कमतिशयं
वाक्यं कुर्यात् । मैवं वोचः ।
लिङ्गाधीनत्वात्तत्प्रतिपत्तेः ।
न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति
"यमेवैष वृणुते तेन लभ्यः " इति श्रुतेः । अत आह ।
लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् ।
सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥ ५७॥
ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं
वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया
तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं
निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते
वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् ।
किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य
सुषुप्ते संभवात् । यदि हि सुषुप्तेऽज्ञानं
नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन
निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण
भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो
च्च्हित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य
मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य
एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्
किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं
सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान
मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य
द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं
प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् ।
कथमभिव्यञ्जकाभाव इति चेच्च्हृणु ।
बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा ।
नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥ ५८॥
कश्चिदतिक्रान्तं प्रतिस्मृत्य "दृश्यत्वादहमप्येवं
लिङ्गं स्याद्द्रष्टुरात्मनः " इति
निर्युक्तिकमभिहितमित्याह । किं कारणम् ।
अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह
घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो
लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति
तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते ।
दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः ।
ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥
एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त
रूपावच्च्हेदायाहंवृत्तिर्व्याप्रियते । तयावच्च्हिन्नं
सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया
विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो
रवभासकावभास्यसंबन्धव्यतिरेकेण नान्यत्संबन्धान्तर
मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं
परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये
णोपकारिणापकारिणा वात्मात्मीयं संबन्धं प्रतिपद्यते ।
तदभिधीयते ।
इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः ।
अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६०॥
एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि
विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् ।
अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये
ममप्रत्ययो भवति विपर्यये चेदंप्रत्यय इति कथमवगम्यते ।
अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह ।
अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम ।
घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१॥
मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः
पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण
व्यतिरेकप्रदर्शनार्थाह ।
विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः ।
उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२॥
आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह ।
वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते ।
अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥ ६३॥
द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् ।
तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म
न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति
न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि
वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय
शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च
श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा
तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं
प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः ।
यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते
यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः
कथं वाक्यं श्राव्यत इति । उच्यते ।
नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा ।
न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ ६४॥
अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे
समर्पयिष्यन्नाह ।
अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना ।
वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥ ६५॥
नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते
प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह ।
सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी ।
सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६॥
तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण
निवृत्तिः ।
बुभुत्सोच्च्हेदिनी चास्य सदसीत्यादिना दृढम् ।
प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥ ६७॥
कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः ।
जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः ।
त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८॥
सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव ।
न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन
प्रतिपादयति ।
दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते ।
आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९॥
एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि ।
सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥ ७०॥
प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते ।
किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि
कारकभेदानपह्नवेन जायते तथैवोताशेषकारक
ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते ।
प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् ।
अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१॥
यस्मादेवम् ।
विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते ।
दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥ ७२॥
आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ
कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते
प्रतिविधीयते ।
भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया ।
अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥ ७३॥
इममर्थं दृष्टान्तेन बुद्धावारोहयति ।
स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति ।
व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥ ७४॥
यस्माच्च्ह्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं
तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव ।
विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना
नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का
सामान्यलिङ्गतत्वात्तयोर्न विपर्यये ।
अनालिङ्गितसामान्यौ न जिहासितवादिनौ ।
व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥ ७५॥
अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन
च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो
रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु
नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् ।
तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः ।
नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥ ७६॥
अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते ।
प्रत्यगात्मार्थाभिधायिनस्त्वंपदादुभयं प्रतीयतेऽहं
दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं
दुःखीत्यनेनाभिसंबन्ध आत्मयाथात्म्यानवबोधहेतुक
एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति
प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति
नावध्रियते । तत इदमभिधीयते ।
पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् ।
प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥ ७७॥
कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं
सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न
चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि ।
त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता
सानेनावबोध्यते ।
अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य
परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि
चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते ।
तत्त्वमर्थेन संपृक्तो नानात्वं विनिवर्तयेत् ।
नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥ ७८॥
कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन
प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं
निहन्तीति । उच्यते । विरोधात् । तदुच्यते ।
संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह ।
प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥ ७९॥
तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते ।
अज्ञातपुरुषार्थत्वाच्च्ह्रौतत्वात्तत्त्वमर्थयोः ।
स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥ ८०॥
एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न
प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि संभाव्यते ।
यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं
वाक्यार्थं संभावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत
एव तस्मिन्नपि पक्ष उच्यते ।
प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् ।
स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥ ८१॥
यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं
न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो
दुस्संभाव्य इति । तदुच्यते ।
वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता ।
वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसंभवः ॥ ८२॥
भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् ।
उच्यते ।
अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् ।
न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥ ८३॥
य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं
ब्रूयात् ।
नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा ।
इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥ ८४॥
प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव
भिन्नविषयत्वात् ।
ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव
बाध्यबाधकभावः स्यात् । अतस्तदुच्यते ।
प्रत्यक्षं चेन्न शाब्दं स्याच्च्हाब्दं चेदक्षजं
कथम् ।
प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥ ८५॥
न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह संभवति
शब्दादीनां प्रत्येकं प्रमाणत्वादत आह ।
स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् ।
इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ८६॥
न च सुखदुःखादिसंबन्धोऽवगत्यात्मनः
प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः
प्रत्यक्षादिप्रमाणैरुद्धाट्यते ।
दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् ।
कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥ ८७॥
अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं
संभावितदोषान्मुच्यते । अत आह ।
प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते ।
अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ८८॥
अथ मतम् ।
निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् ।
प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥ ८९॥
ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय
व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते
तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां
प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति ।
यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः
पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः ।
अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् ।
न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥ ९०॥
अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् ।
नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥ ९१॥
अपि चाह ।
दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता ।
स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥ ९२॥
ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् ।
यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्च्हास्त्रस्य ।
न हि पदार्थशक्त्याधानकृच्च्हास्त्रम् । प्रसिद्धं च
लोके ।
भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् ।
न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥ ९३॥
यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् ।
तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति
निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य
च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु
व्यभिचारित्वा
त्संभावनायाश्च पुरुषपरिकल्पनामात्राव
ष्टम्भत्वाच्चेति ।
निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता ।
को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥ ९४॥
संबन्धार्थ एव ।
अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि ।
"पराञ्चि खानि" त्येतस्माद्वचसो गम्यते श्रुतेः ॥ ९५॥
अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण
विरुध्यत इत्यसकृदवोचाम । यत्रापि
वाक्यप्रत्यक्षयोर्विरोधाशङ्का
तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति ।
अत आह ।
प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् ।
गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासंभवाद्बुधः ॥ ९६॥
तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् ।
अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः ।
यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७॥
कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया
कल्पनयेति तत्राह ।
त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते ।
समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९८॥
कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः
साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः
अत आह ।
व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः ।
कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९॥
ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासंभवे समानेऽहंवृत्तौ
कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि
विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते ।
चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः ।
पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादाअत्मानयोच्यते ॥ १००॥
वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः ।
अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१॥
यथोक्तेन ।
अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया ।
लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२॥
नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् ।
षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः ।
नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १०३॥
यदि शब्दोऽभिधानाभिधेयत्वसंबन्धाङ्गीकारेण नात्मनि
वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः ।
उच्यते ।
असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते ।
आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥ १०४॥
कथं पुनरभिधानमभिधेयेनानभिसंबद्धं
सदनभिधेयेऽर्थे
प्रमां जनयतीति । शृणु यथानभिसंबद्धमप्यनभिधे
येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह ।
शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः ।
सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५॥
न हि नाम्नास्ति संबन्धो व्युत्थितस्य शरीरतः ।
तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥ १०६॥
यथा च ।
बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा ।
बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥ १०७॥
"असत्ये वर्त्मनि स्थित्वा" इत्युपश्रुत्यातिविस्मितो महता
संभ्रमेण कश्चिच्चोदयति ।
नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये ।
नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥ १०८॥
इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना ।
सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥ १०९॥
एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते ।
प्रकृतं
चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं
जनयतीति । तत्रैव कारणान्तरमुच्यते ।
अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता ।
निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥ ११०॥
अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो
दुस्संभाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव
तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते ।
अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते ।
प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११॥
यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत
आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्संभावनाप्यस्ति
यत आह ।
ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् ।
संभावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२॥
सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि
सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते
यतोऽतः ।
अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः ।
ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥ ११३॥
भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति
चेच्च्हृणु ।
यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि
स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् ।
अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया ।
भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ ११५॥
अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्संभाव्या
अविद्येति । नैतदेवम् । कुतः । यत आह ।
कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसंभवात् ।
कालत्रयापरिच्च्हित्तेर्न चोर्ध्वं चोद्यसंभवः ॥ ११६॥
यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां
निरन्वयामपनुदति तस्मात् ।
अद्धातममनादृत्य प्रमाणं सदसीति ये ।
बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥ ११७॥
एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं
कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि
प्रतिपत्तिः स्यादत आह ।
इदं चेदनृतं ब्रूयात्सत्यामवगतावपि ।
न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥ ११८॥
न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं
युक्तम् । यस्मात् ।
न चेदनुभवोऽतः स्यात्पदार्थावगतावपि ।
कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥ ११९॥
न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते ।
कोऽसौ न्याय इत्याह ।
नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः ।
निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥ १२०॥
भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् ।
अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥ १२१॥
न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं
प्राप्नोति । तदाह ।
यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्च्ह्रुतम् ।
प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥ १२२॥
अथ मन्यसे ।
जानीयाच्चेत्प्रसंख्यानाच्च्हब्दस्सत्यवचाः कथम् ।
पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥
१२३॥
न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव
त्प्रतिपत्तिर्भविष्यतीति संभावयामः । यस्मात् ।
युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् ।
साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥ १२४॥
अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न
शक्नोषीति चेच्च्ह्रवणादावेव संपादयिष्यामः । कथम् ।
प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः ।
ईषच्च्ह्रुतं सामिश्रुतं सम्यक्{}श्रुत्वावगच्च्हति ॥ १२५॥
ननु प्रसंख्यानविधिमनभ्युपगच्च्हतः पारमहंसी चर्या
बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति
ततश्चारूढपतितत्वं
न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते ।
त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः ।
तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥ १२६॥
इति तृतीयोऽध्यायः ॥ ३॥