नैषधीयचरितम्‌/द्वादशः सर्गः

विकिस्रोतः तः
← एकादशः सर्गः नैषधीयचरितम्‌
द्वादशः सर्गः
श्रीहर्षः
त्रयोदशः सर्गः →

प्रियाह्रियालम्ब्य विलम्बमाविला विलासिनः कुण्डिनमण्डनायितम् ।
समाजमाजग्मुरथो रथोत्तमास्तमा समुद्रादपरेऽपरे नृपाः ॥ १२.१ ॥

ततः स भैम्या ववृते वृते नृपैर्विनिःश्वसद्भिः सदसि स्वयंवरः ।
चिरागतैस्तर्किततद्विरागितैः स्फुरद्भिरानन्दमहार्णवैर्नवैः ॥ १२.२ ॥

चलत्पदस्तत्पदयन्त्रणेङ्गितस्फुटाशयामासयति स्म राजके ।
शृअमं गता यानगतावपीयमित्युदीर्य धुर्यः कपटाज्जनीं जनः ॥ १२.३ ॥

नृपानुपक्रम्य विभूषितासनान्सनातनी सा सुषुवे सरस्वती ।
विहारमारभ्य सरस्वतीः सुधासरःस्वतीवार्द्रतनूरनूत्थिताः ॥ १२.४ ॥

वृणीष्व वर्णेन सुवर्णकेतकीप्रसूनवर्णादृतुपर्णमादृतम् ।
निजामयोध्यामपि पावनीमयं भवन्मयो ध्यायति नावनीपतिः ॥ १२.५ ॥

न पीयतां नाम चकोरजिह्वया कथंचिदेतन्मुखचन्द्रचन्द्रिका ।
इमां किमाचामयसे न चक्षुषी चिरं चकोरस्य भवन्मुखस्पृशी ॥ १२.६ ॥

अपां विहारे तव हारविभ्रमं करोतु नीरे पृषदुत्करस्तरन् ।
कठोरपीनोच्चकुचद्वयीतटत्रुट्यत्तरः सारवसारवोर्मिजः ॥ १२.७ ॥

अखानि सिन्धुः समपूरि गङ्गया कुले किलास्य प्रसभं स भन्त्स्यते ।
विलङ्घ्यते चास्य यशःशतैरहो सतां महत्संमुखधावि पौरुषम् ॥ १२.८ ॥

एतद्यशःक्षीरधिपूरगाहि पतत्यगाधे वचनं कवीनाम् ।
एतद्गुणानां गणनाङ्कपातः प्रत्यर्थिकीर्तीः खटिकाः क्षिणोति ॥ १२.९ ॥

भास्वद्वंशकरीरतां दधदयं वीरः कथं कथ्यतामध्युष्टापि हि कोटिरस्य समरे रोमाणि सत्त्वाङ्कुराः ।
नीतः संयति बन्दिभिः श्रुतिपथं यन्नामवर्णावलीमन्त्रः स्तम्भयति प्रतिक्षितिभृतां दोस्तम्भकुम्भीनसान् ॥ १२.१ ॥

तादृग्दीर्घविरिञ्चिवासरविधौ जानामि यत्कर्तृतां शङ्के यत्प्रतिबिम्बमम्बुधिपयःपूरोदरे वाडवः ।
व्योमव्यापिविपक्षराजकयशस्ताराः पराभावुकः कासामस्य न स प्रतापतपनः पारं गिरां गाहते ॥ १२.११ ॥

द्वेष्याकीर्तिकलिन्दशैलसुतया नद्यास्य यद्दोर्द्वयी कीर्तिश्रेणिमयी समागममगाद्गङ्गा रणप्राङ्गणे ।
तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरीरम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः ॥ १२.१२ ॥

इति श्रुतिस्वादिततद्गुणस्तुतिः सरस्वतीवाङ्मयविस्मयोत्थया ।
शिरस्तिरःकम्पनयैव भीमजा न तं मनोरन्वयमन्वमन्यत ॥ १२.१३ ॥

युवान्तरं सा वचसामधीश्वरा स्वरामृतन्यक्कृतमत्तकोकिला ।
शशंस संसक्तकरैव तद्दिशा निशापतिज्ञातिमुखीमिमां प्रति ॥ १२.१४ ॥

न पाण्ड्यभूमण्डनमेणलोचने विलोचनेनापि नृपं पिपाससि ।
शशिप्रकाशाननमेनमीक्षितुं तरङ्गयापाङ्गदिशा दृशोस्त्विषः ॥ १२.१५ ॥

भुवि भ्रमित्वानवलम्बमम्बरे विहर्तुमभ्यासपरम्परापरा ।
अहो महावंशममुं समाश्रिता सकौतुकं नृत्यति कीर्तिनर्तकी ॥ १२.१६ ॥

इतो भिया भूपतिभिर्वनं वनादटद्भिरुच्चैरटवीत्वमीयुषी ।
निजापि सावापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम् ॥ १२.१७ ॥

आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकूपारपारीसदनजनघनोद्गीतचापप्रतापः ।
वीरादस्मात्परः कः पदयुगयुगपत्पातिभूपातिभूयश्चूडारत्नोडुपत्नीकरपरिचरणामन्दनन्दन्नखेन्दुः ॥ १२.१८ ॥

भङ्गाकीर्तिमषीमलीमसतमप्रत्यर्थिसेनाभटश्रेणीतिन्दुककाननेषु विलसत्यस्य प्रतापानलः ।
तस्मादुत्पतिताः स्फुरन्ति जगदुत्सङ्गे स्फुलिङ्गाः स्फुटं भालोद्भूतभवाक्षिभानुहुतभुग्जम्भारिदम्भोलयः ॥ १२.१९ ॥

एतद्दन्तिबलैर्विलोक्य निखिलामालिङ्गिताङ्गीं भुवं सङ्ग्रामाङ्गणसीम्नि जङ्गमगिरिस्तोमभ्रमाधायिभिः ।
पृथ्वीन्द्रः पृथुरेतदुग्रसमरप्रेक्षोपनम्रामरश्रेणीमध्यचरः पुनः क्षितिधरक्षेपाय धत्ते धियम् ॥ १२.२ ॥

शशंस दासीङ्गितविद्विदर्भजामितो ननु स्वामिनि पश्य कौतुकम् ।
यदेष सौधाग्रनटे पटाञ्चले चलेऽपि काकस्य पदार्पणग्रहः ॥ १२.२१ ॥

ततस्तदप्रस्तुतभाषितोत्थितैः सदस्तदश्वेति हसैः सदःसदाम् ।
स्फुटाजनि म्लानिरतोऽस्य भूपतेः सिते हि जायेत शितेः सुलक्ष्यता ॥ १२.२२ ॥

ततोऽनु देव्या जगदे महेन्द्रभूपुरंदरं सा जगदेकवन्द्यया ।
तदार्जवावर्जिततर्जनीकया जनी कयाचित्परचित्स्वरूपया ॥ १२.२३ ॥

स्वयंवरोद्वाहमहे वृणीष्व हे महेन्द्रशैलस्य महेन्द्रमागतम् ।
कलिङ्गजानां स्वकुचद्वयश्रिया कलिं गजानां शृणु तत्र कुम्भयोः ॥ १२.२४ ॥

अयं किलायात् इतीरिपौरवाग्भयादयादस्य रिपुर्वृथा वनम् ।
श्रुताष्तदुत्स्वापगिरस्तदक्षाराः पठद्भिरत्रासि शुकैर्वनेऽपि सः ॥ १२.२५ ॥

इतस्त्रसद्विद्रुतभूभृदुज्झिता प्रियाथ दृष्टा वनमानवीजनैः ।
शशंस पृष्टाद्भुतमात्मदेशजं शशित्विषः शीतलशीलतां किल ॥ १२.२६ ॥

इतोऽपि किं वीरयसे न कुर्वतो नृपान्धनुर्बाणगुणैर्वशंवदान् ।
गुणेन शुद्धेन विधाय निर्भरं तमेनमुर्वीवलयोर्वशी वशम् ॥ १२.२७ ॥

एतद्भीतारिनारी गिरिबिलविगलद्वासरा निःसरन्ती स्वक्रीडाहंसमोहग्रहिलशिशुभृशप्रार्थितोन्निद्रचन्द्रा ।
आक्रन्दद्भूरि यत्तन्नयनजलमिलच्चन्द्रहंसानुबिम्बप्रत्यासत्तिप्रहृष्यत्तनयविहसितैराश्वसीन्न्यश्वसीच्च ॥ १२.२८ ॥

अस्मिन्दिग्विजयोद्यते पतिरयं मे स्तादिति ध्यायिनी कम्पं सात्त्विकभावमञ्चति रिपुक्षोणीन्द्रदारा धरा ।
अस्यैवाभिमुखं निपत्य समरे यास्यद्भिरूर्ध्वं निजः पन्था भास्वति दृश्यते बिलमयः प्रत्यर्थिभिः पाऋथिवैः ॥ १२.२९ ॥

विद्राणे रणचत्वरादरिगणे त्रस्ते समस्ते पुनः कोपात्कोऽपि निवर्तते यदि भटः कीर्त्या जगत्युद्भटः ।
आगच्छन्नपि संमुखं विमुखतामेवाधिगच्छत्यसौ द्रागेतच्छुरिकारयेण ठणिति च्छिन्नापसर्पच्छिराः ॥ १२.३ ॥

ततस्तदुर्वीन्द्रगुणाद्भुतादिव स्ववक्त्रपद्मेऽङ्गुलिनालदायिनी ।
विधीयतामाननमुद्रणेति सा जगाद वैदग्ध्यमयेङ्गितैव ताम् ॥ १२.३१ ॥

अनन्तरं तामवदन्नृपान्तरं तदध्वदृक्तारतरङ्गरङ्गणा ।
तृणीभवत्पुष्पशरं सरस्वती स्वतीव्रतेजःपरिभूतभूतलम् ॥ १२.३२ ॥

तदेव किं न क्रियते नु का क्षतिर्यदेष तद्दूतमुखेन काङ्क्षति ।
प्रसीद काञ्चीमयमाच्छिनत्तु ते प्रसह्य काञ्चीपुरभूपुरंदरः ॥ १२.३३ ॥

मयि स्थितिर्नम्रतयैव लभ्यते दिगेव तु स्तब्धतया विलङ्घ्यते ।
इतीव चापं दधदाशुगं क्षिपन्नयं नयं सम्यगुपादिशद्द्विषाम् ॥ १२.३४ ॥

अदःसमित्संमुखवीरयौवतत्रुटद्भुजाकम्बुमृणालहारिणी ।
द्विषद्गणस्त्रैणदृगम्बुनिर्झरे यशोमरालावलिरस्य खेलति । १२.३५ ॥

सिन्दूरद्युतिमुग्धमूर्धनि धृतस्कन्धावध्रिश्यामिके व्योमान्तस्पृशि सिन्धुरेऽस्य समरारम्भोद्धुरे धावति ।
जानीमो नु यदि प्रदोषतिमिरव्यामिश्रसंध्याधियेवास्तं यान्ति समस्तबाहुजभुजातेजःसहस्रांशवः ॥ १२.३६ ॥

हित्वा दैत्यरिपोरुरः स्वभवनं शून्यत्वदोषस्फुटासीदन्मर्कटकीटकृत्रिमसितच्छत्त्रीभवत्कौस्तुभम् ।
उज्झित्वा निजसद्म पद्ममपि तद्व्यक्तावनद्धीकृतं लूतातन्तुभिरन्तरद्य भुजयोः श्रीरस्य विश्राम्यति ॥ १२.३७ ॥

सिन्धोर्जैत्रमयं पवित्रमसृजत्तत्कीर्तिपूर्ताद्भुतं यत्र स्नान्ति जगन्ति सन्ति कवयः केवा न वाचंयमाः ।
यद्बिन्दुश्रियमिन्दुरञ्चति जलं चाविश्य दृश्येतरो यस्यासौ जलदेवतास्फटिकभूर्जागर्ति यागेश्वरः ॥ १२.३८ ॥

अन्तःसंतोषबाष्पैः स्थगयति न दृशस्ताभिराकर्णयिष्यन्नङ्गे नानस्तिरोमा रचयति पुलकश्रेणिमानन्दकन्दाम् ।
न क्षोणीभङ्गभीरुः कलयति च शिरःकम्पनं तन्न विद्मः शृण्वन्नेतस्य कीर्तीः कथमुरगपतिः प्रीतिमाविष्करोति ॥ १२.३९ ॥

आचूडाग्रममज्जयज्जयपटुर्यच्छल्यदण्डानयं संरम्भे रिपुराजकुञ्जरघटाकुम्भस्थलेषु स्थिरान् ।
सा सेवास्य पृथुः प्रसीदति तया नास्मै कुतस्त्वत्कुचस्पर्धागर्धिषु तेषु तान्धृतवते दण्डान्प्रदण्डानपि ॥ १२.४ ॥

स्मितश्रिया सृक्कणि लीयमानयावितीर्णया तद्गुणशर्मणेव सा ।
उपाहसत्कीर्त्यमहत्त्वमेव तं गिरां हि पारे निषधेन्द्रवैभवम् ॥ १२.४१ ॥

निजाक्षिलक्ष्मीहसितैणशावकामसावभाणीदपरं परंतपम् ।
पुरैव तद्दिग्वलनश्रियां भुवा भ्रुवा विनिर्दिश्य सभासभाजितम् ॥ १२.४२ ॥

कृपा नृपाणामुपरि क्वचिन्न ते नतेन हा हा शिरसा रसादृशाम् ।
भवन्तु तावत्तव लोचनाञ्चला निपेयनेपालनृपालपालयः ॥ १२.४३ ॥

ऋजुत्वमौनश्रुतिपारगामिता यदीयमेतत्परमेव हिंसितुम् ।
अतीव विश्वासविधायि चेष्टितं बहुर्महानस्य स दाम्भिकः ॥ १२.४४ ॥

शरः रिपूनवाप्यापि गतोऽवकीर्णितामयं न यावज्जनरञ्जनव्रती ।
भृशं विरक्तानपि रक्तवत्तरान्निकृत्त्य यत्तानसृजासृजद्युधि ॥ १२.४५ ॥

पतत्येतत्तेजोहुतभुजि कदाचिद्यदि तदा पतङ्गः स्यादङ्गीकृततमपतङ्गापदुदयः ।
यशोऽमुष्येवोपार्जयितुमसमर्थेन विधिना कथंचित्क्षीराम्भोनिधिरपि कृतस्तत्प्रतिनिधिः ॥ १२.४६ ॥

यावत्पौलस्त्यवास्तूभवदुभयहरिल्लोमलेखोत्तरीये सेतुप्रालेयशैलौ चरति नरपतेस्तावदेतस्य कीर्तिः ।
यावत्प्राक्प्रत्यगाशापरिवृढनगरारम्भणस्तम्भमुद्रावद्री संध्यापताकारुचिरचितशिखाशोणशोभावुभौ च ॥ १२.४७ ॥

युद्ध्वा चामिमुखं रणस्य चरणस्यैवादसीयस्य वा बुद्ध्वाऽन्तः स्वपरान्तरं निपततामुन्मुच्य बाणावलीः ।
छिन्नं वावनतीभवन्निजभियः खिन्नं भरेणाथ वा राज्ञानेन हठाद्विलोठितमभूद्भूमावरीणां शिरः ॥ १२.४८ ॥

न तूणादुद्धारे न गुणघटने नाश्रुतिशिखं समाकृष्टौ दृष्टिर्न वियति न लक्ष्ये न च भुवि ।
नृणां पश्यत्यस्य क्वचन विशिखान्किं तु पतितद्विषद्वक्षःश्वभ्रैरनुमितिरसून्गोचरयति ॥ १२.४९ ॥

दमस्वसुश्चित्तमवेत्य हासिका जगाद देवीं कियदस्य वक्ष्यसि ।
भण प्रभूते जगति स्थिते गुणैरिहाप्यते संकटवासयातना ॥ १२.५ ॥

ब्रवीति दासीह किमप्यसंगतं ततोऽपि नीचेयमति प्रगल्भते ।
अहो सभा साधुरितीरिणः क्रुधा न्यषेधदेतत्क्षितिपानुगाञ्जनः ॥ १२.५१ ॥

अथान्यमुद्दिश्य नृपं कृपामयी मुखेन तद्दिङ्मुखसंमुखेन सा ।
दमस्वसारं वदति स्म देवता गिरामिलाभूवदतिस्मरश्रियम् ॥ १२.५२ ॥

विलोचनेन्दीवरवासवासितैः सितैरपाङ्गाध्वगचन्द्रिकाञ्चलैः ।
त्रपामपाकृत्य निभान्निभालय क्षितिक्षितिं मालयमालयं रुचः ॥ १२.५३ ॥

इमं परित्यज्य परं रणादरिः स्वमेव भग्नः शरणं मुधाविशत् ।
न वेत्ति यत्त्रातुमितः कृतस्मयो न दुर्गया शैलभुवापि शक्यते ॥ १२.५४ ॥

अनेन राज्ञार्थिषु दुर्भगीकृतो भवन्घनध्वानजरत्नमेदुरः ।
तथा विदूराद्रिरदूरतां गमी यथा स गामी तव केलिशैलताम् ॥ १२.५५ ॥

नम्रप्रत्यर्थिपृथ्वीपतिमुखकमलम्लानताभृङ्गजातच्छायान्तःपातचन्द्रायितचरणनखश्रेणिरैणेयनेत्रे ।
दृप्तारिप्राणवातामृतरसलहरीभूरिपानेन पीनं भूलोकस्यैष भर्ता भुजभुजगयुगं सांयुगीनं बिभर्ति ॥ १२.५६ ॥

अध्याहारः स्मरहरशिरश्चन्द्रशेषस्य शेषस्याहेर्भूयः फणसमुचितः काययष्टीनिकायः ।
दुग्धाम्भोधेर्मुनिचुलकनत्रासनाशाभ्युपायः कायव्यूहः क्व जगति न जागर्त्यदःकीर्तिपूरः ॥ १२.५७ ॥

राज्ञामस्य शतेन किं कलयतो हेतिं शतघ्नीं कृतं लक्षैर्लक्षभिदो दशैव जयतः पद्मानि पद्मैरलम् ।
कर्तुं सर्वपरिच्छिदः किमपि नो शक्यं परार्धेन वा तत्संख्यापगमं विनास्ति न गतिः काचिद्बतैतद्द्विषाम् ॥ १२.५८ ॥

वयस्ययाकूतविदा दमस्वसुः स्मितं वितत्याभिदधेऽथ भारती ।
इतः परेषामपि पश्य याचतां भवन्मुखेन स्वनिवेदनत्वराम् ॥ १२.५९ ॥

कृतात्र देवी वचनाधिकारिणी त्वमुत्तरंदासि ददासि कासती ।
इतीरिणस्तन्नृपपारिपार्श्विकान्स्वभर्तुरेव भ्रुकुटिर्न्यवर्तयत् ॥ १२.६ ॥

धराधिराजं निजगाद भारती तदुन्मुखेषद्वलिताङ्गसूचितम् ।
दमस्वसारं प्रति सारवत्तरं कुलेन शीलेन च राजसूचितम् ॥ १२.६१ ॥

कुतः कृतैवं वरलोकमागतं प्रति प्रतिज्ञाऽनवलोकनाय ते ।
अपीयमेनं मिथिलापुरंदरं निपीय दृष्टिः शिथिलास्तु ते वरम् ॥ १२.६२ ॥

न पाहि पाहीति यदब्रवीरमुं ममौष्ठ तेनैवमभूदिति क्रुधा ।
रणक्षितावस्य विरोधिमूर्धभिर्विदश्य दन्तैर्निजमोष्ठमास्यते ॥ १२.६३ ॥

भुजेऽपसर्पत्यपि दक्षिणे गुणं सहेषुणादाय पुरःप्रसर्पिणे ।
धनुः परीरम्भमिवास्य संमदान्महाहवे वामबाहवे ॥ १२.६४ ॥

अस्योर्वीरमणस्य पाऋवणविधुद्वैराज्यसज्जं यशः सर्वाङ्गोज्ज्वलशर्वपर्वतसितश्रीगर्वनिर्वासि यत् ।
तत्कम्बुप्रतिबिम्बितं किमु शरत्पर्जन्यराजिश्रियः पर्यायः किमु दुग्धसिन्धुपयसां सर्वानुवादः किमु ॥ १२.६५ ॥

निस्त्रिंशत्रुटितारिवारणघटाकुम्भास्तिकूटावटस्थानस्थायुकमौक्तिकोत्करकिरः कैरस्य नायं करः ।
उन्नीतश्चतुरङ्गसैन्यसमरत्वङ्गत्तुरंगक्षुराक्षुण्णासु क्षितिषु क्षिपन्निव यशः क्षोणीजबीजव्रजम् ॥ १२.६६ ॥

अर्थिभ्रंशबहूभवत्फलभरव्याजेन कुब्जायितः सत्यस्मिन्नतिदानभाजि कथमप्यास्तां स कल्पद्रुमः ।
आस्ते निर्व्ययरत्नसंपदुदयोदग्रः कथं याचकश्रेणीवर्जनदुर्यशोनिबिडितव्रीडस्तु रत्नाचलः ॥ १२.६७ ॥

सृजामि किं विघ्नमिदंनृपस्तुतावितीङ्गितैः पृच्छति तां सखीजने ।
स्मिताय वक्त्रं यदवक्रयद्वधूस्तदेव वैमुख्यमलक्षि तन्नृपे ॥ १२.६८ ॥

दृशास्य निर्दिश्य नरेश्वरान्तरं मधुस्वरा वक्तुमधीश्वरा गिराम् ।
अनूपयामास विदर्भजाश्रुती निजास्यचन्द्रस्य सुधाभिरुक्तिभिः ॥ १२.६९ ॥

स कामरूपाधिप एष हा त्वया न कामरूपाधिक ईक्ष्यतेऽपि यः ।
त्वमस्य सा योग्यतमासि वल्लभा सुदुर्लभा यत्प्रतिमल्लभा परा ॥ १२.७ ॥

अकर्णधाराशुगसंभृशाङ्गतां गतैररित्रेण विनास्य वैरिभिः ।
विधाय यावत्तरणेर्भिदामहो निमज्ज्य तीर्णः समरे भवाऋणवः ॥ १२.७१ ॥

यदस्य भूलोकभुजो भुजोष्मभिस्तपर्तुरेव क्रियतेऽरिवेश्मनि ।
प्रपां न तत्रारिवधूस्तपस्विनी ददातु नेत्रोत्पलवासिभिर्जलैः ॥ १२.७२ ॥

एतद्दत्तासिघातस्रवदसृगसुहृद्वंशसार्द्रेन्धनैतद्दोरुद्दामप्रतापज्वलदनलमिलद्भूमधूमभ्रमाय ।
एतद्दिग्जैत्रयात्रासमसमरभरं पश्यतः कस्य नासीदेतन्नासीरवाजिव्रजखुरजरजोराजिराजिस्थलीषु ॥ १२.७३ ॥

क्षीरोदन्वदपाः प्रमथ्य मथितादेशेऽमरैर्निर्मिते स्वाक्रम्यं सृजतस्तदस्य यशसः क्षीरोदसिंहासनम् ।
केषां नाजनि वा जनेन जगतामेतत्कवित्वामृतस्रोतःप्रोतपिपासुकर्णकलसीभाजाभिषेकोत्सवः ॥ १२.७४ ॥

सभिति पतिनिपाताकर्णनद्रागदीर्णप्रतिनृपतिमृगाक्षीलक्षवक्षःशिलासु ।
रचितलिपिरिवोरस्ताडनव्यस्तहस्तप्रखरनखरटङ्कैरस्य कीर्तिप्रशस्तिः ॥ १२.७५ ॥

विधाय ताम्बूलपुटीं कराङ्कगां बभाण ताम्बूलकरङ्कवाहिनी ।
दमस्वसुर्भावमवेत्य भारतीं नयानया वक्त्रपरिश्रमं शमम् ॥ १२.७६ ॥

समुन्मुखीकृत्य बभार भारती रतीशकल्पेऽन्यनृपे निजं भुजम् ।
ततस्त्रसद्बालपृषद्विलोचनां शशंस संसज्जनरञ्जनीं जनीम् ॥ १२.७७ ॥

अयं गुणौघैरनुरज्यदुत्कलो भवन्मुखालोकरसोत्कलोचनः ।
स्पृशन्तु रूपामृतवापि नन्वमुं तवापिदृक्तारतरङ्गभङ्गयः ॥ १२.७८ ॥

अनेन सर्वार्थिकृतार्थताकृताहृतार्थिनौ कामगवीसुरद्रुमौ ।
मिथः पयःसेचनपल्लवाशने प्रदाय दानव्यसनं समाप्नुतः ॥ १२.७९ ॥

नृपः कराभ्यामुदतोलयन्निजे नृपानयं यान्पततः पदद्वये ।
तदीयचूडाकुरुविन्दरश्मिभिः स्फुटेयमेतत्करपादरञ्जना ॥ १२.८ ॥

यत्कस्यामपि भानुमान्न ककुभि स्थेमानमालम्बते जातं यद्धनकाननैकशरणप्राप्तेन दावाग्निना ।
एषैतद्भुजतेजसा विजितयोस्तावत्तयोरौचिती धिक्तं वाडवमम्भसि द्विषि भिया येन प्रविष्टं पुनः ॥ १२.८१ ॥

अमुष्योर्वीभर्तुः प्रसृमरचमूसिन्धुरभवैरवैमि प्रारब्धे वमथुभिरवश्यायसमये ।
न कम्पन्तामन्तः प्रतिनृपभटा म्लायतु न तद्वधूवक्त्राम्भोजं भवतु न स तेषां कुदिवसः ॥ १२.८२ ॥

आत्मन्यस्य समुच्छ्रितीकृतगुणस्याहोतरामौचिती यद्गाट्रान्तरवर्जनादजनयद्भूजानिरेष द्विषाम् ।
भूयोऽहं क्रियते स्म येन च हृदा स्कन्धो न यश्चानमत्तन्मर्माणि दलंदलं समिदलंकर्मीणबाणव्रजः ॥ १२.८३ ॥

दूरं गौरगुणैरहंकृतिभृतां जैत्राङ्ककारे चरत्येतद्दोर्यशसि प्रयाति कुमुदं बिभ्यन्न निद्रां निशि ।
धम्मिल्ले तव मल्लिकासुमनसां माल्यं भिया लीयते पीयूषस्रवकैतवाद्धृतदरः शीतद्युतिः स्विद्यति ॥ १२.८४ ॥

एतद्गन्धगजस्तृषाम्भसि भृशं कण्ठान्तमज्जत्तनुः फेनैः पाण्डुरितः स्वदिक्करिजयक्रीडायशःस्पर्धिभिः ।
दन्तद्वन्द्वजलानुबिम्बनचतुर्दन्तः कराम्भोवमिव्याजादभ्रमुवल्लभेन विरहं निर्वापयत्यम्बुधेः ॥ १२.८५ ॥

अथैतदुर्वीपतिवर्णनाद्भुतं न्यमीलदास्वादयितुं हृदीव सा ।
मधुस्रजा नैषधनामजापिनी स्फुटीभवद्ध्यानपुरःस्फुरन्नला ॥ १२.८६ ॥

प्रशंसितुं संसदुपान्तरञ्जिनं श्रिया जयन्तं जगतीश्वरं जिनम् ।
गिरः प्रतस्तार पुरावदेव ता दिनान्तसंध्यासमयस्य देवता ॥ १२.८७ ॥

तथाधिकुर्या रुचिरे चिरेप्सिता यथोत्सुकः सम्प्रति संप्रतीच्छति ।
अपाङ्गरङ्गस्थललास्यलम्पटाः कटाक्षधारास्त्व कीकटाधिपः ॥ १२.८८ ॥

इदंयशांसि द्विषतः सुधारुचः किमङ्कमेतद्द्विषातः किमाननम् ।
यशोभिरस्याखिललोकधाविभिर्विभीषिता धावति तामसी मसी ॥ १२.८९ ॥

इदंनृपप्रार्थिभिरुज्झितोऽर्थिभिर्मणिप्ररोहेण विवृध्य रोहणः ।
कियद्दिनैरम्बरमावरिष्यते मुधा मुनिर्विन्ध्यमरुन्ध भूधरम् ॥ १२.९ ॥

भूशक्रस्य यशांसि विक्रमभरेणोपाऋजितानि क्रमादेतस्य स्तुमहे महेमरदनस्पर्धीनि कैरक्षरैः ।
लिम्पद्भिः कृतकं कृतोऽपि रजतं राज्ञां यशःपारदैरस्य स्वर्णगिरिः प्रतापदहनैः स्वर्णं पुनर्निर्मितः ॥ १२.९१ ॥

यद्भर्तुः कुरुतेऽभिषेणनमयं शक्रो भुवः सा ध्रुवं दैग्दाहैरिव भस्मभिर्मघवता वृष्टैर्धृतोद्धूलना ।
शंभोर्मा बत सांधिवेलनटनं भाजि व्रतं द्रागिति क्षोणी नृत्यति मूर्तिरष्टवपुषोऽसृग्वृष्टिसंध्याधिया ॥ १२.९२ ॥

प्रागेतद्वपुरामुखेन्दु सृजतः स्रष्टुः समस्तस्त्विषां कोशः शोषमगादगाधजगतीशिल्पेऽप्यनल्पायितः ।
निश्शेषद्युतिमण्डलव्ययवशादीषलभैरेष वा शेषः केशमयः किमन्धतमसस्तोभैस्ततो निर्मितः ॥ १२.९३ ॥

तत्तद्दिग्जैत्रयात्रोद्धुरतुरगखुराग्रोद्धतैरन्धकारं निर्वाणारिप्रतापानलजमिव सृजत्येष राजा रजोभिः ।
भूगोलच्छायमायामयगणितविदुन्नेयकायोऽभियाभूदेतत्कीर्तिप्रतानैर्विधुभिरिव युधे राहुराहूयमानः ॥ १२.९४ ॥

आस्ते दामदोरीयामियमुदरदरीं यावलम्ब्य त्रिलोकी संमातुं शक्नुवन्ति प्रथिमभरवशादत्र नैतद्यशांसि ।
तामेनां पूरयित्वा निरगुरिव मधुध्वंसिनः पाण्डुपद्मच्छद्मापन्नानितानिद्विपदशनसनाभीनि नाभीपथेन ॥ १२.९५ ॥

अस्यासिर्भुजगः स्वकोशसुषिराकृष्टः स्फुरत्कृष्णिमा कम्पोन्मीलदराललीलवलनस्तेषां भिये भूभुजाम् ।
सङ्ग्रामेषु निजाङ्गुलीमयमहासिद्धाषधीवीरुधः पर्वास्ये विनिवेश्य जाङ्गुलिकता यैर्नाम नालम्बिता ॥ १२.९६ ॥

यः पृष्ठं युधि दर्शयत्यरिभटश्रेणीषु यो वक्रतामस्मिन्नेव बिभर्ति यञ्च किरति कूरध्वनिं निष्ठुरः ।
दोषं तस्य तथाविधस्य भजतश्चापस्य गृह्णन्गुणं विख्यातः स्फुटमेक एष नृपतिः सीमा गुणग्राहिणाम् ॥ १२.९७ ॥

अस्यारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च न संमुखौ रचयतः कम्पं च न प्राप्नुतः ।
तद्युक्तं न पुनर्निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपरश्चामित्रमित्यद्भुतम् ॥ १२.९८ ॥

धूलीभिर्दिवमन्धयन्बधिरयन्नाशाः खुराणां रवैर्वातं संयति खञ्जयञ्जवजवैस्तोत्ṝन्गुणैर्मूकयन् ।
धर्माराधनसंनियुक्तजगता राज्ञामुनाधिष्ठितः सान्द्रोत्फालमिषाद्विगायति पदा स्प्रष्टुं तुरंगोऽपि गाम् ॥ १२.९९ ॥

एतेनोत्कृत्तकण्ठप्रतिसुभटनटारब्धनाट्याद्भुतानां कष्टं द्रष्टैव नाभूद्भुवि समरसमालोकिलोकास्पदेऽपि ।
अश्वैरस्वैरवेगैः कृतखुरखुरलीमङ्क्षुविक्षुद्यमानक्ष्मापृष्ठोत्तिष्ठदन्धंकरणरणधुरारेणुधारान्धकारात् ॥ १२.१ ॥

उन्मीलल्लीलनीलोत्पलदलदलनामोदमेदस्विपूरक्रोडक्रीडद्द्विजालीगरुदुदितमरुत्स्फालवाचालवीचिः ।
एतेनाखानि शाखानिवहनवहरित्पर्णपूर्णद्रुमालीव्यालीढोपान्तशान्तव्यथपथिकदृशां दत्तरागस्तडागः ॥ १२.१०१ ॥

वृद्धो वार्धिरसौ तरङ्गवलिभं बिभ्रद्वपुः पाण्डुरं हंसालीपलितेन यष्टिकलितस्तावद्वयोर्बंहिमा ।
बिभ्रच्चन्द्रिकया च कं विकचया योग्यस्फुरत्संगतं स्थाने स्नानविधायिधार्मिकशिरोनत्यापि नित्यादृतः ॥ १२.१०२ ॥

तस्मिन्नेतेन यूना सह विहर पयःकेलिवेलासु बाले नालेनास्तु त्वदक्षिप्रतिफलनभिदा तत्र नीलोत्पलानाम् ।
तत्पाथोदेवतानां विशतु तव तनुच्छायमेवाधिकारे तत्फुल्लाम्भोजराज्ये भवतु च भवदीयाननस्याभिषेकः ॥ १२.१०३ ॥

एतत्कीर्तिविवर्तधौतनिखिलत्रैलोक्यनिर्वासितैर्विश्रान्तिः कलिता कथासु जगतां श्यामैः समग्रैरपि ।
जज्ञे कीर्तिमयादहो भयभरैरस्मादकीर्तिः पुनः सायन्नास्य कथापथेऽपि मलिनच्छाया बबन्ध स्थितिम् ॥ १२.१०४ ॥

अथावदद्भीमसुतेङ्गितात्सखी जनैरकीर्तिर्यदि वास्य नेष्यते ।
मयापि सा तत्खलु नेष्यते परं सभाश्रवःपूरतमालवल्लिताम् ॥ १२.१०५ ॥

अस्य क्षोणिपतेः पराऋधपरया लक्षीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमाणतिमिरप्रख्याः किलाकीर्तयः ।
गीयन्ते स्वरमष्टमं कलयता जातेन वन्ध्योदरान्मूकानां प्रकरेण कूर्मरमणीदुग्धोदधे रोधसि ॥ १२.१०६ ॥

तदक्षरैः सस्मितविस्मिताननां निपीय तामीक्षणभङ्गिभिः सभाम् ।
इहास्य हास्यं किमभून्नवेति तं विदर्भजा भूपमपि न्यभालयत् ॥ १२.१०७ ॥

नलान्यवीक्षां विदधे दमस्वसुः कनीनिकागः खलु नीलिमालयः ।
चकार सेवां शुचिरक्ततोचितां मिलन्नपाङ्गः सविधे तु नैषधे ॥ १२.१०८ ॥

दृशा नलस्य श्रुतिचुम्बिनेषुणा करेऽपि चक्रच्छलनम्रकार्मुकः ।
स्मरः पराङ्गैरनुकल्प्य धन्वितां जनीमनङ्गः स्वयमार्दयत्ततः ॥ १२.१०९ ॥

उत्कण्टका विलसदुज्ज्वलपत्रराजिरामोदभागनपरागतराऽतिगौरी ।
रुद्रक्रुधस्तदरिकामधिया नले सा वासार्थितामधृत काञ्चनकेतकी वा ॥ १२.११ ॥

तन्नालीकनले चलेतरमनाः साम्यान्मनागप्यभूदप्यग्रे चतुरः स्थितान्न चतुरा पातुं दृशा नैषधान् ।
आनन्दाम्बुनिधौ निमज्ज्य नितरां दूरं गता तत्तलालंकारीभवनाज्जनाय ददती पातालकन्याभ्रमम् ॥ १२.१११ ॥

सर्वस्वं चेतसस्तां नृपतिरपि दृशे प्रीतिदायं प्रदाय प्रापत्तद्दृष्टिमिष्टातिथिममरदुरापामपाङ्गोत्तरङ्गम् ।
आनन्दान्ध्येन वन्ध्यानकृत तदपराकूतपातान्स रत्याः पत्या पीयूषधारावलनविरचितेनाशुगेनाशु लीढः ॥ १२.११२ ॥

श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तस्य द्वादश एष मातृचरणाम्भोजालिमौलेर्महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः ॥ १२.११३ ॥