नृसिंहोत्तरतापनीयोपनिषद

विकिस्रोतः तः
(नृसिंहतापनी उपनिषद्-2 इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ

॥नृसिंहतापिन्युपनिषत्॥ ॥नृसिंहोत्तरतापिन्युपनिषत्॥

नृसिंहोत्तरतापिन्यां तुर्यतुर्यात्मकं महः।
परमाद्वैतसाम्राज्यं प्रत्यक्षमुपलभ्यते॥
ॐ देवा ह वै प्रजापतिमब्रुवन्नणोरणीयां- समिममात्मानमोङ्कारं नो व्याचक्ष्वेति तथेत्योमित्येतदक्षरमिदं सर्वं तस्योपव्याख्यानं भूतं भवद्भविष्यदिति सर्वमोङ्कार एव यच्चान्यत्त्रिकालातीतं तदप्योङ्कार एव सर्वं ह्येतद्ब्रह्मायमात्मा ब्रह्म तमेतमात्मानमोमिति ब्रह्मणैकीकृत्य ब्रह्म चात्मानमोमित्येकीकृत्य तदेकमजरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि तदेवेति संहरेदोमिति तं वा एतं त्रिशरीरमात्मानं त्रिशरीरं परं ब्रह्मानुसन्दध्यात्स्थूलत्वात्- स्थूलभुक्त्वाच्च सूक्ष्मत्वात्सूक्ष्मभुक्त्वा- च्चैक्यादानन्दभोगाच्च सोऽयमात्मा चतुष्पाज्जागरितस्थानः स्थूलप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुक् चतुरात्मा विश्वो वैश्वानरः प्रथमः पादः॥ स्वप्नस्थानः सूक्ष्मप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः सूक्ष्मभुक् चतुरात्मा तैजसो हिरण्यगर्भो द्वितीयः पादः॥ यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तं सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक् चेतोमुखश्चतुरात्मा प्राज्ञ ईश्वरस्तृतीयः पादः॥ एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्यामेष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानं त्रयमप्येतत्सुषुप्तं स्वप्नं मायामात्रं चिदेकरसो ह्ययमात्माथ तुरीयश्चतुरात्मा तुरीयावसितत्वादेकैकस्योतानुज्ञात्रनुज्ञाविकल्पै- स्त्रयमप्यत्रापिसुषुप्तं स्वप्नं मायामात्रं चिदेकरसो ह्ययमात्माथायमादेशो न स्थूलप्रज्ञं न सूक्ष्मप्रज्ञं नोभयतःप्रज्ञं न प्रज्ञं नाप्रज्ञं न प्रज्ञानघन- मदृष्टमव्यवहार्यमग्राह्यमलक्षण- मचिन्त्यमचिन्त्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपञ्चोपशमं शिवं शान्तमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेय ईश्वरग्रासस्तुरीयस्तुरीयः॥ इति प्रथमः खण्डः॥१॥

तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं स्वप्ने जाग्रतमसुषुप्तं सुषुप्ते जाग्रतमस्वप्नं तुरीये जाग्रतमस्वप्नमसुषुप्तव्यभिचारिणं नित्यानन्दं सदेकरसं ह्येव चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेर्द्रष्टा प्राणस्य द्रष्टा तमसो द्रष्टा सर्वस्य द्रष्टा ततः सर्वस्मादन्यो विलक्षणचक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षीः बुद्धेः साक्षी प्राणस्य साक्षी तमसः साक्षी सर्वस्य साक्षी ततोऽविक्रियो महाचैतन्योऽस्मात्सर्वस्मात्प्रियतम आनन्दघनं ह्येवमस्मात्सर्वस्मात्पुरतः सुविभातमेकरसमेवाजरममृतमभयं ब्रह्मैवाप्यजयैनं चतुष्पादं मात्राभिरोङ्कारेण चैकीकुर्याज्जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्चतूरूपोङ्कार एव चतूरूपो ह्ययमकारः स्थूलसूक्ष्मबीजसाक्षिभिरकाररूपै- राप्तेरादिमत्त्वाद्वा स्थूलत्वात्सूक्ष्मत्वाद्- बीजत्वात्साक्षित्वाच्चाप्नोति ह वा इदं सर्वमादिश्च भवति य एवं वेद॥ स्वप्नस्थानश्चतुरात्मा तैजसो हिरण्यगर्भश्चतूरूप उकार एव चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीज- साक्षिभिरुकाररूपैरुत्कर्षादुभयत्वात्स्थूलत्वात्- सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्चोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवति य एवं वेद॥ सुषुप्तस्थानश्चतुरात्म प्राज्ञैइश्वरश्चतुरूपो मकार एव चतूरूपो ह्ययं मकारः स्थूलसूक्ष्म- बीजसाक्षिभिर्मकाररूपैर्मितेरपीतेर्वा स्थूलत्वात्- सूक्ष्मत्वाद्बीजत्वात्साक्षित्वाच्च मिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद॥ मात्रामात्राः प्रतिमात्राः कुर्यादथ तुरीय ईश्वरग्रासः स स्वराट् स्वयमीश्वरः स्वप्रकाशश्चतुरात्मो- तानुज्ञात्रनुज्ञाविकल्पैरोतो ह्ययमात्मा ह्यथैवेदं सर्वमन्तकाले कालाग्निः सूर्योस्रैरनुज्ञातो ह्ययमात्मा ह्यस्य सर्वस्य स्वात्मानं ददातीदं सर्वं स्वात्मानमेव करोति यथा तमः सवितनुज्ञकरसो ह्ययमात्मा चिद्रूप एव यथा दाह्यं दग्ध्वाग्निरविकल्पो ह्ययमात्मा वाङ्मनोऽगोचरत्वाच्चिद्रूपश्चतूरूप ॐकार एव चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुज्ञा- विकल्पैरोङ्काररूपैरात्मैव नामरूपात्मकं हीदं सर्वं तुरीयत्वाच्चिद्रूपत्वाच्चोतत्वादनुज्ञातृत्वाद- नुज्ञानत्वादविकल्परूपत्वाच्चाविकल्परूपं हीदं सर्वं नैव तत्र काचन भिदास्त्यथ तस्यायमादेशो मात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैत ॐकार आत्मैव संविशत्यात्मनात्मानं य एवं वेदैष वीरो नारसिंहेन वानुष्टुभा मन्त्रराजेन तुरीयं विद्यादेष ह्यात्मानं प्रकाशयति सर्वसंहारसमर्थः परिभवासहः प्रभुर्व्याप्तः सदोज्ज्वलोऽविद्यातत्कार्यहीनः स्वात्मबन्धहरः सर्वदा द्वैतरहित आनन्दरूपः सर्वाधिष्ठानः सन्मात्रो निरस्ताविद्यातमोमोहोऽहमेवेति तस्मादेवमेवेममात्मानं परं ब्रह्मानुसन्दध्यादेष वीरो नृसिंह एवेति॥ इति द्वितीयः खण्डः॥२॥

तस्य ह वै प्रणवस्य या पूर्वा मात्रा सा प्रथमः पादो भवति द्वितीया द्वितीयस्य तृतीया तृतीयस्य चतुर्थ्योतानुज्ञात्रनुज्ञाविकल्परूपा तया तुरीयं चतुरात्मानमन्विष्य चतुर्थपादेन च तया तुरीयेणानुचिन्तयन्ग्रसेत्तस्य ह वा एतस्य प्रणवस्य या पूर्वा मात्रा सा पृथिव्यकारः स ऋग्भिरृग्वेदो ब्रह्मा वसवो गायत्री गार्हपत्यः सा प्रथमः पादो भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्म- बीजसाक्षिभिर्द्वितीयान्तरिक्षं स उकारः स यजुभिर्- यजुर्वेदो विष्णुरुद्रास्त्रिष्टुब्दक्षिणाग्निः सा द्वितीयः पादो भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिस्तृतीया द्यौः स मकारः स सामभिः सामवेदो रुद्रादित्या जगत्याहवनीयः सा तृतीयः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्यावसानेऽस्य चतुर्थ्यर्धमात्रा सा सोमलोक ॐकारः साथर्वणै- र्मन्त्रैरथर्ववेदः संवर्तकोऽग्निर्मरुतो विराडेकर्षिर्भास्वती स्मृता चतुर्थः पादो भवति भवति च सर्वेषु पादेषु चतुरात्मा स्थूलसूक्ष्मबीजसाक्षिभिर्मात्रामात्राः प्रतिमात्राः कृत्वोतनुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेज्ज्ञोऽमृतो हुतसंवित्कः शुद्धः संविष्टो निर्विग्न इममसुनियमेऽनुभूयेहेदं सर्वं दृष्ट्वा स प्रपञ्चहीनोऽथ सकलः साधारोऽमृतमयश्चतुरात्माथ महापीठे सपरिवारं तमेतं चतुःसप्तात्मानं चतुरात्मानं मूलाग्नावग्निरूपं प्रणवं सन्दध्यात्सप्तात्मानं चतुरात्मानमकारं रुद्रं भ्रूमध्ये सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानं चतुरात्मानमोङ्कारं सर्वेश्वरं द्वादशान्ते सप्तात्मानं चतुरात्मानं चतुःसप्तात्मानमोङ्कारं तुरीयमानन्दामृतरूपं षोडशान्तेऽथानन्दामृतेनै- तांश्चतुर्धा संपूज्य तथा ब्रह्माणमेव विष्णुमेव रुद्रमेव विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव लिङ्गरूपनेव च संपूज्योपहारैश्चतुर्धाथ लिङ्गात्संहृत्य तेजसा शरीरत्रयं संव्याप्य तदधिष्ठानमात्मानं संज्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य गुणैरैक्यं संपाद्य महास्थूलं महासूक्ष्मे महासूक्ष्मं महाकारणे च संहृत्य मात्राभिरोता- नुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन्ग्रसेत्॥ इति तृतीयः खण्डः॥३॥

तं वा एतमात्मानं परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतमनुष्टुभा नत्वा प्रसाद्योमिति संहृत्याहमित्यनुसन्दध्यादथैतमेवात्मानं परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतमेका- दशात्मानं नारसिंहं नत्वोमिति संहरन्नानुसन्दध्या- दथैतमेवमात्मानं परमं ब्रह्मोङ्कारं तुरीयोङ्काराग्रविद्योतं प्रणवेन संचिन्त्यानुष्टुभा नत्वा सच्चिदानन्दपूर्णात्मसु नवात्मकं सच्चिदानन्दपूर्णात्मानं परं ब्रह्म संभाव्याह- मित्यात्मानमादाय मनसा ब्रह्मणैकीकुर्याद्यदनुष्टुभैव वा एष उपवसन्नेष हि सर्वत्र सर्वदा सर्वात्मा सन् सर्वमत्ति नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वदा सर्वात्मा सन्त्सर्वमत्ति नृसिंह एवैकल एष तुरीय एअष एवोग्र एष एव वीर एष एव महानेष एव विष्णुरेष एव ज्वलन्नेष एव सर्वतोमुख एष एष नृसिंह एष एव भीषण एष एव भद्र एष एव मृत्युमृत्युरेष एव नमाम्येष एवाहमेवं योगारूढो ब्रह्मण्येवानुष्टुभं सन्दध्यादोङ्कार इति॥तदेतौ श्लोकौ भवतः॥ संस्तभ्य सिंह स्वसुतान्गुणार्था- न्संयोज्य शृङ्गैरृषभस्य हत्वा॥ वश्यां स्फुरन्तीमसतीं निपीड्य संभक्ष्य सिंहेन स एष वीरः॥ शृङ्गप्रोतान्पादान्स्पृष्ट्वा हत्वा तानग्रसत्स्वयम्। नत्वा च बहुधा दृष्ट्वा नृसिंहः स्वयमुद्बभाविति॥ इति चतुर्थः खण्डः॥४॥

अथैष उ एव अकार आप्ततमार्थ आत्मन्येव नृसिंहे देवे ब्रह्मणि वर्तत एष ह्येवाप्ततम एष हि साक्ष्येष ईश्वरस्तत्सर्वगतो नहीदं सर्वमेष हि व्याप्ततमैदं सर्वं यदयमात्मा मायामात्र एष एवोग्र एष हि व्याप्ततम एष एव वीर एष हि व्याप्ततम एष एव महानेष हि व्याप्ततम एष एव विष्णुरेष हि व्याप्ततम एष एव ज्वलन्नेष हि व्याप्ततम एष एव सर्वतोमुख एष हि व्याप्ततम एष एव नृसिंह एष हि व्याप्ततम एष एव भीषण एष हि व्याप्ततम एष एव भद्र एष हि व्याप्ततम एष एव मृत्युमृत्युरेष हि व्याप्ततम एष एव नमाम्येष हि व्याप्ततम एष एवाहमेष हि व्याप्ततम आत्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामेन तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष एवोङ्कार उत्कृष्टतमार्थ आत्मन्येव नृसिंहे देवे ब्रह्मणि वर्तते तस्मादेष सत्यस्वरूपो न ह्यन्यदस्त्यप्रमेयमनात्मप्रकाशमेष हि स्वप्रकाशोऽसङ्गोऽन्यन्न वीक्षत आत्मातो नान्यथा प्राप्तिरात्ममात्रं ह्येतदुत्कृष्टमेष एवोग्र एष ह्येवोत्कृष्ट एष एव विष्णुरेष ह्येवोत्कृष्ट एष एव ज्वलन्नेष ह्येवोत्कृष्ट एष एव सर्वतोमुख एष ह्येवोत्कृष्ट एष एव नृसिंह एष ह्येवोत्कृष्ट एष एव भीषण एष ह्येवोत्कृष्ट एष एव भद्र एष ह्येवोत्कृष्ट एष एव मृत्युमृत्युरेष ह्येवोत्कृष्ट एष एव नमाम्येष ह्येवोत्कृष्ट एष एवाहमेष ह्येवोत्कृष्टस्तस्मादात्मानमेवैनं जानीयादात्मैव नृसिंहो देवो ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येत्यथैष एव मकारो महाविभूत्यर्थ आत्मन्यैव नृसिंहे देवे ब्रह्मणि वर्तते तस्मादयमनल्पो भिन्नरूपः स्वप्रकाशो ब्रह्मैवाप्ततम उत्कृष्टतम एतदेव ब्रह्मापि सर्वज्ञं महामायं महाविभूत्येतदेवोग्रमेतद्धि महाविभूत्येतदेव वीरमेतद्धि महाविभूत्यतदेव महदेतद्धि महाविभूत्येतदेव विष्ण्वेतद्धि महाविभूत्येतदेव ज्वलदेतद्धि महाविभूत्येतदेव सर्वतोमुखमेतद्धि महाविभूत्येतदेव नृसिंहमेतद्धि महाविभूत्येतदेव भीषणमेतद्धि महाविभूत्येतदेव भद्रमेतद्धि महाविभूत्येतदेव मृत्युमृत्य्वेतद्धि महाविभूत्येतदेव नमाम्येतद्धि महाविभूत्येतदेवाहमेतद्धि महाविभूति तस्मादकारोकाराभ्यामिममात्मानमाप्ततममुत्कृष्टतमं चिन्मात्रं सर्वद्रष्टारं सर्वसाक्षिणं सर्वग्रासं सर्वप्रेमास्पदं सच्चिदानन्दमात्रमेकरसं पुरतोऽस्मात्सर्वस्मात्सुविभातमन्विष्याप्ततममुत्कृष्टतमं महामायं महाविभूति सच्चिदानन्दमात्रमेकरसं पुरमेव ब्रह्म मकारेण जानीयादात्मैव नृसिंहो देवः परमेव ब्रह्म भवति य एवं वेद सोऽकामो निष्काम आप्तकाम आत्मकामो न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येतीति ह प्रजापतिरुवाच प्रजापतिरुवाच॥ इति पञ्चमः खण्डः॥५॥

ते देवा इममात्मानं ज्ञातुमैच्छंस्तान्हासुरः पाप्मा परिजग्राह त ऐक्षन्तहन्तैनमासुरं पाप्मानं ग्रसाम इत्येतमेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानमुग्रमनुग्रं वीरमवीरं महान्तममहान्तं विष्णुमविष्णुं ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतोमुखं नृसिंहमनृसिंहं भीषणमभीषणं भद्रमभद्रं मृत्युमृत्युममृत्युमृत्युं नमाम्यनमाम्यहमनहं नृसिंहानुष्टुभैव बुबुधिरे तेभ्यो हासावासुरः पाप्मा सच्चिदानन्दघनज्योतिरभवत्तस्मादपक्वकषाय इममेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानं नृसिंहानुष्टुभैव जानीयात्तस्यासुरः पाप्मा सच्चिदानन्दघनज्योतिर्भवति ते देवा ज्योतिरुत्तितीर्षवो द्वितीयाद्भयमेव पश्यन्त इममेवोङ्काराग्रविद्योतं तुरीयतुरीयमात्मानमनुष्टुभान्विष्य प्रणवेनैव तस्मिन्नवस्थितास्तेभ्यस्तज्ज्योतिरस्य सर्वस्य पुरतः सुविभातमविभातमद्वैतमचिन्त्यमलिङ्गं स्वप्रकाशमानन्दघनं शून्यमभवदेवंवित्स्वप्रकाशं परमेव ब्रह्म भवति ते देवाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च ससाधनेभ्यो व्युत्थाय निराकारा निष्परिग्रहा अशिखा अयज्ञोपवीता अन्धा बधिरा मुग्धाः क्लीबा मूका उन्मत्त इव परिवर्तमानाः शान्ता दान्ता उपरतास्तितिक्षवः समाहिता आत्मरतय आत्मक्रीडा आत्ममिथुना आत्मानन्दाः प्रणवमेव परं ब्रह्मात्मप्रकाशं शून्यं जानन्तस्तत्रैव परिसमाप्तास्तस्माद्देवानां व्रतमाचरन्नोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत्स आत्मन्येवात्मानं परं ब्रह्म पश्यति॥ तदेष श्लोकः॥ शृङ्गेश्वशृङ्गं संयोज्य सिंहं शृङ्गेषु योजयेत्। शृङ्गाभ्यां शृङ्गमाबध्य त्रयो देव उपासत इति॥ इति षष्ठः खण्डः॥६॥

देवा ह वै प्रजापतिमब्रुवन् भूय एव नो भगवान्विज्ञापयत्विति तथेत्यजत्वादमरत्वाद- जरत्वादमृतत्वादशोकत्वादमोहत्वादनशनायत्वाद- पिपासत्वादद्वैतत्वाच्चाकरेणेममात्मान- मन्विष्योत्कृष्टत्वादुत्पादकत्वादुत्प्रवेष्टत्वादु- त्थापयितृत्वादुद्द्रष्टृत्वादुत्कर्तृत्वादुत्पथ- वारकत्वाद्दुद्ग्रासत्वादुद्भ्रान्तत्वादुत्तीर्णविकृतत्वा- च्चोङ्कारेणेममात्मानं परमं ब्रह्म नृसिंहमन्विष्याकारेणेममात्मानमुकारं पूर्वार्हमाकृष्य सिंहीकृत्योत्तरार्धेन तं सिंहमाकृष्य महत्त्वान्महस्त्वान्मानत्वा- न्मुक्तत्वान्महादेवत्वान्महेश्वरत्वान्महासत्त्वा- न्महाचित्त्वान्महानन्दत्वान्महप्रभुत्वाच्च मकारार्धेनानेनात्मनैकीकुर्यादशरीरो निरिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद कस्त्वमित्यहमिति होवाचैवमेवेदं सर्वं तस्मादहमिति सर्वाभिधानं तस्यादिरयमकारः स एव भवति सर्वं ह्ययमात्मानं हि सर्वान्तरो न हीदं सर्वमहमिति होवाचैव निरात्मकमात्मैवेदं सर्वं तस्मात्सर्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेद्ब्रह्मैवेदं सर्वं सच्चिदानन्दरूपं सच्चिदानन्दरूपमिदं सर्वं सद्धीदं सर्वं सत्सदिति चिद्धीदं सर्वं काशते प्रकाशते चेति किं सदितीदमिदं नेत्यनुभूतिरिति कैषेतीयमियं नेत्यवचनेनैवानुभवन्नुवाचिअवमेव चिदानन्दावप्यवचनेनैवानुभवन्नुवाच सर्वमन्यदिति स परमानन्दस्य ब्रह्मणो नाम ब्रह्मेति तस्यान्त्योऽयं मकारः स एव भवति तस्मान्मकारेण परमं ब्रह्मान्विच्छेत्किमिदमेवमित्युकार इत्येवाहाविचिकित्स- न्नकारेणेममात्मानमन्विष्य मकारेण ब्रह्मणानु- सन्दध्यादुकारेणाविचिकित्सन्नशरीरोऽनिन्द्रियोऽप्राणोऽतमाः सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद ब्रह्म वा इदं सर्वमत्तृत्वादुग्रत्वाद्वीरत्वान्महत्वाद्- विष्णुत्वाज्ज्वलत्वात्सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वा- द्भद्रत्वान्मृत्युमृत्युत्वान्नमामित्वादहंवादिति सततं ह्येतद्ब्रह्मोग्रत्वाद्वीरत्वान्महत्त्वाद्विष्णुत्वाज्ज्वलत्वा- सर्वतोमुखत्वान्नृसिंहत्वाद्भीषणत्वाद्भद्रत्वा- न्मृत्युमृत्युत्वान्नमामित्वादिति तस्मादकारेण परमं ब्रह्मान्विष्य मकारेण मन आद्यवितारं मन आदिसाक्षिण- मन्विच्छेत्स यदैतत्सर्वमपेक्षते तदैतत्सर्वमस्मिन्प्रविशति स यदा प्रतिबुध्यते तदेतत्सर्वमस्मादेवोत्तिष्ठति तदेव तत्सर्वं निरूह्य प्रत्यूह्य संपीड्य संज्वाल्य संभक्ष्य स्वात्मानमेवैषा ददात्यत्युग्रोऽतिवीरोतिमहानिति विष्णुरतिज्वलन्नतिसर्वतोमुखोऽतिनृसिंहोऽतिभीषणोऽति- भद्रोतिमृत्युमृत्युरतिनमामत्यहं भूत्वा स्वे महिम्नि सदा समासते तस्मादेनमकारार्थेन परेण ब्रह्मणैकीकुर्यादुकारेणाविचिकित्सन्नशरीरो निरिन्द्रियोऽप्राणोऽमनः सच्चिदानन्दमात्रः स स्वराड् भवति य एवं वेद॥ तदेष श्लोकः॥ शृङ्गं शृङ्गार्धमाकृष्य शृङ्गेणानेन योजयेत्। शृङ्गमेनं परे शृङ्गे तमनेनापि योजयेत्॥ इति सप्तमः खण्डः॥७॥

अथ तुरीयेणोतश्च प्रोतश्च ह्ययमात्मा नृसिंहोऽस्मिन्सर्वमयं सर्वात्मानं हि सर्वं नैवातोऽद्वयो ह्ययमात्मैकल एवावविकल्पो न हि वस्तु सदयं ह्योत इव सद्धनोऽयं चिद्धन आनन्दघन एवैकरसोऽव्यवहार्यः केनचनाद्वितीय ओतश्च प्रोतश्चैष ओङ्कार एवं नैवमिति पृष्ट ओमित्येवाह वाग्वा ओङ्कारो वागेवेदं सर्वं न ह्यशब्दमिवेहास्ति चिन्मयो ह्ययमोङ्कारश्चिन्मयमिदं सर्वं तस्मात्परमेश्वर एवैकमेव तद्भवत्येत- दमृतमयमेतद्ब्रह्माभयं वै ब्रह्म भवति य एवं वेदेति रहस्यमनुज्ञाता ह्ययमात्मैष ह्यस्य सर्वस्य स्वात्मानमनुजानाति न हीदं सर्वं स्वत आत्मविन्न ह्ययमोतो नानुज्ञातासङ्गत्वाद- विकारित्वादसत्त्वादन्यस्यानुज्ञाता ह्ययमोङ्कार ओमिति ह्यनुजानाति वाग्वा ओङ्कारो वागेवेदं सर्वमनुजानाति चिन्मयो ह्ययमोङ्कारश्चिद्धीदं सर्वं निरात्मकमात्मसात्करोति तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यमनुज्ञैकरसो ह्ययमात्मा प्रज्ञानघन एवायं यस्मात्सर्वात्पुरतः सुविभातोऽतश्चिद्धन एव न ह्ययमोतो नानुज्ञातैतदात्म्यं हीदं सर्वं सदिवानुज्ञैकरसो ह्ययमोङ्कार ओमिति ह्येवान्नुजानाति वाग्वा ओङ्कारो वागेव ह्यनुजानाति चिन्मयो ह्ययमोङ्कारश्चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर एवैकमेव तद्भवत्येतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यमविकल्पो ह्ययमात्माऽद्वितीयत्वादविकल्पो ह्ययमोङ्कारोऽद्वितीयत्वादेव चिन्मयो ह्ययमोङ्कार- स्तस्मात्परमेश्वर एवैकमेव तद्भवत्यविकल्पोऽपि नात्र काचन भिदास्ति नैव तत्र काचन भिदास्त्यत्र हि भिदामिव मन्यमानः शतधा सहस्रधा भिन्नो मृत्योः स मृत्युमाप्नोति तदेतदद्वयं स्वप्रकाशं महानन्दमात्माइवैतदमृतमभयमेतद्ब्रह्माभयं वै ब्रह्माभयं हि वै ब्रह्म भवति य एवं वेदेति रहस्यम्॥ इत्यष्टमः खण्डः॥८॥

देवा ह वै प्रजापतिमब्रुवन्निममेव नो भगवन्नोङ्कारमात्मानमुपदिशेति तथेत्युपद्रष्टानुमन्तैष आत्मा नृसिंहश्चिद्रूप एवाविकारो ह्युपलब्धः सर्वस्य सर्वत्र न ह्यस्ति द्वैतसिद्धिरात्मैव सिद्धोऽद्वितीयो मायया ह्यन्यदिव स वा एष आत्मा पर एषैव सर्वं तथाहि प्रज्ञेनैषा विद्या जगत्सर्वमात्मा परमात्मैव स्वप्रकाशोऽप्यविषयज्ञानत्वाज्जानन्नेव ह्यन्यत्रान्यन्न विजानात्यनुभुतेर्माया च तमोरूपानुभूतिस्तदेतज्जडं मोहात्मकम- नन्तमिदं रूपस्यास्य व्यञ्जिका नित्यनिवृत्तापि मूढैरात्मेव दृष्टास्य सत्त्वमसत्त्वं च दर्शयति सिद्धत्वासिद्धत्वाभ्यां स्वतन्त्रा- स्वतन्त्रत्वने सैषा वटबीजसामान्यवदनेक- वटशक्तिरेकैव तद्यथा वटबीजसामन्यमेक- मनेकान्स्वाव्यतिरिक्तान्वटान्सबीजानुत्पाद्य तत्र तत्र पूर्णं सत्तिष्ठत्येवमेवैषा माया स्वाव्यतिरिक्तानि पूर्णानि क्षेत्राणि दर्शयित्वा जीवेशावभासेन करोति माया चाविद्या च स्वयमेव भवति सैषा चित्रा सुदृढा बह्वङ्कुरा स्वयं गुणभिन्नाङ्कुरेष्वपि गुणभिन्ना सर्वत्र ब्रह्मविष्णुशिवरूपिणी चैतन्यदीप्ता तस्मादात्मन एव त्रैविध्यं सर्वत्र योनित्वमभिमन्ता जीवो नियन्तेश्वरः सर्वाहंमानी हिरण्यगर्भस्त्रिरूप ईश्वर- वद्व्यक्तचैतन्यःसर्वगो ह्येष ईश्वरः क्रियाज्ञानात्मा सर्वं सर्वमयं सर्वे जीवाः सर्वमयाः सर्वास्ववस्थासु तथाप्यल्पाः स वा एष भूतानिन्द्रियाणि विराजं देवताः कोशांश्च सृष्ट्वा प्रविश्यामूढो मूढ इव व्यवहरन्नास्ते माययैव तस्मादद्वय एवायमात्मा सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरञ्जनो विभुरद्वयानन्दः परः प्रत्यगेकरसः प्रमाणैरेतैरवगतः सत्तामात्रं हीदं सर्वं सदेव पुरस्तात्सिद्धं हि ब्रह्म न ह्यत्र किञ्चानुभूयते नाविद्यानुभवात्मा न स्वप्रकाशे सर्वसाक्षिण्यविक्रियेऽद्वये पश्यतेहापि सन्मात्रमसदन्यत्सत्यं हीत्थं पुरस्तादयोनि स्वात्मस्थमानन्दचिद्धनं सिद्धं ह्यसिद्धं तद्विष्णुरीशानो ब्रह्मान्यदपि सर्वं सर्वगतं सर्वमत एव शुद्धोऽबाध्यस्वरूपो बुद्धः सुखस्वरूप आत्मा न ह्येतन्निरात्मकमपि नात्मा पुरतो हि सिद्धो न हीदं सर्वं कदाचिदात्मा हि स्वमहिमस्थो निरपेक्ष एक एव साक्षी स्वप्रकाशः किं तन्नित्यमात्मात्र ह्येव न विचिकित्समेतद्धीदं सर्वं साधयति द्रष्टा द्रष्टुः साक्ष्यविक्रियः सिद्धो निरवद्यो बाह्याभ्यन्तरवीक्षणात्सुविस्फुटतमः स परताद्ब्रूतैष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो नाल्पः साक्ष्यविशेषोऽनन्योऽसुखदुःखोऽद्वयः परमात्मा सर्वज्ञोऽनन्तोऽभिन्नोऽद्वयः सर्वदा संवित्तिर्मायया नासंवित्तिः स्वप्रकाशे यूयमेव दृष्टाः किमद्वयेन द्वितीयमेव न यूयमेव ब्रूह्येव भगवन्निति देवा ऊचुर्यूयमेव दृश्यते चेन्नात्मज्ञा असङ्गो ह्ययमात्मातो यूयमेव स्वप्रकाशा इदं हि सत्संविन्मयत्वाद्यूयमेव नेति होचुर्हन्तासङ्गा वयमिति होचुः कथं पश्यन्तीति होवाच न वयं विद्म इति होचुस्ततो यूयमेव स्वप्रकाशा इति होवाच न च सत्संविन्मया एतौ हि पुरस्तात्सुविभातमव्यवहार्य- मेवाद्वयं ज्ञातो नैष विज्ञातो विदिताविदितात्पर इति होचुः स होवाच तद्वा एतद्ब्रह्माद्वयं ब्रह्मत्वान्नित्यं शुद्धं बुद्धं मुक्तं सत्यं सूक्ष्मं परिपूर्णमद्वयं सदानन्दचिन्मात्र- मात्मैवाव्यवहार्यं केन च तत्तदेतदात्मान- मोमित्यपश्यन्तः पश्यत तदेतत्सत्यमात्मा ब्रह्मैव ब्रह्मात्मैवात्र ह्येव न विचिकित्स्यमित्यों सत्यं तदेतत्पण्डिता एव पश्यन्त्येतद्ध्यशब्द- मस्पर्शमरूपमरसमगन्धमवक्तव्यमन- दातव्यमगन्तव्यमविसर्जयितव्यमनानन्दयितव्य- ममन्तव्यमबोद्धव्यममनहङ्कर्तयितव्यम- चेतयितव्यमप्राणयितव्यमनपानयितव्यम- व्यानयितव्यमनुदानयितव्यमसमानयितव्यम- निन्द्रियमविषयमकरणमलक्षणमसङ्गम- गुणमविक्रियमव्यपदेश्यमसत्त्वमरस्कम- तमस्कममायमभयमप्यौपनिषदमेव सुविभातं सकृद्विभातं पुरतोऽस्मात्सर्वस्मा- त्सुविभातमद्वयं पश्यत हंसः सोऽहमिति स होवाच किमेष दृष्टोऽदृष्टो वेति दृष्टो विदिताविदितात्पर इति होचुः क्वैषा कथमिति होचुः किं तेन न किंचनेति होचुर्यूयमेवाश्चर्यरूपा इति होवाच न चेत्याहुरोमित्यनुजानीध्वं ब्रूतैनमिति ज्ञातोऽज्ञातश्चेति होचुर्नचैनमिति होचुरिति ब्रूतैवैवमात्मसिद्धमिति होवाच पश्याम एव भगवो न च वयं पश्यामो नैव वयं वक्तुं शक्नुमो नमस्तेऽस्तु भगवन् प्रसीदेति होचुर्न भेतव्यं पृच्छतेति होवाच क्वैषनुज्ञेत्येष एवात्मेति होवाच ते होचुर्नमस्तुभ्यं वयं त इति ह प्रजापतिर्देवाननु शशासानुशशासेति॥ तदेष श्लोकः॥ ओतमोतेन जानीयादनुज्ञातारमान्तरम्। अनुज्ञामद्वयं लब्ध्वा उपद्रष्टारमाव्रजेत्॥ इति नवमः खण्डः॥९॥

ॐ भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः। व्यशेम देवहितं यदायुः। ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः। स्वस्ति नः पूषा विश्ववेदाः। स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः। स्वस्ति नो बृहस्पतिर्दधातु॥ ॐ शान्तिः शान्तिः शान्तिः॥ इति नृसिंहोत्तरतापिन्युपनिषत्समाप्ता॥



संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. उपनिषद्
    1. नृसिंहतापनी_उपनिषद्
      1. नृसिंहपूर्वतापिन्युपनिषत्
      2. नृसिंहोत्तरतापिन्युपनिषत्

बाहरी कडियाँ[सम्पाद्यताम्]