निरुक्तशास्त्रम्/एकादशोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← दशमोध्यायः निरुक्तशास्त्रम्
एकादशमोध्यायः
[[लेखकः :|]]
द्वादशोध्यायः →


अथैकादशोऽध्यायः
श्येनो व्याख्यातः । तस्यैषा भवति ११.१

आदाय श्ये॒नो अभरत्सोम सहस्रं सवाँ अयुतं च साकम् ।
अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥
आदय श्येनोऽहरत्सोमम् । सहस्रं सवान् । अयुतं च सह ।
सहस्रं सहस्रसाव्यमभिप्रेत्य । तत्रायुतं सोमभक्षाः ।
तत्संबन्धेनायुतं दक्षिणा इति वा । तत्र पुरन्धिरजहादमित्रानदानानिति वा । मदे सोमस्य मूरा अमूरः इति । ऐन्द्रे च सूक्ते सोमपानेन च स्तुतः । तस्मादिन्द्रं मन्यन्ते ।
ओषधिः सोमः सुनोतेः । यदेनमभिषुण्वन्ति । बहुलमस्य नैघण्टुकं वृत्तम् । आश्चर्यमिव प्राधान्येन ।
तस्य पावमानीषु निदर्शनायोदाहरिष्यामः ११.२

स्वादिष्ठया मदिष्ठया पवस्व सोम धार॑या ।
इन्द्राय पातवे सुतः ॥
इति सा निगदव्याख्याता ।
अथैषापरा भवति । चन्द्रमसो वा । एतस्य वा ११.३

सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिम् ।
सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥
सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिमिति वृथासुतमसोममाह ।
सोमं यं ब्रह्माणो विदुरिति । न तस्याश्नाति कश्चनायज्वेत्यधियज्ञम् । अथाधिदैवतम् । सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिमिति यजुःसुतमसोममाह । सोमं यं ब्रह्माणो विदुश्चन्द्रमसम् । न तस्याश्नाति कश्चनादेव इति । अथैषापरा भवति । चन्द्रमसो वा । एतस्य वा ११.४

यत्त्वा देव प्र पिबन्ति तत आ प्यायसे पुनः ।
वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥
यत् त्वा देव प्रपिबन्ति तत आप्यायसे पुनरिति नाराशंसानभिप्रेत्य । पूर्वपक्षापरपक्षाविति वा । वायुः सोमस्य रक्षिता ।
वायुमस्य रक्षितारमाह । साहचर्यात् । रसहरणाद्वा । समानां संवत्सराणां मास आकृतिः सोमः । रूपविशेषैरोषधिः । चन्द्रमा वा ।
चन्द्रमाश्चायन्द्रमति । चन्द्रो माता । चान्द्रं मानमस्येति वा । चन्द्रश्चन्दतेः । कान्तिकर्मणः । चन्दनमित्यप्यस्य भवति । चारु द्रमति । चिरं द्रमति । चमेर्वा पूर्वम् । चारु रुचेर्विपरीतस्य ।
तस्यैषा भवति ११.५

नवोनवो भवति जाय॑मानोऽह्नां केतुरुषामेत्यग्रम् ।
भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥
नवोनवो भवति जायमानः । इति पूर्वपक्षादिमभिप्रेत्य । अह्नां केतुरुषसामेत्यग्रम् । इत्यपरपक्षान्तमभिप्रेत्य । आदित्यदैवतो द्वितीयः पाद इत्येके । भागं देवेभ्यो विदधात्यायन् । इत्यर्धमासेज्यामभिप्रेत्य । प्रवर्धयते चन्द्रमा दीर्घमायुः । मृत्युर्मारयतीति सतः । मृतं च्यावयतीति वा शतबलाक्षो मौद्गल्यः । तस्यैषा भवति ११.६

परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् ।
चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥
परं मृत्यो । ध्रुवं मृत्यो । ध्रुवं परेहि मृत्यो । कथितं तेन मृत्यो । मृतं च्यावयते भवति मृत्यो । मदेर्वा मुदेर्वा । तेषामेषा भवति ११.७

त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
या मर्त्याय प्रतिधीयानमित्कृशानोरस्तुरसनामुरुष्यथः ॥
इति सा निगदव्याख्याता ।
विश्वानरो व्याख्यातः । तस्यैषा भवति ११.८

प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे ।
इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥
प्रार्चत यूयं स्तुतिं महतेऽन्धसोऽन्नस्य दात्रे । मन्दमानाय मोदमानाय स्तूयमानाय शब्दायमानायेति वा । विश्वानराय सर्वं विभूताय । इन्द्रस्य यस्य प्रीतौ सुमहद्बलम् । महच्च श्रवणीयं यशः । नृम्णं च बलं नृन्नतम् । द्यावापृथिव्यौ वः परिचरत इति । कमन्यं मध्यमादेवमवक्ष्यत् ।
तस्यैषापरा भवति ११.९

उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ॥
उदशिश्रियत् । ज्योतिः । अमृतम् । सर्वजन्यम् । विश्वानरः सविता देव इति । धाता सर्वस्य विधाता । तस्यैषा भवति ११.१०

धाता ददातु दाशुषे प्राची जीवातुमक्षिताम् ।
वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥
धाता ददातु दत्तवते प्रवृद्धां जीविकामनुपक्षीणाम् । वयं देवस्य धीमहि सुमतिं कल्याणीं मतिं सत्यधर्मणः ।
विधाता धात्रा व्याख्यातः । तस्यैष निपातो भवति
बहुदेवतायामृचि ११.११

सोम॑स्य राज्ञो वरुणस्य धर्मणि बृहस्पते॒रनुमत्या शर्मणि ।
तवाहमद्य म॑घवन्नुप॑स्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥ इत्येताभिर्देवताभिरभिप्रसूतः सोमकलशानभक्षयमिति । कलशः कस्मात् । कला अस्मिन्छेरते मात्राः । कलिश्च कलाश्च किरतेः । विकीर्णमात्राः ११.१२

अथातो मध्यस्थाना देवगणाः । तेषां मरुतः प्रथमागामिनो भवन्ति । मरुतो मितराविणो वा । मितरोचिनो वा । महद् द्रवन्तीति वा । तेषामेषा भवति ११.१३

आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
विद्युन्मद्भिर्मरुतः । स्वर्कैः स्वञ्चनैरिति वा । स्वर्चनैरिति वा । स्वर्चिभिरिति वा । रथैरायात । ऋष्टिमद्भिः । अश्वपर्णैरश्वपतनैः । वर्षिष्ठेन च नोऽन्नेन वय इवापतत । सुमायाः कल्याणकर्माणो वा । कल्याणप्रज्ञा वा । रुद्रा व्याख्याताः । तेषामेषा भवति ११.१४

आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन ।
इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥
आगच्छत रुद्रा इन्द्रेण । सहजोषणाः । सुविताय कर्मणे । इयं वोऽस्मदपि प्रतिकामयते मतिः । तृष्णज इव दिव उत्सा उदन्यवे । तृष्णक् तृष्यतेः । उदन्युरुदन्यतेः । ऋभव उरु भान्तीति वा । ऋतेन भान्तीति वा । ऋतेन भवन्तीति वा । तेषामेषा भवति ११.१५

विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम॑पृच्यन्त धीतिभिः ॥
कृत्वा कर्माणि क्षिप्रत्वेन । वोळ्हारो मेधाविनो वा । मर्तासः सन्तोऽमृतत्वमानशिरे । सौधन्वना ऋभवः सूरख्याना वा । सूरप्रज्ञा वा । संवत्सरे समपृच्यन्त धीतिभिः कर्मभिः ।
ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः । तेषां प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन । तदेतदृभोश्च बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु सूक्तानि भवन्ति ।
आदित्यरश्मयोऽप्यृभव उच्यन्ते ।
अगोह्यस्य॒ यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ।
अगोह्य आदित्योऽगूहनीयः । तस्य यदस्वपथ गृहे । यावत्तत्र भवथ न तावदिह भवथेति ।
अङ्गिरसो व्याख्याताः । तेषामेषा भवति ११.१६

विरूपास इदृषयस्त इद्गम्भीरवेपसः ।
ते अङ्गिरसः सूनव॒स्ते अग्नेः परि जज्ञिरे ॥
बहुरूपा ऋषयः । ते गम्भीरकर्माणो वा । गम्भीरप्रज्ञा वा ।
तेऽङ्गिरसः पुत्राः । तेऽग्नेरधिजज्ञिरे । इत्यग्निजन्म ।
पितरो व्याख्याताः । तेषामेषा भवति ११.१७

उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः ।
असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥
उदीरतामवरे । उदीरतां परे । उदीरतां मध्यमाः पितरः ।
सोम्याः सोमसंपादिनस्तेऽसुं ये प्राणमन्वीयुः । अवृका अनमित्राः । सत्यज्ञा वा यज्ञज्ञा वा । ते न आगच्छन्तु पितरो ह्वानेषु ।
माध्यमिको यम इत्याहुः । तस्मान्माध्यमिकान्पितॄन्मन्यन्ते ।
अङ्गिरसो व्याख्याताः । पितरो व्याख्याताः । भृगवो व्याख्याताः । अथर्वाणोऽथनवन्तः । थर्वतिश्चरतिकर्मा । तत्प्रतिषेधः । तेषामेषा साधारणा भवति ११.१८

अङ्गिरसो न पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञिानामपि भद्रे सौमनसे स्या॑म ॥
अङ्गिरसो नः पितरः । नवगतयो नवनीतगतयो वा । अथर्वाणो भृगवः । सोम्याः सोमसम्पादिनः । तेषां वयम् । सुमतौ कल्याण्यां मतौ । यज्ञियानामपि चैषाम् । भद्रे भन्दनीये । भाजनवति वा । कल्याणे मनसि । स्यामेति । माध्यमिको देवगण इति नैरुक्ताः । पितर इत्याख्यानम् । अथाप्यृषयः स्तूयन्ते ११.१९

सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः ।
वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥
इति यथा ।
आप्त्या आप्नोतेः । तेषामेष निपातो भवत्यैन्द्र्यामृचि ११.२०

स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् ।
आ दर्षते॒ शव॑सा स॒प्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥
स्तोतव्यम् । बहुरूपम् । उरुभूतम् । ईश्वरतमम् । आप्तव्यम् । आप्तव्यानाम् । आदृणाति । यः । शवसा बलेन । सप्तदातॄनिति वा । सप्तदानवानिति वा । प्रसाक्षते । प्रतिमानानि । बहूनि । साक्षतिराप्नोतिकर्मा ११.२१ ।

अथातो मध्यस्थानाः स्त्रियः । तासामदितिः प्रथमागामिनी भवति। अदितिर्व्याख्याता । तस्या एषा भवति ११.२२

दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि ।
अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥
दक्षस्य वादिते जन्मनि । व्रते कर्मणि । राजानौ । मित्रावरुणौ । परिचरसि । विवासतिः परिचर्यायाम् ।
हविष्माँ आविवासति ।
इत्याशास्तेर्वा । अतूर्तपन्था अत्वरमाणपन्थाः । बहुरथः । अर्यमादित्यः । अरीन्नियच्छति । सप्तहोता । सप्तास्मै रश्मयो रसानभिसन्नामयन्ति । सप्तैनमृषयः स्तुवन्तीति वा । विषमरूपेषु जन्मसु । कर्मसूदयेषु ।
आदित्यो दक्षः । इत्याहुः । आदित्यमध्ये च स्तुतः । अदितिर्दाक्षायणी ।
अदितेर्दक्षो अजायत दक्षाद्वदितिः परि । इति च ।
तत्कथमुपपद्यते । समानजन्मानौ स्यातामिति । अपि वा देवधर्मेणेतरेतरजन्मानौ स्याताम् । इतरेतरप्रकृती ।
अग्निरप्यदितिरुच्यते । तस्यैषा भवति ११.२३

यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्या॑म ॥
यस्मै त्वं सुद्रविणो ददासि । अनागास्त्वम् । अनपराधत्वम् । अदिते । सर्वासु कर्मततिषु । आग आङ्पूर्वाद्गमेः । एन एतेः । किल्बिषं किल्भिदम् । सुकृतकर्मणो भयम् । कीर्तिमस्य भिनत्तीति वा । यं भद्रेण । शवसा बलेन । चोदयसि । प्रजावता च राधसा धनेन ते वयमिह स्यामेति ।
सरसा सरणात् । तस्या एषा भवति ११.२४ ।

किमिच्छन्ती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरिः पराचैः ।
कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयाँसि ॥
किमिच्छन्ती सरमेदं प्रानट् । दूरे ह्यध्वा । जगुरिर्जङ्गम्यतेः । पराञ्चनैरचितः । का तेऽस्मास्वर्थहितिरासीत् । किं परितकनम् । परितक्म्या रात्रिः । परित एनां तक्म । तक्मेत्युष्णनाम । तकत इति सतः । कथं रसाया अतरः पयाँसीति । रसा नदी रसतेः शब्दकर्मणः । कथं रसानि तान्युदकानीति वा ।
देवशुनीन्द्रेण प्रहिता पणिभिरसुरैः समूदे । इत्याख्यानम् ।
सरस्वती व्याख्याता । तस्या एषा भवति ११.२५

पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥
पावका नः सरस्वती । अन्नैरन्नवती । यज्ञं वष्टु धियावसुः कर्मवसुः । तस्या एषापरा भवति ११.२६

महो अर्णः सरस्वती प्र चेतयति केतुना ।
धियो विश्वा वि राजति ॥
महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वा । इमानि च सर्वाणि प्रज्ञानान्यभिविराजति । वागर्थेषु विधीयते । तस्मान्माध्यमिकां वाचं मन्यन्ते । वाग्व्याख्याता । तस्या एषा भवति ११.२७

यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
चतस्र ऊर्जं दुदुहे पयाँसि क्व स्विदस्याः परमं जगाम ॥
यद्वाग्वदन्ति । अविचेतनान्यविज्ञातानि । राष्ट्री देवानां निषसाद मदना । चतस्रोऽनुदिश ऊर्जं दुदुहे पयाँसि । क्व स्विदस्याः परमं जगामेति । यत्पृथिवीं गच्छतीति वा । यदादित्यरश्मयो हरन्तीति वा ।
तस्या एषापरा भवति ११.२८

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥
देवीं वाचमजनयन्त देवाः । तां सर्वरूपाः पशवो वदन्ति । व्यक्तवाचश्चाव्यक्तवाचश्च । सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टता ।
अनुमति राकेति देवपत्नयाविति नैरुक्ताः । पौर्णमास्याविति याज्ञिकाः । या पूर्वा पौर्णमासी सानुमतिः । योत्तरा सा राका । इति विज्ञायते ।
अनुमतिरनुमननात् । तस्या एषा भवति ११.२९

अन्विदनुमते त्वं मन्यासै शं च नस्कृधि ।
क्रत्वे दक्षाय नो हिनु प्र ण आयूँषि तारिषः ॥
अनुमन्यस्वानुमते । त्वं सुखं च नः कुरु । अन्नं च नोऽपत्याय धेहि । प्रवर्धय च न आयुः ।
राका रातेर्दानकर्मणः । तस्या एषा भवति ११.३०

राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
राकामहं सुह्वानां सुष्टत्या ह्वये । शृणोतु नः सुभगा ।
बोधत्वात्मना । सीव्यत्वपः प्रजननकर्म । सूच्याछिद्यमानया ।
सूची सीव्यतेः । ददातु वीरम् । शतप्रदम् । उक्थ्यं वक्तव्यप्रशंसम् ।
सिनीवाली कुहूरिति देवपत्न्याविति नैरुक्ताः । अमावास्ये इति याज्ञिकाः ।
या पूर्वामावास्या सा सिनीवाली । योत्तरा सा कुहूः । इति विज्ञायते ।
सिनीवाली सिनमन्नं भवति । सिनाति भूतानि । वालं पर्वं वृणोतेः । तस्मिन्नन्नवती । वालिनी वा ।
वालेनेवास्यामणुत्वाच्चन्द्रमाः सेवितव्यो भवतीति वा । तस्या एषा भवति ११.३१

सिनीवालि पृथुष्टके या देवानामसि स्वसा ।
जुषस्व हव्यमाहुतं प्र॒जां देवि दिदिड्ढि नः ॥
सिनीवालि । पृथुजघने । स्तुकः स्त्यायतेः संघातः । पृथुकेशस्तुके । पृथुष्टुते वा । या त्वं देवानामसि स्वसा । स्वसा सु असा । स्वेषु सीदतीति वा । जुषस्व हव्यमदनम् । प्रजां च देवि दिश नः ।
कुहूर्गूहतेः । क्वाभूदिति वा । क्व सती हूयत इति वा ।
क्वाहुतं हविर्जुहोतीति वा । तस्या एषा भवति ११.३२

कुहूमहं सुकृतं विद्मनाप॑समस्मिन्य॒ज्ञे सुहवां जोहवीमि ।
सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥
कुहूमहं सुकृतं विदितकर्माणमस्मिन्यज्ञे सुह्वानामाह्वये । सा नो ददातु श्रवणं पितॄणाम् । पित्र्यं धनमिति वा । पित्र्यं यश इति वा । तस्यै ते देवि हविषा विधेमेति व्याख्यातम् ।
यमी व्याख्याता । तस्या एषा भवति ११.३३

अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् ।
तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥
अन्यमेव हि त्वं यमि । अन्यस्त्वां परिष्वङ्क्ष्यते । लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छ । स वा तव । अधानेन कुरुष्व संविदम् । सुभद्रां कल्याणभद्राम् ।
यमी यमं चकमे । तां प्रत्याचचक्षे । इत्याख्यानम् ११.३४

उर्वशी व्याख्याता । तस्या एषा भवति ११.३५

विद्युन्न या पतन्ती दविद्योद्भर॑न्ती मे अप्या काम्या॑नि ।
जनिष्ठो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥
विद्युदिव या । पतन्त्यद्योतत । हरन्ती मे अप्या काम्यानि । उदकान्यन्तरिक्षलोकस्य । यदा नूनमयं जायेताद्भ्योऽध्यप इति ।
नर्यो मनुष्यो नृभ्यो हितः । नरापत्यमिति वा । सुजातः सुजाततरः । अथोर्वशी प्रवर्धयते दीर्घमायुः ।
पृथिवी व्याख्याता । तस्या एषा भवति ११.३६
 
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि ।
प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥
सत्यं त्वं पर्वतानां मेघानां खेदनं छेदनं बलममुत्र धारयसि पृथिवि ।
प्रजिन्वसि या भूमिम् । प्रवणवति । महत्त्वेन । महतीत्युदकवतीति वा ।
इन्द्राणी । इन्द्रस्य पत्नी । तस्या एषा भवति ११.३७

इन्द्राणीमासु नारिषु सुभगामहमश्रवम् ।
नह्यस्या अपरं चन जरसा मरते पतिः ।
विश्वस्मादिन्द्र उत्तरः ॥
इन्द्राणीमासु नारिषु सुभगामहमशृणवम् । न ह्यस्या अपरामपि समां जरया म्रियते पतिः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूमः । तस्या एषापरा भवति ११.३८

नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते ।
यस्येदमप्यं हविः प्रियं देवेषु गच्छति ।
विश्वस्मादिन्द्र उत्तरः ॥
नाहमिन्द्राणि रमे । सख्युर्वृषाकपेर्ऋते । यस्येदमप्यं हविः । अप्सु शृतम् । अद्भिः संस्कृतमिति वा । प्रियं देवेषु निगच्छति । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूमः । गौरी रोचतेः । ज्वलतिकर्मणः । अयमपीतरो गौरो वर्ण एतस्मादेव । प्रशस्यो भवति ।
तस्या एषा भवति ११.३९

गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
गौरीर्निर्मिमाय सलिलानि । तक्षती कुर्वती । एकपदी मध्यमेन । द्विपदी मध्यमेन चादित्येन च । चतुष्पदी दिग्भिः । अष्टापदी दिग्भिश्चावान्तरदिग्भिश्च । नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च । सहस्राक्षरा बहूदका । परमे व्यवने । तस्या एषापरा भवति ११.४०

तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ।
ततः क्षरत्यक्षरं तद्विश्वमुप॑ जीवति ॥
तस्याः समुद्रा अधिविक्षरन्ति । वर्षन्ति मेघाः । तेन जीवन्ति दिगाश्रयाणि भूतानि । ततः क्षरत्यक्षरमुदकम् । तत्सर्वाणि भूतान्युपजीवन्ति ।
गौर्व्याख्याता । तस्या एषा भवति ११.४१

गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङकृणोन्मातवा उ ।
सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
गौरन्वमीमेद्वत्सम् । मिषन्तमनिमिषन्तम् । आदित्यमिति वा । मूर्धानमस्याभिहिङ्ङकरोन्मननाय । सृक्वाणं सरणम् । घर्मं हरणम् । अभिवावशाना मिमाति मायुम् । प्रप्यायते पयोभिः । मायुमिवादित्यमिति वा । वागेषा माध्यमिका । घर्मधुगिति याज्ञिकाः ।
धेनुर्धयतेर्वा । धिनोतेर्वा । तस्या एषा भवति ११.४२

उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥
उपह्वये सुदोहनां धेनुमेताम् । कल्याणहस्तो गोधुगपि च दोग्ध्येनाम् । श्रेष्ठं सवं सविता सुनोतु न इति । एष हि श्रेष्ठः सर्वेषां सवानां यदुदकं यद्वा पयो यजुष्मत् । अभीद्धो घर्मः । तं सु प्रब्रवीमि ।
वागेषा माध्यमिका । घर्मधुगिति याज्ञिकाः ।
अघ्न्याहन्तव्या भवति । अघघ्नीति वा । तस्या एषा भवति ११.४३

सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम ।
अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
सूयवसादिनी भगवती हि भव । अथेदानीं वयं भगवन्तः स्याम । अद्धि तृणमघ्न्े३ । सर्वदा पिब च शुद्धमुदकमाचरन्ती ।
तस्या एषापरा भवति ११.४४

हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
इति सा निगदव्याख्याता ।
पथ्या स्वस्तिः । पन्था अन्तरिक्षम् । तन्निवासात् ।
तस्या एषा भवति ११.४५

स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति ।
सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥
स्वस्तिरेव हि प्रपथे श्रेष्ठा । रेक्णस्वती धनवती । अभ्येति या ।
वसूनि वननीयानि । सा नोऽमा गृहे । सा निरमणे । सा निर्गमने पातु । स्वावेशा भवतु । देवी गोप्त्री देवान्गोपायत्विति । देवा एनां गोपायन्त्विति वा ।
उषा व्याख्याता । तस्या एषा भवति ११.४६

अपोषा अनसः सरत्संपिष्टादह बिभ्युषी ।
नि यत्सीं शिश्नथद्वृषा ॥
अपासरदुषाः । अनसः संपिष्टान्मेघाद् बिभ्युषी । अनो वायुरनितेः । अपि वोपमार्थे स्यात् । अनस इव शकटादिव । अनः शकटम् । आनद्धमस्मिंश्चीवरम् । अनितेर्वा स्यात् । जीवनकर्मणः । उपजीवन्त्येनत् । मेघोऽप्यन एतस्मादेव । यन्निरशिश्नथत् । वृषा वर्षिता मध्यमः ।
तस्या एषापरा भवति ११.४७

एतदस्या अनः शये सुसंपिष्टं विपाश्या ।
ससार सीं परावतः ॥
एतदस्या अन आशेते सुसंपिष्टम् । इतरदिव । विपाशि विमुक्तपाशि । ससारोषाः । परावतः प्रेरितवतः । परागताद्वा ।
इळा व्याख्याता । तस्या एषा भवति ११.४८

अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु ।
उर्वशी वा बृहद्दिवा गृणानाभ्यूर्वावशना प्रभृथस्यायोः ।
सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ - ५.४१.१९-२०
अभिगृणात् न इळा । यूथस्य माता । सर्वस्य माता । स्मदभि नदीभिः । उर्वशी वा गृणातु । उर्वशी वा । बृहद्दिवा महद्दिवा । गृणाना । अभ्यूर्ण्वाना । प्रभृथस्य प्रभृतस्य । आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा । सेवतां नोऽन्नस्य पुष्टेः ।
रोदसी रुद्रस्य पत्नी । तस्या एषा भवति ११.४९

रथं नु मारुतं वयं श्रव॒स्युमा हुवामहे ।।
आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥
रथं षिप्रं मारुतं मेघं वयं श्रवणीयमाह्वयामहे । प्रा यस्मिन्तस्थौ सुरमणीयान्युदकानि बिभ्रती सचा मरुद्भिः सह रोदसी रोदसी ११.५०

श्येनो व्याख्यात आदाय स्वादिष्ठया सोमं मन्यते यत्त्वा देव नवोनवः परं मृत्यो त्वेषमित्था प्र वो मह उदु ज्योतिर्धाता ददातु सोमस्याथातो मध्यस्थाना देवगणा आ विद्युन्मद्भिरा रुद्रासो विष्ट्वी शमी विरूपास उदीरतामवरेऽङ्गिरसो नः सूर्यस्येव स्तुषेय्यमथातो मध्यस्थानाः स्त्रियो दक्षस्य यस्मै त्वं किमिच्छन्ती पावका नो महो अर्णो यद्वाग्वदन्ती देवीं वाचमन्विदनुमते राकामहं सिनीवालि कुहूमहमन्यमूषूर्वशी विद्युन्न बळित्येन्द्राणीं नाहमिन्द्राणि गौरीर्मिमाय तस्याः समुद्रा गौरमीमेदुप ह्रये सूयवसाद्धिङ्कृण्वती स्वस्तिरिद्ध्यपोषा एतदस्या अभि नो रथं नु मारुतमिति पञ्चाशत् ॥
इत्युत्तरषट्के पञ्चमोऽध्यायः
इति निरुक्त एकादशोऽध्यायः समाप्तः