निरुक्तशास्त्रम्/दशमोध्यायः

विकिस्रोतः तः
Jump to navigation Jump to search
← नवमोध्यायः निरुक्तशास्त्रम्
दशमोध्यायः
[[लेखकः :|]]
एकादशोध्यायः →

अथ दशमोऽध्यायः
अथातो मध्यस्थाना देवताः ।
तासां वायुः प्रथमागामी भवति । वायुर्वातेः । वेतेर्वा स्याद्गतिकर्मणः । एतेरिति स्थौलाष्ठीविः । अनर्थको वकारः । तस्यैषा भवति १०.१

वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
तेषां पाहि श्रुधी हवम् ॥
वायवायाहि दर्शनीयेमे सोमा अरङ्कृता ।
तेषां पिब शृणु नो ह्वानमिति । कमन्यं मध्यमादेवमवक्ष्यत् ।
तस्यैषापरा भवति १०.२

आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
अभि श्रव ऋज्य॑न्तो वेहयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥
आससृवांसः । अभिबलायमानमिन्द्रम् । कल्याणचक्रे रथे योगाय । रथ्या अश्वा रथस्य वोढारः । ऋज्यन्त ऋजुगामिनोऽन्नमभिवहेयुः । नवं च पुराणं च । श्रव इत्यन्ननाम । श्रूयत इति सतः । वायोश्चास्य भक्षो यथा न विदस्येदिति । इन्द्रप्रधानेत्येके नैघण्टुकं वायुकर्म । उभयप्रधानेत्यपरम् । वरुणो वृणोतीति सतः । तस्यैषा भवति १०.३

नीचीनबारं वरुणः कबन्धं प्र संसर्ज रोदसी अन्तरिक्षम् ।
तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥
नीचीनद्वारं वरुणः । कबन्धं मेघम् । कवनमुदकं भवति । तदस्मिन्धीयते । उदकमपि कबन्धमुच्यते । बन्धिरनिभृतत्वे । कमनिभृतं च । प्रसृजति । द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन । तेन सर्वस्य भुवनस्य राजा यवमिव वृष्टिर्व्युनत्ति भूमिम् । तस्यैषापरा भवति १०.४

तमू षु समना गिरा पितॄणां च मन्मभिः ।
नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्व॑सा स मध्यमो नभ॑न्तामन्य॒के समे ॥
तं सभिष्टौमि समानया गिरा गीत्या स्तुत्या । पितॄणां च मननीयैः स्तोमैः । नाभाकस्य प्रशस्तिभिः । ऋषिर्नाभाको बभूव । यः स्यन्दमानानामासामुपोदये सप्तस्वसारमेनमाह वाग्भिः स मध्यम इति निरुच्यते । अथैष एव भवति । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे ये नो द्विषन्ति दुर्धियः पापधियः पापसंकल्पाः । रुद्रो रौतीति सतः । रोरूयमाणो द्रवतीति वा । रोदयतेर्वा । यदरुदत्तद्रुद्रस्य रुद्रत्वम् । इति काठकम् । यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । इति हारिद्रविकम् । तस्यैषा भवति १०.५

इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने ।
अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥
इमा रुद्राय । दृढधन्वने । गिरः क्षिप्रेषवे । देवाय । अन्नवते । अषाळ्हायान्यैः । सहमानाय । विधात्रे । तिग्मायुधाय । भरत । शृणोतु नः । तिग्मं तेजतेः । उत्साहकर्मणः । आयुधमायोधनात् । तस्यैषापरा भवति १०.६

या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः ।
सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥
या ते दिद्युदवसृष्टा । दिवस्परि दिवोऽधि । दिद्युद् द्युतेर्वा । क्ष्मया चरति । क्ष्मा पृथिवी । तस्यां चरति । तया चरति । विक्ष्मापयन्ती चरतीति वा । परिवृणक्तु नः सा । सहस्रं ते स्वाप्तवचन भैषज्यानि । मा नस्त्वं पुत्रेषु पौत्रेषु च रीरिषः । तोकं तुद्यतेः । तनयं तनोतेः ।
अग्निरपि रुद्र उच्यते । तस्यैषा भवति १०.७

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
स्तोमं रुद्राय दृशीकम् ॥
जरा स्तुतिः । जरतेः स्तुतिकर्मणः । तां बोध । तया बोधयितरिति वा । तद्विविड्ढि । तत्कुरु । मनुष्यस्य मनुष्यस्य यजनाय । स्तोमं रुद्राय दर्शनीयम् । इन्द्र इरां दृणातीति वा । इरां ददातीति वा । इरां दधातीति वा । इरां दारयत इति वा । इरां धारयत इति वा । इन्दवे द्रवतीति वा । इन्दौ रमत इति वा । इन्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वम् । इति विज्ञायते । इदं करणादित्याग्रयणः । इदं दर्शनादित्यौपमन्यवः । इन्दतेर्वैश्वर्यकर्मणः । इन्दञ्छत्रूणां दारयिता वा । द्रावयिता वा । आदरयिता च यज्वनाम् । तस्यैषा भवति १०.८

अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः ।
महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥
अदृणा उत्सम् । उत्सरणाद्वा । उत्सदनाद्वा । उत्स्यन्दनाद्वा । उनत्तेर्वा । व्यसृजोऽस्य खानि । त्वमर्णवानर्णस्वतः । एतान्माध्यमिकान्त्संस्त्यायान् । बाबध्यमानानरम्णाः । रम्णातिः संयमनकर्मा । विसर्जनकर्मा वा । महान्तमिन्द्र पर्वतं मेघं
यद्यवृणोः । व्यसृजोऽस्य धाराः । अवाहन्नेनं दानकर्माणम् । तस्यैषापरा भवति १०.९

यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य॑ म॒ह्ना स जनास इन्द्रः ॥
यो जात एव प्रथमो मनस्वी देवो देवान् । क्रतुना कर्मणा । पर्यभवत्पर्यगृह्णात्पर्यरक्षदत्यक्रामदिति वा । यस्य बलाद् द्यावापृथिव्यावप्यबिभीतां नृम्णस्य मह्ना बलस्य महत्त्वेन । स जनास इन्द्र इति ।
ऋषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानसंयुक्ता ।
पर्जन्यस्तृपेः । आद्यन्तविपरीतस्य । तर्पयिता जन्यः । परो जेता वा । परो जनयिता वा । प्रार्जयिता वा रसानाम् । तस्यैषा भवति १०.१०

वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् ।
उतानागा ईषते॒ वृष्णयावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥
विहन्ति वृक्षान् । विहन्ति च रक्षांसि । सर्वाणि चास्माद्भूतानि बिभ्यति महावधात् । महान्ह्यस्य वधः । अप्यनपराधो भीतः पलायते वर्षकर्मवतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः पापकृतः । बृहस्पतिर्बृहतः पाता वा । पालयिता वा । तस्यैषा भवति १०.११

अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् ।
निष्टज्जभार चमसं न वृक्षाद्ब्रहस्पतिर्विरवेणा विकृत्य ॥
अशनवता मेघेनापिनद्धं मधु पर्यपश्यत् । मत्स्यमिव दीन उदके निवसन्तम् । निर्जहार तच्चमसमिव वृक्षात् । चमसः कस्मात् । चमन्त्यस्मिन्निति । बृहस्पतिर्विरवेण शब्देन विकृत्य ।
ब्रह्मणस्पतिर्ब्रह्मणः पाता वा । पालयिता वा । तस्यैषा भवति १०.१२

अश्मा॑स्यमव॒तं ब्रह्मणस्पतिर्मधुधारम॒भि यमोजसातृणत् ।
तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥ अशनवन्तमास्यन्दनवन्तम् । अवातितं ब्रह्मणस्पतिर्मधुधारम् । अभि यमोजसा बलेनाभ्यतृणत्तमेव सर्वे पिबन्ति रश्मयः सूर्यदृशः । बह्वेनं सह सिञ्चन्त्युत्समुद्रिणमुदकवन्तम् १०.१३

क्षेत्रस्य पतिः । क्षेत्रं क्षियतेर्निवासकर्मणः । तस्य पाता वा पालयिता वा । तस्यैषा भवति १०.१४

क्षेत्रस्य पतिना वयं हितेनैव जयामसि ।
गामश्वं पोषयित्न्वा स नौ मृळातीदृशे ॥
क्षेत्रस्य पतिना वयं सुहितेनेव जयामः ।
गामश्वं पुष्टं पोषयितृ चाहरेति । स नो मृळातीदृशे । बलेन वा धनेन वा । मृळतिर्दानकर्मा । तस्यैषापरा भवति १०.१५

क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व ।
मधुश्चुतं घृतमिव सुपूतमृतस्य॑ नः पतयो मृळयन्तु ।
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयोऽस्मासु धुक्ष्वेति । मधुश्चुतं घृतमिवोदकं सुपूतम् । ऋतस्य नः पातारो वा पालयितारो वा मृळयन्तु । मृळयतिरुपदयाकर्मा । पूजाकर्मा वा । तद्यत्समान्यामृचि समानाभिव्याहारं भवति तज्जामि भवतीत्येकम् ।
मधुमन्तं मधुश्चुतमिति यथा । यदेव समाने पादे समानाभिव्याहारं भवति तज्जामि भवतीत्यपरम् ।
हिरण्यरूपः स हिरण्यसंदृग् । इति यथा ।
यथा कथा च विशेषोऽजामि भवतीत्यपरम् ।
मण्डूको इवोदकान्मण्डूको उदकादिव । इति यथा ।
वास्तोष्पतिः । वास्तुर्वसतेर्निवासकर्मणः । तस्य पाता वा पालयिता वा । तस्यैषा भवति १०.१६

अमीवहा वास्तोष्पते॒ विश्वा रूपाण्याविशन् ।
सखा सुशेव एधि नः ॥
अभ्यमनहा वास्तोष्पते सर्वाणि रूपाण्याविशन्त्सखा नः सुसुखो भव । शेव इति सुखनाम । शिष्यतेः । वकारो नामकरणः । अन्तस्थान्तरोपलिङ्गी । विभाषितगुणः । शिवमित्यप्यस्य भवति । यद्यद्रूपं कामयते तत्तद्देवता भवति ।
रूपं रूपं मघवा बोभवीति । इत्यपि निगमो भवति ।
वाचस्पतिर्वाचः पाता वा पालयिता वा । तस्यैषा भवति १०.१७

पुनरेहि वाचस्पते देवेन मनसा सह ।
वसोष्पते नि रामय मय्येव तन्वं १ मम ॥
इति सा निगदव्याख्याता ।
अपां नपात्तनूनप्त्रा व्याख्यातः । तस्यैषा भवति १०.१८

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु ।
अपां नपान्मधुमतीपो दा याभिरिन्द्रो वावृधे वीर्याय ॥
योऽनिध्मो दीप्यतेऽभ्यन्तरमप्सु यं मेधाविनः स्तुवन्ति यज्ञेषु सोऽपांनपान्मधुमतीरपो देह्यभिषवाय । याभिरिन्द्रो वर्धते । वीर्याय वीरकर्मणे । यमो यच्छतीति सतः । तस्यैषा भवति १०.१९

परेयिवाँसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् ।
वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥
परेयिवांसं पर्यागतवन्तम् । प्रवत उद्वतो निवत इति ।
अवतिर्गतिकर्मा । बहुभ्यः पन्थानमनुपस्पाशयमानम् ।
वैवस्वतम् । संगमनं जनानाम् । यमं राजानं हविषा दुवस्येति । दुवस्यतिराप्नोतिकर्मा ।।
अग्निरपि यम उच्यते । तमेता ऋचोऽनुप्रवदन्ति १०.२०

सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥
यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥ १.६६.८
तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ इति द्विपदाः । सेनेव सृष्टा भयं वा बलं वा दधाति । अस्तुरिव दिद्युत्त्वेषप्रतीका । भयप्रतीका । बलप्रतीका यशःप्रतीका महाप्रतीका दीप्तप्रतीका वा । यमो ह जात इन्द्रेण सह संगतः । यमाविहेह मातरा ॥ इत्यपि निगमो भवति । यम इव जातः । यमो जनिष्यमाणः । जारः कनीनाम् । जरयिता कन्यानाम् । पतिर्जनीनाम् । पालयिता जायानाम् । तत्प्रधाना हि यज्ञसंयोगेन भवन्ति । तृतीयौ अग्निष्टे पतिः । इत्यपि निगमो भवति । तं वः । चराथा चरन्त्या । पश्वाहुत्या । वसत्या च । निवसन्त्या । औषधाहुत्या । अस्तं यथा गाव प्राप्नुवन्ति तथाप्नुयाम । इद्धं समृद्धं भोगैः ।
मित्रः प्रमीतेः । त्रायते । संमिन्वानो द्रवतीति वा । मेदयतेर्वा । तस्यैषा भवति १०.२१

मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय॑ ह॒व्यं घृतवज्जुहोत ॥
मित्रो जनानायातयति प्रब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रं कृष्टीरनिमिषन्नभिविपश्यतीति ।
कृष्टय इति मनुष्यनाम । कर्मवन्तो भवन्ति । विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा । कः कमनो वा । क्रमणो वा । सुखो वा । तस्यैषा भवति १०.२२

हिरण्यगर्भः समवर्तताग्रे भूतस्य॑ जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै दे॒वाय॑ ह॒विषा विधेम ॥
हिरण्यगर्भो हिरण्यमयो गर्भः । हिरण्यमयो गर्भोऽस्येति वा । गर्भो गृभेः । गृणात्यर्थे । गिरत्यनर्थानिति वा । यदा हि स्त्री गुणान्गृह्णाति गुणाश्चास्या गृह्यन्तेऽथ गर्भो भवति । समभवदग्रे भूतस्य जातः पतिरेको बभूव । स धारयति पृथिवीं च दिवं च । कस्मै देवाय हविषा विधेमेति व्याख्यातम् । विधतिर्दानकर्मा । सरस्वान्व्याख्यातः । तस्यैषा भवति १०.२३

ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः ।
तेभिर्नोऽविता भव ॥
इति सा निगदव्याख्याता १०.२४

विश्वकर्मा सर्वस्य कर्ता । तस्यैषा भवति १०.२५

विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।
तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥
विश्वकर्मा विभूतमना व्याप्ता धाता च । विधाता च । परमश्च संद्रष्टा भूतानाम् । तेषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा । अद्भिः सह संमोदन्ते यत्रैतानि सप्तऋषीणानि ज्योतींषि । तेभ्यः पर आदित्यः । तान्येतस्मिन्नेकं भवन्तीत्यधिदैवतम् ।
अथाध्यात्मम् । विश्वकर्मा विभूतमना व्याप्ता धाता च । विधाता च । परमश्च संदर्शयितेन्द्रियाणाम् । एषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा ।
अन्नेन सह संमोदन्ते यत्रेमानि सप्तऋषीणानीन्द्रियाणि । एभ्यः पर आत्मा । तान्यस्मिन्नेकं भवन्तीत्यात्मगतिमाचष्टे ।
तत्रेतिहासमाचक्षते । विश्वकर्मा भौवनः सर्वमेधे सर्वाणि भूतानि जुहवाञ्चकार । स आत्मानमप्यन्ततो जुहवाञ्चकार ।
तदभिवादिन्येषर्ग्भवति ।
य इमा विश्वा भुवनानि जुह्वत् । इति ।
तस्योत्तरा भूयसे निर्वचनाय १०.२६

विश्वकर्मन्हविषा वावृधानः स्वयं य॑जस्व पृथिवीमुत द्याम् ।
मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥
विश्वकर्मन्हविषा वर्धयमानः स्वयं यजस्व पृथिवीं च दिवं च ।
मुह्यन्त्वन्ये अभितो जनाः सपत्नाः । इहास्माकं मघवा सूरिरस्तु प्रज्ञाता ।
तार्क्ष्यस्त्वष्ट्रा व्याख्यातः । तीर्णेऽन्तरिक्षे क्षियति । तूर्णमर्थं रक्षति । अश्नोतेर्वा । तस्यैषा भवति १०.२७

त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् ।
अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥
तं भृशमन्नवन्तम् । जूतिर्गतिः । प्रीतिर्वा । देवजूतं देवगतं देवप्रीतं वा ।
सहस्वन्तं तारयितारं रथानामरिष्टनेमिं पृतनाजितम् । आशुं स्वस्तये तार्क्ष्यमिह ह्वयेमेति ।
कमन्यं मध्यमादेवमवक्ष्यत् ।
तस्यैषापरा भवति १०.२८

सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान ।
सहस्रसाः शतसा अस्य॒ रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥
सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि । सहस्रसानिनी शतसानिन्यस्य सा गतिः । न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम् । मन्युर्मन्यतेः । दीप्तिकर्मणः । क्रोधकर्मणः वा । मन्यन्त्यस्मादिषवः । तस्यैषा भवति १०.२९

त्वया मन्यो सरथमारुजन्तो हर्षमाणासोऽधृषिता मरुत्वः ।
तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥
त्वया मन्यो सरथमारुह्य रुजन्तो हर्षमाणासोऽधृषिता मरुत्वस्तिग्मेषव आयुधानि संशिश्यमाना अभिप्रयन्तु नरः ।
अग्निरूपा अग्निकर्माणः । सन्नद्धाः कवचिन इति वा । दधिक्रा व्याख्यातः । तस्यैषा भवति १०.३०

आ दधिक्राः शव॑सा पञ्च कृष्टीः सूर्य इव॒ ज्योतिषापस्ततान ।
सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचाँसि ॥
आतनोति दधिक्राः शवसा बलेनापः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि । सहस्रसाः शतसा । वाजी वेजनवान् । अर्वा ईरणवान् । संपृणक्तु नो मधुनोदकेन वचनानीमानीति । मधु धमतेर्विपरीतस्य ।
सविता सर्वस्य प्रसविता । तस्यैषा भवति १०.३१

सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् ।
अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥
सविता यन्त्रैः पृथिवीमरमयदनारम्भणेऽन्तरिक्षे । सविता द्यामदृंहत् । अश्वमिवाधुक्षद्धुनिमन्तरिक्षे मेघम् ।
बद्धमतूर्ते । बद्धमतूर्ण इति वा । अत्वरमाण इति वा । सविता समुदितारमिति ।
कमन्यं मध्यमादेवमवक्ष्यत् । आदित्योऽपि सवितोच्यते । तथा च हैरण्यस्तूपे स्तुतः । अर्चन्हिरण्यस्तूप ऋषिरिदं सूक्तं प्रोवाच । तदभिवादिन्येषर्ग्भवति १०.३२

हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् ।
एवा त्वार्चन्नवसे वन्दमानः सोम॑स्येवांशुं प्रति जागराहम् ॥
हिरण्यस्तूपो हिरण्यमयः स्तूपः । हिरण्यमयः स्तूपोऽस्येति वा ।
स्तूपः स्त्यायतेः संघातः । सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन् । अवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम् ।
त्वष्टा व्याख्यातः । तस्यैषा भवति १०.३३

देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
इमा च विश्वा भुव॑नान्यस्य महद्देवानामसुरत्वमेकम् ॥
देवस्त्वष्टा सविता सर्वरूपः पोषति प्रजा रसानुप्रदानेन । बहुधा चेमा जनयति । इमानि च सर्वाणि भूतान्युदकान्यस्य । महच्चास्मै देवानामसुरत्वमेकम् । प्रज्ञावत्त्वं वा । अनवत्त्वं वा । अपि वासुरिति प्रज्ञानाम । अस्यत्यनर्थान् । अस्ताश्चास्यामर्थाः । असुरत्वमादिलुप्तम् ।
वातो वातीति सतः । तस्यैषा भवति १०.३४

वात या वातु भेषजं शंभु मयोभु नो हृदे ।
प्र ण आयूँषि तारिषत् ॥
वात आवातु भैषज्यानि । शंभु मयोभु च नो हृदयाय ।
प्रवर्धयतु च न आयुः । अग्निर्व्याख्यातः । तस्यैषा भवति १०.३५

प्रति त्यं चारुमध्वरं गोपीथाय॒ प्र हूयसे ।
मरुद्भिरग्न आ गहि ॥
तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे । सोऽग्ने मरुद्भिः सहागच्छेति ।
कमन्यं मध्यमादेवमवक्ष्यत् । तस्यैषापरा भवति १०.३६

अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु ।
मरुद्भिरग्न आ गहि ॥
अभिसृजामि त्वा पूर्वपीतये पूर्वपानाय । सोम्यं मधु सोममयम् । सोऽग्ने मरुद्भिः सहागच्छेति १०.३७

वेनो वेनतेः कान्तिकर्मणः । तस्यैषा भवति १०.३८

अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।
इममपां संगमे सूर्यस्य॒ शिशुं न विप्रा मतिभी रिहन्ति ॥
अयं वेनश्चोदयत् । पृश्निगर्भाः प्राष्टवर्णगर्भाः । आप इति वा ।
ज्योतिर्जरायुः । ज्योतिरस्य जरायुस्थानीयं भवति । जरायु जरया गर्भस्य । जरया यूयत इति वा । इममपां च संगमने सूर्यस्य च शिशुमिव विप्रा मतिभी रिहन्ति । लिहन्ति ।
स्तुवन्ति । वर्धयन्ति । पूजयन्तीति वा । शिशुः शंसनीयो भवति । शिशीतेर्वा स्यात् दानकर्मणः । चिरलब्धो गर्भो भवति ।
असुनीतिः । असून्नयति । तस्यैषा भवति १०.३९

असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः ।
रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥
असुनीते मनोऽस्मासु धारय । चिरं जीवनाय । प्रवर्धय च न आयू रन्धय च नः सूर्यस्य संदर्शनाय ।
रध्यतिर्वशगमनेऽपि दृश्यते ।
मा रधाम द्विषते सोम राजन् । इत्यपि निगमो भवति ।
घृतेन त्वमात्मानं तन्वं वर्धयस्व ।
ऋतो व्याख्यातः । तस्यैषा भवति १०.४०

ऋतस्य॒ हि शुरुधः सन्ति पूर्वीर्ऋतस्य॑ धीतिर्वृजिनानि हन्ति ।
ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥
ऋतस्य हि शुरुधः सन्ति पूर्वीः । तस्य प्रज्ञा वर्जनीयानि हन्ति । ऋतस्य श्लोको बधिरस्यापि कर्णावातृणत्ति । बधिरो बद्धश्रोत्रः । कर्णौ बोधयन् । दीप्यमानश्च । आयोः अयनस्य मनुष्यस्य । ज्योतिषो वोदकस्य वा ।
इन्दुरिन्धेः । उनत्तेर्वा । तस्यैषा भवति १०.४१

प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥
प्रब्रवीमि तद् भव्यायेन्दवे । हवनार्ह इव । य इषवानन्नवान् । कामवान्वा । मननानि च नो रेजयति । रक्षोहा च । बलेन रेजयति । स्वयं सोऽस्मदभिनिन्दितारम् । वधैरजेत दुर्मतिम् । अवस्रवेदघशंसः । ततश्चावतरं क्षुद्रमिवावस्रवेत् । अभ्यासे भूयाँसमर्थं मन्यन्ते । यथा । अहो दर्शनीय । अहो दर्शनीय इति ।
तत्परुच्छेपस्य शीलम् । परुच्छेप ऋषिः । पर्ववच्छेपः । परुषिपरुषि शेपोऽस्येति वा ।
इतीमानि सप्तविंशतिर्देवतानामधेयान्यनुक्रान्तानि । सूक्तभाञ्जि हविर्भाञ्जि । तेषामेतान्यहविर्भाञ्जि । वेनः । असुनीतिः । ऋतः । इन्दुः ।
प्रजापतिः प्रजानां पाता वा पालयिता वा । तस्यैषा भवति १०.४२

प्रजापते॒ न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्या॑म पतयो रयीणाम् ॥
प्रजापते न हि त्वदेतान्यन्यः सर्वाणि जातानि तानि परिबभूव ।
यत्कामास्ते जुहुमः । तन्नो अस्तु । वयं स्याम पतयो रयीणाम् ।
इत्याशीः ।
अहिर्व्याख्यातः । तस्यैषा भवति १०.४३

अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजःसु षीदन् ॥
अप्सुजमुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु उदकेषु सीदन् ।
बुध्नमन्तरिक्षम् । बद्धा अस्मिन्धृता आप इति वा । इदमपीतरद् बुध्नमेतस्मादेव । बद्धा अस्मिन्धृताः प्राणा इति ।
योऽहिः स बुध्न्यः । बुध्नमन्तरिक्षम् । तन्निवासात् । तस्यैषा भवति १०.४४

मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ।
मा च नोऽहिर्बुध्न्यो रेषणाय धात् । मास्य यज्ञोखा च स्रिधत् । यज्ञकामस्य । सुपर्णो व्याख्यातः । तस्यैषा भवति १०.४५

एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।
तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥
एकं सुपर्णः स समुद्रमाविशति । स इमानि सर्वाणि भूतान्यभिविपश्यति । तं पाकेन मनसापश्यमन्तितः ।
इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवति । आख्यानसंयुक्ता । तं माता रेळ्हि । वागेषा माध्यमिका । स उ मातरं रेळ्हि ।
पुरूरवा बहुधा रोरूयते । तस्यैषा भवति १०.४६

समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्य १: स्वगूर्ताः ।
महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्या॑य देवाः ॥
समासतास्मिञ्जायमाने । ग्ना गमनादापः । देवपत्नयो वा । अपि चैनमवर्धयन् । नद्यः स्वगूर्ताः स्वयंगामिन्यः । महते च यत् त्वा पुरूरवः । रणाय रमणीयाय संग्रामायावर्धयन् दस्युहत्याय च देवा देवाः १०.४७

अथातो मध्यस्थाना वायवा याह्यासस्राणासो नीचीनबारन्तमूष्विमा रुद्राय या ते दिद्युज्जराबोधादर्दरुद्यो जात एव वि वृक्षानश्नापिनद्धमश्मास्यमवतं क्षेत्रस्य पतिः क्षेत्रस्य पतिना
क्षेत्रस्यपतेऽमीवहा पुनरेहि यो अनिध्मः परेयिवाँसं सेनेव सृष्टा
मित्रो जनान्हिरण्यगर्भो ये ते सरस्व विश्वकर्मा सर्वस्य विश्वकर्मा
विमना विश्वकर्मन्हविषा त्यमू षु सद्यश्चिद्यस्त्वया मन्यवा दधिक्राः
सविता यन्त्रैर्हिरण्यस्तूपो देवस्त्वष्टा वात आ वातु प्रति त्यमभि त्वा
वेनो वेनतेरयं वेनोऽसुनीत ऋतस्य हि प्र तद्वोचेयं
प्रजापतेऽब्जामुक्थैर्मा नोऽहिरेकः सुपर्णः समस्मिन्सप्तचत्वारिंशत् ॥
इत्युत्तरषट्के चतुर्थोऽध्यायः
इति निरुक्ते दशमोऽध्यायः समाप्तः