नारायणीयम्/दशकम् ४०

विकिस्रोतः तः
← दशकम् ३९ नारायणीयम्
दशकम् ४०
[[लेखकः :|]]
दशकम् ४१ →

तदनु नन्दममन्दशुभास्पदं नृपपुरीं करदानकृते गतम् ।
समवलोक्य जगाद्भवत्पिता विदितकंससहायजनोद्यमः ॥ ४०१॥

अयि सखे तव बालकजन्म मां सुखयतेऽद्य निजात्मजजन्मवत् ।
इति भवत्पितृतां व्रजनायके समधिरोप्य शशंस तमादरात् ॥ ४०२ ॥

इह च सन्त्यनिमित्तशतानि ते कटकसीम्ने ततो लघु गम्यताम् ।
इति च तद्वचसा व्रजनायको भवदपायभिया द्रुतमाययौ ॥ ४०३ ॥

अवसरे खलु तत्र च काचन व्रजपदे मधुराकृतिरङ्गना ।
तरळषट्पदलालितकुन्तला कपटपोतक ते निकटं गता ॥ ४०४॥

सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतना ।
व्रजवधूष्विह केयमिति क्षणं विमृशतीषु भवन्तमुपाददे ॥ ४०५ ॥

ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता ।
स्तनमसौ भवनान्तनिषेदुषी प्रददुषी भवते कपटात्मने ॥ ४०६ ॥

समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषितः ।
महदिवाम्रफलं कुचमण्डलं प्रतिचुचूषिथ दुर्विषदूषितम् ॥ ४०७ ॥

असुभिरेव समं धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना ।
निरपतद्भयदायि निजं वपुः प्रतिगता प्रविसार्य भुजावुभौ ॥ ४०८ ॥

भयदघोषणभीषणविग्रहश्रवणदर्शनमोहितवल्लवे ।
व्रजपदे तदुरःस्थलखेलनं ननु भवन्तमगृह्णत गोपिकाः ॥ ४०९ ॥

भुवनमङ्कलनामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः ।
त्वमयि वातनिकेतननाथ मामगदयन् कुरु तावकसेवकम् ॥ ४०१०॥

"https://sa.wikisource.org/w/index.php?title=नारायणीयम्/दशकम्_४०&oldid=32278" इत्यस्माद् प्रतिप्राप्तम्