द्वात्रिंशत्पुत्तलिकासिंहासनम्/०८
अथ परोपकाराय स्वदेहाऽऽहुतिदानंनाम सप्तदशोपाख्यानम् ।
अथ तदेव सिंहासनं समाचङ्क्रम्यमाणं राजानं पुनरन्या पुत्तलिकाऽवदत्- शृण राजन्! औदार्ये विक्रमसदृशोऽन्यो नाऽऽसीत्, निर्मलेन औदार्य्यगुणेन त्रिभुवने तस्य कीर्त्तिः विस्तारं गता । सर्व्वेऽर्थिजनास्तमेव राजानं स्तुवन्ति । सर्व्वदा स्वस्ति- वचनं दातॄणामेव प्रीत्यै भवति । उक्तञ्च,-
दातॄणामेव सम्प्रीत्यै स्वस्तिवाचो धनार्थिनाम् ।
शूराणां हि प्रहाराय रसितं रणदुन्दुभेः ।। १९८।।
वीर्य्य धैर्य्य ज्ञानानुष्ठानादयो गुणाः सर्वेषामेव भवितुमर्हन्ति, न तु त्यागगुणः । उक्तञ्च,-
द्रुह्यन्ति पशवः सर्वे पठन्ति च शुकादयः ।
ददाति कोऽपि दानं यः स शूरः स च पण्डितः ।।१९९।।
केचित् स्वभाववीरा हि दयावीराय केचन ।
ते सर्वे दानवीरस्य कलां नार्हन्ति षोडशीम् ।। २०० ।।
त्याग एको गुणः श्लाघ्यः किमन्यैर्गुणराशिभिः ।
त्यागादेव हि पूज्यन्ते पशुपाषाणपादपाः ।। २०१ ।।
त्यागो गुणो गुणशतादधिको मतो मे
विद्याऽपि भूषयति तं यदि किं ब्रवीमि ?
शौर्य्यञ्च नाम यदि तत्र नमोऽस्तु तस्मै
तच्च त्रयं न च मदोऽप्यति विक्रमे यत् ।। २०२ ।।
एतच्चतुष्टयं ( ग) तस्मिन् विक्रमार्के सदैवासीत् ।
एकदा परमण्डलस्थस्य ( घ) कस्यचिद्राज्ञः पुरतः केनचित् स्तुतिपाठकेन विक्रमार्कस्य गुणावली पठिता । तेन राज्ञा तां श्रुत्वा मनसि स्पर्द्धां विधाय, स्तुतिपाठकं प्रति उक्तं-भो वन्दिन्! किमर्थमेते सर्वे स्तुतिपाठकाः विक्रममेव राजानं स्तुवन्ति? किमन्यो राजा त्रिभुवने नास्ति ?
वन्दिनोक्तं,- भो राजन्! त्यागे, उपकारे, साहसे, शौर्ये, धैर्य्ये च तेन सदृशो राजा त्रिभुवनेऽपि नास्ति । परोपकारकरणे तस्य स्वदेहेऽपि ममत्वं नाऽऽसीत् ।
तस्य तद्वचनं श्रुत्वा स राजा, अहमपि परोपकारं करिष्यामि इति मनसि विचार्य्य, कञ्चन योगिनमाहूय अवादीत्, - भो योगिन्! परोपकारकरणार्थं प्रतिदिनं नवं नवं द्रव्यं यथा भवति, तथा कश्चिदुपायोऽस्ति न वा ?
योगिनोक्तं- भो राजन् । किमिति नास्ति ?
राज्ञोक्तम्-अस्ति चेत्, तमुपायं ममाग्रे निवेदय, अहं तं साधयामि ।
योगिनोक्तं,- कृष्णचतुर्दशीदिवसे चतुःषष्टियोगिनीचक्रं ( ङ) पूजनीयम् । तत्पुरतो मन्त्रपुरश्चरणं (च) विधाय तद्दशांशहोमः (छ) कर्तव्यः; होमावसाने पूर्णाऽऽहुतिनिमित्तं ( ज) स्वशरीरमग्नौ होतव्यम् ।
ततो राज्ञा तथाऽनुष्ठिते योगिनीचक्रं तस्य मांसं भक्षयित्वा अतीव प्रसन्नं भूत्वा अमृतेनाभिषिच्य च राज्ञे नवं शरीरं दत्त्वा भणति,- भो राजन्! वरं वृणीष्व ।
राज्ञोक्तं - भो मातरः! यदि प्रसन्नाः सन्ति भवत्यः, तर्हि मम गृहे ये सप्त महाघटाः सन्ति, तान् प्रतिदिनं सुवर्णपूर्णान् कुर्वन्तु ।
ताभिरेवमुक्तं, - त्वम् एवं मासत्रयं प्रतिदिनं स्वशरीरमग्नीं होष्यसि चेत्, तर्हि तथा वयं करिष्यामः।
राजाऽपि तथाऽस्तु इत्युक्त्वा प्रतिदिनं स्वशरीरमग्नौ जुहोति; योगिनीचक्रमपि प्रतिदिनं तथैव करोति ।
एकदा विक्रमार्को राजा कथाप्रसङ्गेन इमां वार्त्तां श्रुत्वा तत् स्थानं समागत्य, तत्रत्यनृपतेः आगमनात् प्रागेव पूजादिकं विधाय पूर्णाऽऽहुतिसमये होमाग्नौ स्वदेहं पातयामास । ततो भक्षणसमये योगिनीभिः परस्परं भणितम्,- अद्य तन्वन्तर- मांसम् ( झ) अतीव स्वादुतरं विद्यते, अस्य हृदयं महासारम् ( ञ) अस्ति, इत्यसाधारणसत्त्वसारो न भक्षणीयः इत्युक्त्वा पुनस्तमुज्जीव्य भणितं,- भो महासत्त्व! (ट) को भवान् ? तव शरीरत्यागे किं वा प्रयोजनम्?
तेनोक्तं,-मया परोपकारार्थं शरीरमग्नौ हुतम् ।
योगिनीभिर्भणित,- तर्हि वयं प्रसन्नाः स्मः, वरं वृणीष्व ।
राज्ञोक्तं,- यदि मयि प्रसन्नाः सन्ति भवत्यः, तर्हि अयं राजा मरणात् प्रतिदिनं महत् कष्टम् अनुभवति, तत् निवारणीयम्; विनैव देह- पातम् अस्य सप्त महाघटाः नित्यं सुवर्णेन पूरणीयाः ।
योगिनीभिर्भणितं - भवतु, तथा करिष्यामः- इति अङ्गीकृत्य ताभिः राज्ञः मरणं निवारितं, घटाय प्रत्यहं सुवर्णेन पूरिताः ।
अथ राजा निजनगरं प्रत्यागतः ।
इमां कथां कथयित्वा पुत्तलिका भोजमवदत्- भो राजन्! त्वयि एवं परोपकारः, धैर्य्यं, दया च विद्यते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे परोपकाराय स्वदेहाऽऽहुतिदानं नाम सप्तदशोपाख्यानम्] ।।१७।।
अथ सूर्य्यलोकगमनं नाम अष्टादशोपाख्यानम् ।
पुनरपि भोजो यावत् सिहासने समुपवेष्टुकामो याति, तावदन्या पुत्तलिका तं निवारयन्तो भणति - भो राजन्! नीतिकुशलो विक्रमो राजा सुनयेन प्रजाः पालयन् औदार्य्यादिगुणैः सर्वलोकानां वरणीयोऽभवत् । तस्येदं सिंहासनं, तदनुरूपा, नीतिकुशलता औदार्य्यादयो गुणाश्च त्वयि सन्ति चेत्, तर्हि एतत् सिंहासनम् अध्यासितव्यम् ।
राज्ञोक्तं- नीतिमार्गः (ठ) कीदृशः कथ्यताम् ।
पुत्तलिकयोक्तं,- भो राजन्! श्रूयतां - मणिपुरे गोविन्दशर्मा ब्राह्मणः सकल- नीतिशास्त्रज्ञः स्वपुत्राय नीतिशास्त्रं कथयति, तदा मयाऽपि नीतिशास्त्रं श्रुतम्; तत् तुभ्यं निवेदयामि ।
राज्ञोक्तं,- निरूपय (ड) ।
पुत्तलिकयोक्तं,- श्रूयतां राजन्! बुद्धिमता पुरुषेण दुर्जनैः सह सङ्गो न कर्त्तव्यः, यतः स एव अनर्थ- परम्पराया हेतुर्भवति । उक्तञ्च,--
दुर्वृत्तसङ्गतिरनर्थपरम्पराया
हेतुः, सतां भवति, किं वचनीयमत्र? ।
लङ्केश्वरो हरति दाशरथेः कलत्रं
प्राप्नोति बन्धमथ दक्षिणसिन्धुराजः ।। २०३।।
अपि च --
अपनयति विनयमनयं घटयति नाशयति च यशांसि ।
निरयं रचयति तरसा पुंसामसतः समागमो जगति ।।२०४।।
सज्जनानां सङ्गो विधेयः । लोके सत्सङ्गात् परो लाभो नास्ति, यतो महाऽऽनन्दादयो गुणा जायन्ते । उक्तञ्च -
कन्दलयत्यानन्दं निन्दति यो मन्दानिलेन्दुचन्दनम् ।
दमयति च मन्दभावं सन्धत्ते सम्पदोऽपि सत्सङ्गः ।।२ ०५।। अन्यच्च –
केनापि वैरं न कर्त्तव्यं, परेषां सन्तापो न करणीयः, अनपराधतो भृत्या न दण्डनीयाः, महादोषं विना स्त्री न त्याज्या, यतो नरकभाग् (ढ) भवति । उक्तञ्च -
आज्ञासम्पादिनीं दक्षां सुरूपां शीलमण्डनाम् ।
योऽट्टष्टदोषां त्यजति सोऽक्षयं नरकं व्रजेत ।। २०६ ।।
लक्ष्मीः स्थिरेति न मन्तव्या, परं पद्मपत्रस्थवारि इव चञ्चला । उक्तञ्च,-
अनुभव दरदं वित्तं मान्यान् मानय सज्जनान् भजत ।
अतिपरुषपवनविलुलितदीपशिखेव चञ्चला लक्ष्मीः ।। २०७।।
न स्त्रियै गुह्यं वचनं निवेदनीयं. भविष्यच्चिन्ता न कार्य्या, वैरिणामपि हितमेव कथनीयं, नित्यं दानाध्ययनादिकं विना? दिवसं न यापयेत्, पित्रोः सेवा कर्त्तव्या, चोरैः सह सम्भाषणं न कर्त्तव्यं, सर्वदा निष्ठुरमुत्तरं न वाच्यम्, अल्प?निमित्तं न बहु करणीयम् । ( ण) उक्तञ्च -
न स्वल्पस्य कृते भूरि नाशयेन्मतिमान् नरः ।
एतदेव हि पाण्डित्यं यत् स्वल्पाद्भारक्षणम् ।। २०८ ।।
आर्त्ताय दानं दातव्य, धर्म्मज्ञानेन, मनसा, कर्मणा, वाचा परोपकारः कर्त्तव्यः । एतत् सामान्यपुरुषाणां ( त) नीतिशास्त्रमुपदिष्टम् । स विक्रमो राजा स्वभावत एव नीतिशास्त्रज्ञः ।
एवं काले गच्छति, एकदा कश्चित् वैदेशिकः समागत्य राजानं दृष्ट्वा उपविष्टः । ततो राज्ञा भणितं,- भो महात्मन्! तव निवासः कुत्र ?
तेनोक्तं-भो राजन्! अहं वैदेशिकः, मम कोऽपि निवासो नास्ति; सर्वदा परिभ्रमणमेव करोमि ।
राज्ञोक्तं,-पृथिवीं भ्रमता त्वया किं किम् अपूर्वं दृष्टम् ?
तेनोक्तं,-भो राजन्! महदेकम् आश्चर्य्यं दृष्टम् ।
राज्ञोक्तं,- किं तत ?-
तेनोक्तम्,- उदयाचले ( थ) आदित्यस्य महान् प्रासादोऽस्ति, तत्र गङ्गा वहति, गङ्गातटे पापविनाशनो नाम शिवालयोऽस्ति । तत्र गङ्गाप्रवाहात् कश्चित् सुवर्णस्तम्भो निर्गच्छति, तस्य उपरि नवरत्नखचितं सिंहासनमस्ति । स सुवर्णस्तम्भः सूर्य्योदयादुपरि ( द) पूर्णवृद्धिं लब्ध्वा मध्याह्ने सूर्य्यमण्डलं (ध) प्राप्नोति । ततः सूर्य्यो यावदस्तं गच्छति, तावत् स्वयमेव प्रत्यावृत्य गङ्गाप्रवाहे मज्जति । प्रतिदिनमेवं तत्र भवति । एतन्महदाश्चर्य्यं मया ट्टष्टम् ।
राजा विक्रमोऽपि तच्छ्रुत्वा, तेन सह तत् स्थानं गतो रात्रौ निद्रां गतः । प्रभातसमये सूर्य्यस्य यावदुदयो भवति, तावत् गङ्गाप्रवाहात् रत्नसिंहासनयुक्तो हेमस्तम्भः (न) निर्गतः । तस्मिन् समये स्तम्भे राजा स्वयमुपविष्टः । स्तम्भोऽपि सूर्यमण्डलं प्रति गन्तुं प्रवृत्तः यावत् सूर्य्यसमीपं गच्छति, तावदग्निकणासदृशैः सूर्यकिरणैः राजशरीरं मांसपिण्डाऽऽकारमभूत् । ततः पिण्डरूपेण सूर्य्यमण्डलं प्राप्य,-
नमः सवित्रे जगदेकचक्षुषे
जगत्प्रसूतिस्थितिनाशहेतवे ।
त्रयीमयाय त्रिगुणात्मधारिणे
विरिञ्चिनारायणशङ्करात्मने ।। २०९ ।।
इत्येवं नमश्चकार । सूर्य्यः स्तम्भम् अमृतेनाऽभ्यषिञ्चत् । तेन राजा दिव्यशरीरो जातः ।
सूर्येणोक्तं- भो राजन्! त्वं महासत्त्वाधिकोऽसि । (प) यदेतन्मण्डलं कस्यापि (फ) अगम्यं, तत्र त्वं प्राप्तोऽसि । तदहं प्रसन्नोऽस्मि, वरं वृणीष्व ।
राजा वदति,- किं मत्तोऽधिकः परोऽस्ति? यन्मुनीनामप्यगम्यं तव स्थानं, तदहं प्राप्तः । तव प्रसादात् सर्वमप्यर्थजातं (ब) मम सञ्जातम् ।
तद्वचनेनाऽतिसन्तुष्टः सूर्य्यो नवरत्नखचिते स्वकीय- कुण्डले (भ) दत्त्वा भणति,- भो राजन्! एतत् कुण्डलद्वयं प्रतिदिनमेकं सुवर्णभारं (म) प्रयच्छति । ततो राजा कुण्डल- द्वयं गृहीत्वा, पुनः सूर्य्यं नमस्कृत्य प्रत्यावृत्तात् तस्मात् स्तम्भादुत्तीर्य्य यावदुज्जयिनीं प्रति आगच्छति, तावत् कश्चित् ब्राह्मणो मार्गे समागत्य,-
वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः ।
अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायाऽस्तु वः ।।२ १० ।।
इत्याशीर्वादमुच्चार्य्य भणति- भो यजमान! (य) अहं कुटुम्बी, ( र) व्राह्मणः, परं दरिद्रः; सर्वत्र भिक्षाऽटनं ( ल) करोमि, तथाऽपि उदरं न पृर्य्यते ।
तच्छ्रुत्वा राजा कुण्डलद्वयं तस्मै दत्त्वा भणति,- भो ब्राह्मण! एतत् कुण्डल- युगलं नित्य सुवर्णभारमेकं तुभ्यं दास्यति । तच्छ्रुत्वा ब्राह्मणोऽतिसन्तुष्टो राजानं सविशेषं सम्मान्या, निजस्थानं जगाम; राजाऽप्युज्जयिनीमगात् ।
इति कथां कथयित्वा पुत्तलिका अब्रवीत्,- भो राजन् । त्वयि एवम् औदार्य्यं धैर्य्यञ्च विद्यते चेत्, तर्हि अस्मिन् सिंहा- सने समुपविश ।
राजा तूष्णीं बभूव ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा-भोजसंवादे सूर्य- लोकगमनं नाम अष्टादशोपाख्यानम् ।। १८ ।।
अथ बलिसन्दर्शनं नाम एकोनविंशोपाख्यानम् ।
पुनरपि राजा यावत् सिंहासनम् अधितिष्ठासुर्याति तावदन्या पुत्तलिका तं निवार्य्याऽवदत्,- भो राजन्! तव विक्रमस्येव औदार्य्यादिगुणाः सन्ति चेत्, तर्हि अस्मिन् सिंहासने ममुपविश ।
राज्ञोक्तं,- भोः पुत्तलिके! कथय, तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।
सा कथयति, श्रूयतां राजन्! विक्रमे सुमहद्भूमण्डलं ( व) शासति, सर्वेऽपि लोकाः आनन्दपरिपूर्णहृदयाः आसन् । ब्राह्मणाः षट्कर्म्मनिरताः, (श) स्त्रियः पतिव्रताः, शताऽऽयुषः पुरुषाः, सदाफलाः ( ष) वृक्षाः, कामवर्षी पर्जन्यः, ( स) मही सर्व्वदा सम्पृर्णशस्यशालिनी, सर्वेषां लोकानां पापाद् भयम्, अतिथीनां पूजा, जीवेषु दया, गुरूणां सेवा, सर्व्वदा दीनेभ्यो दानञ्च, एवं प्रजासु वृत्तिः (ह) आसीत् ।
अथ एकदा विक्रमः सिंहासने उपविष्टः आसीत् । तत्र सभायामुपविष्टाः नानादेशीयाः सामन्तराजकुमाराः (क) आसन् । तेषु केचित् स्तुतिपाठकैः स्तवंशावलीः पाठयन्ति, केचनोद्धताः स्वभुजबलं स्वयमेव स्तुवन्ति, केचन षड्विध- दण्डायुधसाधनाभिज्ञाः श्मश्रुलाः ( ख) युवानः अन्योऽन्यम् उपहसन्ति, केचन शरणाऽऽगतपरिपालनप्रवणाः, एके च परत्र विषये ससाधनाः, (ग) केचन च धर्म्मसङ्ग्रहकारिणः, इति । अत्रान्तरे कश्चित् पापर्द्धिः ( घ) व्याधः तत्र समागत्य राजानं प्रणम्याऽवदत्- भो देव! अरण्यमध्ये अञ्जनपर्व्वताकारः ( ङ) महान् वराहः समागतोऽस्ति, तं देवः समागत्य पश्यतु ।
तस्य वचनं श्रुत्वा राजा तैरेव राजकुमारैः सह वनं गत्वा नदीतटस्थितनिकुञ्जान्तर्गतं (च) वराहमेकमपश्यत् । ततोऽसौ वराहोऽपि वीराणां कोलाहलं श्रुत्वा तस्मान्निकुञ्जात् बहि- र्निर्गतः । । तदनन्तरं सर्वैः राजकुमारैः सह महत् स्वहस्त कौशलं ( छ) दर्शयतः विक्रमस्य षड्विंशत्याऽऽयुधानि ( ज) तस्योपरि निपेतुः । वराहस्तु तान्यायुधानि अगणयन्, पर्ष्वतान्तर्गतं कञ्चित् कन्दरं विवेश ( झ) । राजाऽपि तस्य पृष्ठतो लग्नः ( अ) पर्ष्वतमगमत्। । तत्र काञ्चन बिलद्वारं (ट) दृष्ट्वा, स्वयमेव तत्र प्रविष्टो महत्यन्धकारे कियद्दूरं गतः; उत्तरत्र महान् प्रकाशः (ठ) अभूत ।
ततः कियद्दूरे सुवर्णमयप्राकारं शुभ्राऽभ्रंलिहप्रासादविशिष्टं ( ड) नगरमेकम् अपश्यत । तत्र च देवालयोपवनादिभिरलङ्कृते समस्तवस्तुपरिपूर्णविपणिभूषिते धनिक- लोकसमाकीर्णे नानाविलासिजनसेव्यमानं विलासिनीजनम् (ढ) अतिमनोहरमपश्यत् । तत्र प्रविश्य विपणिमध्ये यावत् प्रविशति, तावदतीवमनोहरमण्डपयुतं राजभवनमेकमपश्यत् । तत्र विरोचनसुतो बलिः राज्यं करोति ।
राजा राजभवने प्रविष्ट एव बलिना झटिति समागत्य आलिङ्गितः, अतिरमणीये सिंहासने च समुपवेशितः, पृष्टश्च- भोः स्वामिन्! कुतोऽत्र भवतः समागतिः ?
विक्रमेणोक्तम् - अहं भवत्सन्दर्शनार्थमत्र समागतोऽस्मि ।
तच्छ्रुत्वा बलिः राजानमवदत् - अद्य मम सन्ततिः (ण) पवित्रीभूता, सफला च जाता । बहुना पुण्योदयेन भवतोऽस्माकं गृहे समागतिः ( त) संवृत्ता ।
विक्रमेणोक्तं,- भो राजन्! त्वं पवित्रीभूतान्तःकरणः; तवैव जन्म श्लाघ्यं, यतः साक्षाद्वैकुण्ठाधिपो नारायणस्तव मन्दिरे सदा विराजते ।
अथ बलिनोक्तं-स्वामिन्! भवतः किमागमनकारणम् अन्यत् ?
विक्रमेणोक्तं भो दानवेन्द्र! अहं भवद्दर्शनार्थमेव समागतोऽस्मि, अत्र नान्यत् किमपि कारणम् ।
अथ बलिनोक्तं यदि मां प्रियसुहृद् मन्यमानेन स्वामिना समागतं, तर्हि मयि कृपापरवशेन किमपि वस्तु भवता याचनीयम् ।
ततो विक्रमेणोक्तं,- मम किमपि न्यूनं नास्ति, तव प्रसादात्। सर्व्वत्र सम्पूर्णोऽस्मि ।
बलिनोक्तं,- भोः स्वामिन्! भवतः किमपि न्यूनमिति न मयोच्यते,. किन्तु मैत्रीम् उद्दिश्य किञ्चिद् दित्सामि (थ) । उक्तञ्च-
नोपकारं विना प्रीतिः कदाचित् कस्य जायते ।
उपयाचितदानेन पश्य देवा ह्यभीष्टदाः ।। २११ ।।
अन्यच्च,-पुत्रादपि प्रियतरं खलु तेन दानं
मन्ये पशोरपि विवेकविवर्जितस्य ।
दत्ते खले नु निखिलं खलु येन दुग्धं
नित्यं ददाति महिषी ससुताऽपि पश्य ।। २१२ ।।
एवं भणित्वा, तेन विक्रमाय राज्ञे रसायनं रसश्च(द) दत्तः ।
ततः राजा तस्मादनुज्ञां प्राप्य बिलात् निर्गतोऽश्वमारुह्य यावद्राजमार्गे समायाति, तावत् महादैन्ययुतः, पीडितः, सपुत्रः, कश्चित् वृद्धब्राह्मणः समागत्य,-
कठिनतरदामवेष्टनरेखासन्देहदायिनो यस्य ।
विलसन्ति बलिविभागाः स पातु दामोदरो विष्णुः ।। २१३ ।।
इत्थाशिषमुक्त्वा राजानमकथयत्- भो यजमान ? अहम् अत्यन्त दरिद्रः, पीडितः, बहुकुटुम्बी ब्राह्मणः । अद्य सकुटुम्बस्य मम किमपि भोजनपर्य्याप्तं( ध) धनं देहि; महत्या क्षुधा पीडिता(न) वयम् ।
तदाकर्ण्य राज्ञा भणितं,- भो ब्राह्मण । इदानीं मम हस्ते किमपि धनं नास्ति, परं रसश्च रसायनञ्चेति वस्तुद्वयमस्ति, अस्य रसस्य सम्पर्केण ( प) सप्त धातवः सुवर्णानि भवन्ति; तथा इदं रसायनं यस्तु सेवते, स जरामरणरहितो भवति । त्वमेतयोरुभयोर्मध्ये एकं गृहाण। ।
तदा पित्रा उक्तं -यस्य रसायनस्य सेवनेन जरामरणरहितो भविष्यामि, तद्दीयताम् ।
एवमात्मनोऽनभिप्रेतं पितुः प्रार्थनमाकर्ण्य पुत्रेणोक्तं-किं क्रियते रसायनेन? तेन जरामरणरहितेनाऽपि पुनर्दारिद्र्य- मेवानुभवितव्यम् ( फ) । यस्य रसस्य सम्पर्के सति रजतादिः सुवर्णं भवति, स एव ग्राह्यः इत्युभयोर्विवादो जातः ।
ततः रजिा उभयोर्विवादं श्रुत्वा रसं रसायनञ्चेत्युभयमेव ताभ्यां ददौ । ततो ब्राह्मणः सपुत्रो हृष्टः राजानं वर्णयन् निजनिलयं गतः । राजाऽपि निजभवनमगमत् ।
इमां कथां कथयित्वा पुत्तलिका पुनरब्रवीद्-भो राजन्! त्वयि एवं धैर्य्यम् औदार्य्यञ्च विद्यते चेत् तर्हि अस्मिन् सिंहासने उपविश । राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा-भोजसंवादे बलिसंदर्शनं नाम एकोनविंशोपाख्यानम् ।। १९।।
अथ योगिसन्दर्शनं नाम विंशोपाख्यानम् । -
पुनरपि राजा यावत् सिंहासने समुपवेष्टुम् उपक्रमते, तावदन्या पुत्तलिकाऽब्रवीत्- भो राजन्! यदि त्वयि विक्रमस्येव औदार्य्यादयः गुणाः सन्ति, तदा सिंहासने समुपविश ।
राजा अवदत्,-भोः पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्यादीन् गुणान् ।
पुत्तलिका अवदत्,-श्रूयतां राजन्! विक्रमो राजा षण्मासान् राज्यं करोति, षण्मासान् देशान्तरेषु भ्रमति । एकदा देशान्तरगतो नानादेशान् परिभ्रमन्, पद्मालयं नाम नगरमगमत् । तत्र सुमनोहरे वह्निरुद्याने अतिविमलोदकं कञ्चित् सरोवरं दृष्ट्वा, तत्रोदकपानं कृत्वा उपविष्टः । ततोऽन्यतः अन्येऽपि केचन वैदेशिकाः समागत्य, जलपानं विधाय तत्र उपविष्टाः, परस्परं गोष्ठीरकुर्वन्,-अहो! अस्माभिरनेके देशाः दृष्टा, बहूनि तीर्थस्थानानि पर्य्यटितानि, अतिदुर्गमाः कैरप्यनधिगम्याः (ब) पर्वताश्च आरूढाः, परमेकत्राऽपि महापुरुषदर्शनं नाभूत् इति । तत्र एकेन भणितं-कथं महापुरुषदर्शनं भविष्यति? यत्र महासिद्धोऽस्ति तत्र गन्तुं न शक्यते; यतः तत्रत्यो मार्गोऽति- दुर्गमः, मध्ये च अनेके विघ्नाः सम्भवन्ति, देहस्य नाशः सम्भाव्यते । येनोद्यमेन प्रथममात्मविनाशशङ्का सञ्जायते, तस्य फलं को वा अनुभवितुमिच्छति? यतः बुद्धिमता सर्वथा चात्मैव प्रथमं रक्षणीयः । उक्तञ्च,--
पुनर्दाराः पुनर्वित्तं पुनः क्षेत्रं तथैव च ।
पुनः शुभाशुभं कर्म्म शरीरं न पुनः पुनः ।। २१४ ।।
तस्मात् विवेकिना (भ) पुरुषेण आत्माऽहितकराणि ( म) कार्य्याणि न कर्त्तव्यानि । तथा चोक्तम्,-
व्यसनानि दुरन्तानि सम्यग्व्ययफलानि च ।
अशक्यानि च कार्य्याणि नारभेत विचक्षणः ।। २१५ ।।
तथा च,-
पर्वतं विषमं घोरं बहुव्यालसमाकुलम् ।
नाऽऽरोहेन्मानवः प्राज्ञः संशये हि कदाचन ।। २१६ ।।
अथ राजा तेषामेवं वचनं समाकर्ण्य भणति,- अहो वैदेशिक! किमेवमुच्यते ।। यदा पुरुषेण पौरुषं साहसञ्च क्रियते, तदा तस्य किमपि कार्य्यं दुष्करं न भवति । उक्तञ्च,-
दुष्प्राष्याणि च वस्तूनि लभ्यन्ते वाञ्छितानि च ।
पुरुषैः संशयाऽऽरूढैरलसैर्न कदाचन ।। २१७ ।।
तथा च,--
पतति कदाचिन्नभसः खाते पातालतोऽपि जलमेति ।
दैवमचिन्त्यं बलवत् बलवान् ननु साहसी यश्च ।। २१८ ।।
क्लेशस्याङ्गमदत्त्वा सुखमेव सुखानि नेह लभ्यन्ते । -
मधुभिन्मथनायस्तैराश्लिष्यति बाहुभिर्लक्ष्मीम् ।। २१९ ।।
तस्य कथं न चला स्यात् पत्री विष्णोर्नृसिंहकस्यापि? ।
मामांश्चतुरो निद्रां यः सेवति जलगतः सततम् ।। २२० ।।
दुरधिगमः परभागो यावत् पुरुषेण पौरुषं न कृतम् ।
जयति तुलामधिरूढो भास्वानयि जलदपटलानि ।। २२१ ।।
एतद्राजवचनं श्रुत्वा, तैः उक्तं,- महासत्त्व । किं कार्य्यं, तत् कथय, राज्ञोक्तम्-अस्मात्। स्थानात् द्वादशयोजनपर्य्यन्तं यदि गम्यते, तर्हि तत्र महाऽरण्यमध्ये विषमः ( य) कश्चित् पर्वतोऽस्ति, तदुपरि त्रिकालनाथो नाम योगीश्वरो (र) विद्यते । यदि तस्य दर्शनं क्रियते, तर्हि स सर्वं वाच्छितमर्थं दास्यति; अहं तत्र गच्छामि । तैरुक्तं - वयमप्यागमिष्यामः ।
राज्ञोक्तं,-सुखेन आगच्छत ।
ततस्ते राज्ञा सह निर्गताः, महारण्ये मार्गमतिविषमं दृष्ट्वा राजानं प्रोचुः-भो महासत्त्व! कियद्दूरे पर्वतोऽस्ति ? राज्ञोक्तम् - इतः ( ल) अष्टयोजनदूरे विद्यते । तैरुक्तं,- यद्यपि महद्दूरमेतत्, मार्गोऽप्यतिविषमः, तथाऽपि वयं गमिष्यामः इति ब्रुवन्तः षड्योजनानि अतिक्रम्य पुरतो यावत् गच्छन्ति, तावन्महाकालवदनः विषाग्निमुद्रमन् ( व) अति भयङ्करः कश्चित् सर्पो मार्गमावृत्य ( श) तिष्ठति, इति दृष्ट्वा ते सभयाः पलायाञ्चक्रिरे ।
राजा तथाऽपि मार्गे गन्तुं प्रवृत्तः । अथ सर्पः समागत्य राजानं वेष्टयित्वा समदशत् । ततः स विषवत् (ष) दष्टस्थानं वस्त्रखण्डेन बद्ध्वा. विषज्वालासमन्वितोऽपि ससर्पः दुर्गमं पर्वतमारुह्य त्रिकालनाथं योगिनं दृष्ट्वा नमश्चकार । योगिसन्दर्शनमात्रेण स सर्पस्तं त्यक्त्वा गतः, राजाऽपि सत्वरं निर्विषो बभूव ।
ततो योगिनोक्त,- भो महासत्त्व! महाप्रमादभूयिष्ठम् ( स) एवममानुषं ( ह) स्थानम् अतिकष्टेन किमर्थ- मागतोऽसि ?
राज्ञोक्तं - भोः स्वामिन्! अहं तव सन्दर्श- नार्थम् आगतोऽस्मि ।
योगिनोक्तं,- महत् कष्टम् अनुभूतं खलु त्वया । राज्ञोक्तं- किमपि कष्टं नास्ति, भवत्सन्दर्शनमात्रेण सकलमपि पातकं गतम् । ईदृक् क्लेशं स्वीकृत्य अद्याऽहं धन्योऽस्मि यतो महान्तो हि अतीव दुर्लभदर्शनाः, सकृदपि तैः सङ्गतिः आत्मोन्नतिजननी, महताऽपि विकारहेतुना ( क) ते खलु नान्यथाप्रकृतयः (ख) । तथा चोक्तम्,-
घृष्टं घृष्टं पुनरपि पुनचन्दनं चारुगन्धं
छिन्नं छिन्नं पुनरपि पुनः स्वादु चैवेक्षुकाण्डम् ।
दग्धं दग्धं पुनरपि पुनः काञ्चनं कान्तवर्णं
प्राणान्तेऽपि ग्रस्ततिविकृतिर्जायते नोत्तमानाम्।।२२२।।
ततः प्रसन्नेन योगिना कठिनी, (ग) योगदण्डः, कन्था च दत्ता । उक्तञ्च,- भो राजन्! अनया कठिन्या भूमौ यावत्यः रेखाः लिख्यन्ते, तावन्ति योजनानि एकस्मिन् दिने गन्तुं शक्यन्ते; एष योगदण्डः दक्षिणहस्तेन स्पृश्यते यदि, तर्हि मृतसैन्यं सञ्जीव्य(घ) उत्तिष्ठति, वामहस्तेन स्पृश्यते यदि, तदा सर्वस्यापि विपक्षस्य सैन्यनाशो भवति; इयं कन्थाऽपि यच्छकाशे वर्त्तते तस्मै ईप्सितवस्तुनि (ङ) प्रयच्छति ।
राज्ञाऽपि तत्त्रयं गृहीत्वा योगिनं नमस्कृत्य, अनुज्ञां लब्ध्वा यावद् गम्यते, तावद्राजमार्गें कश्चिद्राजकुमारः सम्मुखे अग्निं संस्थाप्य काष्ठानि सञ्चिनोति इति अदृश्यत । ततः राजा तमपृच्छत्-भोः सौम्य ( च ) किमेवं क्रियते ?
तेनोक्तम्,- अहं कश्चिद्राजकुमारः, मम राज्यं दायादैरपहृतं, ( छ) दरिद्रोऽहं जीवनं धारयितुमक्षमः ( ज) सन् अग्नौ प्रवेशं कर्त्तुं काष्ठानि सञ्चिनोमि (झ) । ततो राजा तस्मै अभयं दत्त्वा तां कठिनीं योगदण्डं कन्थाश्च ददौ, तेषां गुणानपि अकथयत् । तदनन्तरम् अतिसन्तुष्टो राजकुमारो राजानं प्रणम्य स्वदेशमगमत्; विक्रमोऽपि उज्जयिनीमगात् ।
इमां कथां कथयित्वा पुत्तलिका भोजराजमवदत्,- भो राजन्! त्वयि यदि एवम् औदार्य्यादयो गुणा विद्यन्ते, तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीं स्थितः ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे योगिसन्दर्शनं नाम विंशोपाख्यानम्।। २० ।।