द्वात्रिंशत्पुत्तलिकासिंहासनम्/०९

विकिस्रोतः तः
Jump to navigation Jump to search

अथ अष्टमहासिद्धिलाभो नाम एकविंशोपाख्यानम्

पुनरपि राजा यावत् सिंहासने समुपवेष्टुमुपक्रमते, तावदन्या पुत्तलिका तं निवार्य्य भणति,--तेनात्र सिंहासने उपवेष्टव्यं, यस्य विक्रमस्येव औदार्य्यं विद्यते ।

राजा अवदत्- - कथय तच्च विक्रमस्यौदार्य्यवृत्तान्तम् ।
सा अब्रवीत्- श्रूयतां राजन्! विक्रमे राज्यं शासति बुद्धिसिन्धुनामा कश्चित् मन्त्री आसीत् । तस्य च अनर्गलो नाम पुत्रः वभूव । स घृतौदनं ( ञ) भुक्त्वा कुमारवृत्त्या ( ट) तिष्ठति, किमपि विद्याऽभ्यसनं न करोति ।। एकदा पित्रा भणितं- भो अनर्गल! त्वं ममौरसाज्जातोऽपि अतीव दुर्विदग्धः, ( ठ) विद्याऽभ्यसनं न करोषि, हृदयशून्यो मूर्खः सन् तिष्ठसि !! यस्तु हृदयशून्यः, स मूर्ख एव । उक्तञ्च-

अपुत्रस्य गृहं शून्यं शून्यदेशो ह्यबान्धवः ।

मूर्खस्य हृदयं शून्यं सर्वशून्या दरिद्रता ।। २२३ ।।

मम त्वया कोऽप्यर्थो नास्ति । तथाहि,-

कोऽर्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः ।

किं तया क्रियते धेन्वा या न सूते न दुग्धदा? ।। २२४ ।।

अन्यच्च-

अजातमृतमूर्खेभ्यो मृताजातौ सुतौ वरम् ।

यतस्तौ स्वल्पदुःखाय यावज्जीवं जडो दहेत् ।।२२५ ।।

किञ्च--

किं तेन जातु जातेन मातुर्यौवनहारिणा ।

आरोहति न यः स्वस्य वंशस्याग्रे ध्वजो यथो ।।२२६।।
 
एतत् पितृवचनं श्रुत्वा पश्चात्तापयुक्तः(ड) अनर्गलः वैराग्यम् अवलम्ब्य देशान्तरं जगाम । तत्र एकस्मिन् नगरे, कस्यचित् उपाध्यायस्य सकाशात् सकलं नीतिशास्त्रं पठित्वा निजनगरं प्रति गन्तुं प्राक्रमत । मार्गे च अरण्यमध्ये देवालयमेकमपश्यत् । तद्देवालयसमीपे पद्मिनीषण्डमण्डितं चक्रवाकयुगयुतम् ( ढ) अतिविमलोदकं सरः आसीत् । तस्य च सरोवरस्य एकदेशे अतिसन्तप्तमुदकम् ( ण) अस्ति । एतत् सर्व्वं दृष्ट्वा अनर्गले तत्रोपविष्टे सूर्य्योऽस्तं गतः ।

तदनन्तरं मध्यरात्रसमये तस्मात् सन्तप्तोदकमध्यात् अष्टौ दिव्याः स्त्रियः निर्गताः देवालयं गत्वा, देवस्याभिषेकादि- षोडशोपचारं कृत्वा च नृत्यगीतादिकलया देवं तोषयामासुः । ततो देवः प्रसन्नः समर्च्चयित्रीभ्यः ताभ्यः प्रसादमदात् । एतत् सर्व्वमनर्गलोऽपि अपश्यत् ।
अथ प्रभाते निर्गमनसमये ताभिरनर्गलो दृष्टः । ततश्च तासां मध्ये एकया दिव्याङ्गनया भणितं,- भोः सौम्य! एहि ( त) अस्माकं नगरं प्रति। इत्युक्ता सा सहचरीभिः सह सन्तप्तोदक- मध्ये प्रविष्टा । सोऽपि तया सह गन्तुम् इयेष, ( थ) परं तत्र तस्यां प्रविष्टायाम् अनर्गलो भयान्न प्रवेष्टुं शशाक ।

अथ स्वनगरमागत्य पित्रादिसर्व्वबन्धुजनान् अपश्यत् । तेन तेषां महानुत्सवो जातः । अथ स द्वितीयदिवसे राजसन्दर्शनार्थं राजसभां गत्वा, राजानमभिवाद्य (द) उपविष्टः ।

राज्ञा कुशलं पृष्ट्वोक्तं- भो अनर्गल! एतावन्ति दिनानि ( ध) कुत्र स्थितोऽसि ?

तेनोक्तं,- विद्याऽभ्यासं कर्त्तुं देशान्तरं गतोऽस्मि ।

राज्ञोक्तं,- तत्र देशान्तरे किं किमपूर्व्वं दृष्टम् ?

अनर्गलेन च राज्ञे सन्तप्तोदकवृत्तान्तः कथितः ।

तत् श्रुत्वा राजा तेन सह तत् स्थानं यदा गतः, तदा दिवाकरोऽप्यस्तं गतः । मध्यरात्रसमये पुनः ताः दिव्यस्त्रियः समागत्य, पूर्व्ववत् षोडशोपचारान् विधाय नृत्यादिना देवम् उपस्थाय(न) प्रभाते यदा अगच्छन्, तदा तासां मध्ये काचिदेका राजानं दृष्ट्वा अवदत्,-भोः सौम्य! एहि अस्माकं नगरं प्रति।

तत श्रुत्वा राजा तया सह निर्गतः । ततः सर्व्वाः स्त्रियः तप्तोदकमध्ये प्रविष्टाः पाताले ( प) निजनगरं गताः । राजा
ऽपि तप्तोदकमध्ये निमग्नस्ताभिः सह गतः । ततः सर्व्वाः स्त्रियः तस्य नीराजनाद्युपचार ( फ) कृत्वा प्रोचुः,- भो महासत्त्व । तव सदृशः शौर्य्यादिगुणसम्पन्नः कश्चिदपि नास्ति, अतः त्वमेव अस्य राज्यस्याधिपतिर्भव । वयं सर्व्वाः स्त्रियस्तव सेवां करिष्यामः ।

राज्ञोक्तं,- देव्यः! मम अनेन राज्येन प्रयोजनं नास्ति । अहं केवलमेतत् कौतूहलं द्रष्टुं समागतोऽस्मि । ममापि राज्यमस्ति।

ताभिरुक्तं,-भो महापुरुष! वयं प्रसन्नाः स्म, वरं वृणोष्व ।

राज्ञोक्तं,- भवत्यः काः ?

ताभिरुक्तं,- वयमष्टौ महासिद्धयः ।

राज्ञोक्तं,- तर्हि मह्यम् अष्ट महा सिद्धधो ( ब) दातव्याः । तत् श्रुत्वा ताः स्त्रियः राज्ञे अष्टौ रत्नानि ददुः ।
तान्येव अणिमाद्यष्टगुणयुक्तानि ।

ततो राजा तानि रत्नानि गृहीत्वा यावदागच्छति, तावन्मार्गे कश्चित् वृद्धो ब्राह्मणः समागत्य,--

उषितो नाभिकमले हरेर्यश्चतुराननः ।

स पातु सततं युष्मान् वेदानामादिपाठकः ।। २२७ ।।

इत्याशिषं प्रयुक्तवान् ।

ततो राज्ञा पृष्टं भो ब्राह्मण । कुतः समागम्यते ?

तेन ब्राह्मणेनोक्तम् -अहं चम्पापुर- निवासी ब्राह्मणः, बहुकुटम्बी, परम् अत्यन्तदरिद्रः । भार्य्यया निर्भर्त्सितो देशान्तरमागतः । भो राजन्! लोकोक्तौ, नीतौ च एषा प्रसिद्धिः, यत् निर्द्धनं नरं भार्य्यादयः अपि परित्यजन्तीति । उक्तञ्च-

स्वामी द्वेष्टि सुसेवितोऽपि सहसा प्रोज्झन्ति सबान्धवाः

राजन्ते न गुणास्त्यजन्ति तनुजाः स्फारीभवन्त्यापदः ।

भार्य्या साधु सुवंशजाऽपि भजते नो यान्ति मित्राणि च

न्यायारोपितविक्रमाण्यपि नृणां येषां न हि स्याद्धनम् ।२२८।।

तथा च,-

गुरुः सुरूपः सुभगस्तु वाग्मी

शास्त्रेषु चास्त्रेषु विदांवरस्तु ।

अर्थं विना नैव कलाकलापं

प्राप्नोति मर्त्त्यो हि मनुष्यलोके ।। २२९।।

किञ्च,--

तानीन्द्रियाण्यविकलानि तदेव नाम

सा बुद्धिरप्रतिहता वचनं तडदेव ।

अर्थोष्मणा विरहितः पुरुषः स एव

अन्यः क्षणेन भवतीति विचित्रमेतत्।। २३०।।

अपि च,-

उत्थाय हृदि लीयन्ते दरिद्राणां मनोरथाः ।

बालवैधव्यदग्धानां कुलस्त्रीणां कुचाविव । २३१ ।।

राजा तस्य इत्थं वचनं श्रुत्वा अतिसन्तुष्टः अष्टौ रत्रानि ददौ । स च राजानं स्तुत्वा निजनगरं जगाम । राजाऽप्युज्जयिनीं प्रति समागतः ।

इमां कथां कथयित्वा पुत्तलिका राजानमवदत्,- भो राजन्! तवेदृशं धैर्य्यशौर्य्यादिकम् अस्ति चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।

तत् श्रुत्वा राजा तूष्णीं स्थितः ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे अष्टमहा.
सिद्धिलाभो नाम एकविंशोपाख्यानम् ।। २१ ।।



अथ कामाक्षीप्रसादलाभो नाम द्वाविंशोपाख्यानम्

पुनरपि राजा सिहासने यदा समुपवेष्टुं याति, तावदन्यया पुत्तलिकया तं निवार्य्य उक्तं,- भो राजन्! अस्मिन् सिंहासने तेनोपवेष्टष्यं, यस्य विक्रमश्चैव औदार्य्यादयो गुणाः सन्ति।

राज्ञोक्तं,-भोः पुत्तलिके! मम त्वयोक्तं सर्व्वमौ- दार्य्यादिकं विद्यते, किं न्यूनमस्ति ?- मयाऽपि किं सर्वेषाम् अर्थिनां कालोचितं न दत्तम्?

तच्छ्रुत्वा पुत्तलिकाऽवदत्- भोः राजन्! पुनः स्वमुखेनैव आत्मानं कीर्त्तयसि? किं न श्रुतं भवता,-

न सुखं न च सौभाग्यं स्वयं स्वगुणवर्णने ।

यथैव च पुरन्ध्रीणां स्वहस्तकुचमर्द्दनम् ।। २ ।।

इति पुत्तलिकयोक्तं श्रुत्वा सलज्जो भोजराजः अवदत्,-सत्य- मुक्तं त्वया, इदानीं कथय तस्य विक्रमस्यौदार्य्यवृत्तान्तम्।

सा अब्रवीत्,-भो राजन्! शृणु,- विक्रमादित्यो राजा राज्यं प्रतिपालयन् एकदा पृथिवीपर्य्यटनार्थं निर्गत्य, नाना- तीर्थयात्राः (भ) देवालयं पुरपर्वतादिकञ्च दृष्ट्वा, कदाचिन्महारत्नप्राकारपरिवृतम् (म) अभ्रंलिहप्रासादोपशोभितम्, अनेक- शिवालय मन्दिरसहितमेकं नगरमपश्यत् । तत्र नगर- बहिःस्थितं विष्णुगृहं गत्वा, तत्र स्थिते सरोवरे स्नात्वा विष्णुं नमस्कृत्य,-

मया किं ज्ञायते नाथ! माहात्म्यं परमं तव ? ।

ब्रह्माऽपि त्वां न जानाति परो वाचामगोचरम् । २३३।।

नान्यं भजामि न वदामि न चाश्रयामि

नान्यं शृणोमि न पठामि न चिन्तयामि ।

भक्त्या त्वदीयचरणाम्बुजमादरेण

श्रीश्रीनिवास! पुरुषोत्तम! देहि दास्यम् ।। २३४ ।।
 
इत्यादिवाक्यैः स्तुत्वा, रङ्गमण्डपे उपविष्टं ब्राह्मणं राजा अवदत्,- भो ब्राह्मण! कुतः समागतोऽसि ?

ब्राह्मणोऽवदत् - अहं कश्चित् तीर्थयात्रिकः, पृध्वीपर्य्यटनं करोमि । भवान् कुतः समागतः ?

राज्ञा भणितम् -अहमपि भवादृशः कश्चित् तीर्थयात्रिकः । ब्राह्मणेन सम्यक् विलोक्य भणितं,-भोः! नैवं, त्वम् अतीव तेजस्वी दृश्यसे, राजलक्षणानि सर्वाण्येव त्वयि दृश्यन्ते । त्वं राजराजसिंहासनयोग्यः; ( य) पृथिवीपर्य्यटनं किमर्थं करोषि? अथवा शिरसि लिखितं को वा लङ्घयति ? तथा हि,-

हरिणाऽपि हरेणापि ब्रह्मणा त्रिदशैरपि ।

ललाटलिखिता रेखा न शक्या परिमार्जितुम् ।। २३५ ।।

तस्य वचनं राज्ञाऽप्यङ्गीकृत्य भणितं,- भो ब्राह्मण । किमर्थम् हताश इव दृश्यसे ?

तेनोक्तं,- नैराश्यकारणं किं कथयामि ?

राजा अवदत्- कथ्यतां स्वानुभूतकष्टस्य कारणम् ।
ब्राह्मणः कथयति,- श्रूयतां भोः! अत्र समीपे नीलो नाम पर्वतोऽस्ति, तत्र कामाक्षी नाम देवताऽस्ति, तस्याः समीपे पातालविवरद्वारं पिनद्धम् (र) वर्त्तते; तत् कामाक्षीमन्त्रजपेन समुद्घाट्यते । तन्मध्ये रसस्य कुण्डम् ( ल) एकम् अस्ति; तेन रसेन अष्टौ धातवः सुवर्णानि भवन्ति । मया द्वादशवर्षपर्य्यन्तं कामाक्षीजपः कृतः, परं विवरद्वारं नोद्घाटयितुं शक्यते इति ।

तावदेव तद्वचनं श्रुत्वा राजा तदैव तत्र गत्वा देवीं षोडशोपचारेण सम्पूज्य नत्वा च यावत् स्वकण्ठे खड्गं निक्षिपति, तावद् देवतयोक्तं,- तवाऽहं प्रसन्नाऽस्मि, वरं वृणीष्व ।

राज्ञोक्तं,-'भो देवि! यदि प्रसन्नाऽसि, तर्हि अस्मै ब्राह्मणाय रसं प्रयच्छ ।

देवताऽपि तथास्तु इत्युक्त्वा बिलद्वारं (व) समुद्घाट्य ब्राह्मणाय रसं ददौ । सोऽपि ब्राह्मणो राजानं स्तुत्वा निजनगरं जगाम । राजा च निजनगरीमगात्। ।

इति कथां कथयित्वा पुत्तलिका भोजराजमवदत्,- भो राजन्! त्वयि एवम् चौदार्य्यं विद्यते यदि, तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीं स्थितः ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे कामाक्षी-प्रसादलाभो नाम द्वाविंशोपाख्यानम् ।। २२ ।।



अथ दुःस्वप्नदर्शनं नाम त्रयोविंशोपाख्यानम्

पुनरपि राजा सिंहासने यावत् उपवेष्टुं प्रयतते, तावत् तं निवार्य्य अन्या पुत्तलिका भणति,-भो राजन्! एतत् सिंहासनमधिरोढुं स एव योग्यो भवति, यस्य विक्रमौदार्य्यवदौदार्य्यम् अस्ति ।

राज्ञोक्तं,- भोः पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्यवृत्तान्तम् ।

पुत्तलिका कथयति,- श्रूयतां राजन्! एकदा राजा विक्रमार्को महीं परिभ्रम्य निजनगरं समागतः । तेन नगरवासिनां सर्वेषां जनानां महान् आनन्दोऽभूत् । राजा स्वभवनं प्रविश्य मध्याह्नसमये अभ्यङ्गस्नानादिकं कृत्वा चन्दनवस्त्रादिभिरलङ्कृतः सन् देवभवनं प्रविष्टः, देवस्य षोडशोपचारं विधाय स्तुतिपाठमकरोत् ।

त्वमेव माता च पिता त्वमेव

त्वमेव बन्धुश्च सखा त्वमेव ।

त्वमेव विद्या द्रविणं त्वमेव

त्वमेव सर्वं मम देवदेव । ।। २३६ ।।

इति देवं स्तुत्वा नमस्कृत्य, ब्राह्मणेभ्यः कपिला भू तिलादि- दानानि ( श) दत्त्वा, तदनन्तरं दीनान्ध बधिर-कुब्ज पङ्ग्वनाथादिभ्यो भूरि दानं दत्त्वा, भोजनगृहं प्रविष्टो बाल सुवासिनी वृद्धादीन् (ष) सम्भोज्य, स्वयमन्यैर्बन्धुभिः सह भुक्तवान् । तथा च उच्यते,-

बालसुवासिनीवृद्धान् गर्भिण्यातुरकन्यकाः ।

सम्भोज्यातिथि भृत्यांश्च दम्पत्योः शेषभोजनम् ।। २३७।।
 
एक एव न भुञ्जीत य इच्छेत् सिद्धिमात्मनः ।

द्वात्रिभिर्बहुभिः सार्द्धं भोजनं कारयेन्नरः ।। २३८ ।।

अभीष्टफलसंसिद्धिस्तुष्टिः काम्यं सुसम्पदः ।

द्वात्रिभिर्बहुभिः सार्द्धं भोजने तु प्रजायते ।। २३९।।

ततो भोजनानन्तरं कञ्चित् कालं विश्रम्य समुपविष्टः । तथा च,-

भुक्तोपविशतो ह्येवं भुक्त्वा संविशतः सुखम् ।

आयुष्यं क्रममाणस्य मृत्युर्धावति धावतः ।। २४० ।।

अन्यच्च,--

अत्यम्बुपानाद्विषमाशनाच्च दिवाशयाज्जागरणाच्च रात्रौ ।

संरोधनान्मूत्रपुरीषयोश्च षड्विप्रकारेण भवन्ति रोगाः ।।२४ १।

तदनन्तरं सन्ध्याकाले तात्कालिकं कर्म्म विधाय, भोजनं कृत्वा शयनस्थानमगात् । तत्र शशिकरनिकरशुक्लप्रभप्रच्छद- परिस्तीर्णे(स) कुन्द मल्लिका-शतपत्रादिकुसुमावकीर्णे मञ्चके(ह) स्थित्वा सुप्तः ।

अथ राजा प्रभातसमये स्वप्ने स्वयमात्मानं महिषारूढं दक्षिणां दिशं गच्छन्तं दृष्ट्वा, सहसा जागरितः विष्णुं स्मरन् शयने समुपविष्टः । ततः प्रातःकृत्यादिकं कृत्वा सन्ध्याकर्म्म समनुष्ठाय च सिंहासने समुपविष्टः, ब्राह्मणानां पुरतः स्वप्नवृत्तान्तम् अकथयत् । तत् श्रुत्वा सर्वज्ञेन (क) केनचिद् उक्तं,- भो राजन् । स्वप्नास्तु द्विविधाः सन्ति,-केचन शुभाः शुभफलं प्रयच्छन्ति, केचन अशुभाः अरिष्टं ( ख) सूचयन्ति । तत्र शुभाः स्वप्नाः गजाऽऽरोहणं, प्रासादारोहणं, रोदनं, मरणम्, अगम्या- गमनं, छत्र-चामर-समुद्र-ब्राह्मण-गङ्गा-पतिव्रता शङ्ख सुवर्ण- सन्दर्शनादयश्च ।
उक्तञ्च,-

आरोहणं गो वृष कुञ्जराणां

प्रासाद शैलाग्र वनस्पतीनाम् ।

विष्ठाऽनुलेपो रुदितं मृतञ्च

स्वप्ने ह्यगम्यागमनञ्च धन्यम् ।। २४२ ।।

अशुभाश्च स्वप्नाः - महिषारोहणं, खरारोहणं, (ग) कण्टक- वृक्षारोहणं, भस्म-कार्पास-धूम्र-व्याघ्र-सर्प वराह वानरसन्दर्शनादयश्च । तथा चोक्तम्,-

खरोष्ट्रमहिष व्याघ्रान् स्वप्ने यस्त्वधिरोहति ।

षण्मासाभ्यन्तरे तस्य मृत्युर्भवति निश्चितम् ।। २४३ ।।

अन्यच्च,-

स्वप्नेषु प्रथमे यामे संवत्सरविपाकभाक् ।

द्वितीये चाष्टभिर्मासैः तृतीये च त्रिमासकैः ।

गोविसर्ज्जनवेलायां सद्यस्तु फलमिष्यते ।। २४४ ।।

किं बहुना? भो राजन्! अयं स्वप्नः तवारिष्टसूचकः ।

राज्ञोक्तं- भो ब्राह्मण! अस्य दुःस्वप्नस्य अरिष्टोपशमनार्थं कि करणीयम् ?

सर्वज्ञभट्टेनोक्तं- त्वं स्नानं विधाय इज्यावेक्षण कृत्वा, सर्वमलङ्कारजातं वस्त्रादियुतं (घ) ब्राह्मणाय देहि । पुनः वस्त्रान्तरं परिधाय देवस्याभिषेकं कारयित्वा नवरत्नैः ( ङ) पूजां? विधेहि, ब्राह्मणेभ्यो गवादिदशधान्यानि ( च) देहि, अन्ध बधिर पङ्गु कुब्जाऽनाथादींश्च भूरिदानेन सम्भावय (छ) । अनेनानुष्ठानेन ब्राह्मणाऽऽशीर्वचनेन च तव दुःस्वप्नजारिष्टफलनाशात् स्वस्ति (ज) भविष्यति इति ।

राजा एतत्सर्वं भट्टवचनं ( झ) श्रुत्वा यथोक्तम् अनुष्ठाय, दिनत्रयं भूरिदानार्थं भाण्डारिकमाहूय समादिदेश । ततो यस्य यावता? धनेन तृप्तिरभवत, तेन तावद्धनं नीतम् ।

इति कथां कथयित्वा पुत्तलिका राजानमवदत्- भो राजन्! त्वयि एवमौदार्य्य, धैर्य्यञ्च विद्यते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीमासीत्। ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे दुःस्वप्नदर्शनं नाम त्रयोविंशोपाख्यानम् ।।२३।।



अथ शालिवाहनयुद्धवर्णनं नाम चतुर्विंशोपाख्यानम्

पुनरपि राजा यावत् सिंहासनम् आक्रमितुमुपक्रमते, तावदन्या पुत्तलिका तमपवार्य्य समवदत्,- भो राजन्! यत्र विक्रमस्येवौदार्य्यादया गुणाः सन्ति, सोऽस्मिन् सिंहासने उपवेष्टुं क्षमः (ञ) ।

भोजराजेनोक्त,- भोः पुत्तलिके! कथय तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।

सा अब्रवीत् श्रूयतां राजन्! आसीद् विक्रमादित्यस्य विषये ( ट) पुरन्दरपुरी नाम नगरी । तत्र महाधनिकः कश्चिद्वणिगवसत् । तस्य च चत्वारः पुत्राः आसन्,। अथाऽसौ एकदा तान् आहूयाऽवादीत-भोः पुत्राः! मयि मृते युष्माकं चतुर्णामेकत्रावस्थानं यदि न सम्भ- वेत्, तदा पश्चाद्विवादो भविष्यति, तस्मात जीवन्नेव भवतां चतुर्णां ज्येष्ठानुक्रमेण भागमकार्षम् (ठ) । मञ्चाधस्ताच्चत्वारस्ते भागा निक्षिप्ताः सन्ति, ज्येष्ठकनिष्ठभागक्रमेण गृह्णीत, तथा च तैरङ्गीकृतम् (ड) ।

ततस्तस्मिन् परलोकं गते, चत्वारो भ्रातरो मासमेकत्र स्थिताः । ततः तेषां स्त्रीणां परस्परं कलहो जातः । तदनन्तरं तैर्विचारितं - किमर्थं कलहः क्रियते? पित्रा जीवतैव पूर्व्वं चतुर्णां विभागः कृतोऽस्ति, तत् मञ्चाधःस्थितं विभाग- क्रमं ( ढ) गृहीत्वा विभक्ताः सन्तः वयं सुखेन तिष्ठामः इत्युक्त्वा यावन्मञ्चाधः खनन्ति, तावच्चतुर्णां पादानाम् अध- श्चत्वारि सम्पुटानि ( ण) दृष्टानि । तेषां मध्ये एकत्र सम्पुटे मृत्तिकाऽवर्त्तत; अन्यत्र अङ्गारा आसन्; अपरस्मिन् अस्थीनि स्थितानि, चतुर्थे च पलालपुञ्जः (त) स्थितः ।

एवमेतत् सम्पुटचतुष्टयं दृष्ट्वा ते चत्वारः भ्रातरः विस्मयं गताः परस्परं प्रोचुः,-अहो! अस्मात् पितृकृतसम्यग्विभाग- क्रमात् अर्थविभागक्रमः केन ज्ञायते ? इत्युक्त्वा तैः राजसभां गत्वा तस्याः ( थ) पुरतः सर्वो वृत्तान्तः निवेदितः । सभ्यैरपि विभागक्रमो न अबुध्यत । पुनश्चत्वारः भ्रातरो यत्र यत्र ज्ञातारः ( द) सन्ति, तत्र तेषां पुरतः अमुं वृत्तान्तं निवेदयन्ति स्म, परं कोऽपि निर्णयं कर्त्तुं न शशाक ।

अथ एकदा उज्जयिनीं समागतास्ते राजसभामागत्य राज्ञः सभायाश्च पुरतो विभागवृत्तान्तमामूलमकथयन् । राज्ञा सभया चाऽपि विभागक्रमो न ज्ञातः । तदनन्तरम् एकदा तैः प्रतिष्ठानाभिधेयं नगरान्तरं गत्वा तत्रत्यानां महाजनानां पुरतो तद्वृत्तान्तं भणितुमारब्धम्; तेऽपि निर्णेतुं न शेकुः (ध) ।

तस्मिंश्च नगरे कुम्भकारगृहे (न) स्थितः शालिवाहनो नाम कश्चिद् अमुं वृत्तान्तमाकर्ण्य तत्र गतान् महाजनान् अकथयत्, -भोः सभ्याः! किमत्र दुर्बोधमस्ति? किमाश्चर्य्यञ्च तत्कथय। तदाकर्ण्य तेषामेकोऽवदत्- एते चत्वारः एकस्य धनिकस्य पुत्राः । जीवता एतेषां पित्रा एवं ज्येष्ठकनिष्ठानुक्रमो विभागः कृतः । तद्यथा,-एकत्र सम्पुटे मृत्तिका, अन्यत्र अङ्गाराः, अपरस्मिन् अस्थीनि, अन्यस्मिन् पलालपुञ्जश्च इति । एवंविभा- गस्य निर्णयं कर्त्तुं कोऽपि न शशाक ।

तच्छ्रुत्वा शालिवाहन उवाच,- ज्येष्ठस्य मृत्तिका दत्ता, तेन या समुपार्जिता भूमिः, सा सर्वा तस्मै दत्ता । द्वितीयस्य अङ्गारो दत्तः, तेन सकलमपि सुवर्णं तस्मै दत्तम् ( प) । तृतीयस्य अस्थीनि दत्तानि, तेन सर्वेऽपि पशवः तस्मै दत्ताः । चतुर्थस्य पलालपुञ्जो दत्तः, तेन सर्वविधधान्यादीनि तस्मै दत्तानि । एवं शालिवाहनेन तेषां पितृकृतविभागस्य तात्पर्य्यं वर्णितम् । तदाकर्ण्य तेऽपि धनिककुमाराः कृतार्थाः सुखिनो भूत्वा स्वनगरं जग्मुः ।

अथ राजा विक्रमः तेभ्यः एवं विभागनिर्णयवृत्तान्तं श्रुत्वा विस्मयं गतः, प्रतिष्ठाननगरीं प्रति काञ्चित् पत्रिकां प्रेषयामास; यथा,- स्वस्ति श्रीयजनयाजनाध्ययनाध्यापनदानप्रतिग्रहरूप- षट्कर्म्मनिष्ठान् यमनियमादिगुणयुक्तान् (फ) प्रतिष्ठाननगरीवासिनो महाजनान् कुशलप्रश्नपूर्वकं ( व) राजा विक्रमः विज्ञापयति,-भवता ग्रामे यः तेषां चतुर्णां धनिकतनयानां विभागनिर्णयकारी वर्त्तते, स मदन्तिकं (भ) प्रेषयितव्यः इति । तत्रत्याश्च महाजनाः राज्ञा प्रेषितां तां पत्रिकां वाचयित्वा (म) शालिवाहनमाहूय कथयामासुः,- भोः शालिवाहन! त्वां राजाधिराज परमेश्वरः आसमुद्रपृथिवीपतिः ( य) उज्जयिनीनाथः सकलकलाऽर्थश्लोककल्पद्रुमः ( र) विक्रमो नाम राजा समाह्वयति (ल); तत् त्वं तत्र गच्छ।

तेनोक्तं,-कोऽसौ विक्रमो नाम राजा? तेनाहूतो न गच्छामि । यदि तस्य प्रयोजनमस्ति, तदा स स्वयमेव मम समीपे आगच्छतु; तेन मम किमपि प्रयोजनं नास्ति ।

तस्य तद् वचनं श्रुत्वा महाजनैः स न याति, श्रीमदागमनमत्रैव वाञ्छति इति पुनःपत्रिका ( व) राजानं प्रति प्रेषिता ।

ततः राजा तत्पत्रिकालिखितार्थं श्रुत्वा क्रोधाग्निना देदीप्यमानविग्रहोऽष्टादशाक्षौहिणीबलैः (श) सह निर्गत्य, प्रतिष्ठाननगरीमागत्य शालिवाहनं प्रति दूतं प्रेषितवान् । ततस्तेन प्रेषि- तेन दूतेन तत्र गत्वा शालिवाहनो भणितः,-भोः शालिवाहन! राजाऽधिराजो विक्रमः त्वामाह्वयति, तस्मात् त्वं तस्य दर्शनार्थ- मागच्छ ।

शालिवाहनेनोक्तं,- भो दूत! अहम् एकाकी सन् राजानं न द्रक्ष्यामि, षडङ्गबलोपेतः समराङ्गणे (ष) विक्रमस्य दर्शनं करिष्यामि, तद् गत्वा एवं राज्ञे निवेदय ।

तस्य तद्वचनं श्रुत्वा दूतः राज्ञे सर्वं तथैवाऽऽचख्यौ । तत् श्रुत्वा च राजा विक्रमः सबलः समरभूमिमागतः । शालिवाहनोऽपि कुम्भकारगृहे मृत्तिकया कृतानि हस्त्यश्व-रथपदातिबलानि मन्त्रेण समुज्जीव्य, तेन षडङ्गबलेन नगरात् निर्गत्य समराङ्गणं प्रति समागतः । तदा उभयदलनिर्गमसमये,-

दिक्चक्रं चलितं तथा जलनिधिर्जातो भृशं व्याकुलः पाताले चकितो भुजङ्गमपतिः पृथ्वीधरः कम्पितः ।

सोत्कम्पा पृथिवी मत्राविषभृतः क्रोडं नमत्युत्कटं वृत्तं सर्वमनेकधा दलपतेरेवं चमूनिर्गतौ ।। २४५ ।

पवनगतिसमानैरश्वयूथैरनन्तै-

र्मदधरगजयूथैः राजते सैन्यलक्ष्मीः ।

ध्वज-चमर-वरास्त्रैरावृतं खं समस्तं

पट्पटहमृदङ्गैर्भेरिनादैस्त्रिलोकम् ।। २४६ ।।

ततः उभयदलं मिलितम् । तस्मिन् समये,-

अश्वादेः खुररेणुभिर्बहुतरैर्व्याप्तं ह्यशेषं नभः

छत्रैरावृतमन्तरालमनिशं पूर्णञ्च भेरीरवैः ।

निर्घोषैः रथजैः गजाश्वनिनदैस्ततकिङ्किणीनां रवैः

वीराणां निनदैः प्रभूतभयदैरन्योऽन्यसेना बभुः ।। २४७ ।।

खट्वाङ्गैर्भल्लशस्त्रैः खल खुरण गदामुद्गरार्द्धेन्दुबाणै-

र्नाराचैर्भिन्दिपालैर्हलवर-मुषलैः शक्तिकुन्तैः कृपाणैः ।

पट्टीशैः शक्तिवज्रप्रभृतिभिरपरैर्दिव्यशस्त्रैः सुतीक्ष्णै-

रन्योऽन्यं युद्धमेवं मिलितदलयुगे वर्त्तते सद्भटानाम् ।।२४८।।

तत्र रणे-

एके वै हन्यमाना रणभुवि सुभटा जीवहीनाः पतन्ति

एके मूर्च्छां प्रपन्नास्तदपि निजबलैरुत्थिताः सम्भवन्ति ।

मुञ्चन्ते साट्टहासं निजनिकृतिपरं मानमाद्यं प्रसादं

भृत्वा धावन्ति चाग्रे जितमरणभयाः प्रौढिमङ्गे हि कृत्वा ।।२४९।

एके वै शात्रवाणां समरभयवशं त्रासमुत्पादयन्ति

एके सम्पूर्णघातैरुपहतवपुषो नाकनारीप्रियाः स्युः ।

एके वै वीरधुर्य्या रिपुहतजठरा भिद्यमानाश्च शस्त्रैः

अस्त्रैः सम्भिन्नदेहा अपि भयरहिता वैरिभिर्यान्ति युद्धम् ।। २५ ०।।

तत्रारेच्छुरिकादिशस्त्रनिचया भान्तीव मीनादयः

केश स्नायु शिरान्त्रजालनिवहः शैवालवद् दृश्यते ।

यानीभेन्द्रकलेवराणि पतितानीदृङ् न शम्भोर्मृधे

प्रस्थानीव विभान्ति तानि रुधिरे चास्थीनि शङ्खा इव ।।२ ५१ ।।

ततो विक्रमार्केण शालिवाहनस्य सैन्यं सर्वं पातितम् । तद्दृष्ट्वा शालिवाहनः शेषाभिधेयं पितरं नागेन्द्रं ( स) सस्मार । शेषेण च सर्पाः प्रेषिताः । तैः सर्पैर्दष्टं विक्रमादित्यसैन्यजातं विषेण मूर्च्छितं रणाङ्गणे पपात ।

तदनन्तरं विक्रमार्को राजा एकाकी निजनगरं गत्वा स्व- सैन्यसञ्जीवनार्थम् अर्द्धोदके (ह) स्थित्वा नववर्षपर्य्यन्तं वासुकि- मन्त्रमजपत् । ततो वासुकिः तस्मिन् प्रसन्नो भूत्वा बभाण,- भो राजन्! वरं वृणीष्व ।

विक्रमेण भणितं,- भोः सर्प- राज! यदि मयि प्रसन्नोऽसि, तर्हि सर्पविषवेगेन मूर्छितस्य मम सैन्यस्य सञ्जीवनार्थं मह्यं कञ्चित् अमृतघटं देहि ।
अथ वासुकिना तथोम् इति (क) दत्तं तममृतघटं गृहीत्वा राजा विक्रमो यावत् मार्गे समायाति, तावद् ब्राह्मणः कश्चिदागत्य-

हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः ।

हेमाद्रिकलसा यत्र धात्री छत्रश्रियं दधौ ।। २५२ ।।

इत्याशिषमुक्तवान् ।

ततो राज्ञा भणितं,- भो ब्राह्मण । कुतः समागतो- ऽसि ?
ब्राह्मणेनोक्तम्,-अहं प्रतिष्ठाननगरादागतः।

राज्ञोक्तं, -किं वदसि ?

ब्राह्मणोऽवदत्,- भवान् अर्थिजनचिन्तामणिः, (ख) यतश्चिन्तितं वस्तु दातुं समर्थः; ममैकस्मिन् वस्तुनि प्रीतिरस्ति. यदि तद्दीयते तर्हि वदामि ।

राज्ञो,-ब्राह्मण! यत् त्वया याच्यते, तत् दास्यामि।

ब्राह्मणेनोक्तं,-मह्यमयममृतघटो दातव्यः

राज्ञोक्तं,- त्वं केन प्रेषितोऽसि ? ब्राह्मणेनोक्तम्,-अहं शालिवाहनेन प्रेषितः ।

तत् श्रुत्वा राज्ञा विचारितं, (ग)-म्रया पूर्वं किञ्चिदविचार्य्यैव अस्मै दास्यामि इति भणितम्; इदानीं न दीयते चेत् तदा न केवलम् अप- कीर्त्तिः ( घ) अधर्मोऽपि भविष्यति; अतः सर्वथा मयैतत् दातव्यमेव ।

ततः राजानं निरुत्तरमालोक्य ब्राह्मणेन भणितं, - भो राजन्! किं विचारयसि? त्वमतीव सज्जनोऽसि ।
सज्जनस्य भाषणं ( क) कदापि पुनरन्यथा न भवति । तथा चोक्तम्-

उदयति यदि भानुः पश्चिमे दिग्विभागे,

प्रचलति यदि मेरुः, शीततां याति वह्निः ।

विकसति यदि पद्मं पर्वताग्रे शिलायां,

न भवति पुनरन्यद् भाषणं सज्जनानाम् ।। २५३।।

तदाकर्ण्य राज्ञोक्तं-सत्यमुक्तं भवता । तथैव क्रियते, गृह्यतामयम् अमृतघटः इत्युक्त्वा तस्मै घटं ददौ । सोऽपि ब्राह्मणः राजानं वर्णयन् निजस्थानं गतः; राजाऽपि उज्जयिनीमगात् ।

इमां कथां कथयित्वा पुत्तलिका भोजराजमवोचत्- भो राजन्! त्वयि एवमौदार्य्यं धैर्य्यञ्च विद्यते यदि, तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीं स्थितः ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे शालिवाहन-युद्धवर्णनं नाम चतुर्विंशोपाख्यानम् ।। २४ ।।



अग्रिमपुटम्