द्वात्रिंशत्पुत्तलिकासिंहासनम्/०५
अथ मणिकारसंवादो नाम पञ्चमोपाख्यानम् ।
अथ पुनः तथैव सिंहासनं समाक्रमितुकामं मालवेन्द्रं ततो निवार्य्य अन्या पुत्तलिका समवोचत् । भो राजन्! श्रूयताम् ;- विक्रमार्के राज्यं कुर्वति, एकदा कश्चिद्रत्नवणिक् समागत्य रत्नमनर्घम् ( झ) एकं राजहस्ते समर्पितवान् ।
राजाऽपि देदीप्यमानं तद्रत्नं दृष्ट्वा परीक्षकानाकार्य्याऽवदत्, - भोः परीक्षकाः! कीदृशमेतद्रत्नम्? समीचीनम् असमाचीनं ( ञ) वा? अस्य मूल्यं कुर्वन्तु । तैस्तद्रत्नं परीक्ष्य भणितं-- भो राजन्! अमूल्यमेतद्रत्नम् । अस्य मूल्यमविदित्वाऽपि क्रियते चेत, तर्हि महाप्रत्यवायः (ट) अस्माकं भविष्यति ।
तेषां वचनं श्रुत्वा, राजा भूरि द्रव्यं दत्त्वा भणति स्म- भो वणिक्! ईदृशं रत्नमन्यदस्ति किम्?
वणिजा भणितं,-- देव! एतत्सदृशानि रत्नानि इह आनीतानि न सन्ति, परं ग्रामे एवंविधान्येव दश रत्नानि विद्यन्ते । यदि प्रयोजनमस्ति, तर्हि तेषां मूल्यं कृत्वा गृह्यताम् ।
ततः परीक्षकैः एकैकस्य रत्नस्य षट्कोटिसुवर्णं (ठ) मूल्यं कृतम् । राज्ञा तावत् सुवर्णं तस्मै वणिजे दत्तं, तेन सह विश्वासी कश्चिद् भृत्यो मणिकारश्च प्रेषितः; उक्तञ्च,- भो मणिकार । अष्टानां वासराणां (ड) मध्ये रत्नानि गृहीत्वा आयास्यसि चेत्, उचितं तव दास्यामि । तेनोक्तं,--देव! अष्टानां दिवसानां मध्ये एव चरणौ द्रक्ष्यामि । अन्यथा चेत् दण्ड्योऽहम् ।
एवमुक्त्वा स मणिकारस्तेन वणिजा सह तस्य निवासनगरं गतः । तत्र तेन दश रत्नानि दत्तानि । तानि गृहीत्वा मार्गे यावदागच्छति, तावन्महती वृष्टिरभूत् । तया वृष्ट्या उभयतट- परिपूर्णा नदी प्रवहति स्म । ततः अपरं तीरं गन्तुमशक्नुवन्, तत्र तटस्थितं नाविकमवदत्,- भोः कर्णधार! (ढ) मां नदीम् उत्तारय । सोऽवदत् - हे पथिक ? एषा नदी वेलाम् ( ण) अतिक्रम्य वर्त्तते, कथमुत्तार्य्यते? प्रबलनद्युत्तरणं बुद्धिमता वर्ज्जनीयम् । तथा चोक्तम्-
महानदीप्रतरणं महापुरुषनिग्रहम् ।
महाजनविरोधञ्च दूरतः परिवर्जयेत् १११।।
चरिते योषितां पूर्णे सरित्तोये नृपाद.? ।
सर्वत्रैव वणिक्स्नेहे विश्वासं नैव कारयेत् ।। ११२ ।।
मणिकारेणोक्तं -भोः कर्णधार! त्वया यदुक्तं, तत् सत्यमेव, तथापि मम महत् कार्य्यमस्ति, सामान्यकार्य्याद्विशेष कार्य्यं बलवद्भवति । उक्तञ्च,-
सामान्यकार्य्यतो नूनं विशेषो बलवान् भवेत्। ।
परेण पूर्व्वबाधो वा प्रायशो दृश्यतामिह ।। ११३ ।।
अतः मम नद्युत्तरणं सामान्यं, राजकार्य्यं बलवत् ।
कर्णधारेणोक्तं,- महद्राजकार्य्यं, तत् किम् ?
मणिकारेणोक्तम्- अद्य दश रत्नानि गृहीत्वा राजसमीपं न आनमिष्यामीति चेत् आज्ञाभङ्गाद्राजा निग्रहं ( त) करिष्यति ।
नाविकेनोक्तं - तेषां रत्नानां मध्ये मह्यं पञ्च रत्नानि दास्यसि चेत्, तर्हि त्वां नदीमुत्तारयिष्यामि ।
ततो मणिकारस्तस्मै नाविकाय पञ्च रत्नानि दत्त्वा नदीमुत्तीर्य्य राजसमीपमागत्य, तस्य हस्ते पञ्च रत्नानि ददौ ।
राजाऽब्रवीत् - भो मणिकार! किं पञ्चैव रत्नानि समानीतानि? अवशिष्टानि पञ्च किं कृतानि?
मणिकारेणोक्तं-देव! श्रूयतां विज्ञाप्यं (व) मे; अस्मान्नगरात् निर्गत्य तेन वणिजा सह तन्नगरं गत्वा, तेन दत्तानि दश, रत्नानि गृहीत्वा, ततो निर्गत्य यावदागच्छामि, तावन्मार्गे प्रबलवृष्ट्या नदी उभयतटं विलङ्घ्य प्रबलोदका (द) प्रवहति । अष्टानां दिनानां मध्ये स्वामिचरणौ द्रष्टव्यौ, नदी च दुस्तरा इति विचार्य्य नद्युत्तरणाय नाविकाय पञ्च रत्नानि दत्तानि, पञ्च देवसमीपमानीतानि । यद्यष्टदिनानां मध्ये नागम्यते, तदा आज्ञाभङ्गात् स्वामिनश्चेतसि दुःखं स्यात् । उक्तञ्च-
आज्ञाभङ्गो नरेन्द्राणां विप्राणां मानखण्डनम् ।
पृथक् शय्या च नारीणामशस्त्रो वध उच्यते ।। ११४।।
इति विचार्य दत्तानि ।
राजाऽपि तद्वचनं श्रुत्वा सन्तुष्टः सन्, अवशिष्टानि पञ्च रत्नानि तस्मै मणिकाराय ददौ ।
इति कथां कथयित्वा पुनर्भोजमवदत् पुत्तलिका,- परमौदार्य्यगुणवरिष्ठो विक्रमादित्यः । त्वयि एतादृशमौदार्य्यं यदि विद्यते, तर्ह्यस्मिन् सिंहासने समुपविश । राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे मणिकारसंवादो नाम पञ्चमोपाख्यानम् ।।५ ।।
अथ ब्रह्मचारिराज्यदानं नाम षष्ठोपाख्यानम् ।
अथ विक्रमगुणज्ञातारमपि कौतुकात् प्रतिषेधमशृण्वन्तं भोजदेवं निषिध्य अपरा पुत्तलिका व्याजहार, (ध)- श्रूयतां राजन्! विक्रमार्कः राज्यं कुर्वन्, एकदा चैत्रमासे वसन्तोत्सवे ( न) सकलान्तःपुरवधूसमेतः क्रीडार्थं शृङ्गारवनम् (प) अगमत् । नानाविध तरुशोभिते तस्मिन् शृङ्गारवने इन्द्रनील- खचितभित्ति-रमणीय-चन्द्रकान्तशिलाविनिर्मिताङ्गणे, ( फ) नानाविधधूपवासिते क्रीडागृहीत-पद्मिनी-प्रभृति-चतुर्विध- . वनिताभिर्वस्त्र ताम्बूल-पुष्पालङ्घ(?)ताभिः सह राजा चिरं क्रीडामकार्षीत् ।
तद्वनसमीपे चण्डिकाऽऽयतनम् ( ब) एकमासीत् । तत्र स्थितः कश्चिद् ब्रह्मचारी राजानं तत्रागतं विलोक्य स्वमनसि चिन्तयति स्म,- अहो! तपः कुर्वता मया जन्म वृथैव नीयते । स्वप्नेऽपि विषयसङ्गमजन्म (भ) सुखं नानुभूयते । उक्तञ्च-
यद्यत् सुखं विषयसङ्गमजन्म तच्च
दुःखाय सृष्टमिति मूर्खविचारणैव ।
को नाम सम्परिहरेत्? सिततण्डुलांश्च
श्रोतुं यतेत तुषमिश्रकणान् मनुष्यः? ।। ११५।।
तस्मात् महत् कष्टं कृत्वाऽपि संसारे स्त्रीसुखमनुभोक्तव्यम् । उक्तञ्च-
असारे खलु संसारे पूज्या सारङ्गलोचना ।
तदर्थं धनमिच्छन्ति तत्त्यागे च धनेन किम्? ।। ११६ ।।
असारभूते संसारे सारभूता नितम्बिनी ।
इति सञ्चिन्त्य वै शम्भुरर्द्धाङ्के(गे?) पार्वतीं दधौ ।।११७।।
विक्रमार्को राजा प्रसङ्गतः ( म) अत्र समागतोऽस्ति । तस्मात् तम् एकमग्रहारं (य) याचित्वा, काचन कन्यकां विवाह्य संसारसुखमनुभविष्यामि इति विचार्य्य राजसमीपमागत्य,
पच्चाऽऽस्वापञ्चवदने हिमशैलजायाः
रत्युत्सवे युगपदाऽऽस्यरसं जिघृक्षौ ।
त्वां पातु सञ्चलित विभ्रम कर्णपूर-
लोल-भ्रमदभ्रमरविभ्रमभृत् कटाक्षः ।। ११८ ।।
इत्याशीर्वादं ददौ ।
ततो राजा तमासने समुपवेश्याऽब्रवीत्,-भो ब्राह्मण! कुतः समागतोऽसि ।
तेनोक्तम्,- अहमत्रैव जगदम्बिकापरिचर्य्यां (र) कुर्वन् तिष्ठामि । नित्यमस्याः सेवां कुर्वतो मे पञ्चाशद्वर्षाणि गतानि, तावत्कालम् अहं ब्रह्मचारी (ल) । अद्य देवता निशाऽवसाने (व) मां समागत्याऽभणत्,-भो ब्राह्मण! त्वमेतावन्तं कालं मम परिचर्य्यया श्रान्तोऽसि, तवाहं प्रसन्ना जाताऽस्मि, अतः त्वम् इदानीं गृहस्थाश्रमं (श) स्वीकुरु । ततः पुत्रमुत्पाद्य पश्चान्मनो मोक्षे निधेहि; अन्यथा तव गतिर्नास्ति । यतः,-.
आश्रमान् त्रीनपाकृत्य यो मोक्षेऽन्तर्निवेशयेत् ।
अनया क्रियया मोहं सेवमानः पतत्यधः ।। ११९ ।।
आदौ ब्रह्मचारी, ततो गृही च भूत्वा प्रव्रजेदिति । तत् विक्रमार्कभूपतये सर्वमात्मवृत्तान्तं विज्ञापय, स तव मनोरथं पूरयिष्यति इति । एवं देव्या स्वप्ने भणितम् । अतस्तव समीपमागतोऽस्मि । इत्येवं कपटवचनैः ( ष) राजानमुक्तवान् ।
तच्छ्रुत्वा राजा कूटवाग्व्यापारं सम्यगवगत्य स्वमनसि अचिन्तयत्- असविवम् अनृतं (स) वदति । अस्तु, तथाऽप्यर्थी (ह) वर्त्तते, सर्वथाऽस्य मनोरथः पूरणीयः । उक्तञ्च,--
दत्त्वाऽऽर्त्ताय नृपो दानं शून्यं लिङ्गं प्रपूज्य च ।
परिपाल्याऽऽश्रितं नित्यमश्वमेधफलं लभेत् ।। १२० ।।
इति विचार्य्य तत्र नगरमेकं कारयित्वा, तमभिषिच्य च तस्मिन् नगरे संस्थाप्य विलासिनीनां शतम् (क) अदात् । पञ्चाशङ्गजान्, तुरङ्गाणां पञ्चशतीं, भटानां चतुःसहस्रीं (ख) तस्मै ब्राह्मणाय दत्त्वा, चण्डिकापुरमिति तस्य नगरस्य नाम कृतम् । ततः परिपूर्णमनोरथो ब्राह्मणस्तं राजानमाशीर्भिरभ्यर्थयामास । अथ राजाऽपि निजनगरमगमत् ।
इति कथां कथयित्वा पुत्तलिका राजानमब्रवीत्,- भो राजन्! त्वयि एवमौदार्य्य विद्यते चेत् तर्हि अस्मिन् सिंहा- सने समुपविश । राजा तूष्णीमासीत् ।
[ इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे ब्रह्मचारिराज्यदानं नाम षष्ठोपाख्यानम् ।। ६ ।।
अथ मृतोज्जीवनं नाम सप्तमोपाख्यानम् ।
अथापरेद्युः जाग्रदभिलाषपरवशं समारोहणाऽऽकाङ्क्षया सिंहासनं सस्नेहमवलोकमानं भोजं प्रतिरुन्धती वाक्शृङ्खलाभिः एकान्या पुत्तलिका समवदत्,- महाराज भोजदेव! विक्रमार्के राज्यं कुर्वति, सर्वोऽपि जनः सुखेनाऽऽसीत्; लोके दुर्जन-कण्टकी (ग) नास्ति । सदाचारवन्तः सर्वे जनाः । ब्राह्मणाः वेदशास्त्राभ्यास स्वधर्माचारपराः, षट्कर्म्मनिरता (घ) बभूवुः । सर्वस्याऽपि वर्णस्य सिद्धौ (ङ) यशसि चाभिरुचिः, परोपकारकरणे वासना, असत्ये अप्रणयः, लोभ द्वेषः, परापवादे (च) अनादरः, जीवदयायाम् अनुरागः, परमेश्वरे भक्तिः, देहे निर्म्ममता, नित्यानित्यवस्तुनि विचारः, ( छ) परत्र विषये बुद्धिः, वाचि सत्यम्, उक्तिपरिपालने ( ज) दार्ढ्यं, हृदये औदार्य्यगुणः । एवं सर्वोऽपि लोकः सद्वासनाऽऽश्रितः, पवित्रीभूतान्तःकरणो राज्ञः प्रसादात् सुखेन वर्त्तते ।
तस्मिन् नगरे धनदो नाम कश्चिद् वणिक् अस्ति । तस्य सम्पत्तेर्मर्य्यादा (झ) नास्ति; येन यद्वस्तु चिन्त्यते, तद्वस्तु तस्य गृहे लभ्यते । एवं सकलसम्पदाश्रयस्य वणिजः सर्ववस्तुषु अनित्यत्वबुद्धिरुत्पन्ना-असारोऽयं संसारः, सर्वं सुदुर्लभमपि वस्तुजातमनित्यम् । यतः,-
गगननगरकल्पः सङ्गमो वल्लभानां
जलदपटलतुल्यं यौवनं वा धनं वा
स्वजनसुतशरीरादीनि विद्युच्चलानि
क्षणिकमिति समस्तं विद्धि संसारवृत्तम् । १२१।।
उक्तञ्च,-
शरणमशरणं वा बान्धवो बन्धमूलं
शरणमपि तदाराद् द्वारमापद्ग्रहाणाम् ।
विकलितमतिपुत्राः शत्रवः सर्वमेतत्
त्यजत भजत धर्मं निर्म्मलं कर्म्मपाशम् ।। १२२ ।।
यतः संसारिणां धर्म्म एव शरणम् (ञ) ।
तथा चोक्तम्-
धर्म्मो रक्षति रक्षितो ननु हतो हन्ति ध्रुवं प्राणिनो
हन्तव्यो न ततः स एव शरणं संसारिणां सर्वथा ।
धर्म्मः प्रापयतीह सम्पदमपि ध्यायन्ति तद् योगिनो
नो धर्मात् सुहृदस्ति नैव सुखिनो नो पण्डिता धार्मिकात् ।।१२३।।
तथा च -
धर्म्मः शर्म्म भुजङ्गवास्तुकपुरीसारं विधातुं क्षमो
धर्म्मो मर्त्त्यजनस्य चापि ददते प्रीतिं सदा शाश्वतीम् ।
धर्म्मः स्वर्गगिरौ निरन्तरसुखास्वादोदयस्यास्पदम्
धर्म्मः किं न करोति मुक्तिवनितासम्भोगयोग्यां तनुम् ? ।। १२४।
अतो धर्म्मसंग्रहार्थम् उपार्जितं द्रव्यं सत्पात्रे दातव्यं बुद्धिमता ।
तस्मिन्नर्पित तत् बहुगुणं भवति । तथा चोक्तम्,-
पात्रविशेषे न्यस्तं गुणान्तरं भजति वित्तमिह दातुः ।
जलमिव समुदशुक्तौ मुक्तां सूते पयोदस्य ।। १२५ ।।
अपि च-
न्यग्रोधस्य यथा बीजं स्तोकं सुक्षेत्रभूमिगम् ।
बहुविस्तीर्णतां याति तद्वद् दानं सुपात्रगम् ।। १२६ ।।
इति बहुधा विचार्य्य श्रोत्रियान् (ट) व्राह्मणानाहूय, तेषां सकाशात् हेमाद्रिप्रतिपादितानि ( ठ) दानखण्डोक्तगोदान- कन्यादान-विद्यादान-भूदानोदकदानानि श्रुत्वा, तानि दानानि सत्पात्रे समर्प्य पवित्रान्तःकरणः सन्, पुनर्विचारयति स्म,-- मयैतदनुष्ठितं दानव्रतादिकं तदा सफलं भविष्यति,- यदा द्वारावतीं ( उ) गत्वा श्रीकृष्णं द्रक्ष्यामि इति विचार्य्य स्रीनिवासपुरीं प्रति निर्गतः ।
अथ समुद्रतीरं गत्वा नाविकमाहूय तस्मै भूरि द्रव्यं दत्त्वा, भिक्षुक योगि विदेशस्थजनाऽनाथादीनारोप्य (ढ) तैः सह प्रियवचनानि धर्म्मगोष्ठीः (ण) कुर्वन् यावद् गच्छति, तावत् समुद्रमध्ये कश्चित् क्षुद्रपर्वतो दृष्टः । तत्र पर्वते महानेकः देवालयः आसीत् । ततस्तं देवालयं गत्वा, देवीं भुवनेश्वरीं षोडशोपचारै रभ्यर्च्य नमस्कृत्य च यावत्तस्या वामभागे दृष्टिं निदधाति (त) तावच्छिन्नशीर्षं स्त्रीपुरुषयोर्युगलं दृष्ट्वा पुरःस्थितभित्तिभागे लिखितानि अक्षराणि अपश्यत् यदि कोऽपि परोपकारी महाधैर्य्यसम्पन्नः स्वकण्ठरुधिरेण ( थ) भुवनेश्वरीमर्चयति, तदैतत् स्त्रीपुरुषयुगलं सजीवं भविष्यति इति; एवं लिखित वाचयित्वा (द) सविस्मयो धनदः पुनरपि नावमारुह्य द्वारावतीं गतः, तत्र श्रीकृष्णं दृष्ट्वा-
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः ।
दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ।। १२७।
इति श्रीकृष्णप्रणामस्य मोक्षफलसाधनतां सञ्चिन्त्य, तं साष्टाङ्गं (ष) प्रणम्य षोडशोपचारैः सम्पूज्य च निजनगरमगमत । ततः सर्वान् बन्धून् श्रीकृष्णप्रसाददानेन सम्भाष्य, किमप्यपूर्वं ( न) वस्तु गृहीत्वा राजदर्शनार्थं गतः । यतः,-
रिक्तपाणिस्तु नो पश्येद्राजानं देवतां गुरुम् ।
नैमित्तिकं विशेषेण फलेन फलमादिशेत् ।।१२८।।
तथा च,-
इष्टां भार्य्यां प्रियं मित्रं पुत्रं चातिकनीयसम् ।
रिक्तपाणिर्न पश्येत् तु तथा नैमित्तिकं नृपम् ।। १२९
ततः राज्ञो हस्ते कृष्णप्रसादम् उपढौकनञ्च (प) दत्त्वोपविष्टः ।
ततो राजा क्षेमयात्रां (फ) च पृष्ट्वा तं धनदं कमप्यपूर्ववृत्तान्तमपृच्छत्। ।
सोऽपि समुद्रमध्यस्थितभुवनेश्वरीदेवालय वृत्तान्तमकथयत्। ।
तच्छ्रुत्वा सविस्मयो राजा तेन धनदेन सह तत् स्थानं गत्वा देवालये देवतावामभागे स्थितं कबन्धयुगलम् (न) अपश्यत् । तदनन्तरं देवतां मनसि कृत्वा खड्गं यावत् स्वकण्ठे सम्पातनोन्मुखं करोति, तावत् कबन्धद्वयं सशिरस्कं सजीवमभवत् ।
देवताऽपि राज्ञो हस्तात् खड्गम् आकृष्याऽब्रवीत्,- भो राजन् प्रसन्नाऽस्मि, वरं वृणीष्व ।
राजाऽब्रवीत,-भो देवि! यदि प्रसन्नाऽसि, तर्ह्यस्मै मिथुनाय (भ) राज्यं देहि ।
ततो देव्या तस्मै मिथुनाय राज्यं दत्तम् । राजाऽपि धनदेन सह निजनगरमगमत् ।
इति कथां कथयित्वा पुत्तलिका भोजं प्रति भणति,- भो राजन्! त्वय्येवं चेत् परोपकारकरणशक्तिः विद्यते, तर्ह्यस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत्। ।
इति विकमार्कचरिते सिंहासनोपास्थाने अप्सराभोजसंवादे मृतोज्जीवनं नाम सप्तमोपाख्यानम् ।। ७।।
अथ सरःपूरणं नाम अष्टमोपाख्यानम् ।
अध तथैव सिंहासनसमीपस्थः कौतुकरसरभसवशंवदो (म) धरित्रीपतिः पुत्तलिकयैकया समभिदधे - शृणु राजन् । विक्रमो राजा भूमण्डले प्रसिद्धः नानाविनोदाश्चर्य्यपूर्णः( य) तथा परकौतुकादिकं चारमुखेण जानाति । तथा चोक्तम्-
गावो गन्धेन पश्यन्ति वेदेनैव द्विजातयः ।
चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ।।१३०।।
श्रूयतां राजन् ।- यो राजा भवति, तेन सर्वाऽपि लोक संस्थितिः ( र) ज्ञातव्या, सर्वस्य चित्तं बोद्धव्यं, प्रजाः सम्यक् पालनीयाः, दुष्टाः दण्डनीयाः, न्यायेन (ल) धनोपार्ज्जनं कर्त्तव्यम्, अर्थिषु समत्वं विधेयम्; तान्येव राज्ञः पञ्चमहायज्ञ कर्माणि । उक्तञ्च-
दुष्टस्य दण्डः सुजनस्य पूजा
न्यायेन कोषस्य च सम्प्रवृद्धिः ।
अपक्षपातोऽर्थिषु राज्यरक्षा
पञ्चैव यज्ञाः कथिता नृपाणाम् ।। १३१।।
अपिच,-
किं दैवकार्य्याणि नराधिपानां
किं वा विरोधः परिपन्थिभिश्च ।
तद्दैवकार्य्यं जपयज्ञहोमाः
यदश्रुपाता न पतन्ति राष्ट्रे ।। १३२ ।।
एवमेव विक्रमे राज्यं कुर्वति सति, एकदा चाराः भूमण्डलं परिभ्रम्य राजसकाशमागताः, राज्ञा पृष्टाः प्रोचुः, - भो देव! काश्मीरदेशे महाद्रव्यसम्पन्नः कश्चिद्वणिगास्ते । तेन वणिजा पञ्चक्रोशविस्तारं तडागमेकं खानितम्; तन्मध्ये नवनिर्म्मित- दिव्यप्रासादे जलशयनस्य लक्ष्मीनारायणस्य (व) शयनं कारितं, परमुदकं न लगति । पुनः तेन वणिजा जलोद्गमनिमित्तं चक्रिणम् ( श) उद्दिश्य ब्राह्मणैर्जपपूजाहवनमभिषकादि च कारितं, तथाप्युदकं न समुद्गतम् । ततोऽतिखिन्नः सन् स वणिक् तडागपाल्युपरि (ष) उपविश्य प्रतिदिनं निश्वसिति, -अहो! केनाप्युपायेनोदकं न प्रादुर्भवति, वृथा श्रमो जातः इति ।
एकदा तत्र तडागपाल्युपरि उपविष्टे श्रेष्ठिनि जलाऽऽगमचिन्तामग्नचित्ते सति सहसा गगने अमानुषी ( स) वाक् उदचरत् ( ह) - किमिति भो बणिक्पुत्र! किमर्थं निश्वसिषि? द्वात्रिंशल्लक्षणयुक्तपुरुषस्य ( क) कण्ठरक्तेन यदा तडागं सिच्यते, तदाऽत्र विमलोदकम् उद्गमिष्यति, नान्यथा ।
तच्छ्रुत्वा तेन वणिजा कासारपरिसरे महदन्नसत्रं ( ख) कारितम् । तस्मिन् सत्त्रे भोक्तुं विदेशवासिनो जनाः सर्व्वे समायान्ति । तत्र स्थिताः अधिकारिणस्तेषां विदेशवासिनां पुरतः एवं वदन्ति,- यः कोऽपि द्वात्रिंशल्लक्षणलक्षितः स्वकण्ठ- रुधिरेण तडागं सेचयिष्यति, तस्मै शतभारं ( ग) सुवर्णं दीयते इति । तद्वचः सर्वे शृण्वन्ति, परं न कोऽपि तत सहसा अङ्गीकुरुते, इति महच्चित्रं दृष्टम् ।
तेषां वचनं श्रुत्वा विक्रमार्को राजा स्वयं तत्र गतो जलाशयस्थस्य विष्णोर्महाप्रासादमतिमनोहरं तथा विशालं तडागं दृष्ट्वा विस्मयं गतो मनसि विचारयति,- इदं तडागं यदि स्वकण्ठरक्तेन सेचयिष्यामि, तर्हि निःसंशयं जलैः परिपूर्णं भविष्यति, तदा च सकललोकस्थोपकारो भविष्यति । इदं मम शरीरं सर्वथा वर्षशतं स्थित्वाऽपि नाशमेव यास्यति, अतः सदसज्ज्ञानवता महता पुरुषेण शरीरे ममत्वं न कार्य्यम्; परोपकारार्थं शरीरमपि दातव्यम् । उक्तञ्च,-
शतमपि च समानां जीवितं धारयित्वा
शयनमधिशयानः सर्व्वथा नाशमेति ।
सुलभविपदि देहे सर्व्वलोकैकनिन्द्यं
न विदधति ममत्वं ये हि लोकोत्तरास्ते ।। १३३ ।।
सर्वदैव रुजाऽऽक्रान्तं सर्वदैव शुचो गृहम् ।
सर्वदा पतनप्रायं देहिनां देहपञ्जरम् ।। १३४।।
तैरेव फलमेतस्य गृहीतं पुण्यकर्म्मभिः ।
विरज्य जन्मनः स्वार्थे यैः न देहः कदर्थितः ।। १३५।।
एवं विच्चार्य्य असौ पुरःस्थितप्रासादगतजलशयनस्य विष्णोः पूजां विधाय, नमस्कृत्य च भणति - भो जलदेवते! त्वं द्वात्रिंशल्लक्षणयुक्तपुरुषस्य कण्ठरक्तं वाञ्छसि, तर्हि सहर्षमुपपन्नस्य (घ) मम अनेन कण्ठरक्तेन तृप्ता सती, इदं तडागं जलैः परिपूर्णं कुरु इत्युक्त्वा यावत् कण्ठे खड्गं प्रहारोद्यतं करोति, तावद्देवतया तया खड्गं धृत्वा भणितं -भो वीर! तव अनेन औदार्य्येण अहं प्रसन्नाऽस्मि, वरं वृणीष्व ।
राजा अवदत् , -देवि! यदि मम प्रसन्ना जाताऽसि, तर्हि इदं तडागं जलैः परिपूर्णं कुरु इति ।
पुनर्देव्या भणितं-भो राजन् । त्वम् अस्मात् स्थानात् त्वरितं निर्गच्छ, ततो निर्गच्छन् यावत् पश्यसि, तावज्जलैरिदं परिपूर्णं भविष्यति ।
तच्छ्रुत्वा राजा सत्वरं तडागपालीं गतः, तडागञ्च जलैः परिपूर्णमभूत् ।
एवम् आश्चर्यमवलोक्य सहर्षः राजा विक्रमोऽपि स्वनगरमगमत् ।
एवं कथां कथयित्वा पुत्तलिका भोजराजमवादीत्- भो राजन्! त्वयि एवमौदार्य्यं तथा परोपकारसत्त्वसार- प्रभृतयो ( ङ) गुणाः विद्यन्ते चेत् तस्मिन् सिंहासने समुपविश
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे सरःपूरणं नाम अष्टमोपाख्यानम् ।। ८ ।।