द्वात्रिंशत्पुत्तलिकासिंहासनम्/०६
अथ राक्षसवधो नाम नवमोपाख्यानम् ।
अथ भोजः समुत्कण्ठितचेताः सिंहासनं प्रतिगच्छन् सङ्गृह्य हस्तयोः निवार्य्यमाणः पुत्तलिकयाऽपरया निजगदे,- भो राजन् । एतत्सिंहासने तेनैव अध्यासितव्यं, यस्य विक्रमतुल्यं शौर्य्यौदार्य्यादिकमस्ति ।
भोजेनोक्तं,- भोः पुत्तलिके! कथय तस्य शौर्य्यौदार्य्यवृत्तान्तम् ।
सा वदति नरलोकाधिनाथ! विक्रमे राज्यं कुर्वति भट्टिर्मन्त्री बभूव, उपमन्त्री गोविन्दः, चन्द्रशेखरः सेनापतिः, त्रिविक्रमः पुरोहितः । तत्र त्रिविक्रमस्य पुत्रः कमलाकरः, स पितुः प्रसादात् घृतौदनं (च) भुक्त्वा वस्त्र भूषण ताम्बूलादिना सम्पुष्टशरीरो (छ) विषयसुखमनुभवन् तिष्ठति स्म ।
एकदा पित्रोक्तं - रे पुत्र । ब्राह्मणजन्म प्राप्य त्वया कथमेवं स्वेच्छावृत्त्या स्थीयते? अयमात्मा जन्मशतं नानायोनिं प्राप्नोति । ब्राह्मणकुले जन्म महता पुण्येन लभ्यते, तल्लब्ध्वाऽपि किमेवं त्वं दुष्टाचारो जातः? सर्वदा बहिरेव वससि, भोजनकाले गृहमायासि, अनुचितमेतत् त्वया क्रियते । तवायं विद्याभ्यासकालः; अस्मिन् काले विद्याभ्यासं न करोषि चेत्, उत्तरत्र महान् मनःसन्तापो भविष्यति । यतः,--.
ये बालभावे न पठन्ति विद्यां
कामातुरा यौवननष्टचित्ता ।
ते वृद्धकाले परिभूयमानाः
दहन्ति गात्रे शिशिरेऽपवस्त्राः ।। १३६ ।। किञ्च
येषां न विद्या न तपो न दानं
न चापि शीलं न गुणो न धर्म्मः ।
ते मर्त्यलोके खलु भारभूता
मनुष्यरूपेण मृगाश्चरन्ति ।। १३७।।
यस्मिन् संसारे पुरुषस्य विद्यायाः परं भूषणं नास्ति । उक्तञ्च-
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्
विद्या राजसु पूज्यते न हि धनं, विद्याविहीनः पशुः ।।१३८।।
अपि च.-
किं कुलेन विशालेन विद्याहीनस्य देहिनः ।
अकुलीनोऽपि यो विद्वान् सर्वैरेव स पूज्यते ।। १३९ ।।
रे पुत्र! यावदहं जीवामि, तावत त्वया विद्यैवाभ्यसनीया । यतः,-
यावत् स्वस्थमिदं शरीरमरुजं, यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता, यावत् क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्य्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः? ।। १४० ।।
अपि च, अभ्यस्ता विद्या तव सकलमपि बन्धुकृत्यं करिष्यति । उक्तञ्च,-
मातेव रक्षति पितेव हिते नियुङ्क्ते
कान्तेव चाभिरमयत्यपनीय खेदम् ।
लक्ष्मीं तनोति वितनोति च दिक्षु कीर्त्तिं
किं किं न साधयति कल्पलतेव विद्या ? ।। १४१ ।।
एवं तत् पितृवचनं श्रुत्वा पश्चात्तापयुक्तः कमलाकर यदाऽहं सर्वज्ञो (ज) भविष्यामि, तदैव पितरं स्वमुखं दर्शयिष्यामि इत्युक्त्वा काश्मीरदेशं जगाम । तत्र चन्द्रमौलिभट्टोपाध्याय- समीपं गत्वा दण्डवत् प्रणम्योक्तवान- भोः स्वामिपादाः । अहं मूर्खः, भवतां नामधेयं गुणगौरवञ्च श्रुत्वा विद्याऽभ्यामार्थमामतः । मयि कृपां विधाय यथा मे विद्या भवति, तथा विधेयं श्रीमद्भिः- इति पुनर्दण्डवत् प्रणाममकरोत् । ततस्तैरङ्गीकृते, अहर्निशं तेषां शुश्रूषामकरोत् । यतः,
गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ।
अथवा विद्यया विद्या चतुर्थैर्नोपपद्यते ।। १४२।।
एवं शुश्रूषां कुर्वतो महान् कालो गतः । एकदा उपाध्यायः तस्योपरि कृपां विधाय सिद्धसारस्वतमन्त्रोपदेशं ( झ) कृतवान् । तेनोपदेशेन सर्व्वज्ञो भूत्वा स कमलाकर उपाध्यायस्यानुज्ञां गृहीत्वा स्वनगरं प्रतिगच्छन् मार्गवशात् काञ्चीनगरम् अवाप । तत्र राजा नरसेनः । तस्य नगर्य्यां नरमोहिनी- नाम्नी काचित् वारवनिता अस्ति, सा रूपेण अद्वितीया, तां यः कोऽपि पश्यति, स कामज्वरपीडितः उन्मादावस्थां प्राप्नोति; यः पुनः सम्भोगान्ते तया सह निद्राति, तस्य रक्त विन्ध्याचलवासी कच्चिद्राक्षसः तत्र आगत्य पिबति, तदा स निर्जीवो भवति इति किंदन्तीं (ञ) श्रुत्वा तत्र तिष्ठन्, कमलाकरोप्येतत् कौतुकं स्वचक्षुषा प्रत्यक्षीकृत्य निजनगरमगमत् । सुचिरकालात् परं तं विद्याविनयादिगुणभूषितं गृहे प्रत्यागतं दृष्ट्वा मातापित्रोः महान् हर्षो जातः । तथा च,--
विद्याविहीना बहवोऽपि पुत्राः
कल्पाऽऽयुषः सन्तु पितुः किमेतैः? ।
क्षयिष्णुना वाऽपि कलावता वा
तस्य प्रमोदः शशिनेव सिन्धोः ।। १४३ ।।
द्वितीयदिवसे स्वपित्रा स राजभवनं गत्वा राज्ञे आशीर्वादम् अकरोत, सभायां निजवैदग्ध्यञ्च(ट) अदर्शयत् ।
ततो विक्रमार्केण असौ वस्त्रादिना सम्भाव्य पृष्टः,-भोः कमलाकर! त्व यत्र देशे गतः, तम् किं चित्रं दृष्टम् ?
तेनोक्तं,- भोः राजन्! तत्र देशे किमपि न दृष्टं, परं प्रत्यागमनसमये काञ्चीनगरे अपूर्वमेकं कौतुकं दृष्टम्।
राज्ञोक्तं,-किं दृष्टं तत् कथय।
कमलाकरेणोक्तं,-नरसेनभूपतिशासिते काञ्चीनगरे नरमोहिनी नाम्नी सुरूपा काचिद्वारवनिता (ठ) अस्ति, यस्तां पश्यति, स उन्माददशां प्राप्नोति; यः पुना रजन्यां तया सह स्वपिति, तस्य रक्तं विन्ध्याचलवासी कश्चिद्राक्षसः तत्रागत्य पिबति; ततः स निर्जीवो भवति । एतत् कौतुकं मया दृष्टम् ।
तत् श्रुत्वा राज्ञा भणितं,- यद्येवं, त्वं तर्हि आगच्छ, तत्र गच्छावः ।
अथ तेन सह राजा काञ्चीनगरमागत्य कौतुकान्वितः नरमोहिनीगृहं गत्वा, तस्या रूपं दृष्ट्वा विस्मयं प्राप्तः ।
तया च पादप्रक्षालनाभ्यङ्गसुगन्धिपुष्पादिना (ड) सम्भावितः; उक्तञ्च,- - भो राजन् । अद्य अहं धन्या जाताऽस्मि, मम गृहश्च श्लाघ्यमभूत्। भवच्चरणप्रसादेन । ततः सा तस्मै वीटिकां दत्तवती ।
राजाऽपि तां गृहीत्वा तया सह मधुरैरनिन्दिताऽऽलापैः कियन्तं कालमतिवाहितवान् । ततः सा राजानं सविनयमभाषत-भो राजन्! स्थानमिदं नापच्छून्यम्; अत्र मदन्यः यः कच्चित् रात्रौ स्वपिति, उषसि (ढ) स गतप्राणः परिलक्ष्यते, तत्प्रतिविधातुं भवते निवेदितम्; अत्र यदुचितं तत सम्पाद्यताम् इति विरराम ।
ततः प्राग्विदितवृत्तान्तः राजा अभयदानपुरःसरम् अवोचत् त्वमधुना सुखं निद्रामाश्रय, तत्प्रतिकारार्थं यथोचितं यतिष्ये (ण) इति ।
एवं रात्रेरतिक्रान्ते प्रथमप्रहरे नरमोहिनी निद्रां गता; द्वितीयप्रहरावसाने घोरदर्शनः करालदशनः नरशोणित-लोलुपो (त) राक्षसो विकटाऽऽरावेण (ध) यावत् तत्र समायातः, सजागरः निर्भीकचेताः राजा तं युद्धावकाशमदत्त्वा निशित- करवालेन तत्क्षणादेव निजघान ।
तत्पतनशब्देन सा नरमोहिनी व्यपगतनिद्रा, हतं राक्षसं दृष्ट्वा सप्रश्रयं (द) राजानं भणति,- भो राजन्! यन्मादृशेषु षकिञ्चनजनेबु भवादृशः सम्यगनुकम्पते नाम, तत्केवलं निशाकरकिरणानामिव महतां श्रेष्ठनीचजनेषु समवृत्तितैव (ध) । भवत्प्रसादात् अहं निर्भया जाता; अद्यप्रभृति (न) मे राक्षसोपद्रवो गतः । त्वत्कृतोपकारात् कथमहमुत्तीर्णा (प) भवामि ?
राज्ञा तु - बहुप्राणिनां प्राणविनाशिनं दुराचारं निशाचरं हत्वा मया प्रतिपालितः (फ) स्वकीयो धर्म्मः, तेनैव सञ्जातः मे महान् परितोषः; नास्ति ते करणीयम् अत्र किमपि इत्युक्त्वा कमलाकरेण सह उज्जयिनीं प्रति प्रतस्थे ।
इमां कथां कथयित्वा पुत्तलिका भोजराजमवादीत्,-भो राजन्! त्वयि एवं धैर्य्यशौर्य्यौदार्य्यादिकं विद्यते चेत्, तर्ह्य- स्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे राक्षसवधो नाम नवमोपाख्यानम् ।। ९ ।।
अथ यज्ञलब्धफलदानं नाम दशमोपाख्यानम् ।
पुनरन्या पुत्तलिका तदेव सिंहासनं समारोढुकामं भोजं कथयति,- श्रूयतां राजन्! विक्रमार्के राज्यं कुर्वति, कश्चित् योगी उज्जयिनीं प्रति आगतः । स च वेदशास्त्र वैद्यक ज्योतिष- भरतशास्त्रादिसकलकलाविचक्षणः, ( ब) किं बहुना ? तत्- सदृशोऽन्यो नास्ति । स साक्षात् सर्वज्ञ एव । एकदा विक्रमो राजा तस्य प्रसिद्धिं श्रुत्वा, तमाह्वातुं पुरोहितं प्रेषितवान् । पुरोहितोऽपि तदन्तिकं गत्वा नमस्कृत्याऽब्रवीत्-भोः स्वामिन्! राजा भवन्तमाह्वयति, तत्रागन्तव्यम् ।
योगिनोक्तं,- तर्हि गम्यते । ततः तत्र गत्वा राजानं प्रति भणितं,- भो राजन्! त्वं चेत् मन्त्रसाधनं करिष्यसि, तर्हि तेन जरामरणरहितो भविष्यसि ।
राज्ञोक्तं, - त्वं मन्त्रं ममोपदिश, अहं मन्त्रं साधयिष्यामि ।
ततो योगिना तस्मै मन्त्रमुपदिश्य भणितं,- भो राजन्! अमुं मन्त्रं ब्रह्मचर्येण वर्षमेकं पठित्वा दूर्वाङ्कुरैर्दशांशहवनम् अग्नौ करिष्यसि, ततः पूर्णाहुतिसमये होमकुण्डात् कश्चित् पुरुषः फलहस्तो निर्गत्य, फलमेकं तुभ्यं दास्यति । तत्फलभक्षणेन त्वं जरामरणरहितो वज्रकायश्च भविष्यसि इति राज्ञे मन्त्रमुपदिश्य स योगी निजस्थानं गतः ।
राजाऽपि ग्रामाद्बहिर्वर्षमेकं ब्रह्मचर्य्येण मन्त्रं पठित्वा, दूर्वादलैर्दशांशं होममग्नौ कृत्वा यावत् पूर्णाहुतिं करोति, तावद्धोमकुण्डात् कश्चित् पुरुषो विनिर्गत्य दिष्यमेकं फलं राज्ञे ददौ ।
राजाऽपि तत फलं गृहीत्वा पुरं प्रविश्य यदा राजमार्गे समायाति, तदा कुष्ठव्याधिना विशीर्णावयवः ( भ) कश्चिद् ब्राह्मणो राज्ञे आशिषं प्रयुज्याऽवदत्,-भो राजन्! राजा नाम लोकस्य मातापित्रादिस्थाने नियोजितः । उक्तञ्च-
राजा बन्धुरबन्धूनां राजा चक्षुरचक्षुषाम् ।
राजा माता पिता चैव सर्वस्यार्तिहरो गुरुः ।। १४४ ।।
यतः त्वं विश्वस्यार्त्ति परिहरसि, अतः ममापि आर्त्तिं नाशय । अनेन व्याधिना मम शरीरं विनश्यति, शरीरनाशादनुष्ठानमपि नष्टं, यतः सर्वस्यापि धर्म्म्यकार्य्यस्य शरीरमेव साधनम् । तर्हि ममैतच्छरीरं निरामयम्, ( म) उपभोग्यञ्च यथा भवति, तथा कर्त्तव्यम् ।
तद्ब्राह्मणवचनं श्रुत्वा स राजा तस्मै तत् फलं ददौ । ततो ब्राह्मणः परं सन्तोषं प्राप्य निजस्थानं गतः । राजाऽपि स्वभवनमगमत् ।
इति कथयित्वा पुत्तलिका भोजराजमवादीत्- भो राजन्! एवमौदार्य्यं धैर्य्यञ्च त्वयि चेत् विद्यते, तर्ह्यस्मिन् सिंहासने समुपविश ।
तच्छ्रुत्वा राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे यज्ञलब्धफलदानं नाम दशमोपाख्यानम् ।। १० ।।
अथ रक्षोभीतिवारणं नाम एकादशोपाख्यानम् ।
अथ भोजे समाचङ्क्रम्यमाणे सिंहासनं पुत्तलिकाऽन्या कथयति,- भो राजन् । श्रूयतां,- विक्रमे राज्यं कुर्व्वति, भूमण्डले पिशुनः ( य) तस्करश्च पापकर्म्मनिरतो नासीत् । अन्यच्च, -यस्य राज्ञः सदा राज्यभारचिन्ता बलवद्वैरिविजयचिन्ता च अस्ति, स रात्रौ निद्रामपि नाधिगच्छति । उक्तञ्च,-
अर्थातुराणां न पिता न बन्धुः
कामातुराणां न भयं न लज्जा ।
चिन्तातुराणां न सुखं न निद्रा
क्षुधातुराणां न बलं न तेजः ।। १४५ ।।
अयं विक्रमादित्यो राजा तथाविधो न भवति । सर्व्वान् अर्थिभूभुजः स्वपादपद्माश्रितान् ( र) विधाय आज्ञाप्रदानेन राज्यं करोति । उक्तञ्च,-
आज्ञामात्रफलं राज्यं ब्रह्मचर्य्यफलं तपः ।
ज्ञानमात्रफला विद्या दत्तभुक्तफलं धनम् ।। १४६ ।।
एकदा स राज्यभारं मन्त्रिषु निधाय स्वयं योगिवेशेन देशान्तरं निर्गतः । यत्राऽऽत्मनश्चित्तस्य सुखं भवति, तत्र कतिचिद्दिनानि तिष्ठति, यत्राश्चर्य्यं पश्यति, तत्रापि कालं नयति । एवं पर्यटन् स एकस्मिन् दिवसे यदा महाऽरण्यमध्ये प्रावि- शत् तदा सूर्य्योऽस्तं गतः । तद्दृष्ट्वा राजा वृक्षमूलमेकमाश्रित्य रात्रौ स्थितः । तस्य वृक्षस्योपरि वृद्धः चिरञ्जीविनामा कश्चित् पक्षिराज आसीत् । तस्य पुत्राः पौत्राश्च देशान्तरं गत्वा स्वोदर- पूरणं विधाय, सायंकाले प्रत्येकमेकैकं फलमादाय, वृद्धाय तस्मै चिरञ्जाविने प्रतिदिनं प्रयच्छन्ति । तथा च,-
वृद्धौ च मातापितरौ साध्वी भार्य्या सुतः शिशुः ।
अप्यकार्य्यशतं कृत्वा भर्त्तव्या मनुरब्रवीत् ।। १४७ ।।
ततो रात्रौ चिरञ्जीवी सुखेनोपविष्टस्तान् पक्षिणः अपृच्छत् । राजाऽपि वृक्षमूले स्थितस्तद्वचः शृणोति --भोः पुत्राः! युष्माभिर्नानादेशान् पर्य्यटद्भिः किं चित्रं दृष्टम् ?
तत्रैकेन पक्षिणा भणितं,- मया किमप्याश्चर्य्य न दृष्टम्; परम् अद्य मम चेतसि महादुःखं भवति ।
चिरञ्जीविनोक्तं,- तत् कथय किं निमित्तं दुःखम् । तेनोक्तं,- केवलं कथनेन किं भवति ? वृद्धेनोक्तं,- भोः पुत्र! यो दुःखी, स सुहृदि ( ल) दुःखं निवेद्य सुखी भवति ।
तस्य वाक्यं श्रुत्वा स दुःखकारणं कथयति,- भोः तात! श्रूयताम्- अस्ति उत्तरदेशे शैवालघोषो नाम पर्व्वतः । तत् पर्वतसमीपे पलाशनगरमस्ति; तस्मिन् पर्वते स्थितः कश्चित् राक्षसः प्रतिदिनं नगरमागत्य सम्मुखागतं यं कञ्चन मानुषं स्त्रियं बालकादिकं वा पर्वते नीत्वा भक्षयति । एकदा स नगरवासिभिः जनैः उक्तः- भो बकासुर! त्वं यथेच्छं सम्मुखपतितं यं कमेवं मा भक्षय, वयं तुभ्यं प्रतिदिनमाहारार्थम् एकं मानवं दास्यामः । तद्वचः तेनाङ्गीकृतम् ।
तदनन्तरं तत्रत्यो जनः प्रतिदिनं गृहक्रमेणैकैकं मानुषं तस्मै प्रयच्छति । एवं महान् कालो गतः । अद्य पूर्वजन्मनि सञ्जातसौहार्द्दस्य मम मित्रस्य कस्यचित् ब्राह्मणस्य वारः ( व) समायातः; तस्यैक एव पुत्रः । पुत्रं ददाति चेत्, सन्ततिच्छेदो भविष्यति; आत्मानं प्रयच्छति चेत्, भार्य्या विधवा भविष्यति; वैधव्यं पुनर्महादुःखम् । पत्नीं दास्यति चेत् आश्रमभ्रंशो भवति । तेषां दुःखेनाहं महादुःखी । इति मम महद् दुःख- कारणम् ।
तस्य वचनं श्रुत्वा तत्रत्यैः पक्षिभिर्भणितम्- अहो! अयमेव सुहृत, यः सुहृदो दुःखेन स्वयं दुःखी भवति । एतदेव मित्रत्वम् । उक्तञ्च,-
सुखिते सुखी सुहृदि यः दुःखिनि दुःखी च स बन्धुर्भवति ।
उदिते मुदितः सिन्धुः शशिन्यस्तमयति सुक्षीणः ।। १४८ ।।
अपि च,-
क्षीरेणात्मगतोदकाय हि गुणा नष्टाः पुरा तेऽखिलाः
क्षीरे तापमवेक्ष्य तेन पयसा ह्यात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्तदभवत् दृष्ट्वा तु मित्राऽऽपदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीट्टशी ।। १४९।।
इति पक्षिणो वचः श्रुत्वा विहङ्गरवार्थविद् राजा तत्र नगरे वध्यशिला (श) समीपे गतः । तत्र ब्राह्मणं निरीक्ष्य अभयं दत्त्वा, स्वगृहं सम्प्रेष्य च, तत्समीपस्थे सरोवरे स्नात्वा वध्यशिलायामुपविष्टः ।
तस्मिन् समये राक्षसः समागत्य, प्रहसितवदनं पुरुषं दृष्ट्वा विस्मितस्तं वदति,- भो महासत्त्व! (ष) अत्र शिलायां प्रतिदिनं यः उपविशति, स मदागमनात् पूर्व्वमेव म्रियते । त्वं पुनः महाधैर्य्यसम्पन्नः प्रहसितवदनो दृश्यसे । यस्य मरणकालः समा- याति, तस्येन्द्रियाणि ग्लानिं प्राप्नुवन्ति; त्वं पुनरधिकां कान्तिं प्राप्य प्रहससि । तर्हि कथय को भवान् इति ।
राजा भणति, - मया परार्थमेतच्छरीरं दीयते स्वेच्छया, अतो न मे कापि ग्लानिः; यदु भवतु, किमनेन विचारेण तव? त्वमात्मनः समीहितं ( स) कुरु ।
तदा राक्षसेन स्वमनसि विचारितम्,- अहो !! स्राधुरयं, यः आत्मनः सुखभोगेच्छां विहाय परदुःखेन दुःखी भूत्वा अत्र एति । उक्तञ्च
त्यक्त्वाऽऽत्मसुखदुःखेच्छां सर्व्वसत्त्वगुणैषिणः ।
भवन्ति परदुःखेन साधवोऽत्यन्तदुःखिनः ।। १५० ।।
परोपकारनिरताः ये स्वार्थसुखनिस्पृहाः ।
जगद्धिताय जनिताः साधवस्त्वीदृशा भुवि ।। १५१ ।।
एवं विचार्य्य स राजानमब्रवीत्, - भो महापुरुष! त्वं सर्व्यस्यार्त्तिहरो गुरुः, यतः त्वं विश्वस्यार्त्तिं परिहरसि । परार्थं शरीरं प्रयच्छतस्तवैव एतच्छरीरं श्लाघ्यम् (ह) । कुतः,-
पशवोऽपि हि जीवन्ति केवलं स्वोदरम्भराः ।
तस्यैव जीवितं श्लाघ्यं यः परार्थे हि जीवति ।। १५२ ।।
भवादृशां परोपकारिणामेतच्चित्रं न भवति । तथा चोक्तम्,-
किमत्र चित्रम्? यत् सन्तः परानुग्रहतत्पराः ।
न हि स्वदेहशैत्याय जायन्ते चन्दनद्रुमाः ।। १५४ ।।
भो महासत्त्व! अनेनैव परोपकारेण त्वं सर्वाः सम्पदः प्राप्नोषि । यदुक्तम्,--
परोपकारव्यापारो पुरुषो यः प्रजायते ।
सम्पदं स समाप्नोति परत्राऽपि परं पदम् ।। १५४ ।।
एवं भणित्वा पुनः राजानमब्रवीत् - भो महासत्त्व! तवाहं तुष्टोऽस्मि, वरं वृणीष्व । राज्ञोक्तं,- भो राक्षस! त्वं यदि मम प्रसन्नोऽसि, तर्ह्यद्य प्रभृति मनुष्यभक्षणं परित्यज । अन्यमपि मया अभिधीयमानमुपदेशं शृणु -
यथाऽऽत्मनः प्रियाः प्राणाः सर्वेषां प्राणिनां तथा ।
तस्मान्मृत्युभयात् तेऽपि त्रातव्याः प्राणिनो बुधैः ।।१५५।
अन्यच्च-
जन्ममृत्युजरादुःखैर्नित्यं संसारसागरे ।
क्लिश्यन्ति जन्तवो घोरे मर्त्त्यास्त्रस्यन्ति मृत्युतः ।। १५६ ।।
मरिष्यामीति यद् दुःखं पुरुषस्योपजायते ।
शक्यते नानुमानेन तद्वक्तुं केनचित् क्वचित् ।। १५७ ।।
तथा च,-
यथा भवेज्जीवितमात्मनः प्रियं
तथा परेषामपि जीवितं प्रियम् ।
निरीक्ष्यते जीवितमात्मनो यथा
तथा परेषामपि रक्ष जीवितम ।। १५८ ।।
राज्ञा इति निरूपितः ( क) राक्षसः तदाप्रभृति जीवमारणं तत्याज । राजा च स्वनगरीं प्रत्यगात् ।
इमां कथां कथयित्वा पुत्तलिका भोजराजं प्रति अब्रवीत् - त्वयि एवं परोपकारदयादयः गुणाः विद्यन्ते चेत् तर्हि अस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे रक्षोभीतिवारणं नाम एकादशोपाख्यानम् ।। ११ ।।
अथ ब्राह्मणीशापमोचनं नाम द्वादशोपाख्यानम् ।
अथ पुनस्तथैव प्रवर्त्तमानं भोजमन्या पुत्तलिकाऽवदत्- भो राजन्! श्रूयतां,--विक्रमादित्ये राज्यं कुर्व्वति सति, तस्य नगरे भद्रसेनो नाम कश्चिद् वणिगाऽऽसीत् । तस्य सम्पदां मर्य्यादा नाऽभूत् परं स स्तोकोऽपि व्ययशीलो नाऽऽसीत् । ततः काले गच्छति भद्रसेनो मृतः । तस्य पुत्रः पुरन्दरः पितुः सर्वस्वं प्राप्य तस्य यथेच्छं त्यागं (ख) कर्त्तुमुपक्रान्तवान् ।
ततः एकदा तस्य प्रियमित्रेण धनदेन भणितं,- भोः पुरन्दर! त्वं वणिक्पुत्रो भूत्वाऽपि महाक्षत्रियकुमार इव धनव्ययं करोषि, नैतत् बणिक्कुलसम्भवस्य लक्षणं भवति । वणिक्पुत्रेण येन केनापि उपायेन सङ्ग्रहः कर्त्तव्यः, वराटिकाया ( ग) अपि व्यये कुण्ठेन भवितव्यम् । उपार्ज्जितं द्रव्यं कदाचित् कस्याञ्चिदापदि पुरुषस्योपयोगं ( घ) व्रजति । अतो बुद्धिमता आपदर्थे धनसङ्ग्रहः कर्त्तव्यः । उक्तञ्च,-
आपदर्थे धनं रक्षेद् दारान् रक्षेद् धनैरपि ।
आत्मानं सततं रक्षेद् दारैरपि धनैरपि ।। १५९ ।।
एतद्वचनं श्रुत्वा पुरन्दरः प्राह,- भो धनद! उपार्ज्जितं वित्तं कदाचित् कस्याञ्चिदापदि उपयोगाय भवति इति यो वदति, सः विचारशून्यः प्रतिभाति । यदा आपदः आयास्यन्ति, तदा उपार्ज्जितमपि धनं नङ्क्ष्यति । अतो बुद्धिमता पुरुषेण गतस्य शोकः, आगामिनोऽर्थस्य चिन्ता च न कार्य्या; परं वर्त्तमानमेव विचारणीयम् । उक्तञ्च-
गतशोको न कर्त्तव्यो भाविनं नैव चिन्तयेत् ।
वर्त्तमानेषु कार्य्येषु चिन्तयन्ति विचक्षणाः ।। १६० ।।
यद्भवितव्यं तदनायासेनाऽपि भविष्यति । यद्गन्तव्यं तद्गमिष्यत्येव । तथा चोक्तम्,-
भवितव्यं भवत्येव नारिकेलफलाम्बुवत् ।
गन्तव्यं गतमित्याहुर्गजभुक्तकपित्थवत् ।। १६१ ।।
एवं पुरन्दरवचनेन धनदो निरुत्तरोऽभूत् ।
ततः पुरन्दरः पितृद्रव्यस्य सर्व्वस्य व्ययमकरोत् । ततो निर्धनं पुरन्दरं बन्धु-मित्रादयो न मानयन्ति । किं बहुना? तेन सह गोष्ठीम् (ङ) अपि न कुर्व्वन्ति । तदा पुरन्दरेण स्वमनसि चिन्तितं- मम हस्ते यावत् धनमासीत् तावदेते मित्रादयो मम सेवका इव आसन्, इदानीं मया सह वाक्याऽऽलापमपि न कुर्व्वन्ति । अथवा यस्यार्थोऽस्ति, तस्यैव मित्रादयः सन्ति । उक्तञ्च--
यस्यार्थस्तस्य मित्राणि यस्यार्थस्तस्य बान्धवाः ।
यस्यार्थः स पुमान् लोके यस्यार्थः स च पण्डितः ।।१६२।।
अपि च-
पुंसि क्षीणधने न बान्धवजनः पूर्वं यथा वर्त्तते,
स्थित्या केवलयाऽऽश्रितः परिजनः स्वच्छन्दतां मुञ्चति ।
लोलत्वं सुहृदः प्रयान्ति, बहुशः किं चापरैर्भाषितैः,
भार्य्याया ह्यपि निश्चितं गतधने वादो मुहुः स्याद्भृशम् ।।१६३ ।।
किञ्च,-
यस्याऽस्ति वित्तं स नरः कुलीनः
स पण्डितः स श्रुतवान् गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः काञ्चनमाश्रयन्ति ।। १६४ ।।
तथा च-
वनानि दहतो वह्नेः सखा भवति मारुतः ।
स एव दीपनाशाय, क्षीणे कस्याऽस्ति सौहृदम्? ।। १६ ५।।
अतो दारिद्र्यात् मरणमेव वरम् । उक्तञ्च-
उत्तिष्ठ क्षणमेकमुद्वह सखे! दारिद्र्यभारं मम
श्रान्तस्तावदहं चिरान्मरणजं सेवे त्वदीयं सुखम् ।
इत्युक्तं धनवर्जितस्य वचनं श्रुत्वा श्मशाने शवः
दारिद्र्यान्मरणं वरं वरमिति ज्ञात्वैव तूष्णीं स्थितः ।। १६६ ।।
मृतो दरिद्रः पुरुषो मृतं मैथुनमप्रजम् ।
मृतमश्रोत्रियं दानं मृतो यागस्त्वदक्षिणः ।। १६७ ।। अपि च,- माता निन्दति, नाभिनन्दति पिता, भ्राता न सम्भाषते,
भृत्यः कुप्यति, नानुगच्छति सुतः, कान्ता च नाऽऽलिङ्गते ।
अर्थप्रार्थनशङ्कया न कुरुतेऽप्याऽऽलापमात्रं सुहृत्
तस्मादर्थमुपार्ज्जयस्व च सखे! ह्यर्थस्य सर्वे वशाः ।। १६८ ।।
इत्येवं विचार्य्यासौ देशान्तरं गतः । ततो नानादेशं परिभ्रमन् हिमाचलसमीपस्थितं नगरमेकमगमत् । तस्य नातिदूरे वेणूनां ( च) वनमासीत् । तद् ग्रामाभ्यन्तरं गत्वा रात्रौ कस्य चिद्ग्रहे वेदिकायां ( छ) सुष्वाप । अत्रान्तरे अर्द्धरात्रसमये वेणुवनमध्मे रुदन्त्याः कस्याश्चित् स्त्रिया हाहारवेण जागरितः स एवं रोदनध्वनिमश्रौषीत्, भो महाजनाः! मां परित्रायध्वं परित्रायध्वं, कोऽपि राक्षसो मां मारयति इति ।
ततः प्रभातसमये ग्रामस्थान् जनान् अपृच्छत्,- भो महोदयाः! किमेतदत्र वेणुवनमध्ये काचित् स्त्री रात्रौ रोदिति ?
तैरुक्तम्-अत्र वेणुवनमध्ये प्रतिरात्रि रोदनध्वनिः श्रूयते, परं न कोऽपि तत्र भयाद्गच्छति, न विचारयति ( ज) च ।
ततः पुरन्दरः कियत्कालानन्तरं स्वनगरमागत्य राजानमद्राक्षीत् । ततो राज्ञा पृष्टः,- भोः पुरन्दर! देशान्तरं गच्छता त्वया किं किमपि अपूर्व्वं दृष्टम् ?
ततः पुरन्दरो वेणुवन- वृत्तान्तं राज्ञे समकथयत् ।
तत् कौतुकं श्रुत्वा राजा तेन सह तन्नगरं गत्वा, रात्रौ वेणुवनमध्ये स्त्रिया रोदनशब्दं श्रुत्वा यावद्वनमध्ये प्रविशति, तावदतिभयङ्कररूपं, रुदतीम् अनाथां स्त्रियं मारयन्तं, राक्षसमेकमपश्यत्, अब्रवीच्च,- रे पापिष्ठ! स्त्रियमनाथां किमर्थं ताडयसि?
राक्षसेनोक्तं,-- तव किमनेन विचारेण? त्वमात्ममार्गेण गच्छ, अन्यथा वृथैव मम हस्तात् ( झ) मरिष्यसि ।
तच्छ्रुत्वा राजा कुपितः तं खड्गेन अताडयत्; ततश्च उभयोर्युद्धं जातम्; राज्ञा स राक्षसो मारितः ।
ततः सा स्त्री समागत्य राज्ञः पादयोः पतित्वा भणति स्म, -भोः राजन्! तव प्रसादान्मम शापावसानमभूत् । महतो दुःखसागरात् त्वयाऽहम् उद्धृता ।
राज्ञा भणितं, काऽसि त्वम् ?
तयोक्तम्,- अस्मिन्नेव नगरे महाधनसम्पन्नः कश्चित् ब्राह्मणः आसीत, तस्य भार्य्याऽहम्; व्यभिचारिणीभूताया मम तस्योपरि कियत्यपि प्रीतिर्नाऽऽसीत्, परन्तु तस्य ममोपरि महाननुरागः अस्थात् । रूपादिगर्व्वयुताऽहं तेन सम्भोगार्थमाहूताऽपि नाऽगमम् । अतो यावज्जीवं कामसन्तप्तः स मम पतिः देहावसानसमये (ञ) मामशपत्,- किमिति (ट) रे दुराचारे! यथा यावज्जीवं त्वया मम सुदुःसहो मनःसन्तापः उत्पादितः, तथैव वेणुवनवासी कश्चिदतिभयङ्कररूपो राक्षसो रात्रौ त्वामनिच्छन्तीं सुरतार्थं प्रतिदिनं ताडयतु इति ।
एवमभिशप्तया मया पुनः शापावसानं याचितं,-किमिति ( ठ) भो नाथ! शापस्यावसानं देहि इति ।
तेनोक्तं,-यदा परोपकारी महाधैर्य्यसम्पन्नः पुरुषः कश्चित समागत्य तं राक्षसं हनिष्यति, तदा त्वं तत्पादौ नत्वा शापमुक्ता भविष्यसि । मदीयमिदं धनं तस्मै देहि इति । मामेवमुक्ता स प्राणान् अत्यजत् ।
तदवधि अहं राक्षसहस्तेन प्रतिरात्रि निगृहीताऽभवम्; अधुना तव प्रसादात् मम शापावसानं जातं, तदिमं गृहाण इत्युक्ता सा धनपूर्णघटमेकं दत्तवती । राजा तु तं धनपूर्णघटं समादरात् स्वीकृत्य,(ड) पुरन्दरवणिजे दत्त्वा तेन सहोज्जयिनीमगात्; ब्राह्मणभार्य्याऽपि स्वभवनमयासीत् ।
पुत्तन्तिका इमां कथां कथयित्वा भोजमब्रवीत् भो राजन्! त्वय्येवं धैर्य्यमौदार्य्यं विद्यते चेत्, तर्ह्यस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत्। ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे ब्राह्मणी- शापमोचनं नाम द्वादशोपाख्यानम् ।।१२ ।।