द्वात्रिंशत्पुत्तलिकासिंहासनम्/०४
अथ दानशक्तिवर्णनं नाम प्रथमोपाख्यानम् ।
ततो भोजराजः स्वमन्त्रिणं प्रशस्य वस्त्रादिना सम्भाव्य तत् सिंहासनं (फ) नगराभ्यन्तरं नीत्वा, तत्र सहस्रस्तम्भैर्मण्डपं कारयित्वा सुमुहूर्त्ते, ( ब) तत्र मन्त्रिभिर्विराजमानः, विप्रैराशीर्भिरर्चितः, वन्दिभिः ( भ) प्रशंसितः, चातुर्वर्ण्यं ( म) दानमानाभ्यां सन्तोष्य, दीनबधिरपङ्गुकुब्जादीनां ( य) दानं दत्त्वा, छत्रचामराङ्कितो ( र) यावत पुत्तलिकामस्तके पादपद्मं निदधाति, ( ल) तावत् पुत्तलिका मनुष्यवाचा राजानमब्रवीत्,-भो राजन्! विक्रमस्य शौर्य्यौदार्य्य सत्त्वादिकसादृश्यं (व) यदि विद्यते, तर्हि अस्मिन् सिंहासने समुपविश ।
राजाऽब्रवीत्,- हे पुत्तलिके! मम त्वयोक्तं सर्व्वमौदार्य्यादिकं विद्यते, कि न्यूनमस्ति ? मयाऽपि सर्वेषाम् अर्थिनां कालोचितं ( श) दत्तम् ।
तत् श्रुत्वा पित्तलिकाऽवदत्,- भो राजन्! एतदेव तवानुचितं, यत् स्वमुखेनैव आत्मानं कीर्त्तयसि! यः स्वगुणान् कीर्त्तयति, स केवलं दुर्ज्जन एव । सज्जनस्तु नैवं वक्ति । उक्तञ्च,-
स्वगुणान् परदोषान् वा वक्तुं शक्नोति दुर्जनो लोके ।
परदोषान् स्वगुणान् वा वक्तुं नो सज्जनः सत्यम् ।। ७४ ।।
अन्यच्च,--
आयुर्वित्तं गृहच्छिद्रं मन्त्र औषधसङ्गमौ ।
दानमानापमानञ्च नव गोप्यानि सर्वदा ।। ७५ ।।
अत एव आत्मनो गुणाः आत्मना न स्तोतव्या, (ष) परेषां निन्दा (स) च न कर्त्तव्या ।
इति पुत्तलिकयोक्तं श्रुत्वा सविस्मयो भोजराजः पुनः पुत्तलिकामवदत्,- सत्यमुक्तं त्वया, यः स्वगुणान् कीर्त्तयति,, स मूर्ख एव । मया मद्गुणाः कीर्त्तिताः, तदनुचितमेव । यस्य एतत् सिंहासनं, तस्यौदार्य्यं कथयं ।
पुत्तलिका भणति,- भो राजन्! एतत् सिंहासनं विक्रमार्कस्य । स तु सन्तुष्टश्चेत् अर्थिजनेभ्यः कोटिसुवर्णं (ह) प्रयच्छति । यथा,-
निरीक्षिते सहस्रन्तु अयुतन्तूपजल्पते ।
महते लक्षदो भूपः सन्तुष्टः कोटिदः सदा ।। ७६ ।।
त्वयि एवम् औदार्य्यं विद्यते चेत्, तर्हि अस्मिन् सिंहासने उपविश । राजा तूष्णीमासीत् (क) ।
[ इति विक्रमार्कचरित्रे सिंहासनोपाख्याने अप्सरा भोजसंवादे (ख) दानशक्तिवर्णनं नाम प्रथमोपाख्यानम्] ।। १ ।।
अथ विप्रमनोरथपूरणं नाम द्वितीयोपाख्यानम् ।
पुनरपि राजा यावत् अन्यपुत्तलिकामस्तके पादपद्मे निदधाति, तावत् सा पुत्तलिका तथैव मनुष्यवाचा राजानमब्रवीत्, - भो राजन्! विक्रमस्य शौर्य्यौदार्य्यसत्त्वादिकसादृश्यं यदि विद्यते, तर्हि अस्मिन् सिंहासने समुपविश ।
भोजराजो वदति स्म-भोः पुत्तलिके! कथय तस्य विक्रमस्य शौर्य्यौदार्य्यादि- वृत्तान्तम् ।
सा कथयति,- भो राजन्! श्रूयताम् -
विक्रमादित्यः राज्यं पालयन् एकदा चारानाहूयाऽब्रवीत्, - भो दूताः! भवन्तः पृथिवीपरिभ्रमणं कुर्वन्तः, यत्र यत्र कौतुकं ( ग) तीर्थविशेषञ्च विलोकयन्तु, तन्मम निवेदयन्तु । अहं तत्र गमिष्यामि ।
एवं काले गते एकदा देशान्तरं परिभ्रमन्नातः कश्चित् दूतो राजानमब्रवीत्-भो राजन्! चित्रकूटपर्व्वतनिकटे ( घ) तपोवनमध्ये अतिमनोहरो देवालयोऽस्ति । तत्र पर्व्वतोच्चस्थानात् विमला जलधारा पतति । तत्र स्नानं यदि क्रियते, तर्हि सर्वेषां महापापानां क्षयो भवति; यस्तु महापापं करोति, तस्याङ्गादतीव कृष्णमुदकं निःसरति । यस्तत्र स्नानं करोति स पुण्यपुरुषः ।
अन्यच्च. तत्र कश्चिद ब्राह्मणः महति होमकुण्डे हवनं करोति, तस्य कियन्ति वर्षाणि अतीतानि इति न ज्ञायते । प्रतिदिनं कुण्डाद् बहिः स्थापितं भस्म,पर्व्वताकारं सत् अस्ति । स ब्राह्मणः केनाऽपि सह न सम्भाषते । एवमतिविचित्रतरं स्थानं ट्टष्टम् ।
तच्छुत्वा स राजा एकाकी तेन सह तत् स्थानं गत्वा, परमानन्दं प्राप्तोऽवादीत्-अहो! अतिपवित्रमेतत स्थानम अत्र साक्षाज्जगदम्बिका निवसति । एतत स्थानं दृष्ट्वा मनो मे विमलं जातम् इत्युक्त्वा, तत्रान्तरिक्षोदकस्नानं (ङ) विधाय देवतां नमस्कृत्य, यत्र ब्राह्मणो हवनं करोति, तत्र गत्वा व्राह्मणमवोचत्;- भो ब्राह्मण! हवनमारभ्य कतिवर्षाणि जातानि ?
ब्राह्मणेनोकं,-यदा सप्तर्षिमण्डलं ( च) रेवती नक्षत्रस्य प्रथमचरणे स्थितं, तदा मया हवनं प्रारब्धम्; इदानीमश्विनीनक्षत्रे तिष्ठति । होमं कुर्वतो मे वर्षशतमभूत् ( छ) तथापि देवता प्रसन्ना नाऽभवत् ।
तच्छुत्वा राजा स्वयं देवतां स्मृत्वा, होमकुण्डं आहुतिम् अक्षिपत् । तदाऽपि देवी प्रसन्ना नाऽभूत् ।
तदनन्तरं राजा स्वशिरःकमलाहुतिं(ज) दास्यामि, इति बुद्ध्या यावत् कण्ठे खड्गं सन्दधाति, तावदन्तराले देवता (झ) खड्गं धृत्वा अवादीत्- भो राजन्! प्रसन्नाऽस्मि, वरं वृणीष्व (अ) ।
राज्ञा उक्तं,- भो देवि! किमस्मादपि परमानन्दसन्दीपनमस्ति ( ट) वरप्रदानं, यत् यस्याः सन्ततस्मरणेन विधूतकल्मषाः (ठ) योगिनो यान्ति संसृति क्लेशनाटकविडम्बननिर्व्वहणं, ( ड) सा त्वं मादृशजनस्य नयनपथमधिगता सस्नेहमाभाषसे ? तत् केवलं कुतूहलतया पृच्छसे किमपि, यत्- ब्राह्मणोऽयं बहुकालं हवनं करोति, नापराध्यति कस्मैचित्, न चाऽपि नियमात् स्खलितः, तथाऽपि अस्मिन् किमर्थं न प्रसन्ना भवसि? मम एव वा कः तथाविधः अर्हणाप्रकारः, (ढ) येन शीघ्रं प्रसन्नाऽसि ?
तयोक्तं, -भो राजन्! जपसरणिमुल्लङ्घ्य ( ण) हवनम् अयं करोति; अपि तु अस्य चेतसि भावो नास्ति, ( त) अतः प्रसन्ना न भवामि । उक्तञ्च-
अङ्गुल्यग्रे च यज्जप्तं यज्जप्तं मेरुलङ्घने ।
पर्व्वसन्धिषु यज्जप्तं त्रिविधं निष्कलं भवेत् ।।७७ ।।
मन्त्रे तीर्थे द्विजे देवे दैवज्ञे भेषजे गुरौ ।
यादृशी भावना यस्य सिद्धिर्भवति तादृशी ।। ७८ ।
न काष्ठे विद्यते देवी न पाषाणे न मृन्मये ।
भावे हि विद्यते देवस्तस्माद्भावो हि कारणम् ।। ७९ ।। इति ।
राजा अवदत्,- यदि मम प्रसन्ना जाताऽसि, तर्हि अस्य ब्राह्मणस्य मनोरथान् (थ) पूरय ।
साऽब्रवीत्- भो राजन् परोपकारी महाद्रुम इव, स्वदेहकष्टं सहित्वा परश्रमोच्छेदं करोषि? उक्तञ्च,-
छायामन्यस्य कुर्व्वन्ति स्वयं तिष्ठन्ति चातपे ।
फलन्ति हि परार्थे च सत्यमेते महाद्रुमाः ।। ८०।।
परोपकाराय वहन्ति नद्यः परोपकाराय दुहन्ति गावः ।
परोपकाराय फलन्ति वृक्षाः परोपकाराय शरीरमेतत् ।। ८१ ।।
एवं राजानं स्तुत्वा ब्राह्मणस्य मनोरथं पूरयति स्म । राजाऽपि स्वपुरीमगात् ।
इमां कथां कथयित्वा, पुत्तलिका भोजमवदत्,- राजन्! एवंविधं धैर्य्यं विद्यते चेत्, तस्मिन् सिंहासने समुपविश ।
राजा तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे विप्रमनोरथपूरणं नाम द्वितीयोपाख्यानम् ।। २।।
अथ सर्व्वस्वदक्षिणयज्ञवर्णनं नाम तृतीयोपाख्यानम्
पुनरपि राजा सिंहासने समुपवेष्टुं गच्छति, ततोऽन्या पुत्तलिका समवदत्- भो राजन्! एतत्सिंहासने तेनैव अध्यासितव्यं (द) यस्य विक्रमतुल्यमौदार्य्यमस्ति ।
भोजेनोक्तं, - भोः पुत्तलिके! कथय तस्यौदार्य्यवृत्तान्तम् ।
सा वदति,- श्रूयतां राजन्! विक्रमार्कसदृशो राजा भूमण्डले नास्ति । यस्य चेतसि अयं परः, अयं मदीयः इति विकल्पो नास्ति, (ध) स उदारचेताः सकलमपि विश्वं पालयति । तथा चोक्तम्,-
अयं निजः परो वेति विकल्पो भ्रान्तचेतसाम् ।
पुनस्तूदारचित्तानां वसुधैव कुटुम्बकम् ।। ८२ ।।
साहसे, उद्यमे, धैर्य्ये च तत्समो नास्ति, तस्मात् इन्द्रादयो देवाः अस्य साहाय्यं कुर्वन्ति स्म । उक्तञ्च-
उद्यमः साहसं धैर्य्यं शक्तिर्बुद्धिः पराक्रमः ।
षडेते यस्य तिष्ठन्ति तस्माद् देवोऽपि शङ्कते ।। ८३ ।।
राजन्! यस्तु अर्थिनां मनोरथं पूरयति, तस्येप्सितं देवः सम्पादयति । यच्चोक्तम्,-
कृते विनिश्चये पुंसां विष्णुः पूरयतीप्सितम् ।
यदि स्यात दार्ढ्यसम्पत्तिः सत्यं सत्यं हि मानव! ।। ८४ ।।
अपि च ।-
उत्साहसम्पन्नमदीर्घसूत्रं
क्रियाविधिज्ञं व्यसनेष्वसक्तम् ।
शूरं कृतज्ञं दृढनिश्चयश्च
लक्ष्मीः स्वयं वाच्छति वासहेतोः ।। ८५ ।।
एवं सकल-गुणाधिवासः ( न) स विक्रमो राजा सर्व्वसम्पदा परिपूर्णः एकदा स्वमनसि अचिन्तयत्-अहो! असारोऽयं संसारः, कदा कस्य किं भविष्यतीति न ज्ञायते; यच्च उपार्जितं वित्तं, तदपि दानभोगैर्विना सफलं न भवति ।
अतो वित्तस्य सत्पात्रे दानमेकं ( प) फलम्; अन्यथा नाशमेव प्राप्नोति । उक्तञ्च,-
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ।। ८६ ।।
तथा चोक्तम्,-
उपार्ज्जितानां वित्तानां त्याग एव हि रक्षणम् ।
तटाकोदरसंस्थानां परीवाह इवाम्भसाम् ।। ८७ ।।
सर्व्वस्वदक्षिणयज्ञवर्णनं नाम तृतीयोपाख्यानम् । ६५
अपि च,-
दातव्यं भोक्तव्यं धनविषये सञ्चयो न कर्त्तव्यः ।
पश्येह मधुकरीणां सञ्चितमर्थं हरन्त्यन्ये ।। ८८ ।।
इत्येवं विचार्य्य, सर्व्वस्वदक्षिणं ( फ) यज्ञं कर्त्तुम् उपक्रान्तवान् ।
ततः शिल्पिभिरतीव मनोहरो मण्डपः ( ब) कारितः । सर्वाऽपि यज्ञसामग्री समाहृता; देव-मुनि गन्धर्व्व यक्ष सिद्धा- दयश्च समाहूताः ।
तस्मिन्नवसरे समुद्राह्वानार्थं कश्चिद् ब्राह्मणः ससुद्रतीरे प्रेषितः । सोऽपि समुद्रतीरं गत्वा, गन्धपुष्पादि- षोडशोपचारं (भ) विधायाऽब्रवीत्- भोः समुद्र! विक्रमार्को राजा यज्ञं करोति, तेन प्रेषितोऽहं त्वामाह्वातुं ( म) समागतः इति जलमध्ये पुष्पाञ्जलिं दत्त्वा क्षणं स्थितः । कोऽपि तस्य प्रत्युत्तरं न ददौ ।
तत उज्जयिनीं यावत प्रत्यागच्छति, तावत् देदीप्यमानशरीरः ( य) समुद्रो ब्राह्मणरूपी सन्, तमागत्य अवदत्- भो ब्राह्मण! विक्रमेण अस्मान् आह्वातुं प्रेषितस्त्वं, तर्हि तेन या अस्माक सम्भावना (र) कृता, सा प्राप्तैव । एतदेव सुहृदो लक्षणं, यत् समये दानमानादि क्रियते । उक्तञ्च,--
ददाति प्रतिगृह्णाति गुह्यमाख्याति पृच्छति ।
भुङ्क्ते भाजयते चैव षड्विधं प्रीतिलक्षणम् ।। ८९ ।।
दूरस्थितानां मैत्री नश्यति, समीपस्थानां वर्द्धत इति न वाच्यम्; अत्र स्नेह एव प्रमाणम् (ल) । तथा चोक्तम्-
दूरस्थोऽपि समीपस्थो यो वै मनसि वर्त्तते ।
यो वै चित्तेन दूरस्थः समीपस्थो हि दूरतः ।। ९० ।।
उक्तञ्च,-
गिरौ कलापो गगने पयोदः
लक्षान्तरेऽर्कश्च जले च पद्मम् ।
इन्दुर्द्विलक्षे कुमुदस्य बन्धुः
यो यस्य मित्रं न हि तस्य दूरम् ।। ९१ ।।
तस्मात् सर्व्वथा गन्तव्यं मे, किन्तु ममात्र किचित् प्रयोजनमस्ति । तस्मै राज्ञे व्ययार्थमेतद्रत्नचतुष्टयं दास्यामि । एतेषां माहात्म्यम्- एकं रत्नं यद्वस्तु स्मर्य्यते, तद्ददाति;
द्वितीयरत्नेन भोजनादिकम् अमृततुल्यमुत्पद्यते;
तृतीयरत्नात् चतुरङ्गबलं ( व) भवति;
चतुर्थाद्रत्नात् दिव्याऽऽभरणानि जायन्ते ।
तदेतानि रत्नानि गृहीत्वा राज्ञो हस्ते प्रयच्छ ।
ततो ब्राह्मणस्तानि रत्नानि गृहीत्वा, उज्जयिनीं यावत् आगतः, तावत् यज्ञसमाप्तिर्जाता । राजा अवभृथस्नानं ( श) कृत्वा सर्वान् अर्थिजनान् परिपूर्णमनोरथान् अकरोत ।
ब्राह्मणो राजानं दृष्ट्वा रत्नानि अर्पयित्वा, प्रत्येकं तेषां गुणकथनमकथयत् ।
ततो राजा अवदत, भो ब्राह्मण! भवान् यज्ञदक्षिणाकालं व्यतिक्रम्य समागतः, मया सर्वोऽपि ब्राह्मण- समूहो दक्षिणया तोषितः, तर्हि त्वम् एतेषां चतुर्णां मध्ये, यत् तुभ्यं रोचते, तद्गृहाण ।
ब्राह्मणेनोक्तं- गृहं गत्वा गृहिणीं, पुत्रं, स्नुषाञ्च ( ष) पृष्ट्वा सर्वेभ्यो यद्रोचते, तद् ग्रहीष्यामि ।
राज्ञोक्तं,- तथा कुरु ।
ब्राह्मणोऽपि स्वगृहमागत्य, सर्व्वं वृत्तान्तं तेषामग्रे अकथयत् ।
तच्छुत्वा पुत्रेणोक्तं,- यद्रत्नं चतुरङ्गबलं ददाति, तद् ग्रहीष्यामः; यतः सुखेन राज्यं कर्त्तुम् अर्हिष्यामः ।
पित्रोक्तं,- बुद्धिमता राज्यं न प्रार्थनीयम् । उक्तञ्च,-
रामस्य व्रजनं, बलेर्नियमनं, पाण्डोः सुतानां वनम्,
वृष्णीनां निधनं, नलस्य नृपतेः राज्यात् परिभ्रंशनम् ।
सौदासं तदवस्थ,मर्ज्जुनवधं, सञ्चिन्त्य लङ्केश्वरम्,
दृष्ट्वा राज्यकृते विडम्बनगतं, धीमान् न तद्वाच्छयेत् ।।९२।।
पुनः पिता वदति,- यस्माद्धनं लभ्यते, तद् गृहाण, धनेन सर्वमपि लभ्यते । उक्तञ्च-
न तदस्ति जगत्यस्मिन् यद्धनेन न लभ्यते ।
निश्चित्य मतिमांस्तस्माद अर्थमेकं प्रसाधयेत् ।। ९३ ।।
भार्य्ययोक्तं,- यद्रत्नं षड्रसान् सूते, ( स) तत् गृह्यताम् । सर्व्वेषां प्राणिनामन्नेनैव प्राणधारणं भवति । उक्तञ्च
अन्नं विधात्रा विहितं मर्त्यानां जीवधारणम् ।
तस्मादन्नात् परं किंचित् प्रार्थयेन्न कदाचन ।। ९४ ।।
स्नुषयोक्तं यद्रत्नं रत्नाभरणादिकं सूते, तद ग्राह्यम् । उक्तञ्च-
भूषयेत् भूषणैः रम्यैर्यथाविभवमादरात् ।
शुचिसौभाग्यवृद्ध्यर्थमायुर्लक्ष्म्यभिवृद्धये।। ९५
सुहृत्सु शुभदं नित्यं वास एव विभूषणम् ।
रत्नैश्च देवतातुष्टिर्भूषणस्यापि धारणात् ।। ९६ ।।
एवं चतुर्णां परस्परं विवादो लग्नः ( ह) ।
ततो ब्राह्मणो राजसमीपमागत्य, चतुर्णां विवादवृत्तान्तमकथयत् ।
राजाऽपि तच्छ्रुत्वा, तस्मै ब्राह्मणाय चत्वार्य्यपि रत्नानि ददौ ।
इति कथां कथयित्वा पुत्तलिका राजानभवदत्- भो राजन्! औदार्य्यं नाम सहजो(क) गुणः, न तु औपाधिकः(ख) । उक्तञ्च,-
चम्पकेषु यथा गन्धः कान्तिर्मुक्ताफलेषु च ।
यथेक्षुदण्डे माधुर्य्यम् औदार्य्यं सहजं तथा ।। ९७ ।।
त्वयि एवंविधमौदार्य्यं विद्यते चेत् तर्हि अस्मिन् सिंहासने समुपविश ।
तच्छ्रुत्वा राजा तूष्णीमासीत्।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे सर्वस्वदक्षिणयज्ञ ? नाम तृतीयोपाख्यानम्
अथ कृतज्ञतापरीक्षणं नाम चतुर्थीपाख्यानम् ।
पुनः सिंहासनमाऽऽरुरुक्षुं ( ग) भूपतिं प्रतिरुध्य तेन च पृष्टा, अन्या पुत्तलिका वदति स्म, - भो राजन्! श्रूयताम् - विक्रमादित्ये राज्यं कुर्व्वति, एकदा ब्राह्मणः कश्चित् सकलविद्याविचक्षणः, समस्तगुणगणालङ्कृतोऽपि अपुत्रः समभवत् । एकदा भार्य्यया भणितं,- भोः प्राणेश्वर! पुत्रं विना गृहस्थस्य गतिर्नास्तीति स्मृतिविदो वदन्ति । तथा हि,-
अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च ।
तस्मात् पुत्रमुखं दृष्ट्वा पश्चाद्भवति तापसः ।। ९८ ।।
शर्वरीदीपकश्चन्द्रः प्रभाते दीपको रविः ।
त्रैलोक्यदीपको धर्म्मः सत्पुत्रः कुलदीपकः ।। ९९ ।।
नागो भाति मदेन, कं जलरुहैः, पूर्णेन्दुना शर्व्वरी,
शीलेन प्रमदा, जवेन तुरगो, नित्सोत्सवैर्मन्दिरम् ।
वाणी व्याकरणेन, हंसमिथुनैर्नद्यः, सभा पण्डितैः
सत्पुत्रेण कुलं, नृपेण वसुधा, लोकत्रयं विष्णुना ।। १००।।
ब्राह्मणेनोक्तं,-भोः प्रिये! सत्यमुक्तं त्वया, परं परोद्यमेन ( घ) द्रव्यं लब्धुं शक्यते, गुरुशुश्रूषया विद्यापि लभ्यते, यशः सन्ततिश्च परमेश्वराऽऽराधनं विना न सिध्यति । उक्तञ्च,-
निरन्तरा सुखापेक्षा हृदये यदि विद्यते ।
कृत्वा भावं दृढतरं भवानीवल्लभं भजेत् ।। १०१ ।।
भार्य्ययोक्तं-भवान् सर्वज्ञः, अतः परमेश्वरप्रसादार्थं किमपि व्रतादिकमनुष्ठेयम् ।
तेनोक्तं,- मयाऽप्यङ्गीकृतमेव तद्वचनम्।
कुतः ?-
युक्तियुक्तमुपादेयं वचनं बालकादपि ।
विदुषाऽपि सदा ग्राह्यं वृद्धादपि न दुर्वचः ।। १०२।।
इत्युक्त्वा ब्राह्मणः परमेश्वरप्रीत्यर्थं रुद्रानुष्ठानं (ङ)कृतवान् । ततः एकदा रात्रौ तं ब्राह्मणं स्वप्ने जटामुकुटधारी वृषभवाहनः भूतभावनः ( च) भवानीपतिः प्रत्यक्षीभूय उवाच,- भो ब्राह्मण! त्वं प्रदोषव्रतम् ( छ) आचर, तेन व्रताचरणेन तव पुत्रो भविष्यति । ततः प्रभाते ब्राह्मणेन वृद्धानां पुरतः स्वस्वप्नवृत्तान्तः कथितः । तैरुक्तं- भो ब्राह्मण! यथार्थोऽयं स्वप्नः । उक्तञ्च स्वप्नाध्याये,-
देवो द्विजो गुरुर्गावः पितरो लिङ्गिनो नृपः ।
यद्वदन्ति वचः स्वप्ने तत् तथैव विनिर्दिशेत् ।। १०१ ।।
अस्मिन् व्रतेऽनुष्ठिते तव पुत्रो भविष्यति इति ।
तेषां वचनं श्रुत्वा, ब्राह्मणो मार्गशीर्ष-(ज) शुक्लत्रयोदशी- तिथौ शनिवारे कल्पोक्तविधिपूर्व्वकं ( भ) प्रदोषव्रतमनुष्ठितवान् । तेन व्रताचरणेन परमेश्वरः प्रसन्नो भूत्वा, पुत्रमस्मै प्रायच्छत ।
तदनन्तरं पुत्रे जाते, तस्य पुत्रस्य ब्राह्मणो जातकर्म्म विधाय, ( ञ) द्वादशदिवसे तस्य देवदत्तः इति नामकरणं कृत्वा, ( ट) यथाकाले अन्नप्राशनाद्युपनयनान्तानि कर्म्माणि अकार्षीत् । ततः उपनीतं वेदशास्त्रादिकं शिक्षयित्वा, षोडशे वर्षे गोदानानन्तरं विवाहं कारयित्वा, ( ठ) स्वयं तीर्थयात्रां कर्त्तुकामः पुत्राय बुद्धिम् ( ड) उपदिशति- भोः पुत्र! अतिकष्टां दशां ( ढ) प्राप्तोऽपि स्वधर्माचारं न परित्यज, परैः सह विवादं मा कुरु, सर्वभूतेषु दया ( ण) कार्य्या, परमेश्वरे भक्तिः ( त) विधेया, परस्त्री नावलोकनीया, बलवद्विरोधं मा कुरु, मर्मज्ञेषु अनुवृत्तिः (थ) विधेया, प्रस्तावसदृशं (द) व्यक्तव्यं, स्ववित्तानुसारेण व्ययः करणीयः, सज्जनाः सेवनीयाः, दुर्जनाः परिहर्तव्याः, अपराधिषु क्षमा (ध) कर्त्तव्या, स्त्रीणां गुह्यं (न) न वक्तव्यम् । एवमनेकधा ( प) पुत्राय हितमुपदिश्य श्लोकमिममपठत्-
भोगा न भुक्ता वयमेव भुक्ताः
तपो न तप्तं वयमेव तप्ताः ।
कालो न यातो वयमेव याताः
तृष्णा न जीर्णा वयमेव जीर्णाः ।। १०४ ।।
अतः परिणतवयसि परिणामसुखावहं किमस्ति चिन्तनीयमभीष्टदेवमृते? तत् पुनः गङ्गासलिलपवित्रीकृते तीर्थक्षेत्रे (फ) एव शोभते; तत् इदानीं तीर्थं गन्तुमभिलषामि इत्युक्त्वा च वाराणसीं जगाम ।
देवदत्तोऽपि पितुरुपदेशं परिपालयन् तत्रैव नगरे स्थितः । एकदा होमसमिधाहरणार्थं महारण्यं प्रविष्टो यावत् समिधः ( ब) छिनत्ति, तावद्विक्रमार्को राजा मृगयार्थं वनं गतः, शूकरमनुधावन् ( भ) महारण्यं प्रविष्टः, पुरः मार्गम् अजानन् ( म) देवदत्तं दृष्ट्वा नगरमार्गमपृच्छत् । तेन पृष्टो देवदत्तः स्वयमग्रे गच्छन् राजानं नगरमानयत् । ततो राजा - देवदत्तं बहुधा सम्मान्य, कस्मिंश्चिद्व्यापारे ( य) नियुक्तवान् । तदनन्तरं कालो महान् गतः ।
एकदा राज्ञा भणितं-कथमहं देवदत्तकृतोपकारादुत्तीर्णः (र) भविष्यामि ? यदनेन महतोऽरण्यमध्यात् ग्राममानीतः।
तद्राज्ञवचनं श्रुत्वा देवदत्तेन स्वमनसि विचारित- अहो! सत्पुरुषः अयं कृतमुपकारं न विस्मरति । तदुक्तं-
प्रथमवयसि तोयं पीतमल्पं स्मरन्तः
शिरसि निहितभारा नारिकेलीफलानाम् ।
उदकममृतकल्पं दद्युराजीवनान्तं
न हि कृतमुपकारं साधवो विस्मरन्ति ।। १०५ ।।
भवतु तावत् राजा एव यत् वदति, तत्सत्यं वा, मिथ्या वा, अस्य प्रत्ययो द्रष्टव्यः इति विचिन्त्य, राजकुमारं केनाप्यविदितं (ल) स्वमन्दिरे मङ्गोप्य तस्यालङ्कारं (व) भृत्यहस्ते दत्त्वा, नगरमध्ये विक्रयार्थं प्रेषितवान् ।
तस्मिन् अवसरे राजमन्दिरे (श) राजपुत्रः केनापि चोरेण अपहृतः इति महान् कोलाहलो जातः । राज्ञाऽपि स्वपुत्रमार्गणाय सर्वेऽधिकारिणः प्रेषिताः (ष) । ततस्ते यावद्विपणिमध्ये (स) विलोकयन्ति, तावदाभरणहस्तो देवदत्तभृत्यो दृष्टः । ततस्तदाभरणं राजकुमारस्येति ज्ञात्वा तं बद्ध्वा (ह) राजसकाशं निन्युः । पश्चात् भृत्याः कथयन्ति स्म,- रे पापाचार! कथमेतदाभरणं तव हस्ते समागतम् ? तेनोक्तं,- मम हस्ते देवदत्तेन ब्राह्मणेन दत्तं, तस्याहं भृत्यः इति, विपणिमध्ये एतदाभरणविक्रयेण धनमानय इति कथितञ्च ।
ततो राज्ञा देवदत्त आकारितः, भणितश्चः- भो देवदत्त! एतदाभरण तव हस्ते केन दत्तम् ?
देवदत्तेनोक्तं,- न केनाऽपि दत्तम् अहमेव धनलोलुपः (क) तव कुमारं हत्वा, तदाभरणानि सर्व्वाणि गृहीत्वा, तन्मध्ये इदमेकमाभरणमस्य हस्ते विक्रेतुं दत्तवान् । इदानीं तुभ्यं यद्रोचते, (ख) तत् कुरु । मम कर्म्मवशादेवंविधा ( ग) बुद्धिरभूत् इति भणित्वा अधोमुखो बभूव ।
तद्वचनं श्रुत्वा राजा तूष्णीमवस्थितः ।
तदा सभामध्ये कैश्चिदुक्तम्,- अहो! अयं सवधर्म्मशास्त्रवेत्ताऽपि कथमीदृशे पापकर्मणि बुद्धिमकरोत् ? अन्येनोक्तं,---किं चित्रम् । स्वकर्मणा प्रेरितस्यैवं बुद्धिर्जाता । उक्तञ्च,-.
किं करोति नरः प्राञ्चः प्रेर्य्यमाणः स्वकर्मणा ।
प्रायेण हि मनुष्याणां बुद्धिः कर्मानुसारिणी ।। १०६ ।।
तत्र सभ्यैर्भणितं,- भो राजन्! अयं बालघाती, पुनः स्वर्णस्तेयी ( घ) च, अतः खादिरेण शूलेन हन्तव्यः । ततः अन्यैर्मन्त्रिभिरुक्तम्,- अमुं शतखण्डं कृत्वा अस्य मांसेन गृध्राणां बलिः ( ङ) दातव्यः इति ।
तेषां वचनं श्रुत्वा राज्ञा भणितं भोः सभ्याः! अयं ममाश्रितः, पुरा मार्गदर्शनादुपकारी च । अतः सत्पुरुषेण आश्रितानां गुणदोषचिन्ता न कार्य्या । तथा चोक्तम्,-
चन्द्रः क्षयी प्रकृतिवक्रततनुर्जडात्मा
दोषाकरो भवति मित्रविपत्तिकाले ।
मूर्द्ध्ना तथाऽपि विधृतः परमेश्वरेण
नैवाश्रितेषु महतां गुणदोषचिन्ता ।। १०७ ।।
अन्यच्च,-
उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ।
अपकारिषु यः साधुः स साधुः सद्भिरुच्यते ।। १०८ ।।
इत्युक्त्वा देवदत्तं प्रति भणति स्म,- भो देवदत्त! त्वं चेतसि किमपि भयं मा कार्षीः । मम पुत्रो बलीयसा प्राकृतेन ( च ) कर्म्मणा मारितः, त्वया किं कृतम् ? यतः, प्राकृतं कर्म्म कोऽपि लङ्घयितुं न शक्नोति । तथा चोक्तम्,-
माता लक्ष्मीः पिता विष्णुः स्वयञ्च विषमायुधः ।
तथापि शम्भुना दग्धः प्राकृतं केन लङ्घ्यते ।। १०९ ।।
अन्यच्च,-महारण्ये पतितं मां नगरं नीतवतो महोपकारिणः तव प्रत्युपकारसहस्रैरप्युत्तीर्णो न भवामि इति समाश्वास्य, वस्त्राभरणादिना देवदत्तं सम्भाव्य विससर्ज ।
ततः देवदत्तः तं ( छ) कुमारमानीय राज्ञे ददौ । ततः सविस्मयेन राज्ञा भणितं,--किमिदम्! । इति ।
देवदत्तेन उक्तं,- कृतोपकारात् कथमपि उत्तीर्णो न भवामीति पूर्वं श्रीमतोक्तम् । तद्भवतः स्वभावपरीक्षणार्थं मया एवं कृतम् । भवति प्रत्ययः ( ज) दृष्टश्च ।
राज्ञोक्तं- यः कृतमुपकारं विस्मरति, स पुरुषाधम एव ।
देवदत्तेनोक्तं,- भो राजन्! कारणं विनाऽपि सकलजगदुपकारो भवान् । अतस्त्वमेव सुजनो लोके । तथा चोक्तम्,-
सुजनाः सुधनास्ते हि कृतिनः सुखिनस्तथा ।
जन्तवो ये हि जीवन्ति परस्य हितकाम्यया ।। ११० ।।
इति कथां कथयित्वा पुत्तलिका राजानमवदत्,- एवं परोपकार्य्यौदार्य्याणि विद्यन्ते चेत् त्वयि, तर्हि अस्मिन् सिंहासने समुपविश । भोजराजः तूष्णीमासीत् ।
इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सराभोजसंवादे कृतज्ञतापरीक्षणं नाम चतुर्थोपाख्यानम् ।। ४ ।।