द्वात्रिंशत्पुत्तलिकासिंहासनम्/०१

विकिस्रोतः तः
Jump to navigation Jump to search

अथ मङ्गलाचरणम् । चतुर्मुखमुखाम्भोजवनहंसवधूर्मम ।

मानसे रमतां नित्यं सर्वशुक्ला सरस्वती ।। १ ।।

श्रीपुराणपुरुषं पुरातनं पद्मसम्भवमुमासुतं मया ।

सुप्रणम्य सुभगां सरस्वतीं विक्रमार्कचरितं विरच्यते ।। २४


अथ अवतरणिका -

श्रीकैलासशैलशिखरे समासीनं परमेश्वरं जगदम्बिका समवदत्

'काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।

व्यसनेन तु मूर्खाणां निद्रया कलहेन वा ।। ३ ।।

अतः कालापनयनार्थं कापि सकललोकचित्तचमत्- कारिणी कथा कथनीया- इति । ततः परमेश्वरः पार्व्वतीं प्रति आह,-भोः प्राणेश्वरि! श्रूयता,-सकलहृदयहारिणी कथा मया कथ्यते ।-

[ इति अवतरणिका] ।

अथ भर्त्तृहरेः वैराग्यकथा । - -अस्ति समस्तवस्तुविस्मितदेवा ( क) गुणपराभूतपुरन्दर- निवासा (ख) उज्जयिनी नाम नगरी ।

तत्र सामन्तसीमन्तिनी- सीमन्तसिन्दुरारुणितचरणकमलयुगलो ( ग) भर्त्तृहरिर्नाम राजाऽभूत् ।

सकलकलाप्रवीणः, समस्तशास्त्राभिज्ञश्च,(घ) तस्यानुजो विक्रमादित्यनामा स्वविक्रमपरिहतवैरिविक्रमोऽभूत् (ङ) ।

तस्य भ्रातुर्भर्तृहरेर्भार्य्या रूपलावण्यादिगुणविनिर्जितसुराङ्ना (च) अनङ्गसेना नामाभूत् ।

तस्मिन् नगरे ब्राह्मणः कश्चित् सकलशास्त्रविचक्षणः, विशेषतो मन्त्रशास्त्रवित, परं दरिद्रो मन्त्रानुष्ठानेन भुवनेश्वरीमतोषयत् ।

तुष्टा सा ब्राह्मणमवादीत्,-भो ब्राह्मण! तव मन्त्रा- नुष्ठानेन भक्त्या च प्रसन्नाऽस्मि, वरं वृणीष्व' ।

ब्राह्मणेनोक्तं,-' यदि मे प्रमन्नाऽसि, तर्हि मां जरामरणवर्जितं कुरुष्व इति ।

ततो देव्या दिव्यमेकं फलं दत्तं, भणितञ्च,-भोः पुत्र! फलं भक्षय, जरामरणरहितो भविष्यसि इति ।

तदा ब्राह्मणस्तत् फलं गृहीत्वा, भवनं प्रत्यागत्य देवतार्च्चनादिकं विधाय, यावत् फलं भक्षयति, तावत् मनस्येवं बुद्धिरभूत् ।-'

'किमिति ( छ) अहं तावद्दरिद्रः, अमरो भूत्वा कस्योपकारं करिष्यामि? परं बहुकालं जीविनाऽपि भिक्षाऽटनमेव कार्य्यम्; अतः परोपकारिणः पुरुषस्य एतत् फलं श्रेयसे भवति; यतः,- यस्तु विज्ञानविभवादिगुणैर्युक्तः क्षणमपि जीवति, तस्यैव जीवितं सफलं भवति । तथा चोक्तम्,-

यत् जीवति क्षणमपि प्रथितो मनुष्यो

विज्ञान शौर्य्य-विभवादिगुणैः समेतः ।

तत् तस्य जीवितमिह प्रवदन्ति सन्तः

काकोऽपि जीवति चिरञ्च बलिञ्च भुङ्क्ते ।। ४ ।।

यज्जीव्यते यशोधर्म्म-सहितं तद्धि जीवितम् ।

बलिं कवलयन् क्लिश्यन् चिरञ्जीवति वायसः ।। ५ ।।

अपिच ।-

यस्मिन् जीवति जीवन्ति बहवः स तु जीवति ।

वयांसि किं न कुर्वन्ति चञ्च्वा स्वोदरपूरणम्? ।। ६ ।।

किञ्च ।-

क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारपूर्णोदराः

स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।

दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं बाडवो

जीमूतस्तु निदाघसंहृतजगत्सन्तापविच्छित्तये' ।। ७ ।।

इति विचार्य्य, 'एतत फलं राज्ञे दीयते चेत्, स राजा जरामरणवर्जितो भूत्वा सर्वोपकारकर्त्ता भविष्यति' इति सञ्चिन्त्य, तत् फलं गृहीत्वा राजसमीपमागत्य,-

अहीनां मालिकां बिभ्रत् तथा पीताम्बरं दधत् ।

हरो हरिश्च भूपाल! करोतु तव मङ्गलम्' ।। ८ ।।

इत्याशीर्वादपूर्व्वकं राजहस्ते फलं दत्त्वाऽब्रवीत्, भो राजन्! देवतावरप्रसादलब्धम् ( ज) इदमपूर्व्वफलं भक्षय; जरामरणवर्जितो भविष्यसि ।

राजा च तत्फलं गृहीत्वा, तस्मै बहून् अग्रहारान् ( झ) दत्त्वा विसृज्य, विचारयति स्म,- अहो! ममैतत्फलभक्षणादमरत्वं भविष्यति । मम अनङ्गसेनायाम् अतीव प्रीतिः, सा मयि जीवत्येव मरिष्यति, तदा तस्या वियोगदुःखं सोढुं न शक्नोमि । तस्मादिदं फलं मम प्राणप्रियायै अनङ्गसेनायै दास्यामि, इत्यनङ्गसेनाम् आहूय दत्तवान् ।

तस्या अनङ्गसेनायाः कश्चिन्माथुरिको दासः प्रियतमोऽभूत्; सा च विचार्य्य तस्मै फलं ददौ । तस्य माथुरिकस्य काचित् दासी प्रियतमाऽऽसीत्, तस्यै स प्रादात्; तस्या अपि कस्मिंश्चिद्गोपालके प्रीतिः, सा तस्मै दत्तवती; तस्याऽपि कस्याञ्चिद् गोमयधारिण्यां प्रीतिः, सोऽपि तस्यै प्रायच्छत् । ततः सा गोमयधारिणी ग्रामाद्बहिर्गोमयं धृत्वा, गोमय भाजनं शिरसि निधाय, तदुपरि तत् फलं निक्षिप्य, यावद्राज- वीथ्यामागच्छति, तावद्राजा भर्तृहरिः राजकुमारैः सह विहारार्थं बहिर्गतः । तं दृष्ट्वा अप्रार्थितयाऽपि तया तस्मै सानन्दं तत्फलं स्वयमर्पितम्; राजाऽपि तदादाय सत्वरं गृहमागतः । ततो ब्राह्मणमाकार्य्य ( ञ) अवादीत-भो ब्राह्मण! त्वया यत् फलं दत्तं, तादृशमन्यत् फलं सत्यं न लभ्यते किम् १ ब्राह्मणेनोक्तं,-भो राजन्! तत् फलं देवतावरप्रसादलभ्यं दिव्यम्; तादृशमन्यत् नास्ति । राजा तु साक्षादीश्वरः, तस्याग्रे अनृतं न वाच्यम्; स देवतेव निरीक्षणीयः । तथा चोक्तम्,-

सर्वदेवमयो राजा ऋषिभिः परिकीर्त्तितः ।

तस्मात् तं देववत् पश्यन् अलीकं न वदेत् सुधीः, ।। ९।।

ततो राज्ञा भणितं,-तादृशं फलं दर्शयति काचित्, तत्कथं सम्भवति ? ब्राह्मणोऽब्रवीत-तत् फलं भक्षितं वा, न वा ? राजाऽभणत्,-न मया भक्षितम्; मम प्राणवल्लभायै अनङ्गसेनायै दत्तम् । ब्राह्मणेनोक्तं,-'तां पृच्छतु, तत् फलं किं कृतम्' इति ।

ततो राजा तामाकार्य्य, 'तत् फलं किं कृतम्' इति शपथं कारयित्वाऽपृच्छत् । तयोक्तं,-- 'माथुरिकाय दत्तम्' इति । ततः स आकारितः ( ट) पृष्टः, 'दास्यै दत्तम्' इति अकथ- यत; दासी गोपालकाय, गोपालकः गोमयधारिण्यै । ततो राजा च प्रलप्य परमविषादं गत्वा इमौ श्लोकौ अपठत्,-

'यां चिन्तयामि सततं मयि सा विरक्ता

सा चान्यमिच्छति जनं स जनोऽन्यसक्तः ।

अस्मत्कृतेऽपि परितुष्यति काचिदन्या

धिक् ताञ्च तञ्च मदनञ्च इमाञ्च माञ्च ।। १० ।।

रूपे मनोहारिणि यौवने च वृथैव पुंसामभिमानवृद्धिः ।

नतभ्रुवां चेतसि चित्तजन्मा प्रभुर्यदेवेच्छति तत् करोति।।। ११।।

अहो! स्त्रीचित्तं केनाऽपि हर्त्तुं न शक्यते । तथा चोक्तम्,-

अश्वप्लुतं माधवगर्जितञ्च स्त्रीणां चरित्रं पुरुषस्य भाग्यम् ।

अवर्षणं चाप्यतिवर्षणञ्च देवो न जानाति कुतो मनुष्यः? ।। १ २।।

गृह्णन्ति विपिने व्याधा विहङ्गं चलितस्थितम् ।

सरिद्धृतवती नावं न स्त्रीणां चपलां गतिम् ।। १३ ।।

किञ्च-

वन्ध्यापुत्रस्य राज्यश्रीः पुष्पश्रीर्गगनस्य च ।

स्याद् देवात् न तु नारीणां मनःशुद्धिर्मनागपि ।।१४ ।।

अपि च ।-

सुखदुःखजिता ये चि जीवन्ति योगिनः सदा ।

नूनं तेऽपि हि मुह्यन्ति न स्त्रीणां चेष्टितं विदुः ।। १५ ।।

अन्यञ्च-

स्मरोत्सर्गमनुप्राप्य वाच्छन्ति पुरुषान्तरम् ।

नार्य्यः सर्व्वाः स्वभावेन वदन्तीत्यमलाशयाः ।। १६ ।।

तथा,--

विनाऽ( ? )नेन मन्त्रेण तन्त्रेण विनयेन च ।

वञ्चयन्ति नरं नार्य्यः प्रज्ञाधनमपि क्षणात् ।। १७ ।।

कुलजातिपरिभ्रष्टं निकृष्टं दुष्टचेष्टितम् ।

अस्पृश्यं रमणप्राप्तं मन्ये स्त्रीणां प्रियं नरम् ।। १८ ।।

गौरवेषु प्रतिष्ठासु गुणेषु साधुसंसदि ।

धृता अपि विसृज्यन्ते दोषपङ्के स्वयं स्त्रियः ।। १९ ।।

एता हसन्ति च रुदन्ति च वित्तहेतो-

र्विश्वासयन्ति च नरान् न तु विश्वसन्ति ।

तस्मान्नरेण कृलशीलवता सदैव

नार्य्यः श्मशानसुमना इव वर्जनीयाः ।। २० ।।

न वैराग्यात् परं भाग्यं न बोधात् परमः सखा ।

न हरेरपरस्त्राता न संसारात् परो रिपुः ।। २१ ।।

इति एतानि च पद्यानि पठित्वा, परमं वैराग्यं गतः, विक्रमार्कं राज्ये अभिषिच्य स्वयं वनं जगाम ।

इति भर्तृहरिवैराग्यकथा ।


अग्रिमपुटम्