द्वात्रिंशत्पुत्तलिकासिंहासनम्/०२

विकिस्रोतः तः
Jump to navigation Jump to search

अथ विक्रमादित्यस्य सिंहासनप्राप्तिकथा

ततः राजा विक्रमादित्यः देवब्राह्मणाऽनाथ-दीनार्त्त कुब्ज- पङ्ग्वादीनां मनोरथान् पूरयन् प्रजाः सम्यगपालयत् । परिचारकादीनां सन्तोषमुत्पादयन् मन्त्रि-सामन्तादीनां वचन- परिपालनेन च मनोऽहरत् । एवं सकलानुरञ्जनेन राजा राज्यं करोति स्म ।

ततः एकदा कश्चिद्दिगम्बरः (ठ) राजसमीपमागत्य-

लीलया मण्डलीकृत्य भुजङ्गान् धारयन् हरः ।

देयाद्देवो वराहश्च तुभ्यमभ्यधिकां श्रियम् ।। २२।।

इति आशीर्वादपूर्व्वकं राज्ञा हस्ते फलं दत्त्वा अब्रवीत्,- भो राजन्! अहं कृष्णचतुर्दश्यां महाश्मशाने अघोरमन्त्रेण हवनं (ड) करिष्यामि; तत्र त्वया उत्तरसाधकेन ( ढ) भवितव्यम्; राज्ञा च प्रतिज्ञातम् । तस्य तेन प्रसङ्गेन राज्ञो वेतालः प्रसन्नो जातः, अष्टौ महासिद्धयश्च (ण) प्राप्ताः । भूतले विक्रमस्य सादृश्यं न कोऽपि बभार । त्रिभुवने अस्य कीर्त्तिरनर्गला ( त) गङ्गेव प्रवहति स्म ।

अत्रान्तरे सुरलोके देवेन्द्रो विश्वामित्र-तपःशङ्कितः रम्भामुर्वशीञ्च आहूय अवादीत्,-भवत्योर्मध्ये नृत्ये गीते या चातिप्रवीणा, सा विश्वामित्र-तपोभङ्ग-करणाय तत् तपोवनं गच्छतु; या विश्वामित्र-तपोविनाशिनी, तस्यै पारितोषिकम् अहं दास्यामि ।

इत्येतद् वचः श्रुत्वा रम्भया भणितम्,- अहं नृत्ये प्रवीणा । उर्व्वश्या भणितं,-देव!. यथा- शास्त्रदृष्टं नृत्यं जानामि इति ।

तयोर्विवादे जाते, निर्णयार्थं देवसभा समाहूता आसीत् । प्रथमं रम्भानृत्यमभवत्; द्वितीय- दिवसे उर्व्वश्या नृत्यमभूत् । ततः सर्वोऽपि देवगणः उभयोर्नृत्यं दृष्ट्वा सन्तोषमगमत् । 'इयमत्यन्त नृत्ये कुशला इति न कश्चित् निर्णयं चकार । तस्मिन्नवसरे नारदेनोक्तं,-भो देवराज! भूतले विक्रमादित्योऽस्ति, स सकलकलाऽभिज्ञः, विशेषतः सङ्गीतनृत्यविद्याविचक्षणः । स एवैतयोर्विवादनिर्णयं करिष्यति इति ।

ततो महेन्द्रेण विक्रमादित्याह्वानार्थम् उज्जयिनीं प्रति मातलिः ( थ) प्रेषितः । ततो विक्रमस्तेनाहूतोपस्थितः, नमस्कृत्य सम्मानपूर्व्वकमुपवेशितः । तदनन्तरं पुनरपि नृत्यावसरो मण्डितः (द) । प्रथमं रम्भा रङ्गे स्थिता नृत्यमकरोत् । द्वितीय दिवसे उर्व्वशी रङ्गमधिष्ठिता यथाशास्त्रं नृत्यमकार्षीत् ।

ततः विक्रमादित्येन उर्व्वशी प्रशंसिता, जयोऽपि दत्तः ।

इन्द्रेण भणितं,-कथमस्यै जयो दत्तः ?।

विक्रमेण भणितं-देव! नृत्ये प्रथममङ्गसौष्ठवं प्रधानम् । तथा चोक्तं नृत्यशास्त्रे,-

अनुच्चनीचं चरताम् अङ्गानां चलपादता ।

कटिकूर्परशीर्षाक्षि कर्णानां समरूपता ।। २३ ।।

रम्या प्रथितविश्रान्तिरुरसश्च समुन्नतिः ।

अभ्यासागर्हितः पादः सौष्ठवं नृत्यवेदिनाम् ।। २४ ।।

अन्यच्च,-नर्त्तक्या रङ्गोचिताऽवस्थानविशेषः ( ध) प्रकाशनीयः'। उक्तश्चावस्थानविशेषो नृत्यशास्त्रे,-

चतुरश्रत्वसहितौ समपादौ लताकरौ ।

प्रारम्भे सर्व्यनृत्यानामेतत् सामान्यमुच्यते ।

यथा ह्यन्यैर्नैव दृश्यं तथा ह्यस्या वपुर्भवेत् ।। २५ ।।

दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः

संक्षिप्तं निविडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव ।

मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली

छन्दो नर्त्तयितुर्यथैव मनसः श्लिष्टं तथा स्वं वपुः ।। २६ ।।

नृत्यावस्थानविशेषः स्मरणीयः,-

वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे

कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् ।

पादाङ्गुष्ठाऽऽलुलितकुसुमे कुट्टिमे पातिताक्षं

नृत्यादु वामा स्थगयतितरां कान्तिभृत् पादयुग्मम् ।।२७।।

किं बहुनोक्तेन १-'

अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः

पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु ।

शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ

भावो भावं नुदति विषयाद्रागबन्धः स एव ।। २८ ।।

एवं नृत्यशास्त्रोक्तलक्षणयुक्ता नर्त्तकी प्रशंसिता मयोर्वशी

ततो महेन्द्रः सन्तुष्टः सन्, विकमार्कं वस्त्रादिना सम्भाव्य महार्घं वररत्नखचितं (न) सिंहासनं तस्मै ददौ ।

तत्सिंहासने खचिता द्वात्रिंशत् पुत्तलिकाः सन्ति ।

तासां शिरसि पदं दत्त्वा तत् सिंहासनमध्यासितव्यम् (प) ।

तदतिमनोहरं सिंहासनमिन्द्राज्ञाञ्च गृहीत्वा, विक्रमार्को निजां पुरीमगमत् ।

तदनन्तरं शुभे मुहूर्ते शुभे लग्ने सिंहासनमधिष्ठाय राज्यं करोति स्म ।

इति सिंहासनप्राप्तिकथा ।

अथ विक्रमादित्यमहाप्रयाणम्

ततोऽनन्तरं वर्षेषु बहुषु गतेषु, प्रतिष्ठाननगरे शालिवाहनः सार्द्धवर्षद्दयकन्यायां शेषनागेन्द्रादुत्पन्नः ।

उज्जयिन्यां भूकम्प- धूमकेतु दिग्दाहाद्युत्पाताः राज्ञा जनैश्च दृष्टाः ।

ततो विक्रमादित्यो दैवज्ञान् आहूय अवादीत्,-भो दैवज्ञाः! किमेतदुत्पाताः राज्ञा जनैश्च प्रतिदिनं दृष्टाः भवन्ति? एतेषां फलं किम्? कस्य अनिष्टं कथयन्ति ?

तैरुक्तं,-देव! अयं भूकम्पः सन्ध्याकाले जातः; अतः राज्ञोऽनिष्टं सूचयति । तथा च नारदीये,-

अनिष्टदः क्षितीशानां भूकम्पः सन्धयोर्द्वयोः ।

राज्ञां विनाशपिशुनो धूमकेतुरुदाहृतः ।

दिग्दाहः पीतवर्णश्चेत् क्षितीशानां भयप्रदः ।। २९ ।।

इति दैवज्ञवचनं श्रुत्वा, राजा तु पुनरब्रवीत्,- भो दैवज्ञ! मया तपसा सन्तोषित ईश्वरः प्राह,-भो राजन्! प्रसन्नोऽस्मि, पर्य्यायेण ( फ) अमरत्वं याचस्व इति ।

तदा मया भणितं-भो देव! सार्द्धवर्षद्वयकन्यायां पुत्रो यदि भविष्यति, तस्मात् मम मरणमस्तु, नान्येन । ईश्वरेण 'तथा- ऽस्तु' इति भणितम् ।

तर्हि तादृशं कुतो जनयिष्यति ?

दैवज्ञै रुक्तं,--देव! दैवी सृष्टिरचिन्त्या, तादृशः कस्मिन्नपि देशे उत्पन्नो भविष्यति; तथा च द्रक्ष्यसि ।

ततो राजा वेतालमाहूयैतत् सर्व्वं तस्मै निवेद्याऽब्रवीत्,- भो यक्ष! त्वं सर्व्वत्र पृध्वीमध्ये परिभ्रमन्नेवंविधः कस्मिन् देशे कस्मिन् नगरे समुत्पन्न इति निश्चित्य स्थानं ज्ञात्वा, झटिति समागच्छ।

ततो वेतालो महाप्रसाद इति वीटिकां(ब) गृहीत्वा, कुशद्वीपादिद्वीपानालोक्य जम्बूद्वीपं प्रत्यागत्य, प्रतिष्ठाननगरं प्रविश्य कुम्भकारगेहे कञ्चिन्माणवकं ( भ) काञ्चन कन्यकां क्रीडमानां दृष्ट्वा अपृच्छत,- अहो! युवां परस्परं किं प्रभवतम् ?(म) तदा कन्ययोक्तम्,-अयं मम पुत्रः। वेताले- नोक्तं,- तव पिता कः ? तदा कोऽपि ब्राह्मणो दर्शितः ।

ततो वेतालः ब्राह्मणमपृच्छत्-केयम् ? इति ।

ब्राह्मणेनोक्तम् - इयं मम कन्या, अस्याः पुत्रोऽयम् ।

तच्छ्रुत्वा विस्मयं गतो वेतालः पुनर्ब्राह्मणमब्रवीत्,-भो ब्राह्मण! कथमेतत् ?

ब्राह्मणेनोक्तं,-देवानां चरितमगोचरम् ( य); अस्यां शेषनागेन्द्रः सङ्गममकरोत् तस्मादस्यां जातः पुत्रोऽयं शालिवाहनः इति ।

तच्छ्रुत्वा वेतालः सत्वरम् उज्जयिनीम् आगत्य, राज्ञ विक्रमादित्याय सर्व्वमपि वृत्तान्तमकथयत् । राजा तस्मै पारितोषिकं दत्त्वा खड्गमादाय प्रतिष्ठाननगरं गतः; यावत् खड्गेन शालिवाहनं हन्तुं प्रवृत्तः, तावत् तेन दण्डेन ताडितः प्रतिष्ठान- नगरादुज्जयिन्यां पतितः, वेदनामसहमानः शरीरं विससर्ज ।

इति विक्रमादित्यमहाप्रयाणम् । अथ सिंहासननिक्षेपणम्

अथ तस्य राज्ञः सर्वाः स्त्रियोऽग्निप्रवेशं कर्त्तुं प्रवृत्ताः । तदा मन्त्रिभिविचारितं,- राजा अयमपुत्रः, किं कर्तव्यम् ?

भट्टिना ( र) उक्तं विचार्य्यताम्; आसां स्त्रीणां मध्ये काचिद् यदि गर्भिणी भवेत्। ?

ततो विचार्य्यमाणे, एका सप्तमासगर्भिणी निश्चिता समभवत् । तदा सर्व्वैर्मन्त्रिभिर्मिलित्वा गर्भाभिषेकः कारितः ( ल); मन्त्रिणस्तु स्वयं राज्यं पालयितुं प्रवृत्ताः । तदिन्द्रदत्तं सिंहासनं तथैव शून्यमासीत् ।

एकदा सभामध्ये अशरीरिणी वाक् ( व) आसीत्,- भो मन्त्रिणः! यः स्वयं राज्यं पालयितुमेतस्मिन् सिंहासने उपवेष्टुञ्च योग्यः, तादृशो राजा नास्ति; तर्हि सुक्षेत्रे निक्षिप्यतामिदं सिंहासनम्' ।

तच्छ्रुत्वा सर्व्वैर्मन्त्रिभिरतिपवित्रक्षेत्रे तत् सिंहासनं निक्षिप्तम् । निक्षेपानन्तरं बहूनि वर्षशतानि गतानि ।

इति सिंहासननिक्षेपणम् ।

अथ भोजराजस्य सिंहासनोद्धारकथा

अथ काले भोजराजः राज्यं प्राप । तस्मिन् राज्यं कुर्व्वति, एकदा कश्चिद् ब्राह्मणो यत्र सिंहासनं निक्षिप्तं, तत् क्षेत्रं कृष्ट्वा यवादीनवपत् । तस्मिन् क्षेत्रे महत् फलमभूत् । स ब्राह्मणः यत्र तत् सिंहासनं निक्षिप्तं तदुच्चस्थानमिति मत्वा, पक्षिणाम् उत्थापनार्थं ( श) तदुपरि मञ्चं कृत्वोपविश्य पक्षिण उत्थापयति ।

ततः एकदा भोजराजो विहारं कर्त्तुं सकलराजकुमारैः समवेतस्तत्क्षेत्रसमीपं यावद्गच्छति, तावन्मञ्चोपरिस्थितेन ब्राह्मणेनोक्तं-भो राजन्! एतत क्षेत्रं सम्यक् फलित- मस्ति, ससैन्यः समागत्य यथेच्छं भुज्यताम्; अश्वेभ्यश्चणका (ष) दीयन्ताम् । अद्य मज्जन्म सफलमभूत्, यतो भवान् ममातिथि- र्जातः; ईदृशः प्रस्तावः कदा सम्पद्यते ?'

तच्छ्रुत्वा स राजा ससैन्यः क्षेत्रमध्ये प्रविष्टः । अथ ब्राह्मणोऽपि मञ्चकादवरुह्य राजानं क्षेत्रमध्ये स्थितं भणति,-भो राजन्! किमयमधर्म्मः क्रियते । इदं ब्राह्मणक्षेत्रं विनाश्यते त्वया? जनैः यदि अन्यायः क्रियते, प्रतीकारार्थं तुभ्यं निवेद्यते, त्वमेवान्यायं कर्त्तुं प्रवृत्तः !। इदानीं को वा निवारयिष्यति? उक्तञ्च,-

गजे कण्डूगरिष्ठे च राज्ञि हारिणि वा पुनः ।

पापकृत्सु च विद्वत्सु नियन्ता जन्तुरत्र कः ? ।। ३० ।।

भवान् धर्म्मशास्त्राभिज्ञश्च, ब्राह्मणद्रव्यं कथं नाशयति? ब्रह्मस्वमेतद् विषम् । तथाहि,-

न विषं विषमित्याहुः ब्रह्मस्वं विषमुच्यते ।

विषमेकाकिनं हन्ति व्रह्मस्वं पुत्रपौत्रकम्- ।। ३१ ।।

इति तेनोक्तं श्रुत्वा राजा यावत् क्षेत्राद्बहिः सपरिवारो निर्गच्छति, तावत् पक्षिणः समुत्थाप्य पुनः मञ्चमारूढो ब्राह्मणो वदति,- भो राजन्! किमिति गम्यते? क्षेत्रं साधु फलित- मस्ति, यावनालकदण्डान् (स) अश्वादयो भक्षयन्तु, उर्वारुक, फलानि ( ह) सन्ति, उपभुज्यन्ताम्' ।

पुनर्ब्राह्मणवचनमाकर्ण्य सपरिवारो राजा यावत् क्षेत्रमध्ये प्रविशति, तावत् पक्ष्युत्थापनार्थं मञ्चादवरुह्य स पुनस्तथैव अभणत् ।

ततो राजा स्वमनसि विचारयतिः-अहो आश्चर्य्यम्! यदा अयं ब्राह्मणो मञ्चमारोहति, तदाऽस्य चेतसि दातव्यं , भोक्तव्यम् इति बुद्धिरुत्पद्यते, यदा अवतरति, तदा दीनबुद्धिर्भवति । तदहं मञ्चमारुह्य पश्यामि' इति मञ्चमारुरोह ।

भोजराजस्य चेतसि तदा वासना एवमभूत- विश्वस्यार्त्तिः परिहरणीया, सर्व्वस्य लोकस्याऽपि दरिद्र्यं सम्यक् निवारणीयं, दुष्टा दण्डनीया, सज्जनाः पालनीयाः, प्रजा धर्मेण पालनीयाः, किं बहुना, अस्मिन् समये यदि कश्चिच्छरीरमपि प्रार्थयिष्यते, तदपि देयम् इति आनन्दपरिपूर्णः पुन- र्विचारयति-अहो! एतत् क्षेत्रमस्य एवंविधां बुद्धिमुत्पादयति । उक्तञ्च,-

जले तैलं खले गुह्यं पात्रे दानं मनागपि ।

प्राज्ञे शास्त्रं स्वयं याति विस्तारं वस्तुशक्तितः ।। ३२ ।।

कथमेतत्क्षेत्रस्य माहात्म्यं ज्ञायते ? - इति विचार्य्य ब्राह्मणमाहूय अवादीत्,- भो ब्राह्मण , तवैतस्मात् क्षेत्रात् कियल्लाभो भवति? अहमेतत् क्षेत्रं क्रेतुमिच्छामि ।

ब्राह्मणे- नोक्तं,- भो राजन्! सकलकुशलेन त्वया अविदितं किमपि नास्ति, यदर्हति तत् करोतु । राजा नाम साक्षाद्विष्णोरवतारभूतः, तत्ते दृष्टिर्यस्योपरि पतति, तस्य दैन्यदुर्भिक्षादयो नश्यन्ति । राजा हि साक्षात् कल्पवृक्षः, ( क) स त्वं मम दृष्टेर्गोचरोऽभूः, अद्य मम दैन्यदारिद्र्यादीनामवसानं जातम्; . क्षेत्रं कियत् ?

ततो राजा ब्राह्मणं धनधान्यादिना परितोष्य, तत् क्षेत्रं गृहीत्वा मञ्चकाधः खानयितुं प्रारम्भमकार्षीत् । पुरुषप्रमाणे गर्ते जाते, शिलैका सुमनोहरा अवलोकिता । तदधः चन्द्र- कान्तशिलाविनिर्मितं, नानारत्नखचितं, द्वात्रिंशषत्पुत्तलिकाभि र्युक्तम, अतिरमणीयं दिव्यमेकं सिंहासनमपश्यत् ।

तत्सिंहासनं दृष्ट्वा भोजराजः परमानन्दलहरीपरिपूर्णहृदयो (य) भूत्वा सिंहासनं ग्रामं प्रति नेतुं यावदुच्चालयति, तावदधिकं गुरु भवति, नोच्चलति च । ततो मन्त्रिणमवद-भो मन्त्रिन् । किमर्थमेतत् सिंहासनं नोच्चलति ? मन्त्रिणोक्तं राजन् । एतत् सिंहासनं दिव्यमपूर्वञ्च, बलिहोमपूजादिकं विना नोच्चलिष्यति, तव साध्यञ्च न भविष्यति इति ।

तस्य वचनं श्रुत्वा राजा ब्राह्मणान् आहूय, तैः. सर्वमपि विधानं कारितवान् । ततस्तत् सिंहासनं लघु भूत्वा स्वय- मेवोच्चलति स्म ।

इति भोजराजस्य सिंहासनोद्धारकथा । ।


अग्रिमपुटम्