देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०४

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०३ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०४
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०५ →


रुद्राक्षमाहात्म्यवर्णनम्

<poem> नारद उवाच
एवंभूतानुभावोऽयं रुद्राक्षो भवतानघ ।
वर्णितो महतां पूज्यः कारणं तत्र किं वद ॥ १ ॥
श्रीनारायण उवाच
एवमेव पुरा पृष्टो भगवान् गिरिशः प्रभुः ।
षण्मुखेन च रुद्रस्तं यदुवाच शृणुष्व तत् ॥ २ ॥
ईश्वर उवाच
शृणु षण्मुख तत्त्वेन कथयामि समासतः ।
त्रिपुरो नाम दैत्यस्तु पुराऽऽसीत्सर्वदुर्जयः ॥ ३ ॥
जितास्तेन सुराः सर्वे बह्मविष्ण्वादिदेवताः ।
सर्वैस्तु कथिते तस्मिंस्तदाहं त्रिपुरं प्रति ॥ ४ ॥
अचिन्तयं महाशस्त्रमघोराख्यं मनोहरम् ।
सर्वदेवमयं दिव्यं ज्वलन्तं घोररूपि यत् ॥ ५ ॥
त्रिपुरस्य वधार्थाय देवानां तारणाय च ।
सर्वविघ्नोपशमनमघोरास्त्रमचिन्तयम् ॥ ६ ॥
दिव्यवर्षसहस्रं तु चक्षुरुन्मीलितं मया ।
पश्चान्ममाकुलाक्षिभ्यः पतिता जलबिन्दवः ॥ ७ ॥
तत्राश्रुबिन्दुतो जाता महारुद्राक्षवृक्षकाः ।
ममाज्ञया महासेन सर्वेषां हितकाम्यया ॥ ८ ॥
बभूवुस्ते च रुद्राक्षा अष्टत्रिंशत्प्रभेदतः ।
सूर्यनेत्रसमुद्‌भूताः कपिला द्वादश स्मृताः ॥ ९ ॥
सोमनेत्रोत्थिताः श्वेतास्ते षोडशविधाः क्रमात् ।
वह्निनेत्रोद्‍भवाः कृष्णा दश भेदा भवन्ति हि ॥ १० ॥
श्वेतवर्णश्च रुद्राक्षो जातितो ब्राह्म उच्यते ।
क्षात्रो रक्तस्तथा मिश्रो वैश्यः कृष्णस्तु शूद्रकः ॥ ११ ॥
एकवक्त्रः शिवः साक्षाद्ब्रह्महत्यां व्यपोहति ।
द्विवक्त्रो देवदेव्यो स्याद्‌विविधं नाशयेदघम् ॥ १२ ॥
त्रिवक्त्रस्त्वनलः साक्षात्स्त्रीहत्यां दहति क्षणात् ।
चतुर्वक्त्रः स्वयं ब्रह्मा नरहत्यां व्यपोहति ॥ १३ ॥
पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः ।
अभक्ष्यभक्षणोद्‌भूतैरगम्यागमनोद्‍भवैः ॥ १४ ॥
मुच्यते सर्वपापैस्तु पञ्चवक्त्रस्य धारणात् ।
षड्वक्त्रः कार्तिकेयस्तु स धार्यो दक्षिणे करे ॥ १५ ॥
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ।
सप्तवक्त्रो महाभागो ह्यनङ्‌गो नाम नामतः ॥ १६ ॥
तद्धारणान्मुच्यते हि स्वर्णस्तेयादिपातकैः ।
अष्टवक्त्रो महासेन साक्षाद्देवो विनायकः ॥ १७ ॥
अन्तकूटं तूलकूटं स्वर्णकूटं तथैव च ।
दुष्टान्वयस्त्रियं वाथ संस्पृशंश्च गुरुस्त्रियम् ॥ १८ ॥
एवमादीनि पापानि हन्ति सर्वाणि धारणात् ।
विघ्नास्तस्य प्रणश्यन्ति याति चान्ते परं पदम् ॥ १९ ॥
भवन्त्येते गुणाः सर्वे ह्यष्टवक्त्रस्य धारणात् ।
नववक्त्रो भैरवस्तु धारयेद्वामबाहुके ॥ २० ॥
भुक्तिमुक्तिप्रदः प्रोक्तो मम तुल्यबलो भवेत् ।
भ्रूणहत्यासहस्राणि ब्रह्महत्याशतानि च ॥ २१ ॥
सद्यः प्रलयमायान्ति नववक्त्रस्य धारणात् ।
दशवक्त्रस्तु देवेशः साक्षाद्देवो जनार्दनः ॥ २२ ॥
ग्रहाश्चैव पिशाचाश्च वेताला ब्रह्मराक्षसाः ।
पन्नगाश्चोपशाम्यन्ति दशवक्त्रस्य धारणात् ॥ २३ ॥
वक्त्रैकादशरुद्राक्षो रुद्रैकादशकं स्मृतम् ।
शिखायां धारयेद्यो वै तस्य पुण्यफलं शृणु ॥ २४ ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ २५ ॥
तत्फलं लभते शीघ्रं वक्त्रैकादशधारणात् ।
द्वादशास्यस्य रुद्राक्षस्यैव कर्णे तु धारणात् ॥ २६ ॥
आदित्यास्तोषिता नित्यं द्वादशास्ये व्यवस्थिताः ।
गोभेधे चाश्वमेधे च यत्फलं तदवाप्नुयात् ॥ २७ ॥
शृङ्‌गिणां शस्त्रिणां चैव व्याघ्रादीनां भयं न हि ।
न च व्याधिभयं तस्य नैव चाधिः प्रकीर्तितः ॥ २८ ॥
न च किञ्चिद्‍भयं तस्य न च व्याधिः प्रवर्तते ।
न कुतश्चिद्‍भयं तस्य सुखी चैवेश्वरो भवेत् ॥ २९ ॥
हस्त्यश्वमृगमार्जारसर्पमूषकदर्दुरान् ।
खरांश्च श्वशृगालांश्च हत्वा बहुविधानपि ॥ ३० ॥
मुच्यते नात्र सन्देहो वक्त्रद्वादशधारणात् ।
वक्त्रत्रयोदशो वत्स रुद्राक्षो यदि लभ्यते ॥ ३१ ॥
कार्तिकेयसमो ज्ञेयः सर्वकामार्थसिद्धिदः ।
रसो रसायनं चैव तस्य सर्वं प्रसिद्ध्यति ॥ ३२ ॥
तस्यैव सर्वभोग्यानि नात्र कार्या विचारणा ।
मातरं पितरं चैव भ्रातरं वा निहन्ति यः ॥ ३३ ॥
मुच्यते सर्वपापेभ्यो धारणात्तस्य षण्मुख ।
चतुर्दशास्यो रुद्राक्षो यदि लभ्येत पुत्रक ॥ ३४ ॥
धारयेत्सततं मूर्ध्नि तस्य पिण्डः शिवस्य तु ।
किं मुने बहुनोक्तेन वर्णनेन पुनः पुनः ॥ ३५ ॥
पूज्यते सन्ततं देवैः प्राप्यते च परा गतिः ।
रुद्राक्ष एकः शिरसा धार्यो भक्त्या द्विजोत्तमैः ॥ ३६ ॥
षड्‌विंशद्‌भिः शिरोमाला पञ्चाशद्‌धृदयेन तु ।
कलाक्षैर्बाहुवलये अर्काक्षैर्मणिबन्धनम् ॥ ३७ ॥
अष्टोत्तरशतैर्माला पञ्चाशद्‌भिः षडानन ।
अथवा सप्तविंशत्या कृत्वा रुद्राक्षमालिकाम् ॥ ३८ ॥
धारणाद्वा जपाद्वापि ह्यनन्तं फलमश्नुते ।
अष्टोत्तरशतैर्माला रुद्राक्षैर्धार्यते यदि ॥ ३९ ॥
क्षणे क्षणेऽश्वमेधस्य फलं प्राप्नोति षण्मुख ।
त्रिःसप्तकुलमुद्धृत्य शिवलोके महीयते ॥ ४० ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे रुद्राक्षमाहाम्यवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥ </poem>