देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०१

विकिस्रोतः तः
← देवीभागवतपुराणम्/स्कन्धः ११ देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०१
वेदव्यासः‎
देवीभागवतपुराणम्/स्कन्धः ११/अध्यायः ०२ →

मनुकृतं देवीस्तवनम्

<poem> नारद उवाच
भगवन् भूतभव्येश नारायण सनातन ।
आख्यातं परमाश्चर्यं देवीचारित्रमुत्तमम् ॥ १ ॥
प्रादुर्भावः परो मातुः कार्यार्थमसुरद्रुहाम् ।
अधिकाराप्तिरुक्तात्र देवीपूर्णकृपावशात् ॥ २ ॥
अधुना श्रोतुमिच्छामि येन प्रीणाति सर्वदा ।
स्वभक्तान्परिपुष्णाति तमाचारं वद प्रभो ॥ ३ ॥
श्रीनारायण उवाच
शृणु नारद तत्त्वज्ञ सदाचारविधिक्रमम् ।
यदनुष्ठानमात्रेण देवी प्रीणाति सर्वदा ॥ ४ ॥
प्रातरुत्थाय कर्तव्यं यद्‌ द्विजेन दिने दिने ।
तदहं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ॥ ५ ॥
उदयास्तमयं यावद्‌ द्विजः सत्कर्मकृद्‍भवेत् ।
नित्यनैमित्तिकैर्युक्तः काम्यैश्चान्यैरगर्हितैः ॥ ६ ॥
आत्मनश्च सहायार्थं पिता माता न तिष्ठति ।
न पुत्रदारा न ज्ञातिर्धर्मस्तिष्ठति केवलम् ॥ ७ ॥
तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनु साधनैः ।
धर्मेणैव सहायात्तु तमस्तरति दुस्तरम् ॥ ८ ॥
आचारः प्रथमो धर्मः श्रुत्युक्तः स्मार्त एव च ।
तस्मादस्मिन्समायुक्तो नित्यं स्यादात्मनो द्विजः ॥ ९ ॥
आचाराल्लभते चायुराचाराल्लभते प्रजाः ।
आचारादन्नमक्षय्यमाचारो हन्ति पातकम् ॥ १० ॥
आचारः परमो धर्मो नृणां कल्याणकारकः ।
इह लोके सुखी भूत्वा परत्र लभते सुखम् ॥ ११ ॥
अज्ञानान्धजनानां तु मोहितैर्भ्रामितात्मनाम् ।
धर्मरूपो महादीपो मुक्तिमार्गप्रदर्शकः ॥ १२ ॥
आचारात्प्राप्यते श्रैष्ठ्यमाचारात्कर्म लभ्यते ।
कर्मणो जायते ज्ञानमिति वाक्यं मनोः स्मृतम् ॥ १३ ॥
सर्वधर्मवरिष्ठोऽयमाचारः परमं तपः ।
तदेव ज्ञानमुद्दिष्टं तेन सर्वं प्रसाध्यते ॥ १४ ॥
यस्त्वाचारविहीनोऽत्र वर्तते द्विजसत्तमः ।
स शूद्रवद्‌ बहिष्कार्यो यथा शूद्रस्तथैव सः ॥ १५ ॥
आचारो द्विविधः प्रोक्तः शास्त्रीयो लौकिकस्तथा ।
उभावपि प्रकर्तव्यौ न त्याज्यौ शुभमिच्छता ॥ १६ ॥
ग्रामधर्मा जातिधर्मा देशधर्माः कुलोद्‍भवाः ।
परिग्राह्या नृभिः सर्वैर्नैव ताँल्लङ्‌घयेन्मुने ॥ १७ ॥
दुराचारो हि पुरुषो लोके भवति निन्दितः ।
दुःखभागी च सततं व्याधिना व्याप्त एव च ॥ १८ ॥
परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ ।
धर्ममप्यसुखोदर्कं लोकविद्विष्टमेव च ॥ १९ ॥
नारद उवाच
बहुत्वादिह शास्त्राणां निश्चयः स्यात्कथं मुने ।
कियत्प्रमाणं तद्‌ ब्रूहि धर्ममार्गविनिर्णये ॥ २० ॥
श्रीनारायण उवाच
श्रुतिस्मृती उभे नेत्रे पुराणं हृदयं स्मृतम् ।
एतत्त्रयोक्त एव स्याद्धर्मो नान्यत्र कुत्रचित् ॥ २१ ॥
विरोधो यत्र तु भवेत्त्रयाणां च परस्परम् ।
श्रुतिस्तत्र प्रमाणं स्याद्‌ द्वयोर्द्वैधे स्मृतिर्वरा ॥ २२ ॥
श्रुतिद्वैधं भवेद्यत्र तत्र धर्मावुभौ स्मृतौ ।
स्मृतिद्वैधं तु यत्र स्याद्विषयः कल्प्यतां पृथक् ॥ २३ ॥
पुराणेषु क्वचिच्चैव तन्त्रदृष्टं यथातथम् ।
धर्मं वदन्ति तं धर्मं गृह्णीयान्न कथञ्चन ॥ २४ ॥
वेदाविरोधि चेत्तन्त्रं तत्प्रमाणं न संशयः ।
प्रत्यक्षश्रुतिरुद्धं यत्तत्प्रमाणं भवेन्न च ॥ २५ ॥
सर्वथा वेद एवासौ धर्ममार्गप्रमाणकः ।
तेनाविरुद्धं यत्किञ्चित्तत्प्रमाणं न चान्यथा ॥ २६ ॥
यो वेदधर्ममुज्झित्य वर्ततेऽन्यप्रमाणतः ।
कुण्डानि तस्य शिक्षार्थं यमलोके वसन्ति हि ॥ २७ ॥
तस्मात्सर्वप्रयत्‍नेन वेदोक्तं धर्ममाश्रयेत् ।
स्मृतिः पुराणमन्यद्वा तन्त्रं वा शास्त्रमेव च ॥ २८ ॥
तन्मूलत्वे प्रमाणं स्यान्नान्यथा तु कदाचन ।
ये कुशास्त्राभियोगेन वर्तयन्तीह मानवान् ॥ २९ ॥
अधोमुखोर्ध्वपादास्ते यास्यन्ति नरकार्णवम् ।
कामाचाराः पाशुपतास्तथा वै लिङ्‌गधारिणः ॥ ३० ॥
तप्तमुद्राङ्‌किता ये च वैखानसमतानुगाः ।
ते सर्वे निरयं यान्ति वेदमार्गबहिष्कृताः ॥ ३१ ॥
वेदोक्तमेव सद्धर्मं तस्मात्कुर्यान्नरः सदा ।
उत्थायोत्थाय बोद्धव्यं किं मयाद्य कृतं कृतम् ॥ ३२ ॥
दत्तं वा दापितं वापि वाक्येनापि च भाषितम् ।
उपपापेषु सर्वेषु पातकेषु महत्स्वपि ॥ ३३ ॥
अवाप्य रजनीयामं ब्रह्मध्यानं समाचरेत् ।
ऊरुस्थोत्तानचरणः सव्ये चोरौ तथोत्तरम् ॥ ३४ ॥
उत्तानं किञ्चिदुत्तानं मुखमवष्टभ्य चोरसा ।
निमीलिताक्षः सत्त्वस्थो दन्तैर्दन्तान्न संस्पृशेत् ॥ ३५ ॥
तालुस्थाचलजिह्वश्च संवृतास्यः सुनिश्चलः ।
सन्निरुद्धेन्द्रियग्रामो नातिनिम्नस्थितासनः ॥ ३६ ॥
द्विगुणं त्रिगुणं वापि प्राणायाममुपक्रमेत् ।
ततो ध्येयः स्थितो योऽसौ हृदये दीपवत्प्रभुः ॥ ३७ ॥
धारयेत्तत्र चात्मानं धारणां धारयेद्‌बुधः ।
सधूमश्च विधूमश्च सगर्भश्चाप्यगर्भकः ॥ ३८ ॥
सलक्ष्यश्चाप्यलक्ष्यश्च प्राणायामस्तु षड्‌विधः ।
प्राणायामसमो योगः प्राणायाम इतीरितः ॥ ३९ ॥
प्राणायाम इति प्रोक्तो रेचपूरककुम्भकैः ।
वर्णत्रयात्मका ह्येते रेचपूरककुम्भकाः ॥ ४० ॥
स एव प्रणवः प्रोक्तः प्राणायामश्च तन्मयः ।
इडया वायुमारोप्य पूरयित्वोदरे स्थितम् ॥ ४१ ॥
शनैः षोडशमात्राभिरन्यया तं विरेचयेत् ।
एवं सधूमः प्राणानामायामः कथितो मुने ॥ ४२ ॥
आधारेलिङ्‌गनाभिप्रकटितहृदये तालुमूले ललाटे
     द्वे पत्रे षोडशारे द्विदशदशदलद्वादशार्धे चतुष्के ।
वासान्ते बालमध्ये डफकतसहिते कण्ठदेशे स्वराणां
     हंक्षंतत्त्वार्थयुक्तं सकलदलगतं वर्णरूपं नमामि ॥ ४३ ॥
अरुणकमलसंस्था तद्‌रजःपुञ्जवर्णा
     हरनियमितचिह्ना पद्मतन्तुस्वरूपा ।
रविहुतवहराकानायकास्यस्तनाढ्या
     सकृदपि यदि चित्ते संवसेत्स्यात्स भुक्तः ॥ ४४ ॥
स्थितिः सैव गतिर्यात्रा मतिश्चिन्ता स्तुतिर्वचः ।
अहं सर्वात्मको देवः स्तुतिः सर्वं त्वदर्चनम् ॥ ४५ ॥
अहं देवी न चान्योऽस्मि ब्रह्मैवाहं न शोकभाक् ।
सच्चिदानन्दरूपोऽहं स्वात्मानमिति चिन्तयेत् ॥ ४६ ॥
प्रकाशमानां प्रथमे प्रयाणे
     प्रतिप्रयाणेऽप्यमृतायमानाम् ।
अन्तःपदव्यामनुसञ्चरन्ती-
     मानन्दरूपामबलां प्रपद्ये ॥ ४७ ॥
ततो निजब्रह्मरन्ध्रे ध्यायेत्तं गुरुमीश्वरम् ।
उपचारैर्मानसैश्च पूजयेत्तु यथाविधि ॥ ४८ ॥
स्तुवीतानेन मन्त्रेण साधको नियतात्मवान् ।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४९ ॥


इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां एकादशस्कन्धे मनुकृतं देवीस्तवनं नाम प्रथमोऽध्यायः ॥ </poem>