देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search

देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनम्

सावित्र्युवाच
धर्मराज महाभाग वेदवेदाङ्‌गपारग ।
नानापुराणेतिहासे यत्सारं तत्प्रदर्शय ॥ १ ॥
सर्वेषु सारभूतं यत्सर्वेष्टं सर्वसम्मतम् ।
कर्मच्छेदबीजरूपं प्रशस्तं सुखदं नृणाम् ॥ २ ॥
सर्वप्रदं च सर्वेषां सर्वमङ्‌गलकारणम् ।
भयं दुःखं न पश्यन्ति येन वै सर्वमानवाः ॥ ३ ॥
कुण्डानि ते न पश्यन्ति तेषु नैव पतन्ति च ।
न भवेद्येन जन्मादि तत्कर्म वद साम्प्रतम् ॥ ४ ॥
किमाकाराणि कुण्डानि तानि वा निर्मितानि च ।
के च केनैव रूपेण तत्र तिष्ठन्ति पापिनः ॥ ५ ॥
स्वदेहे भस्मसाद्‌भूते याति लोकान्तरं नरः ।
केन देहेन वा भोगं करोति च शुभाशुभम् ॥ ६ ॥
सुचिरं क्लेशभोगेन कथं देहो न नश्यति ।
देहो वा किंविधो ब्रह्मंस्तन्मे व्याख्यातुमर्हसि ॥ ७ ॥
श्रीनारायण उवाच
सावित्रीवचनं श्रुत्वा धर्मराजो हरिं स्मरन् ।
कथां कथितुमारेभे कर्मबन्धनिकृन्तनीम् ॥ ८ ॥
धर्मराज उवाच
वत्से चतुर्षु वेदेषु धर्मेषु संहितासु च ।
पुराणेष्वितिहासेषु पाञ्चरात्रादिकेषु च ॥ ९ ॥
अन्येषु धर्मशास्त्रेषु वेदाङ्‌गेषु च सुव्रते ।
सर्वेष्टं सारभूतं च पञ्चदेवानुसेवनम् ॥ १० ॥
जन्ममृत्युजराव्याधिशोकसन्तापनाशनम् ।
सर्वमङ्‌गलरूपं च परमानन्दकारणम् ॥ ११ ॥
कारणं सर्वसिद्धीनां नरकार्णवतारणम् ।
भक्तिवृक्षाङ्‌कुरकरं कर्मवृक्षनिकृन्तनम् ॥ १२ ॥
विमोक्षसोपानमिदमविनाशपदं स्मृतम् ।
सालोक्यसार्ष्टिसारूप्यसामीप्यादिप्रदं शुभम् ॥ १३ ॥
कुण्डानि यमदूतैश्च रक्षितानि सदा शुभे ।
न हि पश्यन्ति स्वप्ने च पञ्चदेवार्चका नराः ॥ १४ ॥
देवीभक्तिविहीना ये ते पश्यन्ति ममालयम् ।
यान्ति ये हरितीर्थं वा श्रयन्ति हरिवासरम् ॥ १५ ॥
प्रणमन्ति हरिं नित्यं हर्यर्चां कल्पयन्ति च ।
न यान्ति तेऽपि घोरां च मम संयमिनीं पुरीम् ॥ १६ ॥
त्रिसन्धिपूता विप्राश्च शुद्धाचारसमन्विताः ।
निवृत्तिं नैव लप्स्यन्ति देवीसेवां विना नराः ॥ १७ ॥
स्वधर्मनिरताचाराः स्वधर्मनिरतास्तथा ।
गच्छन्तो मृत्युलोकं च दुर्दृशा मम किङ्‌कराः ॥ १८ ॥
भीताः शिवोपासकेभ्यो वैनतेयादिवोरगाः ।
स्वदूतं पाशहस्तं च गच्छन्तं वारयाम्यहम् ॥ १९ ॥
यास्यन्ति ते च सर्वत्र हरिदासाश्रमं विना ।
कृष्णमन्त्रोपासकाच्च वैनतेयादिवोरगाः ॥ २० ॥
देवीमन्त्रोपासकानां नाम्नाञ्चैव निकृन्तनम् ।
करोति नखलेखन्या चित्रगुप्तश्च भीतवत् ॥ २१ ॥
मधुपर्कादिकं तेषां कुरुते च पुनः पुनः ।
विलङ्‌घ्य ब्रह्मलोकं च लोकं गच्छन्ति ते सति ॥ २२ ॥
दुरितानि च नश्यन्ति येषां संस्पर्शमात्रतः ।
ते महाभाग्यवन्तो हि सहस्रकुलपावनाः ॥ २३ ॥
यथा च प्रज्वलद्वह्नौ शुष्कानि च तृणानि च ।
प्राप्नोति मोहः सम्मोहं तांश्च दृष्ट्वा च भीतवत् ॥ २४ ॥
कामश्च कामिनं याति लोभक्रोधौ ततः सति ।
मृत्युः प्रलीयते रोगो जरा शोको भयं तथा ॥ २५ ॥
कालः शुभाशुभं कर्म हर्षो भोगस्तथैव च ।
ये ये न यान्ति तां पीडां कथितास्ते मया सति ॥ २६ ॥
शृणु देहविवरणं कथयामि यथागमम् ।
पृथिवी वायुराकाशस्तेजस्तोयमिति स्फुटम् ॥ २७ ॥
देहिनां देहबीजं च स्रष्टृसृष्टिविधौ परम् ।
पृथिव्यादिपञ्जभूतैर्यो देहो निर्मितो भवेत् ॥ २८ ॥
स कृत्रिमो नश्वरश्च भस्मसाच्च भवेदिह ।
बद्धोऽङ्‌गुष्ठप्रमाणश्च यो जीवः पुरुषः कृतः ॥ २९ ॥
बिभर्ति सूक्ष्मं देहं तं तद्‌रूपं भोगहेतवे ।
स देहो न भवेद्‍भस्म ज्वलदग्नौ ममालये ॥ ३० ॥
जलेन नष्टो देही वा प्रहारे सुचिरं कृते ।
न शस्त्रेण न वास्त्रेण सुतीक्ष्णकण्टके तथा ॥ ३१ ॥
तप्तद्रवे तप्तलोहे तप्तपाषाण एव च ।
प्रतप्तप्रतिमाश्लेषे यत्पूर्वपतनेऽपि च ॥ ३२ ॥
न दग्धो न च भग्नः स भुङ्‌क्ते सन्तापमेव च ।
कथितो देहवृत्तान्तः कारणं च यथागमम् ।
कुण्डानां लक्षणं सर्वं बोधाय कथयामि ते ॥ ३३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे देवपूजनात् सर्वारिष्टनिवृत्तिवर्णनं नाम षट्‌त्रिंशोऽध्यायः ॥ ३६ ॥