देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ३४
नानाकर्मविपाकफलवर्णनम्
यम उवाच
छिनत्ति जीवं खड्गेन दयाहीनः सुदारुणः ।
नरघाती हन्ति नरमर्थलोभेन भारते ॥ १ ॥
असिपत्रे वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ।
तेषु यो ब्राह्मणान् हन्ति शतमन्वन्तरं वसेत् ॥ २ ॥
छिन्नाङ्गः संवसेत् सोऽपि खड्गधारेण सन्ततम् ।
अनाहारः शब्दमुच्चैर्यमदूतेन ताडितः ॥ ३ ॥
मन्थानः शतजन्मानि शतजन्मानि सूकरः ।
कुक्कुटः सप्त जन्मानि शृगालः सप्तजन्मसु ॥ ४ ॥
व्याघ्रश्च सप्त जन्मानि वृकश्चैव त्रिजन्मसु ।
सप्तजन्मसु मण्डूको यमदूतेन ताडितः ॥ ५ ॥
स भवेद्भारते वर्षे महिषश्च ततः शुचिः ।
ग्रामाणां नगराणां वा दहनं यः करोति च ॥ ६ ॥
क्षुरधारे वसेत्सोऽपि छिन्नाङ्गस्त्रियुगं सति ।
ततः प्रेतो भवेत्सद्यो वह्निवक्त्रो भ्रमन्महीम् ॥ ७ ॥
सप्तजन्मामेध्यभोजी कपोतः सप्तजन्मसु ।
ततो भवेन्महाशूली मानवः सप्तजन्मनि ॥ ८ ॥
सप्तजन्म गलत्कुष्ठी ततः शुद्धो भवेन्नरः ।
परकर्णे मुखं दत्त्वा परनिन्दां करोति यः ॥ ९ ॥
परदोषे महाश्लाघी देवब्राह्मणनिन्दकः ।
सूचीमुखे वसेत्सोऽपि सूचीविद्धो युगत्रयम् ॥ १० ॥
ततो भवेद् वृश्चिकश्च सर्पश्च सप्तजन्मसु ।
वज्रकीटः सप्तजन्म भस्मकीटस्ततः परम् ॥ ११ ॥
ततो भवेन्मानवश्च महाव्याधिस्ततः शुचिः ।
गृहिणां हि गृहं भित्त्वा वस्तुस्तेयं करोति यः ॥ १२ ॥
गाश्च छागांश्च मेषांश्च याति गोकामुखे च सः ।
ताडितो यमदूतेन वसेत्तत्र युगत्रयम् ॥ १३ ॥
ततो भवेत्सप्तजन्म गोजातिर्व्याधिसंयुतः ।
त्रिजन्मनि मेषजातिश्छागजातिस्त्रिजन्मनि ॥ १४ ॥
ततो भवेन्मानवश्च नित्यरोगी दरिद्रकः ।
भार्याहीनो बन्धुहीनः सन्तापी च ततः शुचिः ॥ १५ ॥
सामान्यद्रव्यचौरश्च याति नक्रमुखं च सः ।
ताडितो यमदूतेन वसेत्तत्राब्दकत्रयम् ॥ १६ ॥
ततो भवेत्सप्तजन्म गोपतिर्व्याधिसंयुतः ।
ततो भवेन्मानवश्च महारोगी ततः शुचिः ॥ १७ ॥
हन्ति गाश्च गजांश्चैव तुरगांश्च नगांस्तथा ।
स याति गजदंशं च महापापी युगत्रयम् ॥ १८ ॥
ताडितो यमदूतेन नागदन्तेन सन्ततम् ।
स भवेद्गजजातिश्च तुरगश्च त्रिजन्मनि ॥ १९ ॥
गोजातिर्म्लेच्छजातिश्च ततः शुद्धो भवेन्नरः ।
जलं पिबन्तीं तृषितां गां वारयति यः पुमान् ॥ २० ॥
नरकं गोमुखाकारं कृमितप्तोदकान्वितम् ।
तत्र तिष्ठति सन्तप्तो यावन्मन्वन्तरावधि ॥ २१ ॥
ततो नरोऽपि गोहीनो महारोगी दरिद्रकः ।
सप्तजन्मान्त्यजातिश्च ततः शुद्धो भवेन्नरः ॥ २२ ॥
गोहत्यां ब्रह्महत्यां च करोति ह्यतिदेशिकीम् ।
यो हि गच्छत्यगम्यां च यः स्त्रीहत्यां करोति च ॥ २३ ॥
भिक्षुहत्यां महापापी भ्रूणहत्यां च भारते ।
कुम्भीपाके वसेत्सोऽपि यावदिन्द्राश्चतुर्दश ॥ २४ ॥
ताडितो यमदूतेन चूर्ण्यमानश्च सन्ततम् ।
क्षणं पतति वह्नौ च क्षणं पतति कण्टके ॥ २५ ॥
क्षणं पतेत्तप्ततैले तप्तो येन क्षणं क्षणम् ।
क्षणं च तप्तलोहे च क्षणं च तप्तताम्रके ॥ २६ ॥
गृध्रो जन्मसहस्राणि शतजन्मानि सूकरः ।
काकश्च सप्त जन्मानि सर्पश्च सप्तजन्मसु ॥ २७ ॥
षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः ।
नानाजन्मसु स वृषस्ततः कुष्ठी दरिद्रकः ॥ २८ ॥
सावित्र्युवाच
विप्रहत्या च गोहत्या किंविधा चातिदैशिकी ।
का वा नृणामगम्या च को वा संध्याविहीनकः ॥ २९ ॥
अदीक्षितः पुमान्को वा को वा तीर्थप्रतिग्रही ।
द्विजः को वा ग्रामयाजी को वा विप्रोऽथ देवलः ॥ ३० ॥
शूद्राणां सूपकारश्च प्रमत्तो वृषलीपतिः ।
एतेषां लक्षणं सर्वं वद वेदविदां वर ॥ ३१ ॥
धर्मराज उवाच
श्रीकृष्णे च तदर्चायामन्येषां प्रकृतौ सति ।
शिवे च शिवलिङ्गे च सूर्ये सूर्यमणौ तथा ॥ ३२ ॥
गणेशे वाथ दुर्गायामेवं सर्वत्र सुन्दरि ।
यः करोति भेदबुद्धिं ब्रह्महत्यां लभेत्तु सः ॥ ३३ ॥
स्वगुरौ स्वेष्टदेवे च जन्मदातरि मातरि ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३४ ॥
वैष्णवेषु च भक्तेषु ब्राह्मणेष्वितरेषु च ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३५ ॥
विप्रपादोदके चैव शालग्रामोदके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३६ ॥
शिवनैवेद्यके चैव हरिनैवेद्यके तथा ।
करोति भेदबुद्धिं यो ब्रह्महत्यां लभेत्तु सः ॥ ३७ ॥
सर्वेश्वरेश्वरे कृष्णे सर्वकारणकारणे ।
सर्वाद्ये सर्वदेवानां सेव्ये सर्वान्तरात्मनि ॥ ३८ ॥
माययानेकरूपे वाप्येक एव हि निर्गुणे ।
करोतीशेन भेदं यो ब्रह्महत्यां लभेत्तु सः ॥ ३९ ॥
शक्तिभक्ते द्वेषबुद्धिं शक्तिशास्त्रे तथैव च ।
द्वेषं यः कुरुते मर्त्यो ब्रह्महत्यां लभेत्तु सः ॥ ४० ॥
पितृदेवार्चनं यो वा त्यजेद्वेदनिरूपितम् ।
यः करोति निषिद्धं च ब्रह्महत्यां लभेत्तु सः ॥ ४१ ॥
यो निन्दति हृषीकेशं तन्मन्त्रोपासकं तथा ।
पवित्राणां पवित्रं च ज्ञानानन्दं सनातनम् ॥ ४२ ॥
प्रधानं वैष्णवानां च देवानां सेव्यमीश्वरम् ।
ये नार्चयन्ति निन्दन्ति ब्रह्महत्यां लभन्ति ते ॥ ४३ ॥
ये निन्दन्ति महादेवीं कारणब्रह्मरूपिणीम् ।
सर्वशक्तिस्वरूपां च प्रकृतिं सर्वमातरम् ॥ ४४ ॥
सर्वदेवस्वरूपां च सर्वेषां वन्दितां सदा ।
सर्वकारणरूपां च ब्रह्महत्यां लभन्ति ते ॥ ४५ ॥
कृष्णजन्माष्टमीं रामनवमीं च सुपुण्यदाम् ।
शिवरात्रिं तथा चैकादशीं वारे रवेस्तथा ॥ ४६ ॥
पञ्च पर्वाणि पुण्यानि ये न कुर्वन्ति मानवाः ।
लभन्ति ब्रह्महत्यां ते चाण्डालाधिकपापिनः ॥ ४७ ॥
अम्बुवाच्यां भूखननं जलशौचादिकं च ये ।
कुर्वन्ति भारते वर्षे ब्रह्महत्यां लभन्ति ते ॥ ४८ ॥
गुरुञ्च मातरं तातं साध्वीं भार्यां सुतं सुताम् ।
अनिन्द्यां यो न पुष्णाति ब्रह्महत्यां लभेत्तु सः ॥ ४९ ॥
विवाहो यस्य न भवेन्न पश्यति सुतं तु यः ।
हरिभक्तिविहीनो यो ब्रह्महत्यां लभेत्तु सः ॥ ५० ॥
हरेरनैवेद्यभोजी नित्यं विष्णुं न पूजयेत् ।
पुण्यं पार्थिवलिङ्गं च ब्रह्महासौ प्रकीर्तितः ॥ ५१ ॥
गोप्रहारं प्रकुर्वन्तं दृष्ट्वा यो न निवारयेत् ।
याति गोविप्रयोर्मध्ये गोहत्या तु लभेत्तु सः ॥ ५२ ॥
दण्डैर्गोस्ताडयेन्मूढो यो विप्रो वृषवाहनः ।
दिने दिने गोवधं च लभते नात्र संशयः ॥ ५३ ॥
ददाति गोभ्य उच्छिष्टं भोजयेद् वृषवाहकम् ।
भुनक्ति वृषवाहान्नं स गोहत्यां लभेद् ध्रुवम् ॥ ५४ ॥
वृषलीपतिं याजयेद्यो भुङ्क्तेऽन्नं तस्य यो नरः ।
गोहत्याशतकं सोऽपि लभते नात्र संशयः ॥ ५५ ॥
पादं ददाति वह्नौ यो गाश्च पादेन ताडयेत् ।
गेहं विशेदधौताङ्घ्रिः स्नात्वा गोवधमाप्नुयात् ॥ ५६ ॥
यो भुङ्क्ते स्निग्धपादेन शेते स्निग्धाङ्घ्रिरेव च ।
सूर्योदये च यो भुङ्क्ते स गोहत्यां लभेद् ध्रुवम् ॥ ५७ ॥
अवीरान्नं च यो भुङ्क्ते योनिजीव्यस्य च द्विजः ।
यस्त्रिसन्ध्याविहीनश्च गोहत्या लभते च सः ॥ ५८ ॥
स्वभर्तरि च देवे वा भेदबुद्धिं करोति या ।
कटूक्त्या ताडयेत् कान्तं सा गोहत्यां लभेद् ध्रुवम् ॥ ५९ ॥
गोमार्गवर्जनं कृत्वा ददाति सस्यमेव वा ।
तडागे वा तु दुर्गे वा स गोहत्यां लभेद् ध्रुवम् ॥ ६० ॥
प्रायश्चित्ते गोवधस्य यः करोति व्यतिक्रमम् ।
पुत्रलोभादथाज्ञानात्स गोहत्या लभेद् ध्रुवम् ॥ ६१ ॥
राजके दैवके यत्नाद् गोस्वामी गां न रक्षति ।
दुःखं ददाति यो मूढो गोहत्यां स लभेद् ध्रुवम् ॥ ६२ ॥
प्राणिनो लङ्घयेद्यो हि देवार्चामनलं जलम् ।
नैवेद्यं पुष्पमन्नं च स गोहत्यां लभेद् ध्रुवम् ॥ ६३ ॥
शश्वन्नास्तीति यो वादी मिथ्यावादी प्रतारकः ।
देवद्वेषी गुरुद्वेषी स गोहत्यां लभेद् ध्रुवम् ॥ ६४ ॥
देवताप्रतिमां दृष्ट्वा गुरुं वा ब्राह्मणं सति ।
सम्भ्रमान्न नमेद्यो हि स गोहत्या लभेद् ध्रुवम् ॥ ६५ ॥
न ददात्याशिषं कोपात्प्रणताय च यो द्विजः ।
विद्यार्थिने च विद्यां च स गोहत्यां लभेद् ध्रुवम् ॥ ६६ ॥
गोहत्या विप्रहत्या च कथिता चातिदेशिकी ।
गम्यां स्त्रियं नृणामेव निबोध कथयामि ते ॥ ६७ ॥
स्वस्त्री गम्या च सर्वेषामिति वेदानुशासनम् ।
अगम्या च तदन्या या चेति वेदविदो विदुः ॥ ६८ ॥
सामान्यं कथितं सर्वं विशेषं शृणु सुन्दरि ।
अत्यगम्या हि या याश्च निबोध कथयामि ताः ॥ ६९ ॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।
अत्यगम्या च निन्द्या च लोके वेदे पतिव्रते ॥ ७० ॥
शूद्रश्च ब्राह्मणीं गत्वा ब्रह्महत्याशतं लभेत् ।
तत्समं ब्राह्मणी चापि कुम्भीपाकं लभेद् ध्रुवम् ॥ ७१ ॥
शूद्राणां विप्रपत्नी च विप्राणां शूद्रकामिनी ।
यदि शूद्रा व्रजेद्विप्रो वृषलीपतिरेव सः ॥ ७२ ॥
स भ्रष्टो विप्रजातेश्च चाण्डालात्सोऽधमः स्मृतः ।
विष्ठासमश्च तत्पिण्डो मूत्रं तस्य च तर्पणम् ॥ ७३ ॥
न पितॄणां सुराणां च तद्दत्तमुपतिष्ठति ।
कोटिजन्मार्जितं पुण्यं तस्यार्चात्तपसार्जितम् ॥ ७४ ॥
द्विजस्य वृषलीलोभान्नश्यत्येव न संशयः ।
ब्राह्मणश्च सुरापीतिर्विड्भोजी वृषलीपतिः ॥ ७५ ॥
तप्तमुद्रादग्धदेहस्तप्तशूलाङ्कितस्तथा ।
हरिवासरभोजी च कुम्भीपाकं व्रजेद् द्विजः ॥ ७६ ॥
गुरुपत्नीं राजपत्नीं सपत्नीं मातरं ध्रुवम् ।
सुतां पुत्रवधूं श्वश्रूं सगर्भां भगिनीं सतीम् ॥ ७७ ॥
सहोदरभ्रातृजायां मातुलानीं पितुः प्रसूम् ।
मातुः प्रसूं तत्स्वसारं भगिनीं भ्रातृकन्यकाम् ॥ ७८ ॥
शिष्यां शिष्यस्य पत्नीं च भागिनेयस्य कामिनीम् ।
भ्रातुः पुत्रप्रियां चैवात्यगम्या आह पद्मजः ॥ ७९ ॥
एताः कामेन कान्ता यो व्रजेद्वै मानवाधमः ।
स मातृगामी वेदेषु ब्रह्महत्याशतं व्रजेत् ॥ ८० ॥
अकर्मार्होऽप्यसंस्पृश्यो लोके वेदे च निन्दितः ।
स याति कुम्भीपाके च महापापी सुदुष्करे ॥ ८१ ॥
करोत्यशुद्धां सन्ध्यां वा न सन्ध्यां वा करोति च ।
त्रिसन्ध्यं वर्जयेद्यो वा सन्ध्याहीनश्च स द्विजः ॥ ८२ ॥
वैष्णवं च तथा शैवं शाक्तं सौरं च गाणपम् ।
योऽहङ्कारान्न गृह्णाति मन्त्रं सोऽदीक्षितः स्मृतः ॥ ८३ ॥
प्रवाहमवधिं कृत्वा यावद्धस्तचतुष्टयम् ।
तत्र नारायणः स्वामी गङ्गागर्भान्तरे वसेत् ॥ ८४ ॥
तत्र नारायणक्षेत्रे मृतो याति हरेः पदम् ।
वाराणस्यां बदर्यां च गङ्गासागरसङ्गमे ॥ ८५ ॥
पुष्करे हरिहरक्षेत्रे प्रभासे कामरूस्थले ।
हरिद्वारे च केदारे तथा मातृपुरेऽपि च ॥ ८६ ॥
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।
गोदावर्यां च कौशिक्यां त्रिवेण्यां च हिमाचले ॥ ८७ ॥
एषु तीर्थेषु यो दानं प्रतिगृह्णाति कामतः ।
स च तीर्थप्रतिग्राही कुम्भीपाके प्रयाति सः ॥ ८८ ॥
शूद्रसेवी शूद्रयाजी ग्रामयाजीति कीर्तितः ।
तथा देवोपजीवी च देवलः परिकीर्तितः ॥ ८९ ॥
शूद्रपाकोपजीवी यः सूपकार इति स्मृतः ।
सन्ध्यापूजनहीनश्च प्रमत्तः पतितः स्मृतः ॥ ९० ॥
उक्तं सर्वं मया भद्रे लक्षणं वृषलीपतेः ।
एते महापातकिनः कुम्भीपाकं प्रयान्ति ते ।
कुण्डान्यन्यानि ये यान्ति निबोध कथयामि ते ॥ ९१ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे सावित्र्युपाख्याने नानाकर्मविपाकफलवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४ ॥