देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search

नानाकर्मविपाकफलकथनम्

धर्मराज उवाच
हरिसेवारतः शुद्धो योगसिद्धो व्रती सति ।
तपस्वी ब्रह्मचारी च न याति नरकं ध्रुवम् ॥ १ ॥
कटुवाचा बान्धवांश्च बललेपेन यो नरः ।
दग्धान्करोति बलवान् वह्निकुण्डं प्रयाति सः ॥ २ ॥
स्वगात्रलोममानाब्दं तत्र स्थित्वा हुताशने ।
पशुयोनिमवाप्नोति रौद्रदग्धां त्रिजन्मनि ॥ ३ ॥
ब्राह्मणं तृषितं तप्तं क्षुधितं गृहमागतम् ।
न भोजयति यो मूढस्तप्तकुण्डं प्रयाति सः ॥ ४ ॥
तत्र तल्लोममानं च वर्षं स्थित्वा च दुःखदे ।
तप्तस्थले वह्नितल्पे पक्षी च सप्तजन्मसु ॥ ५ ॥
रविवारे च संक्रान्त्याममायां श्राद्धवासरे ।
वस्त्राणां क्षारसंयोगं करोति केवलं नरः ॥ ६ ॥
स याति क्षारकुण्डं च सूत्रमानाब्दमेव च ।
स व्रजेद्‌रजकीं योनिं सप्तजन्मसु भारते ॥ ७ ॥
मूलप्रकृतिनिन्दां यः कुरुते मानवाधमः ।
वेदनिन्दां शास्त्रनिन्दां पुराणानां तथैव च ॥ ८ ॥
ब्रह्मविष्णुशिवादीनां तथा निन्दापरो जनः ।
गौरीवाण्यादिदेवीनां तथा निन्दापरो जनः ॥ ९ ॥
ते सर्वे निरये यान्ति तस्मिन्कुण्डे भयानके ।
नातः परतरं कुण्डं दुःखदं तु भविष्यति ॥ १० ॥
तत्र स्थित्वानेककल्पं सर्पयोनिं व्रजेत्पुनः ।
देवीनिन्दापराधस्य प्रायश्चित्तं न विद्यते ॥ ११ ॥
स्वदत्तां परदत्तां वा वृत्तिं च सुरविप्रयोः ।
षष्टिवर्षसहस्राणि विट्कुण्डं च प्रयाति सः ॥ १२ ॥
तावन्त्येव च वर्षाणि विड्भोजी तत्र तिष्ठति ।
षष्टिवर्षसहस्राणि विट्कृमिश्च पुनर्भुवि ॥ १३ ॥
परकीयतडागे च तडागं यः करोति च ।
उत्सजेद्दैवदोषेण मूत्रकुण्डं प्रयाति सः ॥ १४ ॥
तद्रेणुमानवर्षं च तद्‍भोजी तत्र तिष्ठति ।
पुनः पूर्णशताब्दं च स वृषो भारते भवेत् ॥ १५ ॥
एकाकी मिष्टमश्नाति श्लेष्मकुण्डं प्रयाति च ।
पूर्णमब्दशतं चैव तद्‍भोजी तत्र तिष्ठति ॥ १६ ॥
ततः पूर्णशताब्दं च स प्रेतो भारते भवेत् ।
श्लेष्ममूत्रपरं चैव पूयं भुङ्‌क्ते ततः शुचिः ॥ १७ ॥
पितरं मातरं चैव गुरुं भार्यां सुतं सुताम् ।
यो न पुष्णात्यनाथं च गरकुण्डं प्रयाति सः ॥ १८ ॥
पूर्णमब्दशतं चैव तद्‍भोजी तत्र तिष्ठति ।
ततो व्रजेद्‌भूतयोनिं शतवर्षं ततः शुचिः ॥ १९ ॥
दृष्ट्वातिथिं वक्रचक्षुः करोति यो हि मानवः ।
पितृदेवास्तस्य जलं न गृह्णन्ति च पापिनः ॥ २० ॥
यानि कानि च पापानि ब्रह्महत्यादिकानि च ।
इहैव लभते चान्ते दूषिकाकुण्डमाव्रजेत् ॥ २१ ॥
पूर्णमब्दशतं चैव तद्‍भोजी तत्र तिष्ठति ।
ततो व्रजेद्‌भूतयोनिं शतवर्षं ततः शुचिः ॥ २२ ॥
दत्त्वा द्रव्यं च विप्राय चान्यस्मै दीयते यदि ।
स तिष्ठति वसाकुण्डे तद्‍भोजी शतवत्सरम् ॥ २३ ॥
कृकलासो भवेत्सोऽपि भारते सप्तजन्मसु ।
ततो भवेन्महारौद्रो दरिद्रोऽल्पायुरेव च ॥ २४ ॥
पुमांसं कामिनी वापि कामिनीं वा पुमानथ ।
यः शुक्रं पाययत्येव शुक्रकुण्डं प्रयाति सः ॥ २५ ॥
पूर्णमब्दशतं चैव तद्‍भोजी तत्र तिष्ठति ।
कृमियोनिं शताब्दं च व्रजेद्‌भूत्वा ततः शुचिः ॥ २६ ॥
सन्ताड्य च गुरुं विप्रं रक्तपातं च कारयेत् ।
स च तिष्ठत्यसृक्कुण्डे तद्‍भोजी शतवत्सरम् ॥ २७ ॥
ततो लभेद्व्याघ्रजन्म सप्तजन्मसु भारते ।
ततः शुद्धिमवाप्नोति मानवश्च क्रमेण ह ॥ २८ ॥
योऽश्रु तत्याज गायन्तं भक्तं दृष्ट्वा सगद्‌गदम् ।
श्रीकृष्णगुणसङ्‌गीते हसत्येव हि यो नरः ॥ २९ ॥
स वसेदश्रुकुण्डे च तद्‍भोजी शतवर्षकम् ।
ततो भवेच्च चाण्डालस्त्रिजन्मनि ततः शुचिः ॥ ३० ॥
करोति शठता तद्वन्नित्यं सुहृदि यो नरः ।
कुण्डं गात्रमलानां च स प्रयाति शताब्दकम् ॥ ३१ ॥
ततः स गार्दभीं योनिमवाप्नोति त्रिजन्मनि ।
त्रिजन्मनि च शार्गालीं ततः शुद्धो भवेद्‌ ध्रुवम् ॥ ३२ ॥
बधिरं यो हसत्येव निन्दत्येवाभिमानतः ।
स वसेत्कर्णविट्कुण्डे तद्‍भोजी शतवत्सरम् ॥ ३३ ॥
ततो भवेत्स बधिरो दरिद्रः सप्तजन्मसु ।
सप्तजन्मन्यङ्‌गहीनस्ततः शुद्धिं लभेद्‌ ध्रुवम् ॥ ३४ ॥
लोभात्स्वभरणार्थाय जीविनं हन्ति यो नरः ।
मज्जाकुण्डे वसेत्सोऽपि तद्‍भोजी लक्षवत्सरम् ॥ ३५ ॥
ततो भवेच्च शशको मीनश्च सप्तजन्मसु ।
त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ॥ ३६ ॥
एणादयश्च कर्मभ्यस्ततः शुद्धिं लभेद्‌ ध्रुवम् ।
स्वकन्यापालनं कृत्वा विक्रीणाति च यो नरः ॥ ३७ ॥
अर्थलोभान्महामूढो मांसकुण्डं प्रयाति सः ।
कन्यालोमप्रमाणाब्दं तद्‍भोजी तत्र तिष्ठति ॥ ३८ ॥
तस्य दण्डप्रहारं च कुर्वन्ति यमकिङ्‌कराः ।
मांसभारं मूर्ध्नि कृत्वा रक्तभारं लिहेत्क्षुधा ॥ ३९ ॥
ततो हि भारते पापी कन्याविट्कृमिगो भवेत् ।
षष्टिवर्षसहस्राणि व्याधश्च सप्तजन्मसु ॥ ४० ॥
त्रिजन्मनि वराहश्च कुक्कुटः सप्तजन्मसु ।
मण्डूको हि जलौकाश्च सप्तजन्मसु भारते ॥ ४१ ॥
सप्तजन्मसु काकश्च ततः शुद्धिं लभेद्‌ ध्रुवम् ।
व्रतानामुपवासानां श्राद्धादीनां च सङ्‌गमे ॥ ४२ ॥
करोति यः क्षौरकर्म सोऽशुचिः सर्वकर्मसु ।
स च तिष्ठति कुण्डे च नखादीनाञ्च सुन्दरि ॥ ४३ ॥
तद्दैवदिनमानाब्दं तद्‍भोजी दण्डताडितः ।
सकेशं पार्थिवं लिङ्‌गं यो वार्चयति भारते ॥ ४४ ॥
स तिष्ठति केशकुण्डे मृद्रेणुमानवर्षकम् ।
तदन्ते यावनीं योनिं प्रयाति हरकोपतः ॥ ४५ ॥
शताब्दाच्छुद्धिमाप्नोति राक्षसः स भवेद्‌ ध्रुवम् ।
पितॄणां यो विष्णुपदे पिण्डं नैव ददाति च ॥ ४६ ॥
स च तिष्ठत्यस्थिकुण्डे स्वलोमाब्दं महोल्बणे ।
ततः सुयोनिं सम्प्राप्य कुखञ्जः सप्तजन्मसु ॥ ४७ ॥
भवेन्महादरिद्रश्च ततः शुद्धो हि देहतः ।
यः सेवते महामूढो गुर्विणीं च स्वकामिनीम् ॥ ४८ ॥
प्रतप्ते ताम्रकुण्डे च शतवर्षं स तिष्ठति ।
अवीरान्नं च यो भुङ्‌क्ते ऋतुस्नातान्नमेव च ॥ ४९ ॥
लोहकुण्डे शताब्दं च स च तिष्ठति तप्तके ।
स व्रजेद्‌रजकीं योनिं काकानां सप्तजन्मसु ॥ ५० ॥
महाव्रणी दरिद्रश्च ततः शुद्धी भवेन्नरः ।
यो हि चर्माक्तहस्तेन देवद्रव्यमुपस्मृशेत् ॥ ५१ ॥
शतवर्षप्रमाणं च चर्मकुण्डे स तिष्ठति ।
यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते शूद्रान्नमेव च ॥ ५२ ॥
स च तप्तसुराकुण्डे शताब्दं तिष्ठति द्विजः ।
ततो भवेच्छूद्रयाजी ब्राह्मणः सप्तजन्मसु ॥ ५३ ॥
शूद्रश्राद्धान्नभोजी च ततः शुद्धो भवेद्‌ध ्रुवम् ।
वाग्दुष्टः कटुको वाचा ताडयेत्स्वामिनं सदा ॥ ५४ ॥
तीक्ष्णकण्टककुण्डे स तद्‍भोजी तत्र तिष्ठति ।
ताडितो यमदूतेन दण्डेन च चतुर्गुणम् ॥ ५५ ॥
ततः उच्चैःश्रवाः सप्तजन्मस्वेव ततः शुचि ।
विषेण जीवनं हन्ति निर्दयो यो हि मानवः ॥ ५६ ॥
विषकुण्डे च तद्‍भोजी सहस्राब्दं च तिष्ठति ।
ततो भवेन्नृघाती च व्रणी च शतजन्मसु ॥ ५७ ॥
सप्तजन्मसु कुष्ठी च ततः शुद्धो भवेद्‌ धुवम् ।
दण्डेन ताडयेद्‌ गां हि वृषञ्च वृषवाहकः ॥ ५८ ॥
भृत्यद्वारा स्वतन्त्रो वा पुण्यक्षेत्रे च भारते ।
प्रतप्ते तैलकुण्डेऽग्नौ तिष्ठति स्म चतुर्युगम् ॥ ५९ ॥
गवां लोमप्रमाणाब्दं वृषो भवति तत्परम् ।
कुन्तेन हन्ति यो जीवं वह्निलोहेन हेलया ॥ ६० ॥
कुन्तकुण्डे वसेत्सोऽपि वर्षाणामयुतं सति ।
ततः सुयोनिं सम्प्राप्य चोदरे व्याधिसंयुतः ॥ ६१ ॥
जन्मनैकेन क्लेशेन ततः शुद्धो भवेन्नरः ।
यो भुङ्‌क्ते च वृथा मांसं मांसलोभी द्विजाधमः ॥ ६२ ॥
हरेरनैवेद्यभोजी कृमिकुण्डं प्रयाति सः ।
स्वलोममानवर्षं च तद्‍भोजी तत्र तिष्ठति ॥ ६३ ॥
ततो भवेन्म्लेच्छजातिस्त्रिजन्मनि ततो द्विजः ।
ब्राह्मणः शूद्रयाजी च शूद्रश्राद्धान्नभोजकः ॥ ६४ ॥
शूद्राणां शवदाही च पूयकुण्डे वसेद्‌ ध्रुवम् ।
यावल्लोमप्रमाणाब्दं यमदण्डेन सुव्रते ॥ ६५ ॥
ताडितो यमदूतेन तद्‍भोजी तत्र तिष्ठति ।
ततो भारतमागत्य स शूद्रः सप्तजन्मसु ॥ ६६ ॥
महारोगी दरिद्रश्च बधिरो मूक एव च ।
कृष्णं पद्मं च के यस्य तं सर्पं हन्ति यो नरः ॥ ६७ ॥
स्वलोममानवर्षं च सर्पकुण्डं प्रयाति सः ।
सर्पेण भक्षितः सोऽथ यमदूतेन ताडितः ॥ ६८ ॥
वसेच्च सर्पविड्भोजी ततः सर्पो भवेद्‌ ध्रुवम् ।
ततो भवेन्मानवश्च स्वल्पायुर्दद्रुसंयुतः ॥ ६९ ॥
महाक्लेशेन तन्मृत्युः सर्पेण भक्षिताद्‌ ध्रुवम् ।
विधिप्रदत्तजीव्यांश्च क्षुद्रजन्तूंश्च हन्ति यः ॥ ७० ॥
स दंशमशयोः कुण्डे जन्तुमानाब्दमेव च ।
दिवानिशं भक्षितस्तैरनाहारश्च शब्दवान् ॥ ७१ ॥
हस्तपादादिबद्धश्च यमदूतेन ताडितः ।
ततो भवेत्क्षुद्रजन्तुर्जातिश्च यावनी भवेत् ॥ ७२ ॥
ततो भवेन्मानवश्च सोऽङ्‌गहीनस्ततः शुचिः ।
यो मूढो मधुमश्नाति हत्वा च मधुमक्षिकाः ॥ ७३ ॥
स एव गारले कुण्डे जीवमानाब्दकं वसेत् ।
भक्षितो गरलैर्दग्धो यमदूतेन ताडितः ॥ ७४ ॥
ततो हि मक्षिकाजातिस्ततः शुद्धो भवेन्नरः ।
दण्डं करोत्यदण्ड्ये च विप्रे दण्डं करोति च ॥ ७५ ॥
स कुण्डं वज्रदंष्ट्राणां कीटानां याति सत्वरम् ।
स तल्लोमप्रमाणाब्दं तत्र तिष्ठत्यहर्निशम् ॥ ७६ ॥
शब्दकृद्‍भक्षितस्तैस्तु यमदूतेन ताडितः ।
करोति रोदनं भद्रे हाहाकारं क्षणे क्षणे ॥ ७७ ॥
पुनः सूकरयोनौ च जायते सप्तजन्मसु ।
त्रिजन्मनि काकयोनौ ततः शुद्धो भवेन्नरः ॥ ७८ ॥
अर्थलोभेन यो मूढः प्रजादण्डं करोति सः ।
वृश्चिकानां च कुण्डं च तल्लोमाब्दं वसेद्‌ ध्रुवम् ॥ ७९ ॥
ततो वृश्चिकजातिश्च सप्तजन्मसु भारते ।
ततो नरश्चाङ्‌गहीनो व्याधिशुद्धो भवेद्‌ ध्रुवम् ॥ ८० ॥
ब्राह्मणः शस्त्रधारी यो ह्यन्येषां धावको भवेत् ।
सन्ध्याहीनश्च यो विप्रो हरिभक्तिविहीनकः ॥ ८१ ॥
स तिष्ठति स्वलोमाब्दं कुण्डेषु च शरादिषु ।
विद्धः शरादिभिः शश्वत्ततः शुद्धो भवेन्नरः ॥ ८२ ॥
कारागारे सान्धकारे प्रणिहन्ति प्रजाश्च यः ।
प्रमत्तः स्वस्य दोषेण गोलकुण्डं प्रयाति सः ॥ ८३ ॥
स पङ्‌कतप्ततोयाक्तं सान्धकारं भयङ्‌करम् ।
तीक्ष्णदंष्ट्रैश्च कीटैश्च संयुक्तं गोलकुण्डकम् ॥ ८४ ॥
कीटैर्विद्धो वसेत्तत्र प्रजालोमाब्दमेव च ।
ततो भवेत्प्रजाभृत्यस्ततः शुद्धो भवेत्क्रमात् ॥ ८५ ॥
सरोवरादुत्थितांश्च नक्रादीन्हन्ति यो नरः ।
नक्रकण्टकमानाब्दं नक्रकुण्डं प्रयाति सः ॥ ८६ ॥
ततो नक्रादिजातीयो भवेन्नक्रादिषु ध्रुवम् ।
ततः सद्यो विशुद्धो हि दण्डेनैव पुनः पुनः ॥ ८७ ॥
वक्षः श्रोणीस्तनास्यञ्च यः पश्यति परस्त्रियाः ।
कामेन कामुको यो हि पुण्यक्षेत्रे च भारते ॥ ८८ ॥
स वसेत्काककुण्डे च काकैः संचूर्णलोचनः ।
ततः स्वलोममानाब्दं भवेद्दग्धस्त्रिजन्मनि ॥ ८९ ॥
स्वर्णस्तेयी च यो मूढो भारते सुरविप्रयोः ।
स च मन्थानकुण्डे वै स्वलोमाब्दं वसेद्‌ ध्रुवम् ॥ ९० ॥
ताडितो यमदूतेन मन्थानैश्छन्नलोचनः ।
तद्विड्भोजी च तत्रैव ततश्चान्धस्त्रिजन्मनि ॥ ९१ ॥
सप्तजन्म दरिद्रश्च महाक्रूरश्च पातकी ।
भारते स्वर्णकारश्च स च स्वर्णवणिक् ततः ॥ ९२ ॥
यो भारते ताम्रचौरो लोहचौरश्च सुन्दरि ।
स च स्वलोममानाब्दं बीजकुण्डं प्रयाति सः ॥ ९३ ॥
तत्रैव बीजविड्भोजी बीजैश्च छन्नलोचनः ।
ताडितो यमदूतेन ततः शुद्धो भवेन्नरः ॥ ९४ ॥
भारते देवचौरश्च देवद्रव्यापहारकः ।
स दुस्तरे वज्रकुण्डे स्वलोमाब्दं वसेद्‌ ध्रुवम् ॥ ९५ ॥
देहदग्धोऽपि तद्वज्रैरनाहारश्च शब्दकृत् ।
ताडितो यमदूतैश्च ततः शुद्धो भवेन्नरः ॥ ९६ ॥
रौप्यगव्यांशुकानां च यश्चौरः सुरविप्रयोः ।
तप्तपाषाणकुण्डेच स्वलोमाब्दं वसेद्‌ ध्रुवम् ॥ ९७ ॥
त्रिजन्मनि च कंसोऽपि श्वेतरूपस्त्रिजन्मनि ।
जन्मैकं श्वेतचिह्नश्च ततोऽन्ये श्वेतपक्षिणः ॥ ९८ ॥
ततो रक्तविकारी च शूली वै मानवो भवेत् ।
सप्तजन्मसु चाल्पायुस्ततः शुद्धो भवेन्नरः ॥ ९९ ॥
रैतं कांस्यमयं पात्रं यो हरेद्देवविप्रयोः ।
तीक्ष्णपाषाणकुण्डे च स्वलोमाब्दं वसेन्नरः ॥ १०० ॥
स भवेदश्वजातिश्च भारते सप्तजन्मसु ।
ततोऽधिकाङ्‌गजातिश्च पादरोगी ततः शुचिः ॥ १०१ ॥
पुंश्चल्यन्नं च यो भद्रे पुंश्चलीजीव्यजीविनः ।
स्वलोममानवर्षं च लालाकुण्डे वसेद्‌ ध्रुवम् ॥ १०२ ॥
ताडितो यमदूतेन तद्‍भोजी तत्र दुःखितः ।
ततश्चक्षुःशूलरोगी ततः शुद्धः क्रमेण सः ॥ १०३ ॥
म्लेच्छसेवी मसीजीवी यो विप्रो भारते भुवि ।
वसेत्स्वलोममानाब्दं मसीकुण्डे स दुःखभाक् ॥ १०४ ॥
ताडितो यमदूतेन तद्‍भोजी तत्र तिष्ठति ।
ततस्त्रिजन्मनि भवेत्कृष्णवर्णः पशुः सति ॥ १०५ ॥
त्रिजन्मनि भवेच्छागः कृष्णवर्णस्त्रिजन्मनि ।
ततः स तालवृक्षश्च ततः शुद्धो भवेन्नरः ॥ १०६ ॥
धान्यादिसस्यं ताम्बूलं यो हरेत्सुरविप्रयोः ।
आसनं च तथा तल्पं चूर्णकुण्डे प्रयाति सः ॥ १०७ ॥
शताब्दं तत्र निवसेद्यमदूतेन ताडितः ।
ततो भवेन्मेषजातिः कुक्कुटश्च त्रिजन्मनि ॥ १०८ ॥
ततो भवेद्वानरश्च कासव्याधियुतो भुवि ।
वंशहीनो दरिद्रश्च स्वल्पायुश्च ततः शुचिः ॥ १०९ ॥
करोति चक्रं विप्राणां हृत्वा द्रव्यं च यो जनः ।
स वसेच्चक्रकुण्डे च शताब्दं दण्डताडितः ॥ ११० ॥
ततो भवेन्मानवश्च तैलकारस्त्रिजन्मनि ।
व्याधियुक्तो भवेद्‌रोगी वंशहीनस्ततः शुचिः ॥ १११ ॥
गोधनेषु च विप्रेषु करोति वक्रतां पुमान् ।
प्रयाति वक्रकुण्डं स तिष्ठेद्युगशतं सति ॥ ११२ ॥
ततो भवेत्स वक्राङ्‌गो हीनाङ्‌गः सप्तजन्मनि ।
दरिद्रो वंशहीनश्च भार्याहीनस्ततः शुचिः ॥ ११३ ॥
ततो भवेद्‌ गृध्रजन्मा त्रिजन्मनि च सूकरः ।
त्रिजन्मनि बिडालश्च मयूरश्च त्रिजन्मनि ॥ ११४ ॥
निषिद्धं कूर्ममांसं च ब्राह्मणो यो हि भक्षति ।
कूर्मकुण्डे वसेत्सोऽपि शताब्दं कूर्मभक्षितः ॥ ११५ ॥
ततो भवेत्कूर्मजन्मा त्रिजन्मनि च सूकरः ।
त्रिजन्मनि बिडालश्च मयूरश्च ततः शुचिः ॥ ११६ ॥
घृतं तैलादिकं चैव यो हरेत्सुरविप्रयोः ।
स याति ज्वालाकुण्डं च भस्मकुण्डं च पातकी ॥ ११७ ॥
तत्र स्थित्वा शताब्दं च स भवेत्तैलपाचितः ।
सप्तजन्मनि मत्स्यश्च मूषकश्च ततः शुचिः ॥ ११८ ॥
सुगन्धितैलं धात्रीं वा गन्धद्रव्यान्यदेव वा ।
भारते पुण्यवर्षे च यो हरेत्सुरविप्रयोः ॥ ११९ ॥
स वसेद्दग्धकुण्डे च भवेद्दग्धो दिवानिशम् ।
स्वलोममानवर्षं च ततो दुर्गन्धिको भवेत् ॥ १२० ॥
दुर्गन्धिकः सप्तजन्म मृगनाभिस्त्रिजन्मनि ।
सप्तजन्मसु मन्थानस्ततो हि मानवो भवेत् ॥ १२१ ॥
बलेनैव छलेनैव हिंसारूपेण वा सति ।
बलिष्ठश्च हरेद्‌भूमिं भारते परपैतृकीम् ॥ १२२ ॥
स वसेत्तप्तसूचिं च भवेत्तापी दिवानिशम् ।
तप्ततैले यथा जीवो दग्धो भवति सन्ततम् ॥ १२३ ॥
भस्मसान्न भवत्येव भोगे देही न नश्यति ।
सप्तमन्वन्तरं पापी सन्तप्तस्तत्र तिष्ठति ॥ १२४ ॥
शब्दं करोत्यनाहारो यमदूतेन ताडितः ।
षष्टिवर्षसहस्राणि विट्कृमिश्च भवेत्ततः ॥ १२५ ॥
ततो भवेद्‌भूमिहीनो दरिद्रश्च ततः शुचिः ।
ततः स्वयोनिं सम्प्राप्य शुभं कर्माचरेत्पुनः ॥ १२६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नानाकर्मविपाकफलकथनं नाम त्रयस्त्रिंशोऽध्यायः ॥ ३३ ॥