देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २८

विकिस्रोतः तः
Jump to navigation Jump to search

सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनम्

श्रीनारायण उवाच
यमस्य वचनं श्रुत्वा सावित्री च पतिव्रता ।
तुष्टाव परया भक्त्या तमुवाच मनस्विनी ॥ १ ॥
सावित्र्युवाच
किं कर्म तद्‍भवेत्केन को वा तद्धेतुरेव च ।
को वा देही च देहः कः को वात्र कर्मकारकः ॥ २ ॥
किं वा ज्ञानं च बुद्धिः का को वा प्राणः शरीरिणाम् ।
कानीन्द्रियाणि किं तेषां लक्षणं देवताश्च काः ॥ ३ ॥
भोक्ता भोजयिता को वा को वा भोगश्च निष्कृतिः ।
को जीवः परमात्मा कस्तन्मे व्याख्यातुमर्हसि ॥ ४ ॥
धर्म उवाच
वेदप्रणिहितो धर्मः कर्म यन्मङ्‌गलं परम् ।
अवैदिकं तु यत्कर्म तदेवाशुभमेव च ॥ ५ ॥
अहैतुकी देवसेवा संकल्परहिता सती ।
कर्मनिर्मूलरूपा च सा एव परभक्तिदा ॥ ६ ॥
को वा कर्मफलं भुङ्‌क्ते को वा निर्लिप्त एव च ।
ब्रह्मभक्तो यो नरश्च स च मुक्तः श्रुतः श्रुतौ ॥ ७ ॥
जन्ममृत्युजराव्याधिशोकभीतिविवर्जितः ।
भक्तिश्च द्विविधा साध्वि श्रुत्युक्ता सर्वसम्मता ॥ ८ ॥
निर्वाणपददात्री च हरिरूपप्रदा नृणाम् ।
हरिरूपस्वरूपां च भक्तिं वाञ्छन्ति वैष्णवाः ॥ ९ ॥
अन्ये निर्वाणमिच्छन्ति योगिनो ब्रह्मवित्तमाः ।
कर्मणो बीजरूपश्च सततं तत्फलप्रदः ॥ १० ॥
कर्मरूपश्च भगवान्परात्मा प्रकृतिः परा ।
सोऽपि तद्धेतुरूपश्च देहो नश्वर एव च ॥ ११ ॥
पृथिवी वायुराकाशो जलं तेजस्तथैव च ।
एतानि सूत्ररूपाणि सृष्टिरूपविधौ सतः ॥ १२ ॥
कर्मकर्ता च देही च आत्मा भोजयिता सदा ।
भोगो विभवभेदश्च नित्कृतिर्मुक्तिरेव च ॥ १३ ॥
सदसद्‍भेदबीजं च ज्ञानं नानाविधं भवेत् ।
विषयाणां विभागानां भेदि बीजं च कीर्तितम् ॥ १४ ॥
बुद्धिर्विवेचना सा च ज्ञानबीजं श्रुतौ श्रुतम् ।
वायुभेदाश्च प्राणाश्च बलरूपाश्च देहिनाम् ॥ १५ ॥
इन्द्रियाणां च प्रवरमीश्वरांशमनूहकम् ।
प्रेरकं कर्मणां चैव दुर्निवार्यं च देहिनाम् ॥ १६ ॥
अनिरूप्यमदृश्यं च ज्ञानभेदो मनः स्मृतम् ।
लोचनं श्रवणं घ्राणं त्वक्च रसनमिन्द्रियम् ॥ १७ ॥
अङ्‌गिनामङ्‌गरूपं च प्रेरकं सर्वकर्मणाम् ।
रिपुरूपं मित्ररूपं सुखरूपं च दुःखदम् ॥ १८ ॥
सूर्यो वायुश्च पृथिवी ब्रह्माद्या देवताः स्मृताः ।
प्राणदेहादिभृद्यो हि स जीवः परिकीर्तितः ॥ १९ ॥
परमं व्यापकं ब्रह्म निर्गुणः प्रकृतेः परः ।
कारणं कारणानां च परमात्मा स उच्यते ॥ २० ॥
इत्येवं कथितं सर्वं त्वया पृष्टं यथागमम् ।
ज्ञानिनां ज्ञानरूपं च गच्छ वत्से यथासुखम् ॥ २१ ॥
सावित्र्युवाच
त्यक्त्वा क्व यामि कान्तं वा त्वां वा ज्ञानार्णवं ध्रुवम् ।
यद्यत्करोमि प्रश्नं च तद्‍भवान्वक्तुमर्हति ॥ २२ ॥
कां कां योनिं याति जीवः कर्मणा केन वा पुनः ।
केन वा कर्मणा स्वर्गं केन वा नरकं पितः ॥ २३ ॥
केन वा कर्मणा मुक्तिः केन भक्तिर्भवेद्‌ गुरौ ।
केन वा कर्मणा योगी रोगी वा केन कर्मणा ॥ २४ ॥
केन वा दीर्घजीवी च केनाल्पायुश्च कर्मणा ।
केन वा कर्मणा दुःखी सुखी वा केन कर्मणा ॥ २५ ॥
अङ्‌गहीनश्च काणश्च बधिरः केन कर्मणा ।
अन्धो वा पङ्‌गुरपि वा प्रमत्तः केन कर्मणा ॥ २६ ॥
क्षिप्तोऽतिलुब्धकश्चौरः केन वा कर्मणा भवेत् ।
केन सिद्धिमवाप्नोति सालोक्यादिचतुष्टयम् ॥ २७ ॥
केन वा ब्राह्मणत्वं च तपस्वित्वं च केन वा ।
स्वर्गभोगादिकं केन वैकुण्ठं केन कर्मणा ॥ २८ ॥
गोलोकं केन वा ब्रह्मन् सर्वोत्कृष्टं निरामयम् ।
नरको वा कतिविधः किंसंख्यो नाम किं च वा ॥ २९ ॥
को वा कं नरकं याति कियन्तं तेषु तिष्ठति ।
पापिनां कर्मणा केन को वा व्याधिः प्रजायते ।
यद्यत्प्रियं मया पृष्टं तन्मे व्याख्यातुमर्हसि ॥ ३० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसवादे सावित्र्युपाख्याने यमसावित्रीसंवादवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥