देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः २०

विकिस्रोतः तः

शङ्‌खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनम्

श्रीनारायण उवाच
ब्रह्मा शिवं संनियोज्य संहारे दानवस्य च ।
जगाम स्वालयं तूर्णं यथास्थानं सुरोत्तमाः ॥ १ ॥
चन्द्रभागानदीतीरे वटमूले मनोहरे ।
तत्र तस्थौ महादेवो देवविस्तारहेतवे ॥ २ ॥
दूतं कृत्वा चित्ररथं गन्धर्वेश्वरमीप्सितम् ।
शीघ्रं प्रस्थापयामास शङ्‌खचूडान्तिकं मुदा ॥ ३ ॥
सर्वेश्वराज्ञया शीघ्रं ययौ तन्नगरं परम् ।
महेन्द्रनगरोत्कृष्टं कुबेरभवनाधिकम् ॥ ४ ॥
पञ्चयोजनविस्तीर्णं दैर्घ्ये तद्‌ द्विगुणं भवेत् ।
स्फटिकाकारमणिभिर्निर्मितं यानवेष्टितम् ॥ ५ ॥
सप्तभिः परिखाभिश्च दुर्गमाभिः समन्वितम् ।
ज्वलदग्निनिभैः शश्वत्कल्पितं रत्‍नकोटिभिः ॥ ६ ॥
युक्तं च वीथीशतकैर्मणिवेदिविचित्रितैः ।
परितो वणिजां सौधैर्नानावस्तुविराजितैः ॥ ७ ॥
सिन्दूराकारमणिभिर्निर्मितैश्च विचित्रितैः ।
भूषितं भूषितैर्दिव्यैराश्रमैः शतकोटिभिः ॥ ८ ॥
गत्वा ददर्श तन्मध्ये शङ्‌खचूडालयं परम् ।
अतीव वलयाकारं यथा पूर्णेन्दुमण्डलम् ॥ ९ ॥
ज्वलदग्निशिखाक्ताभिः परिखाभिश्चतसृभिः ।
तद्दुर्गमं च शत्रूणामन्येषां सुगमं सुखम् ॥ १० ॥
अत्युच्चैर्गगनस्पर्शिमणिशृङ्‌गविराजितम् ।
राजितं द्वादशद्वारैर्द्वारपालसमन्वितम् ॥ ११ ॥
मणीन्द्रसारनिर्माणैः शोभितं लक्षमन्दिरैः ।
शोभितं रत्‍नसोपानै रत्‍नस्तम्भविराजितम् ॥ १२ ॥
तद्‌ दृष्ट्वा पुष्पदन्तोऽपि वरं द्वारं ददर्श सः ।
द्वारे नियुक्तं पुरुषं शूलहस्तं च सस्मितम् ॥ १३ ॥
तिष्ठन्तं पिङ्‌गलाक्षं च ताम्रवर्णं भयङ्‌करम् ।
कथयामास वृत्तान्तं जगाम तदनुज्ञया ॥ १४ ॥
अतिक्रम्य च तद्द्वारं जगामाभ्यन्तरं पुनः ।
न कोऽपि रक्षति श्रुत्वा दूतरूपं रणस्य च ॥ १५ ॥
गत्वा सोऽभ्यन्तरद्वारं द्वारपालमुवाच ह ।
रणस्य सर्ववृत्तान्तं विज्ञापयत माचिरम् ॥ १६ ॥
स च तं कथयित्वा च दूतो गन्तुमुवाच ह ।
स गत्वा शङ्‌खचूडं तं ददर्श सुमनोहरम् ॥ १७ ॥
राजमण्डलमध्यस्थं स्वर्णसिंहासने स्थितम् ।
मणीन्द्ररचितं दिव्यं रत्‍नदण्डसमन्वितम् ॥ १८ ॥
रत्‍नकृत्रिमपुष्पैश्च प्रशस्तैः शोभितं सदा ।
भृत्येन मस्तकन्यस्तं स्वर्णच्छत्रं मनोहरम् ॥ १९ ॥
सेवितं पार्षदगणै रुचिरैः श्वेतचामरैः ।
सुवेषं सुन्दरं रम्यं रत्‍नभूषणभूषितम् ॥ २० ॥
माल्येन लेपनं सूक्ष्मं सुवस्त्रं दधतं मुने ।
दानवेन्द्रैः परिवृतं सुवेषैश्च त्रिकोटिभिः ॥ २१ ॥
शतकोटिभिरन्यैश्च भ्रमद्‌भिरस्त्रपाणिभिः ।
एवंभूतञ्च तं दृष्ट्वा पुष्पदन्तः सविस्मयः ॥ २२ ॥
उवाच स च वृत्तान्तं यदुक्तं शङ्‌करेण च ।
पुष्पदन्त उवाच
राजेन्द्र शिवभृत्योऽहं पुष्पदन्ताभिधः प्रभो ॥ २३ ॥
यदुक्तं शङ्‌करेणैव तद्‌ ब्रवीमि निशामय ।
राज्यं देहि च देवानामधिकारं च साम्प्रतम् ॥ २४ ॥
देवाश्च शरणापन्ना देवेशं श्रीहरिं परम् ।
हरिर्दत्त्वास्य शूलं च तेन प्रस्थापितः शिवः ॥ २५ ॥
पुष्पभद्रानदीतीरे वटमूले त्रिलोचनः ।
विषयं देहि तेषां च युद्धं वा कुरु निश्चितम् ॥ २६ ॥
गत्वा वक्ष्यामि किं शम्भुमथ तद्वद मामपि ।
दूतस्य वचनं श्रुत्वा शङ्‌खचूडः प्रहस्य च ॥ २७ ॥
प्रभातेऽहं गमिष्यामि त्वं च गच्छेत्युवाच ह ।
स गत्वोवाच तं तूर्णं वटमूलस्थमीश्वरम् ॥ २८ ॥
शङ्‌खचूडस्य वचनं तदीयं तन्मुखोदितम् ।
एतस्मिन्नन्तरे स्कन्द आजगाम शिवान्तिकम् ॥ २९ ॥
वीरभद्रश्च नन्दी च महाकालः सुभद्रकः ।
विशालाक्षश्च बाणश्च पिङ्‌गलाक्षो विकम्पनः ॥ ३० ॥
विरूपो विकृतिश्चैव मणिभद्रश्च बाष्कलः ।
कपिलाख्यो दीर्घदंष्ट्रो विकटस्ताम्रलोचनः ॥ ३१ ॥
कालकण्ठो बलीभद्रः कालजिह्नः कुटीचरः ।
बलोन्मत्तो रणश्लाघी दुर्जयो दुर्गमस्तथा ॥ ३२ ॥
अष्टौ च भैरवा रौद्रा रुद्राश्चैकादश स्मृताः ।
वसवोऽष्टौ वासवश्च आदित्या द्वादश स्मृताः ॥ ३३ ॥
हुताशनश्च चन्द्रश्च विश्वकर्माश्विनौ च तौ ।
कुबेरश्च यमश्चैव जयन्तो नलकूबरः ॥ ३४ ॥
वायुश्च वरुणश्चैव बुधश्च मङ्‌गलस्तथा ।
धर्मश्च शनिरीशानः कामदेवश्च वीर्यवान् ॥ ३५ ॥
उग्रदंष्ट्रा चोग्रदण्डा कोटरा कैटभी तथा ।
स्वयं चाष्टभुजा देवी भद्रकाली भयङ्‌करी ॥ ३६ ॥
रत्‍नेन्द्रसारनिर्माणविमानोपरि संस्थिता ।
रक्तवस्त्रपरीधाना रक्तमाल्यानुलेपना ॥ ३७ ॥
नृत्यन्ती च हसन्ती च गायन्ती सुस्वरं मुदा ।
अभयं ददाति भक्तेभ्योऽभया सा च भयं रिपुम् ॥ ३८ ॥
बिभ्रती विकटां जिह्वां सुलोलां योजनायताम् ।
शङ्‌खचक्रगदापद्मखड्गचर्मधनुःशरान् ॥ ३९ ॥
खर्परं वर्तुलाकारं गम्भीरं योजनायतम् ।
त्रिशूलं गगनस्पर्शि शक्तिं च योजनायताम् ॥ ४० ॥
मुद्‌गरं मुसलं वज्रं खेटं फलकमुज्ज्वलम् ।
वैष्णवास्त्रं वारुणास्त्रं वाह्नेयं नागपाशकम् ॥ ४१ ॥
नारायणास्त्रं गान्धर्वं ब्रह्मास्त्रं गारुडं तथा ।
पर्जन्यास्त्रं पाशुपतं जृम्भणास्त्रं च पार्वतम् ॥ ४२ ॥
माहेश्वरास्त्रं वायव्यं दण्डं सम्मोहनं तथा ।
अव्यर्थमस्त्रकं दिव्यं दिव्यास्त्रशतकं परम् ॥ ४३ ॥
आगत्य तत्र तस्थौ च योगिनीनां त्रिकोटिभिः ।
सार्धं च डाकिनीनां च विकटानां त्रिकोटिभिः ॥ ४४ ॥
भूतप्रेतपिशाचाश्च कूष्माण्डा ब्रह्मराक्षसाः ।
वेताला राक्षसाश्चैव यक्षाश्चैव तु किन्नराः ॥ ४५ ॥
ताभिश्चैव सह स्कन्दः प्रणम्य चन्द्रशेखरम् ।
पितुः पार्श्वे सहायार्थं समुवास तदाज्ञया ॥ ४६ ॥
अथ दूते गते तत्र शङ्‌खचूडः प्रतापवान् ।
उवाच तुलसीं वार्तां गत्वाभ्यन्तरमेव च ॥ ४७ ॥
रणवार्तां च सा श्रुत्वा शुष्ककण्ठोष्ठतालुका ।
उवाच मधुरं साध्वी हृदयेन विदूयता ॥ ४८ ॥
तुलस्युवाच
हे प्राणबन्धो हे नाथ तिष्ठ मे वक्षसि क्षणम् ।
हे प्राणाधिष्ठातृदेव रक्ष मे जीवितं क्षणम् ॥ ४९ ॥
भुंक्ष्व जन्म समासाद्य यन्मे मनसि वाञ्छितम् ।
पश्यामि त्वां क्षणं किञ्चिल्लोचनाभ्यां च सादरम् ॥ ५० ॥
आन्दोलयन्ते प्राणा मे मनो दग्धं च सन्ततम् ।
दुःस्वप्नश्च मया दृष्टश्चाद्यैव चरमे निशि ॥ ५१ ॥
तुलसीवचनं श्रुत्वा भुक्त्वा पीत्वा नृपेश्वर ।
उवाच वचनं प्राज्ञो हितं सत्यं यथोचितम् ॥ ५२ ॥
शंखचूड उवाच
कालेन योजितं सर्वं कर्मभोगनिबन्धनम् ।
शुभं हर्षः सुखं दुःखं भयं शोकश्च मङ्‌गलम् ॥ ५३ ॥
काले भवन्ति वृक्षाश्च स्कन्धवन्तश्च कालतः ।
क्रमेण पुष्पवन्तश्च फलवन्तश्च कालतः ॥ ५४ ॥
तेषां फलानि पक्वानि प्रभवन्त्येव कालतः ।
ते सर्वे फलिताः काले पातं यान्ति च कालतः ॥ ५५ ॥
काले भवन्ति विश्वानि काले नश्यन्ति सुन्दरि ।
कालात्स्रष्टा च सृजति पाता पाति च कालतः ॥ ५६ ॥
संहर्ता संहरेत्काले क्रमेण सञ्चरन्ति ते ।
ब्रह्मविष्णुशिवादीनामीश्वरः प्रकृतिः परा ॥ ५७ ॥
स्रष्टा पाता च संहर्ता स चात्मा कालनर्तकः ।
काले स एव प्रकृतिं स्वाभिन्नां स्वेच्छया प्रभुः ॥ ५८ ॥
निर्माय कृतवान्सर्वान्विश्वस्थांश्च चराचरान् ।
सर्वेशः सर्वरूपश्च सर्वात्मा परमेश्वरः ॥ ५९ ॥
जनं जनेन जनिता जनं पाति जनेन यः ।
जनं जनेन हरते तं देवं भज साम्प्रतम् ॥ ६० ॥
यस्याज्ञया वाति वातः शीघ्रगामी च साम्प्रतम् ।
यस्याज्ञया च तपनस्तपत्येव यथाक्षणम् ॥ ६१ ॥
यथाक्षणं वर्षतीन्द्रो मृत्युश्चरति जन्तुषु ।
यथाक्षणं दहत्यग्निश्चन्द्रो भ्रमति शीतवान् ॥ ६२ ॥
मृत्योर्मृत्युं कालकालं यमस्य च यमं परम् ।
विभुं स्रष्टुश्च स्रष्टारं मातुश्च मातृकं भवे ॥ ६३ ॥
संहर्तारं च संहर्तुस्तं देवं शरणं व्रज ।
को वा बन्धुश्च केषां वा सर्वबन्धुं भज प्रिये ॥ ६४ ॥
अहं को वा च त्वं का वा विधिना योजितः पुरा ।
त्वया सार्धं कर्मणा च पुनस्तेन वियोजितः ॥ ६५ ॥
अज्ञानी कातरः शोके विपत्तौ न च पण्डितः ।
सुखे दुःखे भ्रमत्येव कालनेमिक्रमेण च ॥ ६६ ॥
नारायणं तं सर्वेशं कान्तं यास्यसि निश्चितम् ।
तपः कृतं यदर्थं च पुरा बदरिकाश्रमे ॥ ६७ ॥
मया त्वं तपसा लब्धा ब्रह्मणस्तु वरेण च ।
हर्यर्थे यत्तव तपो हरिं प्राप्स्यसि कामिनि ॥ ६८ ॥
वृन्दावने च गोविन्दं गोलोके त्वं लभिष्यसि ।
अहं यास्यामि तल्लोकं तनुं त्यक्त्वा च दानवीम् ॥ ६९ ॥
तत्र द्रक्ष्यसि मां त्वं च द्रक्ष्यामि त्वां च साम्प्रतम् ।
अगमं राधिकाशापाद्‍भारतं च सुदुर्लभम् ॥ ७० ॥
पुनर्यास्यामि तत्रैव कः शोको मे शृणु प्रिये ।
त्वं च देहं परित्यज्य दिव्यरूपं विधाय च ॥ ७१ ॥
तत्कालं प्राप्स्यसि हरिं मा कान्ते कातरा भव ।
इत्युक्त्वा च दिनान्ते च तया सार्धं मनोहरम् ॥ ७२ ॥
सुष्वाप शोभने तल्पे पुष्पचन्दनचर्चिते ।
नानाप्रकारविभवं चकार रत्‍नमन्दिरे ॥ ७३ ॥
रत्‍नप्रदीपसंयुक्ते स्त्रीरत्‍नं प्राप्य सुन्दरीम् ।
निनाय रजनीं राजा क्रीडाकौतुकमङ्‌गलैः ॥ ७४ ॥
कृत्वा वक्षसि तां कान्तां रुदतीमतिदुःखिताम् ।
कृशोदरीं निराहारां निमग्नां शोकसागरे ॥ ७५ ॥
पुनस्तां बोधयामास दिव्यज्ञानेन ज्ञानवित् ।
पुरा कृष्णेन यद्दत्तं भाण्डीरे तत्त्वमुत्तमम् ॥ ७६ ॥
स च तस्यै ददौ सर्वं सर्वशोकहरं परम् ।
ज्ञानं सम्प्राप्य सा देवी प्रसन्नवदनेक्षणा ॥ ७७ ॥
क्रीडां चकार हर्षेण सर्वं मत्वेति नश्वरम् ।
तौ दम्पती च क्रीडन्तौ निमग्नौ सुखसागरे ॥ ७८ ॥
पुलकाञ्चितसर्वाङ्‌गौ मूर्च्छितौ निर्जने मुने ।
अङ्‌गप्रत्यङ्‌गसंयुक्तौ सुप्रीतौ सुरतोत्सुको ॥ ७९ ॥
एकाङ्‌गौ च तथा तौ द्वौ चार्धनारीश्वरो यथा ।
प्राणेश्वरं च तुलसी मेने प्राणाधिकं परम् ॥ ८० ॥
प्राणाधिकां च तां मेने राजा प्राणेश्वरीं सतीम् ।
तौ स्थितौ सुखसुप्तौ च तन्द्रितौ सुन्दरौ समौ ॥ ८१ ॥
सुवेषौ सुखसम्भोगादचेष्टौ सुमनोहरौ ।
क्षणं सुचेतनौ तौ च कथयन्तौ रसाश्रयात् ॥ ८२ ॥
कथां मनोरमां दिव्यां हसन्तौ च क्षणं पुनः ।
क्षणं च केलिसंयुक्तौ रसभावसमन्वितौ ॥ ८३ ॥
सुरते विरतिर्नास्ति तौ तद्विषयपण्डितौ ।
सततं जययुक्तौ द्वौ क्षणं नैव पराजितौ ॥ ८४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे शङ्‌खचूडेन सह देवानां सङ्ग्रामोद्योगवर्णनं नाम विंशोऽध्यायः ॥ २० ॥