देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १८

विकिस्रोतः तः

शङ्‌खचूडेन सह तुलस्याः सङ्‌गतिवर्णनम्

नारायण उवाच
तुलसी परितुष्टा च सुष्वाप हृष्टमानसा ।
नवयौवनसम्पन्ना वृषध्वजवराङ्‌गना ॥ १ ॥
चिक्षेप पञ्चबाणश्च पञ्चबाणांश्च तां प्रति ।
पुष्पायुधेन सा दग्धा पुष्पचन्दनचर्चिता ॥ २ ॥
पुलकाङ्‌कितसर्वाङ्‌गी कम्पितारक्तलोचना ।
क्षणं सा शुष्कतां प्राप क्षणं मूर्च्छामवाप ह ॥ ३ ॥
क्षणमुद्विग्नतां प्राप क्षणं तन्द्रां सुखावहाम् ।
क्षणं च दहनं प्राप क्षणं प्राप प्रसन्नताम् ॥ ४ ॥
क्षणं सा चेतनां प्राप क्षणं प्राप विषण्णताम् ।
उत्तिष्ठन्ती क्षणं तल्पाद्‌ गच्छन्ती निकटे क्षणम् ॥ ५ ॥
भ्रमन्ती क्षणमुद्वेगान्निवसन्ती क्षणं पुनः ।
क्षणमेव समुद्वेगात्सुष्वाप पुनरेव सा ॥ ६ ॥
पुष्पचन्दनतल्पं च तद्‌ बभूवातिकण्टकम् ।
विषहारि सुखं दिव्यं सुन्दरं च फलं जलम् ॥ ७ ॥
निलयं च बिलाकारं सूक्ष्मवस्त्रं हुताशनः ।
सिन्दूरपत्रकं चैव व्रणतुल्यं च दुःखदम् ॥ ८ ॥
क्षणं ददर्श तन्द्रायां सुवेषं पुरुषं सती ।
सुन्दरं च युवानं च सस्मितं रसिकेश्वरम् ॥ ९ ॥
चन्दनोक्षितसर्वाङ्‌गं रत्‍नभूषणभूषितम् ।
आगच्छन्तं माल्यवन्तं पिबन्तं तन्मुखाम्बुजम् ॥ १० ॥
कथयन्तं रतिकथां ब्रुवन्तं मधुरं मुहुः ।
सम्भुक्तवन्तं तल्पे च समाश्लिष्यन्तमीप्सितम् ॥ ११ ॥
पुनरेव तु गच्छन्तमागच्छन्तं च सन्निधौ ।
यान्तं क्व यासि प्राणेश तिष्ठत्येवमुवाच सा ॥ १२ ॥
पुनश्च चेतनां प्राप्य विललाप पुनः पुनः ।
एवं सा यौवनं प्राप्य तस्थौ तत्रैव नारद ॥ १३ ॥
शङ्‌खचूडो महायोगी जैगीषव्यान्मनोहरम् ।
कृष्णमन्त्रं च सम्प्राप्य कृत्वा सिद्धं तु पुष्करे ॥ १४ ॥
कवचं च गले बद्ध्वा सर्वमङ्‌गलमङ्‌गलम् ।
ब्रह्मणश्च वरं प्राप्य यत्ते मनसि वाञ्छितम् ॥ १५ ॥
आज्ञया ब्रह्मणः सोऽपि बदरीं च समाययौ ।
आगच्छन्तं शङ्‌खचूडं ददर्श तुलसी मुने ॥ १६ ॥
नवयौवनसम्पन्नं कामदेवसमप्रभम् ।
श्वेतचम्पकवर्णाभं रत्‍नभूषणभूषितम् ॥ १७ ॥
शरत्पार्वणचन्द्रास्यं शरत्पङ्‌कजलोचनम् ।
रत्‍नसारविनिर्माणविमानस्थं मनोहरम् ॥ १८ ॥
रत्‍नकुण्डलयुग्मेन गण्डस्थलविराजितम् ।
पारिजातप्रसूनानां मालावन्तं च सुस्मितम् ॥ १९ ॥
कस्तूरीकुङ्‌कुमायुक्तं सुगन्धिचन्दनान्वितम् ।
सा दृष्ट्वा सन्निधावेनं मुखमाच्छाद्य वाससा ॥ २० ॥
सस्मिता तं निरीक्षन्ती सकटाक्षं पुनः पुनः ।
बभूवातिनम्रमुखी नवसङ्‌गमलज्जिता ॥ २१ ॥
शरदिन्दुविनिन्द्यैकस्वमुखेन्दुविराजिता ।
अमूल्यरत्‍ननिर्माणयावकावलिसंयुता ॥ २२ ॥
मणीन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता ।
दधती कबरीभारं मालतीमाल्यसंयुतम् ॥ २३ ॥
अमूल्यरत्‍ननिर्माणमकराकृतिकुण्डला ।
चित्रकुण्डलयुग्मेन गण्डस्थलविराजिता ॥ २४ ॥
रत्‍नेन्द्रसारहारेण स्तनमध्यस्थलोज्ज्वला ।
रत्‍नकङ्‌कणकेयूरशङ्‌खभूषणभूषिता ॥ २५ ॥
रत्‍नाङ्‌गुलीयकैर्दिव्यैरङ्‌गुल्यावलिराजिता ।
दृष्ट्वा तां ललितां रम्यां सुशीलां सुन्दरीं सतीम् ॥ २६ ॥
उवास तत्समीपे तु मधुरं तामुवाच सः ।
शङ्खचूड उवाच
का त्वं कस्य च कन्या च धन्या मान्या च योषिताम् ॥ २७ ॥
का त्वं मानिनि कल्याणि सर्वकल्याणदायिनि ।
मौनीभूते किङ्‌करे मां सम्भाषां कुरु सुन्दरि ॥ २८ ॥
इत्येवं वचनं श्रुत्वा सकामा वामलोचना ।
सस्मिता नम्रवदना सकामं तमुवाच सा ॥ २९ ॥
तुलस्युवाच
धर्मध्वजसुताहं च तपस्यायां तपोवने ।
तपस्विन्यहं तिष्ठामि कस्त्वं गच्छ यथासुखम् ॥ ३० ॥
कामिनीं कुलजातां च रहस्येकाकिनीं सतीम् ।
न पृच्छति कुले जात इत्येवं मे श्रुतौ श्रुतम् ॥ ३१ ॥
लम्पटोऽसत्कुले जातो धर्मशास्त्रार्थवर्जितः ।
येनाश्रुतः श्रुतेरर्थः स कामीच्छति कामिनीम् ॥ ३२ ॥
आपातमधुरां मत्तामन्तकां पुरुषस्य ताम् ।
विषकुम्भाकाररूपाममृतास्यां च सन्ततम् ॥ ३३ ॥
हृदये क्षुरधाराभां शश्वन्मधुरभाषिणीम् ।
स्वकार्यपरिनिष्पत्त्यै तत्परा सततं च ताम् ॥ ३४ ॥
कार्यार्थे स्वामिवशगामन्यथैवावशां सदा ।
स्वान्तर्मलिनरूपां च प्रसन्नवदनेक्षणाम् ॥ ३५ ॥
श्रुतौ पुराणे यासां च चरित्रमतिदूषितम् ।
तासु को विश्वसेत्प्राज्ञः प्रज्ञावांश्च दुराशयः ॥ ३६ ॥
तासां को वा रिपुर्मित्रं प्रार्थयन्ति नवं नवम् ।
दृष्ट्वा सुवेषं पुरुषमिच्छन्ति हृदये सदा ॥ ३७ ॥
बाह्ये स्वार्थं सतीत्वं च ज्ञापयन्ती प्रयत्‍नतः ।
शश्वत्कामा च रामा च कामाधारा मनोहरा ॥ ३८ ॥
बाह्ये छलात्खेदयन्ती स्वान्तर्मैथुनमानसा ।
कान्तं हसन्ती रहसि बाह्येऽतीव सुलज्जिता ॥ ३९ ॥
मानिनी मैथुनाभावे कोपना कलहाङ्‌कुरा ।
सुप्रीता भूरिसम्भोगात्स्वल्पमैथुनदुःखिता ॥ ४० ॥
सुमिष्टान्नाच्छीततोयादाकाङ्‌क्षन्ती च मानसे ।
सुन्दरं रसिकं कान्तं युवानं गुणिनं सदा ॥ ४१ ॥
सुतात्परमभिस्नेहं कुर्वती रसिकोपरि ।
प्राणाधिकं प्रियतमं सम्भोगकुशलं प्रियम् ॥ ४२ ॥
पश्यन्ती रिपुतुल्यं च वृद्धं वा मैथुनाक्षमम् ।
कलहं कुर्वती शश्वत्तेन सार्धं सुकोपना ॥ ४३ ॥
वाचया भक्षयन्ती तं सर्प आखुमिवोल्बणम् ।
दुःसाहसस्वरूपा च सर्वदोषाश्रया सदा ॥ ४४ ॥
ब्रह्मविष्णुशिवादीनां दुःसाध्या मोहरूपिणी ।
तपोमार्गार्गला शश्वन्मोक्षद्वारकपाटिका ॥ ४५ ॥
हरेर्भक्तिव्यवहिता सर्वमायाकरण्डिका ।
संसारकारागारे च शश्वन्निगडरूपिणी ॥ ४६ ॥
इन्द्रजालस्वरूपा च मिथ्या च स्वप्नरूपिणी ।
बिभ्रती बाह्यसौन्दर्यमधोऽङ्‌गमतिकुत्सितम् ॥ ४७ ॥
नानाविण्मूत्रपूयानामाधारं मलसंयुतम् ।
दुर्गन्धिदोषसंयुक्तं रक्तारक्तमसंस्कृतम् ॥ ४८ ॥
मायारूपा मायिनां च विधिना निर्मिता पुरा ।
विषरूपा मुमुक्षूणामदृश्याप्यभिवाञ्छताम् ॥ ४९ ॥
इत्युक्त्वा तुलसी तं तु विरराम च नारद ।
सस्मितः शङ्‌खचूडश्च प्रवक्तुमुपचक्रमे ॥ ५० ॥
शङ्खचूड उवाच
त्वया यत्कथितं देवि न च सर्वमलीककम् ।
किञ्चित्सत्यमलीकं च किञ्चिन्मत्तो निशामय ॥ ५१ ॥
निर्मितं द्विविधं धात्रा स्त्रीरूपं सर्वमोहनम् ।
कृत्वा रूपं वास्तवं च प्रशस्यं चाप्रशंसितम् ॥ ५२ ॥
लक्ष्मीः सरस्वती दुर्गा सावित्री राधिकादिका ।
सृष्टिसूत्रस्वरूपा च आद्या सृष्टिर्विनिर्मिता ॥ ५३ ॥
एतासामंशरूपं च स्त्रीरूपं वास्तवं स्मृतम् ।
तत्प्रशस्यं यशोरूपं सर्वमङ्‌गलकारकम् ॥ ५४ ॥
शतरूपा देवहूती स्वधा स्वाहा च दक्षिणा ।
छायावती रोहिणी च वरुणानी शची तथा ॥ ५५ ॥
कुबेरस्य च पत्‍नी याप्यदितिश्च दितिस्तथा ।
लोपामुद्रानसूया च कोटभी तुलसी तथा ॥ ५६ ॥
अहल्यारुन्धती मेना तारा मन्दोदरी तथा ।
दमयन्ती वेदवती गङ्‌गा च मनसा तथा ॥ ५७ ॥
पुष्टिस्तुष्टिः स्मृतिर्मेधा कालिका च वसुन्धरा ।
षष्ठी मङ्‌गलचण्डी च मूर्तिश्च धर्मकामिनी ॥ ५८ ॥
स्वस्तिः श्रद्धा च शान्तिश्च कान्तिः क्षान्तिस्तथा परा ।
निद्रा तन्द्रा क्षुत्पिपासा सन्ध्या रात्रिदिनानि च ॥ ५९ ॥
सम्पत्तिर्धृतिकीर्ती च क्रिया शोभा प्रभा शिवा ।
यत्स्त्रीरूपं च सम्भूतमुत्तमं तु युगे युगे ॥ ६० ॥
कलाकलांशरूपं च स्वर्वेश्यादिकमेव च ।
तदप्रशस्यं विश्वेषु पुंश्चलीरूपमेव च ॥ ६१ ॥
सत्त्वप्रधानं यद्‌रूपं तद्युक्तं च प्रभावतः ।
तदुत्तमं च विश्वेषु साध्वीरूपं प्रशंसितम् ॥ ६२ ॥
तद्वास्तवं च विज्ञेयं प्रवदन्ति मनीषिणः ।
रजोरूपं तमोरूपं कलासु विविधं स्मृतम् ॥ ६३ ॥
मध्यमा रजसश्चांशास्तास्तु भोगेषु लोलुपाः ।
सुखसम्भोगवश्याश्च स्वकार्ये निरताः सदा ॥ ६४ ॥
कपटा मोहकारिण्यो धर्मार्थविमुखाः सदा ।
रजोरूपस्य साध्वीत्वमतो नैवोपजायते ॥ ६५ ॥
इदं मध्यमरूपं च प्रवदन्ति मनीषिणः ।
तमोरूपं दुर्निवार्यमधमं तद्विदुर्बुधाः ॥ ६६ ॥
न पृच्छति कुले जातः पण्डितश्च परस्त्रियम् ।
निर्जने निर्जले वापि रहस्यपि परस्त्रियम् ॥ ६७ ॥
आगच्छामि त्वत्समीपमाज्ञया ब्रह्मणोऽधुना ।
गान्धर्वेण विवाहेन त्वां ग्रहीष्यामि शोभने ॥ ६८ ॥
अहमेव शङ्‌खचूडो देवविद्रावकारकः ।
दनुवंश्यो विशेषेण सुदामाहं हरेः पुरा ॥ ६९ ॥
अहमष्टसु गोपेषु गोपोऽपि पार्षदेषु च ।
अधुना दानवेन्द्रोऽहं राधिकायाश्च शापतः ॥ ७० ॥
जातिस्मरोऽहं जानामि कृष्णमन्त्रप्रभावतः ।
जातिस्मरा त्वं तुलसी सम्भुक्ता हरिणा पुरा ॥ ७१ ॥
त्वमेव राधिकाकोपाज्जातासि भारते भुवि ।
त्वां सम्भोक्तुमुत्सुकोऽहं नालं राधाभयात्ततः ॥ ७२ ॥
इत्येवमुक्त्वा स पुमान्विरराम महामुने ।
सस्मितं तुलसी तुष्टा प्रवक्तुमुपचक्रमे ॥ ७३ ॥
तुलस्युवाच
एवंविधो बुधो नित्यं विश्वेषु च प्रशंसितः ।
कान्तमेवंविधं कान्ता शश्वदिच्छति कामतः ॥ ७४ ॥
त्वयाहमधुना सत्यं विचारेण पराजिता ।
स निन्दितश्चाप्यशुचिर्यः पुमांश्च स्त्रिया जितः ॥ ७५ ॥
निन्दन्ति पितरो देवा बान्धवाः स्त्रीजितं नरम् ।
स्त्रीजितं मनसा माता पिता भ्राता च निन्दति ॥ ७६ ॥
शुद्धो विप्रो दशाहेन जातके मृतके यथा ।
भूमिपो द्वादशाहेन वैश्यः पञ्चदशाहतः ॥ ७७ ॥
शूद्रो मासेन वेदेषु मातृवद्धीनसङ्‌करः ।
अशुचिः स्त्रीजितः शुद्ध्येच्चितादहनकालतः ॥ ७८ ॥
न गह्णन्तीच्छया तस्य पितरः पिण्डतर्पणम् ।
न गह्णन्त्येव देवाश्च तस्य पुष्पजलादिकम् ॥ ७९ ॥
किं वा ज्ञानेन तपसा जपहोमप्रपूजनैः ।
किं विद्यया च यशसा स्त्रीभिर्यस्य मनो हृतम् ॥ ८० ॥
विद्याप्रभावज्ञानार्थं मया त्वं च परीक्षितः ।
कृत्वा परीक्षां कान्तस्य वृणोति कामिनी वरम् ॥ ८१ ॥
वराय गुणहीनाय वृद्धायाज्ञानिने तथा ।
दरिद्राय च मूर्खाय रोगिणे कुत्सिताय च ॥ ८२ ॥
अत्यन्तकोपयुक्ताय वात्यन्तदुर्मुखाय च ।
पङ्‌गवे चाङ्‌गहीनाय चान्धाय बधिराय च ॥ ८३ ॥
जडाय चैव मूकाय क्लीबतुल्याय पापिने ।
ब्रह्महत्यां लभेत्सोऽपि स्वकन्यां प्रददाति यः ॥ ८४ ॥
शान्ताय गुणिने चैव यूने च विदुषेऽपि च ।
साधवे च सुतां दत्त्वा दशयज्ञफलं लभेत् ॥ ८५ ॥
यः कन्यापालनं कृत्वा करोति यदि विक्रयम् ।
विक्रेता धनलोभेन कुम्भीपाकं स गच्छति ॥ ८६ ॥
कन्यामूत्रं पुरीषं च तत्र भक्षति पातकी ।
कृमिभिर्दंशितः काकैर्यावदिन्द्राश्चतुर्दश ॥ ८७ ॥
तदन्ते व्याधिसंयुक्तः स लभेज्जन्म निश्चितम् ।
विक्रीणाति मांसभारं वहत्येव दिवानिशम् ॥ ८८ ॥
इत्येवमुक्त्वा तुलसी विरराम तपोनिधे ।
ब्रह्मोवाच
किं करोषि शङ्‌खचूड संवादमनया सह ॥ ८९ ॥
गान्धर्वेण विवाहेन त्वं चास्या ग्रहणं कुरु ।
पुरुषेष्वसि रत्‍नं त्वं स्त्रीषु रत्‍नं त्वियं सती ॥ ९० ॥
विदग्धाया विदग्धेन सङ्‌गमो गुणवान्भवेत् ।
निर्विरोधसुखं राजन् को वा त्यजति दुर्लभम् ॥ ९१ ॥
योऽविरोधसुखत्यागी स पशुर्नात्र संशयः ।
किं परीक्षसि त्वं कान्तमीदृशं गुणिनं सति ॥ ९२ ॥
देवानामसुराणां च दानवानां विमर्दकम् ।
यथा लक्ष्मीश्च लक्ष्मीशे यथा कृष्णे च राधिका ॥ ९३ ॥
यथा मयि च सावित्री भवानी च भवे यथा ।
यथा धरा वराहे च दक्षिणा च यथाध्वरे ॥ ९४ ॥
द्यथात्रेरनसूया च दमयन्ती यथा नले ।
रोहिणी च यथा चन्द्रे यथा कामे रतिः सती ॥ ९५ ॥
यथादितिः कश्यपे च वसिष्ठेऽरुन्धती सखी ।
यथाहल्या गौतमे च देवहूतिश्च कर्दमे ॥ ९६ ॥
यथा बृहस्पतौ तारा शतरूपा मनौ यथा ।
यथा च दक्षिणा यज्ञे यथा स्वाहा हुताशने ॥ ९७ ॥
यथा शची महेन्द्रे च यथा पुष्टिर्गणेश्वरे ।
देवसेना यथा स्कन्दे धर्मे भूर्तिर्यथा सती ॥ ९८ ॥
सौभाग्या सुप्रिया त्वं च शङ्‌खचूडे तथा भव ।
अनेन सार्धं सुचिरं सुन्दरेण च सुन्दरि ॥ ९९ ॥
स्थाने स्थाने विहारं च यथेच्छं कुरु सन्ततम् ।
पश्चात्प्राप्यसि गोलोके श्रीकृष्णं पुनरेव च ।
चतुर्भुजं च वैकुण्ठे शङ्‌खचूडे मृते सति ॥ १०० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे शङ्‌खचूडेन सह तुलस्याः सङ्‌गतिवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥