देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १६

विकिस्रोतः तः

महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनम्

श्रीनारायण उवाच
लक्ष्मीं तौ च समाराध्य चोग्रेण तपसा मुने ।
वरमिष्टं च प्रत्येकं सम्प्रापतुरभीप्सितम् ॥ १ ॥
महालक्ष्मीवरेणैव तौ पृथ्वीशौ बभूवतुः ।
पुण्यवन्तौ पुत्रवन्तौ धर्मध्वजकुशध्वजौ ॥ २ ॥
कुशध्वजस्य पत्‍नी च देवी मालावती सती ।
सा सुषाव च कालेन कमलांशां सुतां सतीम् ॥ ३ ॥
सा च भूयिष्ठकालेन ज्ञानयुक्ता बभूव ह ।
कृत्वा वेदध्वनिं स्पष्टमुत्तस्थौ सूतिकागृहात् ॥ ४ ॥
वेदध्वनिं सा चकार जातमात्रेण कन्यका ।
तस्मात्तां च वेदवतीं प्रवदन्ति मनीषिणः ॥ ५ ॥
जातमात्रेण सुस्नाता जगाम तपसे वनम् ।
सर्वैर्निषिद्धा यत्‍नेन नारायणपरायणा ॥ ६ ॥
एकमन्वन्तरं चैव पुष्करे च तपस्विनी ।
अत्युग्रां च तपस्यां च लीलया हि चकार सा ॥ ७ ॥
तथापि पुष्टा न क्लिष्टा नवयौवनसंयुता ।
सुश्राव सा च सहसा सुवाचमशरीरिणीम् ॥ ८ ॥
जन्मान्तरे च ते भर्ता भविष्यति हरिः स्वयम् ।
ब्रह्मादिभिर्दुराराध्यं पतिं लप्स्यसि सुन्दरि ॥ ९ ॥
इति श्रुत्वा च सा हृष्टा चकार ह पुनस्तपः ।
अतीव निर्जनस्थाने पर्वते गन्धमादने ॥ १० ॥
तत्रैव सुचिरं तप्त्वा विश्वस्य समुवास सा ।
ददर्श पुरतस्तत्र रावणं दुर्निवारणम् ॥ ११ ॥
दृष्ट्वा सातिथिभक्त्या च पाद्यं तस्मै ददौ किल ।
सुस्वादुभूतं च फलं जलं चापि सुशीतलम् ॥ १२ ॥
तच्च भुक्त्वा स पापिष्ठश्चोवास तत्समीपतः ।
चकार प्रश्नमिति तां का त्वं कल्याणि वर्तसे ॥ १३ ॥
तां दृष्ट्वा स वरारोहां पीनश्रोणिपयोधराम् ।
शरत्पद्मोत्सवास्यां च सस्मितां सुदतीं सतीम् ॥ १४ ॥
मूर्च्छामवाप कृपणः कामबाणप्रपीडितः ।
स करेण समाकृष्य शृङ्‌गारं कर्तुमुद्यतः ॥ १५ ॥
सती चुकोप दृष्ट्वा तं स्तम्भितं च चकार ह ।
स जडो हस्तपादैश्च किञ्चिद्वक्तुं न च क्षमः ॥ १६ ॥
तुष्टाव मनसा देवीं प्रययौ पद्मलोचनाम् ।
सा तुष्टा तस्य स्तवनं सुकृतं च चकार ह ॥ १७ ॥
सा शशाप मदर्थे त्वं विनंक्ष्यसि सबान्धवः ।
स्पृष्टाहं च त्वया कामाद्‌ बलं चाप्यवलोकय ॥ १८ ॥
इत्युक्त्वा सा च योगेन देहत्यागं चकार ह ।
गङ्‌गायां तां च संन्यस्य स्वगृहं रावणो ययौ ॥ १९ ॥
अहो किमद्‍भुतं दृष्टं किं कृतं वानयाधुना ।
इति सञ्चिन्त्य सञ्चिन्त्य विललाप पुनः पुनः ॥ २० ॥
सा च कालान्तरे साध्वी बभूव जनकात्मजा ।
सीतादेवीति विख्याता यदर्थे रावणो हतः ॥ २१ ॥
महातपस्विनी सा च तपसा पूर्वजन्मतः ।
लेभे रामं च भर्तारं परिपूर्णतमं हरिम् ॥ २२ ॥
सम्प्राप तपसाऽऽराध्य दुराराध्यं जगत्पतिम् ।
सा रमा सुचिरं रेमे रामेण सह सुन्दरी ॥ २३ ॥
जातिस्मरा न स्मरति तपसश्च क्लमं पुरा ।
सुखेन तज्जहौ सर्वं दुःखं चापि सुखं फले ॥ २४ ॥
नानाप्रकारविभवं चकार सुचिरं सती ।
सम्प्राप्य सुकुमारं तमतीव नवयौवना ॥ २५ ॥
गुणिनं रसिकं शान्तं कान्तं देवमनुत्तमम् ।
स्त्रीणां मनोज्ञं रुचिरं तथा लेभे यथेप्सितम् ॥ २६ ॥
पितुः सत्यपालनार्थं सत्यसन्धो रघूद्वहः ।
जगाम काननं पश्चात्कालेन च बलीयसा ॥ २७ ॥
तस्थौ समुद्रनिकटे सीतया लक्ष्मणेन च ।
ददर्श तत्र वह्निं च विप्ररूपधरं हरिः ॥ २८ ॥
रामं च दुःखितं दृष्ट्वा स च दुःखी बभूव ह ।
उवाच किञ्चित्सत्येष्टं सत्यं सत्यपरायणः ॥ २९ ॥
द्विज उवाच
भगवच्छ्रूयतां राम कालोऽयं यदुपस्थितः ।
सीताहरणकालोऽयं तवैव समुपस्थितः ॥ ३० ॥
दैवं च दुर्निवार्यं च न च दैवात्परो बली ।
जगत्प्रसूं मयि न्यस्य छायां रक्षान्तिकेऽधुना ॥ ३१ ॥
दास्यामि सीतां तुभ्यं च परीक्षासमये पुनः ।
देवैः प्रस्थापितोऽहं च न च विप्रो हुताशनः ॥ ३२ ॥
रामस्तद्वचनं श्रुत्वा न प्रकाश्य च लक्ष्मणम् ।
स्वीकारं वचसश्चक्रे हृदयेन विदूयता ॥ ३३ ॥
वह्निर्योगेन सीताया मायासीतां चकार ह ।
तत्तुल्यगुणसर्वाङ्‌गां ददौ रामाय नारद ॥ ३४ ॥
सीतां गृहीत्वा स ययौ गोप्यं वक्तुं निषिध्य च ।
लक्ष्मणो नैव बुबुधे गोप्यमन्यस्य का कथा ॥ ३५ ॥
एतस्मिन्नन्तरे रामो ददर्श कानकं मृगम् ।
सीता तं प्रेरयामास तदर्थे यत्‍नपूर्वकम् ॥ ३६ ॥
संन्यस्य लक्ष्मणं रामो जानक्या रक्षणे वने ।
स्वयं जगाम तूर्णं तं विव्याध सायकेन च ॥ ३७ ॥
लक्ष्मणेति च शब्दं स कृत्वा च मायया मृगः ।
प्राणांस्तत्याज सहसा पुरो दृष्ट्वा हरिं स्मरन् ॥ ३८ ॥
मृगदेहं परित्यज्य दिव्यरूपं विधाय च ।
रत्‍ननिर्माणयानेन वैकुण्ठं स जगाम ह ॥ ३९ ॥
वैकुण्ठलोकद्वार्यासीत्किङ्‌करो द्वारपालयोः ।
पुनर्जगाम तद्द्वारमादेशाद्‌ द्वारपालयोः ॥ ४० ॥
अथ शब्दं च सा श्रुत्वा लक्ष्मणेति च विक्लवम् ।
तं हि सा प्रेरयामास लक्ष्मणं रामसन्निधौ ॥ ४१ ॥
गते च लक्ष्मणे रामं रावणो दुर्निवारणः ।
सीतां गृहीत्वा प्रययौ लङ्‌कामेव स्वलीलया ॥ ४२ ॥
विषसाद च रामश्च वने दृष्ट्वा च लक्ष्मणम् ।
तूर्णं च स्वाश्रमं गत्वा सीतां नैव ददर्श सः ॥ ४३ ॥
मूर्च्छां सम्प्राप सुचिरं विललाप भृशं पुनः ।
पुनः पुनश्च बभ्राम तदन्वेषणपूर्वकम् ॥ ४४ ॥
कालेन प्राप्य तद्वार्तां गोदावरीनदीतटे ।
सहायान्वानरात्कृत्वा बबन्ध सागरं हरिः ॥ ४५ ॥
लङ्‌कां गत्वा रघुश्रेष्ठो जघान सायकेन च ।
कालेन प्राप्य तं हत्वा रावणं बान्धवैः सह ॥ ४६ ॥
तां च वह्निपरीक्षां च कारयामास सत्वरम् ।
हुताशस्तत्र काले तु वास्तवीं जानकीं ददौ ॥ ४७ ॥
उवाच छाया वह्निं च रामं च विनयान्विता ।
करिष्यामीति किमहं तदुपायं वदस्व मे ॥ ४८ ॥
श्रीरामाग्नी ऊचतुः
त्वं गच्छ तपसे देवि पुष्करं च सुपुण्यदम् ।
कृत्वा तपस्या तत्रैव स्वर्गलक्ष्मीर्भविष्यसि ॥ ४९ ॥
सा च तद्वचनं श्रुत्वा प्रतप्य पुष्करे तपः ।
दिव्यं त्रिलक्षवर्षं च स्वर्गलक्ष्मीर्बभूव ह ॥ ५० ॥
सा च कालेन तपसा यज्ञकुण्डसमुद्‍भवा ।
कामिनी पाण्डवानां च द्रौपदी द्रुपदात्मजा ॥ ५१ ॥
कृते युगे वेदवती कुशध्वजसुता शुभा ।
त्रेतायां रामपत्‍नी च सीतेति जनकात्मजा ॥ ५२ ॥
तच्छाया द्रौपदी देवी द्वापरे द्रुपदात्मजा ।
त्रिहायणी च सा प्रोक्ता विद्यमाना युगत्रये ॥ ५३ ॥
नारद उवाच
प्रियाः पञ्च कथं तस्या बभूवुर्मुनिपुङ्‌गव ।
इति मच्चित्तसंदेहं भञ्ज संदेहभञ्जन ॥ ५४ ॥
श्रीनारायण उवाच
लङ्‌कायां वास्तवी सीता रामं सम्प्राप नारद ।
रूपयौवनसम्पन्ना छाया च बहुचिन्तया ॥ ५५ ॥
रामाग्न्योराज्ञया तप्तुमुपास्ते शङ्‌करं परम् ।
कामातुरा पतिव्यग्रा प्रार्थयन्ती पुनः पुनः ॥ ५६ ॥
पतिं देहि पतिं देहि पतिं देहि त्रिलोचन ।
पतिं देहि पतिं देहि पञ्चवारं चकार सा ॥ ५७ ॥
शिवस्तत्प्रार्थनां श्रुत्वा प्रहस्य रसिकेश्वरः ।
प्रिये तव प्रियाः पञ्च भविष्यन्ति वरं ददौ ॥ ५८ ॥
तेन सा पाण्डवानां च बभूव कामिनी प्रिया ।
इति ते कथितं सर्वं प्रस्तावं वास्तवं शृणु ॥ ५९ ॥
अथ सम्प्राप्य लङ्‌कायां सीतां रामो मनोहराम् ।
विभीषणाय तां लङ्‌कां दत्त्वायोध्यां ययौ पुनः ॥ ६० ॥
एकादशसहस्राब्दं कृत्वा राज्यं च भारते ।
जगाम सर्वैर्लोकैश्च सार्धं वैकुण्ठमेव च ॥ ६१ ॥
कमलांशा वेदवती कमलायां विवेश सा ।
कथितं पुण्यमाख्यानं पुण्यदं पापनाशनम् ॥ ६२ ॥
सततं मूर्तिमन्तश्च वेदाश्चत्वार एव च ।
सन्ति यस्याश्च जिह्वाग्रे सा च वेदवती श्रुता ॥ ६३ ॥
धर्मध्वजसुताख्यानं निबोध कथयामि ते ॥ ६४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे महालक्षम्या वेदवतीरूपेण राजगृहे जन्मवर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥