देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search

गङ्‌गोपाख्यानवर्णनम्

नारद उवाच
कलेः पञ्चसहस्राब्दे समतीते सुरेश्वर ।
क्व गता सा महाभाग तन्मे व्याख्यातुमर्हसि ॥ १ ॥
श्रीनारायण उवाच
भारतं भारतीशापात्समागत्येश्वरेच्छया ।
जगाम तत्र वैकुण्ठे शापान्ते पुनरेव सा ॥ २ ॥
भारती भारतं त्यक्त्वा तज्जगाम हरेः पदम् ।
पद्मावती च शापान्ते गङ्‌गा सा चैव नारद ॥ ३ ॥
गङ्‌गा सरस्वती लक्ष्यीश्चैतास्तिस्रः प्रिया हरेः ।
तुलसीसहिता ब्रह्मंश्चतस्रः कीर्तिताः श्रुतौ ॥ ४ ॥
नारद उवाच
केनोपायेन सा देवी विष्णुपादाब्जसम्भवा ।
ब्रह्मकमण्डलुस्था च श्रुता शिवप्रिया च सा ॥ ५ ॥
बभूव सा मुनिश्रेष्ठ गङ्‌गा नारायणप्रिया ।
अहो केन प्रकारेण तन्मे व्याख्यातुमर्हसि ॥ ६ ॥
श्रीनारायण उवाच
पुरा बभूव गोलोके सा गङ्‌गा द्रवरूपिणी ।
राधाकृष्णाङ्‌गसम्भूता तदंशा तत्स्वरूपिणी ॥ ७ ॥
द्रवाधिष्ठातृदेवी या रूपेणाप्रतिमा भुवि ।
नवयौवनसम्पन्ना सर्वाभरणभूषिता ॥ ८ ॥
शरन्मध्याह्नपद्मास्या सस्मिता सुमनोहरा ।
तप्तकाञ्चनवर्णाभा शरच्चन्द्रसमप्रभा ॥ ९ ॥
स्निग्धप्रभातिसुस्निग्धा शुद्धसत्त्वस्वरूपिणी ।
सुपीनकठिनश्रोणिः सुनितम्बयुगंधरा ॥ १० ॥
पीनोन्नतं सुकठिनं स्तनयुग्मं सुवर्तुलम् ।
सुचारुनेत्रयुगलं सुकटाक्षं सुवंक्रिमम् ॥ ११ ॥
वंक्रिमं कबरीभारं मालतीमाल्यसंयुतम् ।
सिन्दूरबिन्दुललितं सार्धं चन्दनबिन्दुभिः ॥ १२ ॥
कस्तूरीपत्रिकायुक्तं गण्डयुग्मं मनोरमम् ।
बन्धूककुसुमाकारमधरोष्ठं च सुन्दरम् ॥ १३ ॥
पक्वदाडिमबीजाभदन्तपंक्तिसमुज्ज्वलम् ।
वाससी वह्निशुद्धे च नीवीयुक्ते च बिभ्रती ॥ १४ ॥
सा सकामा कृष्णपार्श्वे समुवास सुलज्जिता ।
वाससा मुखमाच्छाद्य लोचनाभ्यां विभोर्मुखम् ॥ १५ ॥
निमेषरहिताभ्यां च पिबन्ती सततं मुदा ।
प्रफुल्लवदना हर्षान्नवसङ्‌गमलालसा ॥ १६ ॥
मूर्च्छिता प्रभुरूपेण पुलकाङ्‌कितविग्रहा ।
एतस्मिन्नन्तरे तत्र विद्यमाना च राधिका ॥ १७ ॥
गोपीत्रिंशत्कोटियुक्ता चन्द्रकोटिसमप्रभा ।
कोपेनारक्तपद्मास्या रक्तपङ्‌कजलोचना ॥ १८ ॥
पीतचम्पकवर्णाभा गजेन्द्रमन्दगामिनी ।
अमूल्यरत्‍ननिर्माणनानाभूषणभूषिता ॥ १९ ॥
अमूल्यरत्‍नखचितममूल्यं वह्निशौचकम् ।
पीतवस्त्रस्य युगलं नीवीयुक्तं च बिभ्रती ॥ २० ॥
स्थलपद्मप्रभामुष्टं कोमलं च सुरञ्जितम् ।
कृष्णदत्तार्घ्यसंयुक्तं विन्यसन्ती पदाम्बुजम् ॥ २१ ॥
रत्‍नेन्द्रसारनिर्माणविमानादवरुह्य सा ।
सेव्यमाना च ऋषिभिः श्वेतचामरवायुना ॥ २२ ॥
कस्तूरीबिन्दुभिर्युक्तं चन्दनेन समन्वितम् ।
दीप्तदीपप्रभाकारं सिन्दूरं बिन्दुशोभितम् ॥ २३ ॥
दधती भालमध्ये च सीमन्ताधःस्थलोज्ज्वले ।
पारिजातप्रसूनानां मालायुक्तं सुवंक्रिमम् ॥ २४ ॥
सुचारुकबरीभारं कम्पयन्ती सुकम्पिता ।
सुचारुरागसंयुक्तमोष्ठं कम्पयती रुषा ॥ २५ ॥
गत्वोवास कृष्णपार्श्वे रत्‍नसिंहासने शुभे ।
सखीनां च समूहैश्च परिपूर्णा विभोः प्रिया ॥ २६ ॥
तां दृष्ट्वा च समुत्तस्थौ कृष्णः सादरपूर्वकम् ।
सम्भाष्य मधुरालापैः सस्मितश्च ससंभ्रमः ॥ २७ ॥
प्रणेमुरतिसन्त्रस्ता गोपा नम्रात्मकन्धराः ।
तुष्टुवुस्ते च भक्त्या च तुष्टाव परमेश्वरः ॥ २८ ॥
उत्थाय गङ्‌गा सहसा स्तुतिं बहु चकार सा ।
कुशलं परिपप्रच्छ भीतातिविनयेन च ॥ २९ ॥
नम्रभागस्थिता त्रस्ता शुष्ककण्ठोष्ठतालुका ।
ध्यानेन शरणायत्ता श्रीकृष्णचरणाम्बुजे ॥ ३० ॥
तां हृत्पद्मस्थितां कृष्णो भीतायै चाभयं ददौ ।
बभूव स्थिरचित्ता सा सर्वेश्वरवरेण च ॥ ३१ ॥
ऊर्ध्वसिंहासनस्थां च राधां गङ्‌गा ददर्श सा ।
सुस्निग्धां सुखदृश्यां च ज्वलन्तीं ब्रह्मतेजसा ॥ ३२ ॥
असंख्यब्रह्मणः कर्त्रीमादिसृष्टेः सनातनीम् ।
सदा द्वादशवर्षीयां कन्याभिनवयौवनाम् ॥ ३३ ॥
विश्ववृन्दे निरुपमां रूपेण च गुणेन च ।
शान्तां कान्तामनन्तां तामाद्यन्तरहितां सतीम् ॥ ३४ ॥
शुभां सुभद्रां सुभगां स्वामिसौभाग्यसंयुताम् ।
सौन्दर्यसुन्दरीं श्रेष्ठां सर्वासु सुन्दरीषु च ॥ ३५ ॥
कृष्णार्धाङ्‌गां कृष्णसमां तेजसा वयसा त्विषा ।
पूजितां च महालक्ष्मीं लक्ष्म्या लक्ष्मीश्वरेण च ॥ ३६ ॥
प्रच्छाद्यमानां प्रभया सभामीशस्य सुप्रभाम् ।
सखीदत्तं च ताम्बूलं भुक्तवन्तीं च दुर्लभम् ॥ ३७ ॥
अजन्यां सर्वजननीं धन्यां मान्यां च मानिनीम् ।
कृष्णप्राणाधिदेवीं च प्राणप्रियतमां रमाम् ॥ ३८ ॥
दृष्ट्वा रासेश्वरीं तृप्तिं न जगाम सुरेश्वरी ।
निमेषरहिताभ्यां च लोचनाभ्यां पपौ च ताम् ॥ ३९ ॥
एतस्मिन्नन्तरे राधा जगदीशमुवाच सा ।
वाचा मधुरया शान्ता विनीता सस्मिता मुने ॥ ४० ॥
राधोवाच
केयं प्राणेश कल्याणी सस्मिता त्वन्मुखाम्बुजम् ।
पश्यन्ती सस्मितं पार्श्वे सकामा वक्रलोचना ॥ ४१ ॥
मूर्च्छां प्राप्नोति रूपेण पुलकाङ्‌कितविग्रहा ।
वस्त्रेण मुखमाच्छाद्य निरीक्षन्ती पुनः पुनः ॥ ४२ ॥
त्वं चापि तां संनिरीक्ष्य सकामः सस्मितः सदा ।
मयि जीवति गोलोके भूता दुर्वृत्तिरीदृशी ॥ ४३ ॥
त्वमेव चैव दुर्वृत्तं वारं वारं करोषि च ।
क्षमां करोमि प्रेम्णा च स्त्रीजातिः स्निग्धमानसा ॥ ४४ ॥
संगृह्येमां प्रियामिष्टां गोलोकाद्‌ गच्छ लम्पट ।
अन्यथा न हि ते भद्रं भविष्यति व्रजेश्वर ॥ ४५ ॥
दृष्टस्त्वं विरजायुक्तो मया चन्दनकानने ।
क्षमा कृता मया पूर्वं सखीनां वचनादहो ॥ ४६ ॥
त्वया मच्छब्दमात्रेण तिरोधानं कृतं पुरा ।
देहं तत्याज विरजा नदीरूपा बभूव सा ॥ ४७ ॥
कोटियोजनविस्तीर्णा ततो दैर्घ्ये चतुर्गुणा ।
अद्यापि विद्यमाना सा तव सत्कीर्तिरूपिणी ॥ ४८ ॥
गृहं मयि गतायां च पुनर्गत्वा तदन्तिके ।
उच्चै रुरोद विरजे विरजे चेति संस्मरन् ॥ ४९ ॥
तदा तोयात्समुत्थाय सा योगात्सिद्धयोगिनी ।
सालङ्‌कारा मूर्तिमती ददौ तुभ्यं च दर्शनम् ॥ ५० ॥
ततस्तां च समाक्षिप्य वीर्याधानं कृतं त्वया ।
ततो बभूवुस्तस्यां च समुद्राः सप्त एव च ॥ ५१ ॥
दृष्टस्त्वं शोभया गोप्या युक्तश्चम्पककानने ।
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ॥ ५२ ॥
शोभा देहं परित्यज्य जगाम चन्द्रमण्डले ।
ततस्तस्याः शरीरं च स्निग्धं तेजो बभूव ह ॥ ५३ ॥
संविभज्य त्वया दत्तं हृदयेन विदूयता ।
रत्‍नाय किञ्चित्स्वर्णाय किञ्चिन्मणिवराय च ॥ ५४ ॥
किञ्चित्स्त्रीणां मुखाब्जेभ्यः किञ्चिद्राज्ञे च किञ्चन ।
किञ्चित्किसलयेभ्यश्च पुष्पेभ्यश्चापि किञ्चन ॥ ५५ ॥
किञ्चित्कलेभ्यः पक्वेभ्यः सस्येभ्यश्चापि किञ्चन ।
नृपदेवगृहेभ्यश्च संस्कृतेभ्यश्च किञ्चन ॥ ५६ ॥
किञ्चिन्नूतनपत्रेभ्यो दुग्धेभ्यश्चापि किञ्चन ।
दृष्टस्त्वं प्रभया गोप्या युक्तो वृन्दावने वने ॥ ५७ ॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
प्रभा देहं परित्यज्य जगाम सूर्यमण्डले ॥ ५८ ॥
ततस्तस्याः शरीरं च तीव्रं तेजो बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ५९ ॥
विसृष्टं चक्षुषोः कृष्ण लज्जया मद्‍भयेन च ।
हुताशनाय किञ्चिच्च यक्षेभ्यश्चापि किञ्चन ॥ ६० ॥
किञ्चित्पुरुषसिंहेभ्यो देवेभ्यश्चापि किञ्चन ।
किञ्चिद्विष्णुजनेभ्यश्च नागेभ्योऽपि च किञ्चन ॥ ६१ ॥
ब्राह्मणेभ्यो मुनिभ्यश्च तपस्विभ्यश्च किञ्चन ।
स्त्रीभ्यः सौभाग्ययुक्ताभ्यो यशस्विभ्यश्च किञ्चन ॥ ६२ ॥
तत्तु दत्त्वा च सर्वेभ्यः पूर्वं प्ररुदितं त्वया ।
शान्तिगोप्या युतस्त्वं च दृष्टोऽसि रासमण्डले ॥ ६३ ॥
वसन्ते पुष्पशय्यायां माल्यवांश्चन्दनोक्षितः ।
रत्‍नप्रदीपैर्युक्ते च रत्‍ननिर्माणमन्दिरे ॥ ६४ ॥
रत्‍नभूषणभूषाढ्यो रत्‍नभूषितया सह ।
तया दत्तं च ताम्बूलं भुक्तवांश्च पुरा विभो ॥ ६५ ॥
सद्यो मच्छब्दमात्रेण तिरोधानं कृतं त्वया ।
शान्तिर्देहं परित्यज्य भिया लीना त्वयि प्रभो ॥ ६६ ॥
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ।
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुरा ॥ ६७ ॥
विश्वे तु विपिने किञ्चिद्ब्रह्मणे च मयि प्रभो ।
शुद्धसत्त्वस्वरूपायै किञ्चिल्लक्ष्म्यै पुरा विभो ॥ ६८ ॥
त्वन्मन्त्रोपासकेभ्यश्च शाक्तेभ्यश्चापि किञ्चन ।
तपस्विभ्यश्च धर्माय धर्मिष्ठेभ्यश्च किञ्चन ॥ ६९ ॥
मया पूर्वं च त्वं दृष्टो गोप्या च क्षमया सह ।
सुवेषयुक्तो मालावान् गन्धचन्दनचर्चितः ॥ ७० ॥
रत्‍नभूषितया गन्धचन्दनोक्षितया सह ।
सुखेन मूर्च्छितस्तल्पे पुष्पचन्दनचर्चिते ॥ ७१ ॥
श्लिष्टो निद्रितया सद्यः सुखेन नवसङ्‌गमात् ।
मया प्रबोधिता सा च भवांश्च स्मरणं कुरु ॥ ७२ ॥
गृहीतं पीतवस्त्रं च मुरली च मनोहरा ।
वनमालाकौस्तुभश्चाप्यमूल्यं रत्‍नकुण्डलम् ॥ ७३ ॥
पश्चात्प्रदत्तं प्रेम्णा च सखीनां वचनादहो ।
लज्जया कृष्णवर्णोऽभूद्‍भवान् पापेन यः प्रभो ॥ ७४ ॥
क्षमा देहं परित्यज्य लज्जया पृथिवीं गता ।
ततस्तस्याः शरीरं च गुणश्रेष्ठं बभूव ह ॥ ७५ ॥
संविभज्य त्वया दत्तं प्रेम्णा प्ररुदता पुनः ।
किञ्चिद्दत्तं विष्णवे च वैष्णवेभ्यश्च किञ्चन ॥ ७६ ॥
धार्मिकेभ्यश्च धर्माय दुर्बलेभ्यश्च किञ्चन ।
तपस्विभ्योऽपि देवेभ्यः पण्डितेभ्यश्च किञ्चन ॥ ७७ ॥
एतत्ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।
त्वद्‌गुणं चैव बहुशो न जानामि परं प्रभो ॥ ७८ ॥
इत्येवमुक्त्वा सा राधा रक्तपङ्‌कजलोचना ।
गङ्‌गां वक्तुं समारेभे नम्रास्यां लज्जितां सतीम् ॥ ७९ ॥
गङ्‌गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
तिरोभूय सभामध्ये स्वजलं प्रविवेश सा ॥ ८० ॥
राधा योगेन विज्ञाय सर्वत्रावस्थितां च ताम् ।
पानं कर्तुं समारेभे गण्डूषात्सिद्धयोगिनी ॥ ८१ ॥
गङ्‌गा रहस्यं विज्ञाय योगेन सिद्धयोगिनी ।
श्रीकृष्णचरणाम्भोजे विवेश शरणं ययौ ॥ ८२ ॥
गोलोके सा च वैकुण्ठे ब्रह्मलोकादिके तथा ।
ददर्श राधा सर्वत्र नैव गङ्‌गां ददर्श सा ॥ ८३ ॥
सर्वत्र जलशून्यं च शुष्कपङ्‌कं च गोलकम् ।
जलजन्तुसमूहैश्च मृतदेहैः समन्वितम् ॥ ८४ ॥
ब्रह्मविष्णुशिवानन्तधर्मेन्द्रेन्दुदिवाकराः ।
मनवो मुनयः सर्वे देवसिद्धतपस्विनः ॥ ८५ ॥
गोलोकं च समाजग्मुः शुष्ककण्ठोष्ठतालुकाः ।
सर्वे प्रणेमुर्गोविन्दं सर्वेशं प्रकृतेः परम् ॥ ८६ ॥
वरं वरेण्यं वरदं वरिष्ठं वरकारणम् ।
गोपिकागोपवृन्दानां सर्वेषां प्रवरं प्रभुम् ॥ ८७ ॥
निरीहं च निराकारं निर्लिप्तं च निराश्रयम् ।
निर्गुणं च निरुत्साहं निर्विकारं निरञ्जनम् ॥ ८८ ॥
स्वेच्छामयं च साकारं भक्तानुग्रहकारकम् ।
सत्त्वस्वरूपं सत्येशं साक्षिरूपं सनातनम् ॥ ८९ ॥
परं परेशं परमं परमात्मानमीश्वरम् ।
प्रणम्य तुष्टुवुः सर्वे भक्तिनम्रात्मकन्धराः ॥ ९० ॥
सगद्‌गदाः साश्रुनेत्राः पुलकाङ्‌कितविग्रहाः ।
सर्वे संस्तूय सर्वेशं भगवन्तं परात्परम् ॥ ९१ ॥
ज्योतिर्मयं परं ब्रह्म सर्वकारणकारणम् ।
अमूल्यरत्‍ननिर्माणचित्रसिंहासनस्थितम् ॥ ९२ ॥
सेव्यमानं च गोपालैः श्वेतचामरवायुना ।
गोपालिकानृत्यगीतं पश्यन्तं सस्मितं मुदा ॥ ९३ ॥
प्राणाधिकप्रियतमं राधावक्षःस्थलस्थितम् ।
तया प्रदत्तं ताम्बूलं भुक्तवन्तं सुवासितम् ॥ ९४ ॥
परिपूर्णतमं रासे ददृशुश्च सुरेश्वरम् ।
मुनयो मनवः सिद्धास्तापसाश्च तपस्विनः ॥ ९५ ॥
प्रहृष्टमनसः सर्वे जग्मुः परमविस्मयम् ।
परस्परं समालोक्य प्रोचुस्ते च चतुर्मुखम् ॥ ९६ ॥
निवेदितं जगन्नाथं स्वाभिप्रायमभीप्सितम् ।
ब्रह्मा तद्वचनं श्रुत्वा विष्णुं कृत्वा स्वदक्षिणे ॥ ९७ ॥
वामतो वामदेवं च जगाम कृष्णसन्निधिम् ।
परमानन्दयुक्तं च परमानन्दरूपिणीम् ॥ ९८ ॥
सर्वं कृष्णमयं धाता ददर्श रासमण्डले ।
सर्वं समानवेषं च समानासनसंस्थितम् ॥ ९९ ॥
द्विभुजं मुरलीहस्तं वनमालाविभूषितम् ।
मयूरपिच्छचूडं च कौस्तुभेन विराजितम् ॥ १०० ॥
अतीव कमनीयं च सुन्दरं शान्तविग्रहम् ।
गुणभूषणरूपेण तेजसा वयसा त्विषा ॥ १०१ ॥
परिपूर्णतमं सर्वं सर्वैश्वर्यसमन्वितम् ।
किं सेव्यं सेवकं किं वा दृष्ट्वा निर्वक्तुमक्षमः ॥ १०२ ॥
क्षणं तेजः स्वरूपं च रूपं तत्र स्थितं क्षणम् ।
निराकारं च साकारं ददर्श द्विविधं क्षणम् ॥ १०३ ॥
एकमेव क्षणं कृष्णं राधया रहितं परम् ।
प्रत्येकासनसंस्थं च तया सार्धं च तत्क्षणम् ॥ १०४ ॥
राधारूपधरं कृष्णं कृष्णरूपं कलत्रकम् ।
किं स्त्रीरूपं च पुरुषं विधाता ध्यातुमक्षमः ॥ १०५ ॥
हृत्पद्मस्थं च श्रीकृष्णं ध्यात्वा ध्यानेन चक्षुषा ।
चकार स्तवनं भक्त्या परिहारमनेकधा ॥ १०६ ॥
ततः स्वचक्षुरुन्मील्य पुनश्च तदनुज्ञया ।
ददर्श कृष्णमेकं च राधावक्षःस्थलस्थितम् ॥ १०७ ॥
स्वपार्षदैः परिवृतं गोपीमण्डलमण्डितम् ।
पुनः प्रणेमुस्तं दृष्ट्वा तुष्टुवुः परमेश्वरम् ॥ १०८ ॥
तदभिप्रायमाज्ञाय तानुवाच रमेश्वरः ।
सर्वात्मा स च सर्वज्ञः सर्वेशः सर्वभावनः ॥ १०९ ॥
श्रीभगवानुवाच
आगच्छ कुशलं ब्रह्मन्नागच्छ कमलापते ।
इहागच्छ महादेव शश्वत्कुशलमस्तु वः ॥ ११० ॥
आगता हि महाभागा गङ्‌गानयनकारणात् ।
गङ्‌गा च चरणाम्भोजे भयेन शरणं गता ॥ १११ ॥
राधेमां पातुमिच्छन्ती दृष्ट्वा मत्सन्निधानतः ।
दास्यामीमां च भवतां यूयं कुरुत निर्भयाम् ॥ ११२ ॥
श्रीकृष्णस्य वचः श्रुत्वा सस्मितः कमलोद्‍भवः ।
तुष्टाव राधामाराध्यां श्रीकृष्णपरिपूजिताम् ॥ ११३ ॥
वक्त्रैश्चतुर्भिः संस्तूय भक्तिनम्रात्मकन्धरः ।
धाता चतुर्णां वेदानामुवाच चतुराननः ॥ ११४ ॥
चतुरानन उवाच
गङ्‌गा त्वदङ्‌गसम्भूता प्रभोश्च रासमण्डले ।
युवयोर्द्रवरूपा सा मुग्धयोः शङ्‌करस्वनात् ॥ ११५ ॥
कृष्णांशा च त्वदंशा च त्वत्कन्यासदृशी प्रिया ।
त्वन्मन्त्रग्रहणं कृत्वा करोतु तव पूजनम् ॥ ११६ ॥
भविष्यति पतिस्तस्या वैकुण्ठेशश्चतुर्भुजः ।
भूस्थायाः कलया तस्याः पतिर्लवणवारिधिः ॥ १ रे ७ ॥
गोलोकस्था च या गङ्‌गा सर्वत्रस्था तथाम्बिके ।
तदम्बिका त्वं देवेशी सर्वदा सा त्वदात्मजा ॥ ११८ ॥
ब्रह्मणो वचनं श्रुत्वा स्वीचकार च सस्मिता ।
वहिर्बभूव सा कृष्णपादाङ्‌गुष्ठनखाग्रतः ॥ ११९ ॥
तत्रैव सत्कृता शान्ता तस्थौ तेषां च मध्यतः ।
उवास तोयादुत्थाय तदधिष्ठातृदेवता ॥ १२० ॥
तत्तोयं ब्रह्मणा किञ्चित्स्थापितं च कमण्डलौ ।
किञ्चिद्दधार शिरसि चन्द्रार्धकृतशेखरः ॥ १२१ ॥
गङ्‌गायै राधिकामन्त्रं प्रददौ कमलोद्‍भवः ।
तत्स्तोत्रं कवचं पूजां विधानं ध्यानमेव च ॥ १२२ ॥
सर्वं तत्सामवेदोक्तं पुरश्चर्याक्रमं तथा ।
गङ्‌गा तामेव सम्पूज्य वैकुण्ठं प्रययौ सह ॥ १२३ ॥
लक्ष्मीः सरस्वती गङ्‌गा तुलसी विश्वपावनी ।
एता नारायणस्यैव चतस्रो योषितो मुने ॥ १२४ ॥
अथ तं सस्मितः कृष्णो ब्रह्माणं समुवाच सः ।
सर्वकालस्य वृत्तान्तं दुर्बोधमविपश्चितम् ॥ १२५ ॥
श्रीकृष्ण उवाच
गृहाण गङ्‌गां हे ब्रह्मन् हे विष्णो हे महेश्वर ।
शृणु कालस्य वृत्तान्तं मत्तो ब्रह्मन्निशामय ॥ १२६ ॥
यूयं च येऽन्ये देवाश्च मुनयो मनवस्तथा ।
सिद्धा यशस्विनश्चैव ये येऽत्रैव समागताः ॥ १२७ ॥
एते जीवन्ति गोलोके कालचक्रविवर्जिते ।
जलाप्लुते सर्वविश्वं जातं कल्पक्षयोऽधुना ॥ १२८ ॥
ब्रह्माद्या येऽन्यविश्वस्थास्ते विलीनाधुना मयि ।
वैकुण्ठं च विना सर्वं जलमग्नं च पद्मज ॥ १२९ ॥
गत्वा सृष्टिं कुरु पुनर्ब्रह्मलोकादिकं भवम् ।
स्वं ब्रह्माण्डं विरचय पश्चाद्‌ गङ्‌गा प्रयास्यति ॥ १३० ॥
एवमन्येषु विश्वेषु सृष्टौ ब्रह्मादिकं पुनः ।
करोम्यहं पुनः सृष्टिं गच्छ शीघ्रं सुरैः सह ॥ १३१ ॥
गतो बहुतरः कालो युष्माकं च चतुर्मुखाः ।
गताः कतिविधास्ते च भविष्यन्ति च वेधसः ॥ १३२ ॥
इत्युक्त्वा राधिकानाथो जगामान्तःपुरे मुने ।
देवा गत्वा पुनः सृष्टिं चक्रुरेव प्रयत्‍नतः ॥ १३३ ॥
गोलोके च स्थिता गङ्‌गा वैकुण्ठे शिवलोकके ।
ब्रह्मलोके स्थितान्यत्र यत्र यत्र पुरः स्थिता ॥ १३४ ॥
तत्रैव सा गता गङ्‌गा चाज्ञया परमात्मनः ।
निर्गता विष्णुपादाब्जात्तेन विष्णुपदी स्मृता ॥ १३५ ॥
इत्येवं कथितं ब्रह्मन् गङ्‌गोपाख्यानमुत्तमम् ।
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥ १३६ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे गङ्‌गोपाख्यानवर्णनं नाम त्रयोदशोऽध्यायः ॥ १३ ॥