देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०९

विकिस्रोतः तः
Jump to navigation Jump to search

भूमिस्तोत्रवर्णनम्

नारद उवाच
देव्या निमेषमात्रेण ब्रह्मणः पात एव च ।
तस्य पातः प्राकृतिकः प्रलयः परिकीर्तितः ॥ १ ॥
प्रलये प्राकृते चोक्ता तत्रादृष्टा वसुन्धरा ।
जलप्लुतानि विश्वानि सर्वे लीनाः परात्मनि ॥ २ ॥
वसुन्धरा तिरोभूता कुत्र वा सा च तिष्ठति ।
सृष्टेर्विधानसमये साविर्भूता कथं पुनः ॥ ३ ॥
कथं बभूव सा धन्या मान्या सर्वाश्रया जया ।
तस्याश्च जन्मकथनं वद मङ्‌गलकारणम् ॥ ४ ॥
श्रीनारायण उवाच
सर्वादिसृष्टौ सर्वेषां जन्म देव्या इति श्रुतिः ।
आविर्भावस्तिरोभावः सर्वेषु प्रलयेषु च ॥ ५ ॥
श्रूयतां वसुधाजन्म सर्वमङ्‌गलकारणम् ।
विघ्ननिघ्नकरं पापनाशनं पुण्यवर्धनम् ॥ ६ ॥
अहो केचिद्वदन्तीति मधुकैटभमेदसा ।
बभूव वसुधा धन्या तद्विरुद्धमतः शृणु ॥ ७ ॥
ऊचतुस्तौ पुरा विष्णुं तुष्टौ युद्धेन तेजसा ।
आवां वध्यौ न यत्रोर्वी पाथसा संवृतेति च ॥ ८ ॥
तयोर्जीवनकाले न प्रत्यक्षा साभवत्स्फुटम् ।
ततो बभूव मेदश्च मरणानन्तरं तयोः ॥ ९ ॥
मेदिनीति च विख्यातेत्युक्तमेतन्मतं शृणु ।
जलधौता कृता पूर्वं वर्धिता मेदसा यतः ॥ १० ॥
कथयामि ते तज्जन्म सार्थकं सर्वमङ्‌गलम् ।
पुरा श्रुतं यच्छ्रुत्युक्तं धर्मवक्त्राच्च पुष्करे ॥ ११ ॥
महाविराट्शरीरस्य जलस्थस्य चिरं स्फुटम् ।
मनो बभूव कालेन सर्वाङ्‌गव्यापकं ध्रुवम् ॥ १२ ॥
तच्च प्रविष्टं सर्वेषां तल्लोम्नां विवरेषु च ।
कालेन महता पश्चाद्‌ बभूव वसुधा मुने ॥ १३ ॥
प्रत्येकं प्रतिलोम्नां च कूपेषु संस्थिता सदा ।
आविर्भूता तिरोभूता सजला च पुनः पुनः ॥ १४ ॥
आविर्भूता सृष्टिकाले तज्जलोपर्युपस्थिता ।
प्रलये च तिरोभूता जलस्याभ्यन्तरे स्थिता ॥ १५ ॥
प्रतिविश्वेषु वसुधा शैलकाननसंयुता ।
सप्तसागरसंयुक्ता सप्तद्वीपसमन्विता ॥ १६ ॥
हेमाद्रिमेरुसंयुक्ता ग्रहचन्द्रार्कसंयुता ।
ब्रह्मविष्णुशिवाद्यैश्च सुरैर्लोकैस्तदाज्ञया ॥ १७ ॥
पुण्यतीर्थसमायुक्ता पुण्यभारतसंयुता ।
काञ्चनीभूमिसंयुक्ता सप्तस्वर्गसमन्विता ॥ १८ ॥
पातालसप्तं तदधस्तदूर्ध्वं ब्रह्मलोकतः ।
ध्रुवलोकश्च तत्रैव सर्वं विश्वं च तत्र वै ॥ १९ ॥
एवं सर्वाणि विश्वानि पृथिव्यां निर्मितानि च ।
नश्वराणि च विश्वानि सर्वाणि कृत्रिमाणि वै ॥ २० ॥
प्रलये प्राकृते चैव ब्रह्मणश्च निपातने ।
महाविराडादिसृष्टौ सृष्टः कृष्णेन चात्मना ॥ २१ ॥
नित्यौ च स्थितिप्रलयौ काष्ठाकालेश्वरैः सह ।
नित्याधिष्ठातृदेवी सा वाराहे पूजिता सुरैः ॥ २२ ॥
मुनिभिर्मनुभिर्विप्रैर्गन्धर्वादिभिरेव च ।
विष्णोर्वराहरूपस्य पत्‍नी सा श्रुतिसम्मता ॥ २३ ॥
तत्पुत्रो मङ्‌गलो ज्ञेयो घटेशो मङ्‌गलात्मजः ।
नारद उवाच
पूजिता केन रुपेण वाराहे च सुरैर्मही ॥ २४ ॥
वाराहे चैव वाराही सर्वैः सर्वाश्रया सती ।
मूलप्रकृतिसम्भूता पञ्चीकरणमार्गतः ॥ २५ ॥
तस्याः पूजाविधानं चाप्यधश्चोर्ध्वमनेकशः ।
मङ्‌गलं मङ्‌गलस्यापि जन्म वासं वद प्रभो ॥ २६ ॥
श्रीनारायण उवाच
वाराहे च वराहश्च ब्रह्मणा संस्तुतः पुरा ।
उद्दधार महीं हत्वा हिरण्याक्षं रसातलम् ॥ २७ ॥
जले तां स्थापयामास पद्मपत्रं यथा हृदे ।
तत्रैव निर्ममे ब्रह्मा विश्वं सर्वं मनोहरम् ॥ २८ ॥
दृष्ट्वा तदधिदेवीं च सकामां कामुको हरिः ।
वराहरूपी भगवान् कोटिसूर्यसमप्रभः ॥ २९ ॥
कृत्वा रतिकलां सर्वां मूर्तिं च सुमनोहराम् ।
क्रीडाञ्चकार रहसि दिव्यवर्षमहर्निशम् ॥ ३० ॥
सुखसम्भोगसंस्पर्शान्मूर्च्छां सम्प्राप सुन्दरी ।
विदग्धाया विदग्धेन सङ्‌गमोऽतिसुखप्रदः ॥ ३१ ॥
विष्णुस्तदङ्‌गसंश्लेषाद्‌ बुबुधे न दिवानिशम् ।
वर्षान्ते चेतनां प्राप्य कामी तत्याज कामुकीम् ॥ ३२ ॥
पूर्वरूपं वराहं च दधार स च लीलया ।
पूजाञ्चकार तां देवीं ध्यात्वा च धरणीं सतीम् ॥ ३३ ॥
धूपैर्दीपैश्च नैवेद्यैः सिन्दूरैरनुलेपनैः ।
वस्त्रैः पुष्पैश्च बलिभिः सम्पूज्योवाच तां हरिः ॥ ३४ ॥
श्रीभगवानुवाच
सर्वाधारा भव शुभे सर्वैः सम्पूजिता सुखम् ।
मुनिभिर्मनुभिर्देवैः सिद्धैश्च दानवादिभिः ॥ ३५ ॥
अम्बुवाचीत्यागदिने गृहारम्भे प्रवेशने ।
वापीतडागारम्भे च गृहे च कृषिकर्मणि ॥ ३६ ॥
तव पूजां करिष्यन्ति मद्वरेण सुरादयः ।
मूढा ये न करिष्यन्ति यास्यन्ति नरकं च ते ॥ ३७ ॥
वसुधोवाच
वहामि सर्वं वाराहरूपेणाहं तवाज्ञया ।
लीलामात्रेण भगवन् विश्वं च सचराचरम् ॥ ३८ ॥
मुक्तां शुक्तिं हरेरर्चां शिवलिङ्‌गं शिवां तथा ।
शङ्‌खं प्रदीपं यन्त्रं च माणिक्यं हीरकं तथा ॥ ३९ ॥
यज्ञसूत्रं च पुष्पं च पुस्तकं तुलसीदलम् ।
जपमालां पुष्पमालां कर्पूरं च सुवर्णकम् ॥ ४० ॥
गोरोचनं चन्दनं च शालग्रामजलं तथा ।
एतान्वोडुमशक्ताहं क्लिष्टा च भगवञ्छृणु ॥ ४१ ॥
श्रीभगवानुवाच
द्रव्याण्येतानि ये मूढा अर्पयिष्यन्ति सुन्दरि ।
यास्यन्ति कालसूत्रं ते दिव्यं वर्षशतं त्वयि ॥ ४२ ॥
इत्येवमुक्त्वा भगवान् विरराम च नारद ।
बभूव तेन गर्भेण तेजस्वी मङ्‌गलग्रहः ॥ ४३ ॥
पूजाञ्चक्रुः पृथिव्याश्च ते सर्वे चाज्ञया हरेः ।
कण्वशाखोक्तध्यानेन तुष्टुवुश्च स्तवेन ते ॥ ४४ ॥
ददुर्मूलेन मन्त्रेण नैवेद्यादिकमेव च ।
संस्तुता त्रिषु लोकेषु पूजिता सा बभूव ह ॥ ४५ ॥
नारद उवाच
किं ध्यानं स्तवनं तस्या मूलमन्त्रं च किं वद ।
गूढं सर्वपुराणेषु श्रोतुं कौतूहलं मम ॥ ४६ ॥
श्रीनारायण उवाच
आदौ च पृथिवी देवी वराहेण च पूजिता ।
ततो हि ब्रह्मणा पश्चामृजिता पृथिवी तदा ॥ ४७ ॥
ततः सर्वैर्मुनीन्द्रैश्च मनुभिर्मानवादिभिः ।
ध्यानं च स्तवनं मन्त्रं शृणु वक्ष्यामि नारद ॥ ४८ ॥
ॐ ह्रीं श्रीं क्लीं वसुधायै स्वाहेत्यनेन
मन्त्रेण विष्णुना पूजिता पुरा ।
श्वेतपङ्‌कजवर्णाभां शरच्चन्द्रनिभाननाम् ॥ ४९ ॥
चन्दनोत्क्षिप्तसर्वाङ्‌गीं रत्‍नभूषणभूषिताम् ।
रत्‍नाधारां रत्‍नगर्भां रत्‍नाकरसमन्विताम् ॥ ५० ॥
वह्निशुद्धांशुकाधानां सस्मितां वन्दितां भजे ।
ध्यानेनानेन सा देवी सर्वैश्च पूजिताभवत् ॥ ५१ ॥
स्तवनं शृणु विप्रेन्द्र कण्वशाखोक्तमेव च ।
श्रीनारायण उवाच
जये जये जलाधारे जलशीले जलप्रदे ॥ ५२ ॥
यज्ञसूकरजाये त्वं जयं देहि जयावहे ।
मङ्‌गले मङ्‌गलाधारे माङ्‌गल्ये मङ्‌गलप्रदे ॥ ५३ ॥
मङ्‌गलार्थं मङ्‌गलेशे मङ्‌गलं देहि मे भवे ।
सर्वाधारे च सर्वज्ञे सर्वशक्तिसमन्विते ॥ ५४ ॥
सर्वकामप्रदे देवि सर्वेष्टं देहि मे भवे ।
पुण्यस्वरूपे पुण्यानां बीजरूपे सनातनि ॥ ५५ ॥
पुण्याश्रये पुण्यवतामालये पुण्यदे भवे ।
सर्वसस्यालये सर्वसस्याढ्ये सर्वसस्यदे ॥ ५६ ॥
सर्वसस्यहरे काले सर्वसस्यात्मिके भवे ।
भूमे भूमिपसर्वस्वे भूमिपालपरायणे ॥ ५७ ॥
भूमिपानां सुखकरे भूमिं देहि च भूमिदे ।
इदं स्तोत्रं महापुण्यं प्रातरुत्थाय यः पठेत् ॥ ५८ ॥
कोटिजन्मसु स भवेद्‌ बलवान्भूमिपेश्वरः ।
भूमिदानकृतं पुण्यं लभ्यते पठनाज्जनैः ॥ ५९ ॥
भूमिदानहरात्पापान्मुच्यते नात्र संशयः ।
अम्बुवाचीभूकरणपापात्स मुच्यते ध्रुवम् ॥ ६० ॥
अन्यकूपे कूपखननपापात्स मुच्यते ध्रुवम् ।
परभूमिहरात्पापान्मुच्यते नात्र संशयः ॥ ६१ ॥
भूमौ वीर्यत्यागपापाद्‌भूमौ दीपादिस्थापनात् ।
पापेन मुच्यते सोऽपि स्तोत्रस्य पठनान्मुने ॥ ६२ ॥
अश्वमेधशतं पुण्यं लभते नात्र संशयः ।
भूमिदेव्या महास्तोत्रं सर्वकल्याणकारकम् ॥ ६३ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे भूमिस्तोत्रवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥