देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०८

विकिस्रोतः तः
Jump to navigation Jump to search

नारायणनारदसंवादे कलिमाहात्म्यवर्णनम्

श्रीनारायण उवाच
सरस्वती पुण्यक्षेत्रमाजगाम च भारते ।
गङ्‌गाशापेन कलया स्वयं तस्थौ हरेः पदे ॥ १ ॥
भारती भारतं गत्वा ब्राह्मी च ब्रह्मणः प्रिया ।
वाण्यधिष्ठातृदेवी सा तेन वाणी प्रकीर्तिता ॥ २ ॥
सरो वाप्यां च स्रोतस्तु सर्वत्रैव हि दृश्यते ।
हरिः सरस्वांस्तस्येयं तेन नाम्ना सरस्वती ॥ ३ ॥
सरस्वती नदी सा च तीर्थरूपातिपावनी ।
पापिनां पापदाहाय ज्वलदग्निस्वरूपिणी ॥ ४ ॥
पश्चाद्‍भागीरथी नीता महीं भगीरथेन च ।
सा वै जगाम कलया वाणीशापेन नारद ॥ ५ ॥
तत्रैव समये तां च दधार शिरसा शिवः ।
वेगं सोढुमयं शक्तो भुवः प्रार्थनया विभुः ॥ ६ ॥
पद्मा जगाम कलया सा च पद्मावती नदी ।
भारतं भारतीशापात्स्वयं तस्थौ हरेः पदे ॥ ७ ॥
ततोऽन्यया सा कलया लेभे जन्म च भारते ।
धर्मध्वजसुता लक्ष्मीर्विख्याता तुलसीति च ॥ ८ ॥
पुरा सरस्वतीशापात्पश्चाच्च हरिशापतः ।
बभूव वृक्षरूपा सा कलया विश्वपावनी ॥ ९ ॥
कलेः पञ्चसहस्रं च वर्षं स्थित्वा तु भारते ।
जग्मुस्ताश्च सरिद्‌रूपं विहाय श्रीहरेः पदम् ॥ १० ॥
यानि सर्वाणि तीर्थानि काशीं वृन्दावनं विना ।
यास्यन्ति सार्धं ताभिश्च वैकुण्ठमाज्ञया हरेः ॥ ११ ॥
शालग्रामः शक्तिशिवौ जगन्नाथश्च भारतम् ।
कलेर्दशसहस्रान्ते त्यक्त्वा यान्ति निजं पदम् ॥ १२ ॥
साधवश्च पुराणानि शङ्‌खानि श्राद्धतर्पणे ।
वेदोक्तानि च कर्माणि ययुस्तैः सार्धमेव च ॥ १३ ॥
देवपूजा देवनाम तत्कीर्तिगुणकीर्तनम् ।
वेदाङ्‌गानि च शास्त्राणि ययुस्तैः सार्धमेव च ॥ १४ ॥
सन्तश्च सत्यधर्मश्च वेदाश्च ग्रामदेवताः ।
व्रतं तपश्चानशनं ययुस्तैः सार्धमेव च ॥ १५ ॥
वामाचाररताः सर्वे मिथ्याकपटसंयुताः ।
तुलसीरहिता पूजा भविष्यति ततः परम् ॥ १६ ॥
शठाः क्रूरा दाम्भिकाश्च महाहङ्‌कारसंयुताः ।
चोराश्च हिंसकाः सर्वे भविष्यन्ति ततः परम् ॥ १७ ॥
पुंसो भेदः स्त्रीविभेदो विवाहो वापि निर्भयः ।
स्वस्वामिभेदो वस्तूनां भविष्यति ततः परम् ॥ १८ ॥
सर्वे स्त्रीवशगाः पुंसः पुश्चल्यश्च गृहे गृहे ।
तर्जनैर्भर्त्सनैः शश्वत्स्वामिनं ताडयन्ति च ॥ १९ ॥
गृहेश्वरी च गृहिणी गृही भृत्याधिकोऽधमः ।
चेटीदाससमौ वध्वाः श्वश्रूश्च श्वशुरस्तथा ॥ २० ॥
कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः ।
विद्यासम्बन्धिभिः सार्धं सम्भाषापि न विद्यते ॥ २१ ॥
यथापरिचिता लोकास्तथा पुंसश्च बान्धवाः ।
सर्वकर्माक्षमाः पुंसो योषितामाज्ञया विना ॥ २२ ॥
ब्रह्मक्षत्रविशः शूद्रा जात्याचारविवर्जिताः ।
सन्ध्या च यज्ञसूत्रं च भवेल्लुप्तं न संशयः ॥ २३ ॥
म्लेच्छाचारा भविष्यन्ति वर्णाश्चत्वार एव च ।
म्लेच्छशास्त्रं पठिष्यन्ति स्वशास्त्राणि विहाय च ॥ २४ ॥
ब्रह्मक्षत्रविशां वंशाः शूद्राणां सेवकाः कलौ ।
सूपकारा धावकाश्च वृषवाहाश्च सर्वशः ॥ २५ ॥
सत्यहीना जनाः सर्वे सस्यहीना च मेदिनी ।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ॥ २६ ॥
क्षीरहीनास्तथा गावः क्षीरं सर्पिर्विवर्जितम् ।
दम्पती प्रीतिहीनौ च गृहिणः सत्यवर्जिताः ॥ २७ ॥
प्रतापहीना भूपाश्च प्रजाश्च करपीडिताः ।
जलहीना महानद्यो दीर्घिकाकन्दरादयः ॥ २८ ॥
धर्महीना पुण्यहीना वर्णाश्चत्वार एव च ।
लक्षेषु पुण्यवान्कोऽपि न तिष्ठति ततः परम् ॥ २९ ॥
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।
कुवार्ता कुत्सितः शब्दो भविष्यति ततः परम् ॥ ३० ॥
केचिद्‌ग्रामाश्च नगरा नरशून्या भयानकाः ।
केचित्स्वल्पकुटीरेण नरेण च समन्विताः ॥ ३१ ॥
अरण्यानि भविष्यन्ति ग्रामेषु नगरेषु च ।
अरण्यवासिनः सर्वे जनाश्च करपीडिताः ॥ ३२ ॥
सस्यानि च भविष्यन्ति तडागेषु नदीषु च ।
प्रकृष्टवंशजा हीना भविष्यन्ति कलौ युगे ॥ ३३ ॥
अलीकवादिनो धूर्ताः शठाश्चासत्यवादिनः ।
प्रकृष्टानि च क्षेत्राणि सस्यहीनानि नारद ॥ ३४ ॥
हीनाः प्रकृष्टा धनिनो देवभक्ताश्च नास्तिकाः ।
हिंसकाश्च दयाहीना पौराश्च नरघातिनः ॥ ३५ ॥
वामना व्याधियुक्ताश्च नरा नार्यश्च सर्वतः ।
स्वल्पायुषो गदायुक्ता यौवनै रहिताः कलौ ॥ ३६ ॥
पलिताः षोडशे वर्षे महावृद्धाश्च विंशतौ ।
अष्टवर्षा च युवती रजोयुक्ता च गर्भिणी ॥ ३७ ॥
वत्सरान्तप्रसूता स्त्री षोडशे च जरान्विता ।
पतिपुत्रवती काचित्सर्वा वन्ध्याः कलौ युगे ॥ ३८ ॥
कन्याविक्रयिणः सर्वे वर्णाश्चत्वार एव च ।
मातृजायावधूनां च जारोपेतान्नभक्षकाः ॥ ३९ ॥
कन्यानां भगिनीनां वा जारोपात्तानजीविनः ।
हरेर्नाम्नां विक्रयिणो भविष्यन्ति कलौ युगे ॥ ४० ॥
स्वयमुत्सृज्य दानं च कीर्तिवर्धनहेतवे ।
ततः पश्चात्स्वदानं च स्वयमुल्लङ्‌घयिष्यति ॥ ४१ ॥
देववृत्तिं ब्रह्मवत्तिं वृत्तिं गुरुकुलस्य च ।
स्वदत्तां परदत्तां वा सर्वमुल्लङ्‌घयिष्यति ॥ ४२ ॥
कन्यकागामिनः केचित्केचिच्च श्वश्रुगामिनः ।
केचिद्वधूगामिनश्च केचिद्वै सर्वगामिनः ॥ ४३ ॥
भगिनीगामिनः केचित्सपत्‍नीमातृगामिनः ।
भ्रातृजायागामिनश्च भविष्यन्ति कलौ युगे ॥ ४४ ॥
अगम्यागमनं चैव करिष्यन्ति गृहे गृहे ।
मातृयोनिं परित्यज्य विहरिष्यन्ति सर्वतः ॥ ४५ ॥
पत्‍नीनां निर्णयो नास्ति भर्तॄणां च कलौ युगे ।
प्रजानां चैव ग्रामाणां वस्तुनां च विशेषतः ॥ ४६ ॥
अलीकवादिनः सर्वे सर्वे चौराश्च लम्पटाः ।
परस्परं हिंसकाश्च सर्वे च नरघातिनः ॥ ४७ ॥
ब्रह्मक्षत्रविशां वंशा भविष्यन्ति च पापिनः ।
लाक्षा लोहरसानां च व्यापारं लवणस्य च ॥ ४८ ॥
वृषवाहा विप्रवंशाः शूद्राणां शवदाहिनः ।
शूद्रान्नभोजिनः सर्वे सर्वे च वृषलीरताः ॥ ४९ ॥
पञ्चयज्ञविहीनाश्च कुहूरात्रौ च भोजिनः ।
यज्ञसूत्रविहीनाश्च संध्याशौचविहीनकाः ॥ ५० ॥
पुंश्चली वार्धुषाजीवा कुट्टनी च रजस्वला ।
विप्राणां रन्धनागारे भविष्यति च पाचिका ॥ ५१ ॥
अन्नानां नियमो नास्ति योनीनां च विशेषतः ।
आश्रमाणां जनानां च सर्वे म्लेच्छाः कलौ युगे ॥ ५२ ॥
एवं कलौ सम्प्रवृत्ते सर्वं म्लेच्छमयं भवेत् ।
हस्तप्रमाणे वृक्षे च अङ्‌गुष्ठे चैव मानवे ॥ ५३ ॥
विप्रस्य विष्णुयशसः पुत्रः कल्किर्भविष्यति ।
नारायणकलांशश्च भगवान् बलिनां वरः ॥ ५४ ॥
दीर्घेण करवालेन दीर्घघोटकवाहनः ।
म्लेच्छशून्यां च पृथिवीं त्रिरात्रेण करिष्यति ॥ ५५ ॥
निर्म्लेच्छां वसुधां कृत्वा चान्तर्धानं करिष्यति ।
अराजका च वसुधा दस्युग्रस्ता भविष्यति ॥ ५६ ॥
स्थूलाप्रमाणा षड्‌रात्रं वर्षधाराऽऽप्लुता मही ।
लोकशून्या वृक्षशून्या गृहशून्या भविष्यति ॥ ५७ ॥
ततश्च द्वादशादित्याः करिष्यन्त्युदयं मुने ।
प्राप्नोति शुष्कतां पृथ्वी समा तेषां च तेजसा ॥ ५८ ॥
कलौ गते च दुर्धर्षे प्रवृत्ते च कृते युगे ।
तपःसत्त्वसमायुक्तो धर्मः पूर्णो भविष्यति ॥ ५९ ॥
तपस्विनश्च धर्मिष्ठा वेदज्ञा ब्राह्मणा भुवि ।
पतिव्रताश्च धर्मिष्ठा योषितश्च गृहे गृहे ॥ ६० ॥
राजानः क्षत्रियाः सर्वे विप्रभक्ता मनस्विनः ।
प्रतापवन्तो धर्मिष्ठाः पुण्यकर्मरताः सदा ॥ ६१ ॥
वैश्या वाणिज्यनिरता विप्रभक्ताश्च धार्मिकाः ।
शूद्राश्च पुण्यशीलाश्च धर्मिष्ठा विप्रसेविनः ॥ ६२ ॥
विप्रक्षत्रविशां वंशा देवीभक्तिपरायणाः ।
देवीमन्त्ररताः सर्वे देवीध्यानपरायणाः ॥ ६३ ॥
श्रुतिस्मृतिपुराणज्ञाः पुमांस ऋतुगामिनः ।
लेशो नास्ति ह्यधर्मस्य पूर्णो धर्मः कृते युगे ॥ ६४ ॥
धर्मस्त्रिपाच्च त्रेतायां द्विपाच्च द्वापरे ततः ।
कलौ वृत्ते चैकपाच्च सर्वलुप्तिस्ततः परम् ॥ ६५ ॥
वाराः सप्त तथा विप्र तिथयः षोडश स्मृताः ।
तथा द्वादश मासाश्च ऋतवश्च षडेव च ॥ ६६ ॥
द्वौ पक्षौ चायने द्वे च चतुर्भिः प्रहरैर्दिनम् ।
चतुर्भिः प्रहरै रात्रिर्मासस्त्रिंशद्दिनैस्तथा ॥ ६७ ॥
वर्षं पञ्चविधं ज्ञेयं कालसंख्याविधिक्रमे ।
यथा चायान्ति यान्त्येव यथा युगचतुष्टयम् ॥ ६८ ॥
वर्षे पूर्णे नराणां च देवानां च दिवानिशम् ।
शतत्रये षष्ठ्यधिके नराणां च युगे गते ॥ ६९ ॥
देवानां च युगं ज्ञेयं कालसंख्याविदां मतम् ।
मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः ॥ ७० ॥
मन्वन्तरसमं ज्ञेयमायुष्यञ्च शचीपतेः ।
अष्टाविंशतिमे चेन्द्रे गते ब्रह्मदिवानिशम् ॥ ७१ ॥
अष्टोत्तरशते वर्षे गते पातश्च ब्रह्मणः ।
प्रलयः प्राकृतो ज्ञेयस्तत्रादृष्टा वसुन्धरा ॥ ७२ ॥
जलप्लुतानि विश्वानि ब्रह्मविष्णुशिवादयः ।
ऋषयो ज्ञानिनः सर्वे लीनाः सत्ये चिदात्मनि ॥ ७३ ॥
तत्रैव प्रकृतिर्लीना तत्र प्राकृतिको लयः ।
लये प्राकृतिके जाते पाते च ब्रह्मणो मुने ॥ ७४ ॥
निमेषमात्रं कालश्च श्रीदेव्याः प्रोच्यते मुने ।
एवं नश्यन्ति सर्वाणि ब्रह्माण्डान्यखिलानि च ॥ ७५ ॥
निमेषान्तरकालेन पुनः सृष्टिक्रमेण च ।
एवं कतिविधा सृष्टिर्लयः कतिविधोऽपि वा ॥ ७६ ॥
कति कल्पा गतायाताः संख्यां जानाति कः पुमान् ।
सृष्टीनां च लयानां च ब्रह्माण्डानां च नारद ॥ ७७ ॥
ब्रह्मादीनां च ब्रह्माण्डे संख्यां जानाति कः पुमान् ।
ब्रह्माण्डानां च सर्वेषामीश्वरश्चैक एव सः ॥ ७८ ॥
सर्वेषां परमात्मा च सच्चिदानन्दरूपधृक् ।
ब्रह्मादयश्च तस्यांशास्तस्यांशश्च महाविराट् ॥ ७९ ॥
तस्यांशश्च विराट् क्षुद्रः सैवेयं प्रकृतिः परा ।
तस्याः सकाशात्सञ्जातोऽप्यर्धनारीश्वरस्ततः ॥ ८० ॥
सैव कृष्णो द्विधाभूतो द्विभुजश्च चतुर्भुजः ।
चतुर्भुजश्च वैकुण्ठे गोलोके द्विभुजः स्वयम् ॥ ८१ ॥
ब्रह्मादितृणपर्यन्तं सर्वं प्राकृतिकं भवेत् ।
यद्यत्प्राकृतिकं सृष्टं सर्वं नश्वरमेव च ॥ ८२ ॥
एवंविधं सृष्टिहेतुं सत्यं नित्यं सनातनम् ।
स्वेच्छामयं परं ब्रह्म निर्गुणं प्रकृतेः परम् ॥ ८३ ॥
निरुपाधि निराकारं भक्तानुग्रहकातरम् ।
करोति ब्रह्मा ब्रह्माण्डं यज्ज्ञानात्कमलोद्‍भवः ॥ ८४ ॥
शिवो मृत्युज्जयश्चैव संहर्ता सर्वसत्त्ववित् ।
यज्ज्ञानाद्यस्य तपसा सर्वेशस्तु तपो महान्॥ ८५ ॥
महाविभूतियुक्तश्च सर्वज्ञः सर्वदर्शनः ।
सर्वव्यापी सर्वपाता प्रदाता सर्वसम्पदाम् ॥ ८६ ॥
विष्णुः सर्वेश्वरः श्रीमान् यद्‍भक्त्या यस्य सेवया ।
महामाया च प्रकृतिः सर्वशक्तिमयीश्वरी ॥ ८७ ॥
सैव प्रोक्ता भगवती सच्चिदानन्दरूपिणी ।
यज्ज्ञानाद्यस्य तपसा यद्‍भक्त्या यस्य सेवया ॥ ८८ ॥
सावित्री देवमाता च वेदाधिष्ठातृदेवता ।
पूज्या द्विजानां वेदज्ञा यज्ज्ञानाद्यस्य सेवया ॥ ८९ ॥
सर्वविद्याधिदेवी सा पूज्या च विदुषां परा ।
यत्सेवया यत्तपसा सर्वविश्वेषु पूजिता ॥ ९० ॥
सर्वग्रामाधिदेवी सा सर्वसम्पत्प्रदायिनी ।
सर्वेश्वरी सर्ववन्द्या सर्वेषां पुत्रदायिनी ॥ ९१ ॥
सर्वस्तुता च सर्वज्ञा सर्वदुर्गार्तिनाशिनी ।
कृष्णवामांशसम्भूता कृष्णप्राणाधिदेवता ॥ ९२ ॥
कृष्णप्राणाधिका प्रेम्णा राधिका शक्तिसेवया ।
सर्वाधिकं च रूपं च सौभाग्यं मानगौरवे ॥ ९३ ॥
कृष्णवक्षःस्थलस्थानं पत्‍नीत्वे प्राप सेवया ।
तपश्चकार सा पूर्वं शतशृङ्‌गे च पर्वते ॥ ९४ ॥
दिव्यवर्षसहस्रं च पतिं प्राप्त्यर्थमेव च ।
जाते शक्तिप्रसादे तु दृष्ट्वा चन्द्रकलोपमाम् ॥ ९५ ॥
कृष्णो वक्षःस्थले कृत्वा रुरोद कृपया विभुः ।
वरं तस्यै ददौ सारं सर्वेषामपि दुर्लभम् ॥ ९६ ॥
मम वक्षःस्थले तिष्ठ मम भक्ता च शाश्वती ।
सौभाग्येन च मानेन प्रेम्णाथो गौरवेण च ॥ ९७ ॥
त्वं मे श्रेष्ठा च ज्येष्ठा च प्रेयसी सर्वयोषिताम् ।
वरिष्ठा च गरिष्ठा च संस्तुता पूजिता मया ॥ ९८ ॥
सततं तव साध्योऽहं वश्यश्च प्राणवल्लभे ।
इत्युक्त्वा च जगन्नाथश्चकार ललनां ततः ॥ ९९ ॥
सपत्‍नीरहितां तां च चकार प्राणवल्लभाम् ।
अन्या या याश्च ता देव्यः पूजिताः शक्तिसेवया ॥ १०० ॥
तपस्तु यादृशं यासां तादृक्तादृक्फलं मुने ।
दिव्यवर्षसहस्रं च तपस्तप्त्वा हिमाचले ॥ १०१ ॥
दुर्गा च तत्पदं ध्यात्वा सर्वपूज्या बभूव ह ।
सरस्वती तपस्तप्त्वा पर्वते गन्धमादने ॥ १०२ ॥
लक्षवर्षं च दिव्यं च सर्ववन्द्या बभूव सा ।
लक्ष्मीर्युगशतं दिव्यं तपस्तप्त्वा च पुष्करे ॥ १०३ ॥
सर्वसम्पत्प्रदात्री च जाता देवीनिषेवणात् ।
सावित्री मलये तप्त्वा पूज्या वन्द्या बभूव सा ॥ १०४ ॥
षष्टिवर्षसहस्रं च दिव्यं ध्यात्वा च तत्पदम् ।
शतमन्वन्तरं तप्तं शङ्‌करेण पुरा विभो ॥ १०५ ॥
शतमन्वन्तरं चेदं ब्रह्मा शक्तिं जजाप ह ।
शतमन्वन्तरं विष्णुस्तप्त्वा पाता बभूव ह ॥ १०६ ॥
दशमन्वन्तरं तप्त्वा श्रीकृष्णः परमं तपः ।
गोलोकं प्राप्तवान्दिव्यं मोदतेऽद्यापि यत्र हि ॥ १०७ ॥
दशमन्वन्तरं धर्मस्तप्त्वा वै भक्तिसंयुतः ।
सर्वप्राणः सर्वपूज्यः सर्वाधारो बभूव सः ॥ १०८ ॥
एवं देव्याश्च तपसा सर्वे देवाश्च पूजिताः ।
मुनयो मनवो भूपा ब्राह्मणाश्चैव पूजिताः ॥ १०९ ॥
एवं ते कथितं सर्वं पुराणं सयथागमम् ।
गुरुवक्त्राद्यथा ज्ञातं किं भूयः श्रोतुमिच्छसि ॥ ११० ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे नारायणनारदसंवादे कलिमाहात्म्यवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥