देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०७
गङ्गादीनां शापोद्धारवर्णनम्
श्रीनारायण उवाच
इत्युक्त्वा जगतां नाथो विरराम च नारद ।
अतीव रुरुदुर्देव्यः समालिङ्ग्य परस्परम् ॥ १ ॥
ताश्च सर्वाः समालोक्य क्रमेणोचुस्तदेश्वरम् ।
कम्पिताः साश्रुनेत्राश्च शोकेन च भयेन च ॥ २ ॥
सरस्वत्युवाच
विशापं देहि हे नाथ दुष्टमाजन्मशोचनम् ।
सत्स्वामिना परित्यक्ताः कुतो जीवन्ति ताः स्त्रियः ॥ ३ ॥
देहत्यागं करिष्यामि योगेन भारते ध्रुवम् ।
अत्युन्नतो हि नियतं पातुमर्हति निश्चितम् ॥ ४ ॥
गङ्गोवाच
अहं केनापराधेन त्वया त्यक्ता जगत्पते ।
देहत्यागं करिष्यामि निर्दोषाया वधं लभ ॥ ५ ॥
निर्दोषकामिनीत्यागं करोति यो नरो भुवि ।
स याति नरकं घोरं किन्तु सर्वेश्वरोऽपि वा ॥ ६ ॥
पद्मोवाच
नाथ सत्त्वस्वरूपस्त्वं कोपः कथमहो तव ।
प्रसादं कुरु भार्ये द्वे सदीशस्य क्षमा वरा ॥ ७ ॥
भारते भारतीशापाद्यास्यामि कलया ह्यहम् ।
कियत्कालं स्थितिस्तत्र कदा द्रक्ष्यामि ते पदम् ॥ ८ ॥
दास्यन्ति पापिनः पापं सद्यः स्नानावगाहनात् ।
केन तेन विमुक्ताहमागमिष्यामि ते पदम् ॥ ९ ॥
कलया तुलसीरूपं धर्मध्वजसुता सती ।
भुक्त्वा कदा लभिष्यामि त्वत्पादाम्बुजमच्युत ॥ १० ॥
वृक्षरूपा भविष्यामि त्वदधिष्ठातृदेवता ।
समुद्धरिष्यसि कदा तन्मे ब्रूहि कृपानिधे ॥ ११ ॥
गङ्गा सरस्वतीशापाद्यदि यास्यति भारते ।
शापेन मुक्ता पापाच्च कदा त्वां च लभिष्यति ॥ १२ ॥
गङ्गाशापेन वा वाणी यदि यास्यति भारतम् ।
कदा शापाद्विनिर्मुच्य लभिष्यति पदं तव ॥ १३ ॥
तां वाणीं ब्रह्मसदनं गङ्गां वा शिवमन्दिरम् ।
गन्तुं वदसि हे नाथ तत्क्षमस्व च ते वचः ॥ १४ ॥
इत्युक्त्वा कमला कान्तपादं धृत्वा ननाम सा ।
स्वकेशैर्वेष्टनं कृत्वा रुरोद च पुनः पुनः ॥ १५ ॥
(उवाच पद्मनाभस्तां पद्मां कृत्वा स्ववक्षसि ।
ईषद्धास्यप्रसन्नास्यो भक्तानुग्रहकातरः ॥) ॥
श्रीभगवानुवाच
त्वद्वाक्यमाचरिष्यामि स्ववाक्यं च सुरेश्वरि ।
समतां च करिष्यामि शृणु त्वं कमलेक्षणे ॥ १६ ॥
भारती यातु कलया सरिद्रूपा च भारते ।
अर्धा सा ब्रह्मसदनं स्वयं तिष्ठतु मद्गृहे ॥ १७ ॥
भगीरथेन सा नीता गङ्गा यास्यति भारते ।
पूतं कर्तुं त्रिभुवनं स्वयं तिष्ठतु मद्गृहे ॥ १८ ॥
तत्रैव चन्द्रमौलेश्च मौलिं प्राप्स्यति दुर्लभम् ।
ततः स्वभावतः पूताप्यतिपूता भविष्यति ॥ १९ ॥
कलांशांशेन गच्छ त्वं भारते वामलोचने ।
पद्मावती सरिद्रूपा तुलसीवृक्षरूपिणी ॥ २० ॥
कलेः पञ्चसहस्रे च गते वर्षे तु मोक्षणम् ।
युष्माकं सरितां चैव मद्गेहे चागमिष्यथ ॥ २१ ॥
सम्पदा हेतुभूता च विपत्तिः सर्वदेहिनाम् ।
विना विपत्तेर्महिमा केषां पद्मभवे भवेत् ॥ २२ ॥
मन्मन्त्रोपासकानां च सतां स्नानावगाहनात् ।
युष्माकं मोक्षणं पापाद्दर्शनात्स्पर्शनात्तथा ॥ २३ ॥
पृथिव्यां यानि तीर्थानि सन्त्यसंख्यानि सुन्दरि ।
भविष्यन्ति च पूतानि मद्भक्तस्पर्शदर्शनात् ॥ २४ ॥
मन्मन्त्रोपासका भक्ता विभ्रमन्ति च भारते ।
पूतं कर्तुं तारितुं च सुपवित्रां वसुन्धराम् ॥ २५ ॥
मद्भक्ता यत्र तिष्ठन्ति पादं प्रक्षालयन्ति च ।
तत्स्थानं च महातीर्थं सुपवित्रं भवेद्ध्रुवम् ॥ २६ ॥
स्त्रीघ्नो गोघ्नः कृतघ्नश्च ब्रह्मघ्नो गुरुतल्पगः ।
जीवन्मुक्तो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २७ ॥
एकादशीविहीनश्च सन्ध्याहीनोऽथ नास्तिकः ।
नरघाती भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २८ ॥
असिजीवी मसीजीवी धावको ग्रामयाचकः ।
वृषवाहो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ २९ ॥
विश्वासघाती मित्रघ्नो मिथ्यासाक्ष्यस्य दायकः ।
स्थाप्याहारी भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३० ॥
अत्युग्रवान्दूषकश्च जारकः पुंश्चलीपतिः ।
पूतश्च वृषलीपुत्रो मद्भक्तस्पर्शदर्शनात् ॥ ३१ ॥
शूद्राणां सूपकारश्च देवलो ग्रामयाजकः ।
अदीक्षितो भवेत्पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३२ ॥
पितरं मातरं भार्यां भ्रातरं तनयं सुताम् ।
गुरोः कुलं च भगिनीं चक्षुर्हीनं च बान्धवम् ॥ ३३ ॥
श्वश्रूं च श्वशुरं चैव यो न पुष्णाति सुन्दरि ।
स महापातकी पूतो मद्भक्तस्पर्शदर्शनात् ॥ ३४ ॥
अश्वत्थनाशकश्चैव मद्भक्तनिन्दकस्तथा ।
शूद्रान्नभोजी विप्रश्च पूतो मद्भक्तदर्शनात् ॥ ३५ ॥
देवद्रव्यापहारी च विप्रद्रव्यापहारकः ।
लाक्षालोहरसानां च विक्रेता दुहितुस्तथा ॥ ३६ ॥
महापातकिनश्चैव शूद्राणां शवदाहकः ।
भवेयुरेते पूताश्च मद्भक्तस्पर्शदर्शनात् ॥ ३७ ॥
महालक्ष्मीरुवाच
भक्तानां लक्षणं ब्रूहि भक्तानुग्रहकातर ।
येषां तु दर्शनस्पर्शात्सद्यः पूता नराधमाः ॥ ३८ ॥
हरिभक्तिविहीनाश्च महाहङ्कारसंयुतः ।
स्वप्रशंसारता धूर्ताः शठाश्च साधुनिन्दकाः ॥ ३९ ॥
पुनन्ति सर्वतीर्थानि येषां स्नानावगाहनात् ।
येषां च पादरजसा पूता पादोदकान्मही ॥ ४० ॥
येषां संदर्शनं स्पर्शं ये वा वाञ्छन्ति भारते ।
सर्वेषां परमो लाभो वैष्णवानां समागमः ॥ ४१ ॥
न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।
ते पुनन्त्यपि कालेन विष्णुभक्ताः क्षणादहो ॥ ४२ ॥
सूत उवाव
महालक्ष्मीवचः श्रुत्वा लक्ष्मीकान्तश्च सस्मितः ।
निगूढतत्त्वं कथितुमपि श्रेष्ठोपचक्रमे ॥ ४३ ॥
श्रीभगवानुवाच
भक्तानां लक्षणं लक्ष्मि गूढं श्रुतिपुराणयोः ।
पुण्यस्वरूपं पापघ्नं सुखदं भुक्तिमुक्तिदम् ॥ ४४ ॥
सारभूतं गोपनीयं न वक्तव्यं खलेषु च ।
त्वां पवित्रां प्राणतुल्यां कथयामि निशामय ॥ ४५ ॥
गुरुवक्त्राद्विष्णुमन्त्रो यस्य कर्णे पतिष्यति ।
वदन्ति वेदास्तं चापि पवित्रं च नरोत्तमम् ॥ ४६ ॥
पुरुषाणां शतं पूर्वं तथा तज्जन्ममात्रतः ।
स्वर्गस्थं नरकस्थं वा मुक्तिमाप्नोति तत्क्षणात् ॥ ४७ ॥
यैः कैश्चिद्यत्र वा जन्म लब्धं येषु च जन्तुषु ।
जीवन्मुक्तास्तु ते पूता यान्ति काले हरेः पदम् ॥ ४८ ॥
मद्भक्तियुक्तो मर्त्यश्च स मुक्तो मद्गुणान्वितः ।
मद्गुणाधीनवृत्तिर्यः कथाविष्टश्च सन्ततम् ॥ ४९ ॥
मद्गुणश्रुतिमात्रेण सानन्दः पुलकान्वितः ।
सगद्गदः साश्रुनेत्रः स्वात्मविस्मृत एव च ॥ ५० ॥
न वाञ्छति सुखं मुक्तिं सालोक्यादिचतुष्टयम् ।
ब्रह्मत्वममरत्वं वा तद्वाञ्छा मम सेवने ॥ ५१ ॥
इन्द्रत्वं च मनुत्वं च ब्रह्मत्वं च सुदुर्लभम् ।
स्वर्गराज्यादिभोगं च स्वप्नेऽपि च न वाञ्छति ॥ ५२ ॥
भ्रमन्ति भारते भक्तास्तादृग्जन्म सुदुर्लभम् ।
मद्गुणश्रवणाः श्राव्यगानैर्नित्यं मुदान्विताः ॥ ५३ ॥
ते यान्ति च महीं पूत्वा नरं तीर्थं ममालयम् ।
इत्येवं कथितं सर्वं पद्मे कुरु यथोचितम् ।
तदाज्ञया तास्तच्चक्रुर्हरिस्तस्थौ सुखासने ॥ ५४ ॥
इति श्रीमद्देवीभागवते महापूराणेऽष्टादशसाहस्र्यां सहितायां नवमस्कन्धे गङ्गादीनां शापोद्धारवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥