देवीभागवतपुराणम्/स्कन्धः ०९/अध्यायः ०४

विकिस्रोतः तः
Jump to navigation Jump to search

सरस्वतीस्तोत्रपूजाकवचादिवर्णनम्

नारद उवाच
श्रुतं सर्वं मया पूर्वं त्वत्प्रसादात्सुधोपमम् ।
अधुना प्रकृतीनां च व्यस्तं वर्णय पूजनम् ॥ १ ॥
कस्याः पूजा कृता केन कथं मर्त्ये प्रचारिता ।
केन वा पूजिता का वा केन का वा स्तुता प्रभो ॥ २ ॥
तासां स्तोत्रं च ध्यानं च प्रभावं चरितं शुभम् ।
काभिः केभ्यो वरो दत्तस्तन्मे व्याख्यातुमर्हसि ॥ ३ ॥
श्रीनारायण उवाच
गणेशजननी दुर्गा राधा लक्ष्मीः सरस्वती ।
सावित्री च सृष्टिविधौ प्रकृतिः पञ्चधा स्मृता ॥ ४ ॥
आसां पूजा प्रसिद्धा च प्रभावः परमाद्‍भुतः ।
सुधोपमं च चरितं सर्वमङ्‌गलकारणम् ॥ ५ ॥
प्रकृत्यंशाः कला याश्च तासां च चरितं शुभम् ।
सर्वं वक्ष्यामि ते ब्रह्मन् सावधानो निशामय ॥ ६ ॥
काली वसुन्धरा गङ्‌गा षष्ठी मङ्‌गलचण्डिका ।
तुलसी मनसा निद्रा स्वधा स्वाहा च दक्षिणा ॥ ७ ॥
संक्षिप्तमासां चरितं पुण्यदं श्रुतिसुन्दरम् ।
जीवकर्मविपाकं च तच्च वक्ष्यामि सुन्दरम् ॥ ८ ॥
दुर्गायाश्चैव राधाया विस्तीर्णं चरितं महत् ।
तद्वत्पश्चात्प्रवक्ष्यामि संक्षेपक्रमतः शृणु ॥ ९ ॥
आदौ सरस्वतीपूजा श्रीकृष्णेन विनिर्मिता ।
यत्प्रसादान्मुनिश्रेष्ठ मूर्खो भवति पण्डितः ॥ १० ॥
आविर्भूता यथा देवी वक्त्रतः कृष्णयोषितः ।
इयेष कृष्णं कामेन कामुकी कामरूपिणी ॥ ११ ॥
स च विज्ञाय तद्‍भावं सर्वज्ञः सर्वमातरम् ।
तामुवाच हितं सत्यं परिणामे सुखावहम् ॥ १२ ॥
श्रीकृष्ण उवाच
भज नारायणं साध्वि मदंशं च चतुर्भुजम् ।
युवानं सुन्दरं सर्वगुणयुक्तं च मत्समम् ॥ १३ ॥
कामज्ञं कामिनीनां च तासां च कामपूरकम् ।
कोटिकन्दर्पलावण्यं लीलालङ्‌कतमीश्वरम् ॥ १४ ॥
कान्ते कान्तं च मां कृत्वा यदि स्थातुमिहेच्छसि ।
त्वत्तो बलवती राधा न भद्रं ते भविष्यति ॥ १५ ॥
यो यस्माद्‌ बलवान्वापि ततोऽन्यं रक्षितुं क्षमः ।
कथं परान्साधयति यदि स्वयमनीश्वरः ॥ १६ ॥
सर्वेशः सर्वशास्ताहं राधां बाधितुमक्षमः ।
तेजसा मत्समा सा च रूपेण च गुणेन च ॥ १७ ॥
प्राणाधिष्ठातृदेवी सा प्राणांस्त्यक्तुं च कः क्षमः ।
प्राणतोऽपि प्रियः पुत्रः केषां वास्ति च कश्चन ॥ १८ ॥
त्वं भद्रे गच्छ वैकुण्ठं तव भद्रं भविष्यति ।
पतिं तमीश्वरं कृत्वा मोदस्व सुचिरं सुखम् ॥ १९ ॥
लोभमोहकामक्रोधमानहिंसाविवर्जिता ।
तेजसा त्वत्समा लक्ष्मी रूपेण च गुणेन च ॥ २० ॥
तया सार्धं तव प्रीत्या शश्वत्कालः प्रयास्यति ।
गौरवं च हरिस्तुल्यं करिष्यति द्वयोरपि ॥ २१ ॥
प्रतिविश्वेषु तां पूजां महतीं गौरवान्विताम् ।
माघस्य शुक्लपञ्चम्यां विद्यारम्भे च सुन्दरि ॥ २२ ॥
मानवा मनवो देवा मुनीन्द्राश्च मुमुक्षवः ।
वसवो योगिनः सिद्धा नागा गन्धर्वराक्षसाः ॥ २३ ॥
मद्वरेण करिष्यन्ति कल्पे कल्पे लयावधि ।
भक्तियुक्ताश्च दत्त्वा वै चोपचाराणि षोडश ॥ २४ ॥
कण्वशाखोक्तविधिना ध्यानेन स्तवनेन च ।
जितेन्द्रियाः संयताश्च घटे च पुस्तकेऽपि च ॥ २५ ॥
कृत्वा सुवर्णगुटिकां गन्धचन्दनचर्चिताम् ।
कवचं ते ग्रहीष्यन्ति कण्ठे वा दक्षिणे भुजे ॥ २६ ॥
पठिष्यन्ति च विद्वांसः पूजाकाले च पूजिते ।
इत्युक्त्वा पूजयामास तां देवीं सर्वपूजिताम् ॥ २७ ॥
ततस्तत्पूजनं चकुर्ब्रह्मविष्णुशिवादयः ।
अनन्तश्चापि धर्मश्च मुनीन्द्राः सनकादयः ॥ २८ ॥
सर्वे देवाश्च मुनयो नृपाश्च मानवादयः ।
बभूव पूजिता नित्यं सर्वलोकैः सरस्वती ॥ २९ ॥
नारद उवाच
पूजाविधानं कवचं ध्यानं चापि निरन्तरम् ।
पूजोपयुक्तं नैवेद्यं पुष्पं च चन्दनादिकम् ॥ ३० ॥
वद वेदविदां श्रेष्ठ श्रोतुं कौतूहलं मम ।
वर्तते हृदये शश्वत्किमिदं श्रुतिसुन्दरम् ॥ ३१ ॥
श्रीनारायण उवाच
शृणु नारद वक्ष्यामि कण्वशाखोक्तपद्धतिम् ।
जगन्मातुः सरस्वत्याः पूजाविधिसमन्विताम् ॥ ३२ ॥
माघस्य शुक्लपञ्चम्यां विद्यारम्भदिनेऽपि च ।
पूर्वेऽह्नि समयं कृत्वा तत्राह्नि संयतः शुचिः ॥ ३३ ॥
स्नात्वा नित्यक्रियाः कृत्वा घटं संस्थाप्य भक्तितः ।
स्वशाखोक्तविधानेन तान्त्रिकेणाथवा पुनः ॥ ३४ ॥
गणेशं पूर्वमभ्यर्च्य ततोऽभीष्टां प्रपूजयेत् ।
ध्यानेन वक्ष्यमाणेन ध्यात्वा बाह्यघटे ध्रुवम् ॥ ३५ ॥
ध्यात्वा पुनः षोडषोपचारेण पूजयेद्‌ व्रती ।
पूजोपयुक्तं नैवेद्यं यच्च वेदनिरूपितम् ॥ ३६ ॥
वक्ष्यामि सौम्य तत्किञ्चिद्यथाधीतं यथागमम् ।
नवनीतं दधि क्षीरं लाजांश्च तिललड्डुकम् ॥ ३७ ॥
इक्षुमिक्षुरसं शुक्लवर्णं पञ्चगुडं मधु ।
स्वस्तिकं शर्करां शुक्लधान्यस्याक्षतमक्षतम् ॥ ३८ ॥
अच्छिन्नशुक्लधान्यस्य पृथुकं शुक्लमोदकम् ।
घृतसैन्धवसंयुक्तं हविष्यान्नं यथोदितम् ॥ ३९ ॥
यवगोधूमचूर्णानां पिष्टकं घृतसंयुतम् ।
पिष्टकं स्वस्तिकस्यापि पक्वरम्भाफलस्य च ॥ ४० ॥
परमान्नं च सघृतं मिष्टान्नं च सुधोपमम् ।
नारिकेलं तदुदकं कसेरुं मूलमार्द्रकम् ॥ ४१ ॥
पक्वरम्भाफलं चारु श्रीफलं बदरीफलम् ।
कालदेशोद्‍भवं चारु फलं शुक्लं च संस्कतम् ॥ ४२ ॥
सुगन्धं शुक्लपुष्पं च सुगन्धं शुक्लचन्दनम् ।
नवीनं शुक्लवस्त्रं च शङ्‌खं च सुन्दरं मुने ॥ ४३ ॥
माल्यं च शुक्लपुष्पाणां शुक्लहारं च भूषणम् ।
यादृशं च श्रुतौ ध्यानं प्रशस्यं श्रुतिसुन्दरम् ॥ ४४ ॥
तन्निबोध महाभाग भ्रमभञ्जनकारणम् ।
सरस्वतीं शुक्लवर्णां सस्मितां सुमनोहराम् ॥ ४५ ॥
कोटिचन्द्रप्रभामुष्टपुष्टश्रीयुक्तविग्रहाम् ।
वह्निशुद्धांशुकाधानां वीणापुस्तकधारिणीम् ॥ ४६ ॥
रत्‍नसारेन्द्रनिर्माणनवभूषणभूषिताम् ।
सुपूजितां सुरगणैर्ब्रह्मविष्णुशिवादिभिः ॥ ४७ ॥
वन्दे भक्त्या वन्दितां च मुनीन्द्रमनुमानवैः ।
एवं ध्यात्वा च मूलेन सर्वं दत्त्वा विचक्षणः ॥ ४८ ॥
संस्तूय कवचं धृत्वा प्रणमेद्दण्डवद्‌भुवि ।
येषां चेयमिष्टदेवी तेषां नित्यक्रिया मुने ॥ ४९ ॥
विद्यारम्भे च वर्षान्ते सर्वेषां पञ्चमीदिने ।
सर्वोपयुक्तं मूलं च वैदिकाष्टाक्षरः परः ॥ ५० ॥
येषां येनोपदेशो वा तेषां स मूल एव च ।
सरस्वती चतुर्थ्यन्तं वह्निजायान्तमेव च ॥ ५१ ॥
लक्ष्मीमायादिकं चैव मन्त्रोऽयं कल्पपादपः ।
पुरा नारायणश्चेमं वाल्मीकाय कृपानिधिः ॥ ५२ ॥
प्रददौ जाह्नवीतीरे पुण्यक्षेत्रे च भारते ।
भृगुर्ददौ च शुक्राय पुष्करे सूर्यपर्वणि ॥ ५३ ॥
चन्द्रपर्वणि मारीचो ददौ वाक्पतये मुदा ।
भृगोश्चैव ददौ तुष्टो ब्रह्मा बदरिकाश्रमे ॥ ५४ ॥
आस्तिकस्य जरत्कारुर्ददौ क्षीरोदसन्निधौ ।
विभाण्डको ददौ मेरौ ऋष्यशृङ्‌गाय धीमते ॥ ५५ ॥
शिवः कणादमुनये गौतमाय ददौ मुदा ।
सूर्यश्च याज्ञवल्क्याय तथा कात्यायनाय च ॥ ५६ ॥
शेषः पाणिनये चैव भारद्वाजाय धीमते ।
ददौ शाकटायनाय सुतले बलिसंसदि ॥ ५७ ॥
चतुर्लक्षजपेनैव मन्त्रः सिद्धो भवेन्नृणाम् ।
यदि स्यान्मन्त्रसिद्धो हि बृहस्पतिसमो भवेत् ॥ ५८ ॥
कवचं शृणु विप्रेन्द्र यद्दत्तं ब्रह्मणा पुरा ।
विश्वस्रष्टा विश्वजयं भृगवे गन्धमादने ॥ ५९ ॥
भृगुरुवाच
ब्रह्मन्ब्रह्मविदां श्रेष्ठ ब्रह्मज्ञानविशारद ।
सर्वज्ञ सर्वजनक सर्वेश सर्वपूजित ॥ ६० ॥
सरस्वत्याश्च कवचं ब्रूहि विश्वजयं प्रभो ।
अयातयामं मन्त्राणां समूहसंयुतं परम् ॥ ६१ ॥
ब्रह्मोवाच
शृणु वत्स प्रवक्ष्यामि कवचं सर्वकामदम् ।
श्रुतिसारं श्रुतिसुखं श्रुत्युक्तं श्रुतिपूजितम् ॥ ६२ ॥
उक्तं कृष्णेन गोलोके मह्यं वृन्दावने वने ।
रासेश्वरेण विभुना रासे वै रासमण्डले ॥ ६३ ॥
अतीव गोपनीयं च कल्पवृक्षसमं परम् ।
अश्रुताद्‍भुतमन्त्राणां समूहैश्च समन्वितम् ॥ ६४ ॥
यद्धृत्वा भगवाञ्छुक्रः सर्वदैत्येषु पूजितः ।
यद्धृत्वा पठनाद्‌ ब्रह्मन् बुद्धिमांश्च बृहस्पतिः ॥ ६५ ॥
पठनाद्धारणाद्वाग्मी कवीन्द्रो वाल्मिको मुनिः ।
स्वायम्भुवो मनुश्चैव यद्धृत्वा सर्वपूजितः ॥ ६६ ॥
कणादो गौतमः कण्वः पाणिनिः शाकटायनः ।
ग्रन्धं चकार यद्धृत्वा दक्षः कात्यायनः स्वयम् ॥ ६७ ॥
धृत्वा वेदविभागं च पुराणान्यखिलानि च ।
चकार लीलामात्रेण कृष्णद्वैपायनः स्वयम् ॥ ६८ ॥
शातातपश्च संवर्तो वसिष्ठश्च पराशरः ।
यद्धृत्वा पठनाद्‌ ग्रन्थं याज्ञवल्क्यश्चकार सः ॥ ६९ ॥
ऋष्यशृङ्‌गो भरद्वाजश्चास्तिको देवलस्तथा ।
जैगीषव्यो ययातिश्च धृत्वा सर्वत्र पूजिताः ॥ ७० ॥
कवचस्यास्य विप्रेन्द्र ऋषिरेव प्रजापतिः ।
स्वयं छन्दश्च बृहती देवता शारदाम्बिका ॥ ७१ ॥
सर्वतत्त्वपरिज्ञानसर्वार्थसाधनेषु च ।
कवितासु च सर्वासु विनियोगः प्रकीर्तितः ॥ ७२ ॥
श्रीं ह्रीं सरस्वत्यै स्वाहा शिरो मे पातु सर्वतः ।
श्रीं वाग्देवतायै स्वाहा भालं मे सर्वदावतु ॥ ७३ ॥
ॐ ह्रीं सरस्वत्यै स्वाहेति श्रोत्रे पातु निरन्तरम् ।
ओं श्रीं ह्रीं भगवत्यै सरस्वत्यै स्वाहा नेत्रयुग्मं सदावतु ॥ ७४ ॥
ऐं ह्रीं वाग्वादिन्यै स्वाहा नासां मे सर्वदावतु ।
ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा चोष्ठं सदावतु ॥ ७५ ॥
ॐ श्रीं ह्रीं ब्राह्म्यै स्वाहेति दन्तपंक्तिं सदावतु ।
ऐमित्येकाक्षरो मन्त्रो मम कण्ठं सदावतु ॥ ७६ ॥
ॐ श्रीं ह्रीं पातु मे ग्रीवां स्कन्धौ मे श्रीं सदावतु ।
ॐ ह्रीं विद्याधिष्ठातृदेव्यै स्वाहा वक्षः सदावतु ॥ ७७ ॥
ॐ ह्रीं विद्याधिस्वरूपायै स्वाहा मे पातु नाभिकाम् ।
ॐ ह्रीं क्लीं वाण्यै स्वाहेति मम हस्तौ सदावतु ॥ ७८ ॥
ॐ सर्ववर्णात्मिकायै स्वाहा पादयुग्मं सदावतु ।
ॐ वागधिष्ठातृदेव्यै स्वाहा सर्वं सदावतु ॥ ७९ ॥
ॐ सर्वकण्ठवासिन्यै स्वाहा प्राच्यां सदावतु ।
ॐ सर्वजिह्वाग्रवासिन्यै स्वाहाग्निदिशि रक्षतु ॥ ८० ॥
ॐ ऐं ह्रीं क्लीं सरस्वत्यै बुधजनन्यै स्वाहा ।
सततं मन्त्रराजोऽयं दक्षिणे मां सदावतु ॥ ८१ ॥
ऐं ह्रीं श्रीं त्र्यक्षरो मन्त्रो नैर्ऋत्यां सर्वदावतु ।
ॐ ऐं जिह्वाग्रवासिन्यै स्वाहा मां वारुणेऽवतु ॥ ८२ ॥
ॐ सर्वाम्बिकायै स्वाहा वायव्ये मां सदावतु ।
ॐ ऐं श्रीं क्लीं गद्यवासिन्यै स्वाहा मामुत्तरेऽवतु ॥ ८३ ॥
ॐ ऐं सर्वशास्त्रवासिन्यै स्वाहैशान्यां सदावतु ।
ॐ ह्रीं सर्वपूजितायै स्वाहा चोर्ध्वं सदावतु ॥ ८४ ॥
ॐ ह्रीं पुस्तकवासिन्यै स्वाहाधो मां सदावतु ।
ॐ ग्रन्थबीजस्वरूपायै स्वाहा मां सर्वतोऽवतु ॥ ८५ ॥
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।
इदं विश्वजयं नाम कवचं ब्रह्मरूपकम् ॥ ८६ ॥
पुरा श्रुतं धर्मवक्त्रात्पर्वते गन्धमादने ।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ॥ ८७ ॥
गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्‌कारचन्दनैः ।
प्रणम्य दण्डवद्‍भूमौ कवचं धारयेत्सुधीः ॥ ८८ ॥
पञ्चलक्षजपेनैव सिद्धं तु कवचं भवेत् ।
यदि स्यात्सिद्धकवचो बृहस्पतिसमो भवेत् ॥ ८९ ॥
महावाग्मी कवीन्द्रश्च त्रैलोक्यविजयी भवेत् ।
शक्नोति सर्वं जेतुं च कवचस्य प्रसादतः ॥ ९० ॥
इदं च कण्वशाखोक्तं कवचं कथितं मुने ।
स्तोत्रं पूजाविधानं च ध्यानं च वन्दनं शृणु ॥ ९१ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां नवमस्कन्धे सरस्वतीस्तोत्रपूजाकवचादिवर्णनं नाम चतुर्थोऽध्यायः ॥ ४ ॥