देवीभागवतपुराणम्/स्कन्धः ०८/अध्यायः १८

विकिस्रोतः तः
Jump to navigation Jump to search

राहुमण्डलाद्यवस्थानवर्णनम्

श्रीनारायण उवाच
अधस्तात्सवितुः प्रोक्तमयुतं राहुमण्डलम् ।
नक्षत्रवच्चरति च सैंहिकेयोऽतदर्हणः ॥ १ ॥
सूर्याचन्द्रमसोरेव मर्दनः सिंहिकासुतः ।
अमरत्वं च खेटत्वं लेभे यो विष्ण्वनुग्रहात् ॥ २ ॥
यददस्तरणेर्बिम्बं तपतो योजनायुतम् ।
तच्छादकोऽसुरो ज्ञेयोऽप्यर्कसाहस्रविस्तरम् ॥ ३ ॥
त्रयोदशसहस्रं तु सोमस्याच्छादको ग्रहः ।
यः पर्वसमये वैरानुबन्धी छादकोऽभवत् ॥ ४ ॥
सूर्याचन्द्रमसोर्दूराद्‍भवेच्छादनकारकः ।
तन्निशम्योभयत्रापि विष्णुना प्रेरितं स्वकम् ॥ ५ ॥
चक्रं सुदर्शनं नाम ज्वालामालातिभीषणम् ।
तत्तेजसा दुःसहेन समन्तात्परिवारितम् ॥ ६ ॥
मुहूर्तो द्विजमानस्तु दूराच्चकितमानसः ।
आरान्निवर्तते सोऽयमुपराग इतीव ह ॥ ७ ॥
उच्यते लोकमध्ये तु देवर्षे अवबुध्यताम् ।
ततोऽधस्तात्समाख्याता लोकाः परमपावनाः ॥ ८ ॥
सिद्धानां चारणानां च विद्याध्राणां च सत्तम ।
योजनायुतविख्याता लोकाः पुण्यनिषेविताः ॥ ९ ॥
ततोऽप्यधस्ताद्देवर्षे यक्षाणां च सरक्षसाम् ।
पिशाचप्रेतभूतानां विहाराजिरमुत्तमम् ॥ १० ॥
अन्तरिक्षं च तत्प्रोक्तं यावद्वायुः प्रवाति हि ।
यावन्मेघास्ततोद्यन्ति तत्प्रोक्तं ज्ञानकोविदैः ॥ ११ ॥
ततोऽधस्ताद्योजनानां शतं यावद्‌ द्विजोत्तम ।
पृथिवी परिसंख्याता सुपर्णश्येनसारसाः ॥ १२ ॥
हंसादयः प्रोत्पतन्ति पार्थिवाः पृथिवीभवाः ।
भूसन्निवेशावस्थानं यथावदुपवर्णितम् ॥ १३ ॥
अधस्तादवनेः सप्त देवर्षे विवराः स्मृताः ।
एकैकशो योजनानामायामोच्छ्रायतः पुनः ॥ १४ ॥
अयुतान्तरविख्याताः सर्वर्तुसुखदायकाः ।
अतलं प्रथमं प्रोक्तं द्वितीयं वितलं तथा ॥ १५ ॥
तृतीयं सुतलं प्रोक्तं चतुर्थं वै तलातलम् ।
महातलं पञ्चमं च षष्ठं प्रोक्तं रसातलम् ॥ १६ ॥
सप्तमं विप्र पातालं सप्तैते विवराः स्मृताः ।
एतेषु बिलस्वर्गेषु दिवोऽप्यधिकमेव च ॥ १७ ॥
कामभोगैश्वर्यसुखसमृद्धभुवनेषु च ।
नित्योद्यानविहारेषु सुखास्वादः प्रवर्तते ॥ १८ ॥
दैत्याश्च काद्रवेयाश्च दानवा बलशालिनः ।
नित्यप्रमुदिता रक्ताः कलत्रापत्यबन्धुभिः ॥ १९ ॥
सुहृद्‌भिरनुजीवाद्यैः संयुताश्च गृहेश्वराः ।
ईश्वरादप्रतिहतकामा मायाविनश्च ते ॥ २० ॥
निवसन्ति सदा हृष्टाः सर्वर्तुसुखसंयुताः ।
मयेन मायाविभुना येषु येषु च निर्मिताः ॥ २१ ॥
पुरः प्रकामशो भक्ता मणिप्रवरशालिनः ।
विचित्रभवनाट्टालगोपुराद्याः सहस्रशः ॥ २२ ॥
सभाचत्वरचैत्यादिशोभाढ्याः सुरदुर्लभाः ।
नागासुराणां मिथुनैः सपारावतसारिकैः ॥ २३ ॥
कीर्णकृत्रिमभूमिश्च विवरेशगृहोत्तमैः ।
अलङ्कृताश्चकासन्ति उद्यानानि महान्ति च ॥ २४ ॥
मनःप्रसन्नकारीणि फलपुष्पविशालिभिः ।
ललनानां विलासार्हस्थानैः शोभितभाञ्जि च ॥ २५ ॥
नानाविहंगमव्रातसंयुक्तजलराशिभिः ।
स्वच्छार्णपूरितह्रदैः पाठीनसमलङ्कृतैः ॥ २६ ॥
जलजन्तुक्षुब्धनीरनीरजातैरनेकशः ।
कुमुदोत्पलकह्लारनीलरक्तोत्पलैस्तथा ॥ २७ ॥
तेषु कृतनिकेतानां विहारैः सङ्कुलानि च ।
इन्द्रियोत्सवकारैश्च तथैव विविधैः स्वरैः ॥ २८ ॥
अमराणां च परमां श्रियं चातिशयन्ति च ।
यत्र नैव भयं क्वापि कालाङ्गैर्दिनरात्रिभिः ॥ २९ ॥
यत्राहिप्रवराणां च शिरःस्थैर्मणिरश्मिभिः ।
नित्यं तमः प्रबाध्येत सदा प्रस्फुटकान्तिभिः ॥ ३० ॥
न वा एतेषु वसतां दिव्यौषधिरसायनैः ।
रसान्नपानस्नानाद्यैर्नाधयो न च व्याधयः ॥ ३१ ॥
वलीपलितजीर्णत्ववैवर्ण्यस्वेदगन्धताः ।
अनुत्साहवयोऽवस्था न बाधन्ते कदाचन ॥ ३२ ॥
कल्याणानां सदा तेषां न च मृत्युभयं कुतः ।
भगवत्तेजसोऽन्यत्र चक्राच्चैव सुदर्शनात् ॥ ३३ ॥
यस्मिन्प्रविष्टे दैतेयवधूनां गर्भराशयः ।
प्रायो भयात्पतन्त्येव स्रवन्ति ब्रह्मपुत्रक ॥ ३४ ॥

इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायामष्टमस्कन्धे राहुमण्डलाद्यवस्थानवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥